सूत उवाच ॥
एतच्छ्रुत्वा नारदस्तु कुमारस्य वचो मुदा ॥
पुनरप्याह सुप्रीतो जिज्ञासुः श्रेय उत्तमम् ॥ १ ॥
नारद उवाच ॥
साधु साधु महाभाग सर्वलोकोपकारकम् ॥
महातन्त्रं त्वया प्रोक्तं सर्वतन्त्रोत्तमोत्तमम् ॥ २ ॥
अधुना श्रोतुमिच्छामि पुराणाख्यानमुत्तमम् ॥
यस्मिन्यस्मिन्पुराणे तु यद्यदाख्यानकं मुने ॥
तत्सर्वं मे समाचक्ष्व सर्वज्ञस्त्वं यतो मतः ॥ ३ ॥
सूत उवाच ॥
तच्छ्रुत्वा वचनं विप्रा नारदस्य शुभावहम् ॥
पुराणाख्यानसम्प्रश्नं कुमारः प्रत्युवाच ह ॥ ४ ॥
सनत्कुमार उवाच ॥
पाराणाख्यानकं विप्र नानाकल्पसमुद्भवम् ॥
नानाकथासमायुक्तमद्भुतं बहुविस्तरम् ॥ ५ ॥
ऋषिः सनातनश्चायं यथा वेद तथाऽपरः ॥
न वेद तस्मात्पृच्छ त्वं बहुकल्पविदां वरम् ॥ ६ ॥
श्रुत्वेत्थं नारदो वाक्यं कुमारस्य महात्मनः ॥
प्रणम्य विनयोपेतः सनातनमथाब्रवीत् ॥ ७ ॥
नारद उवाच ॥
ब्रह्मन्पुराणविच्छ्रेष्ठ ज्ञानविज्ञानतत्पर ॥
पुराणानां विभागं मे साकल्ये नानुकीर्तय ॥ ८ ॥
यस्मिञ् श्रुते श्रुतं सर्वं ज्ञातं कृते कृतम् ॥ ९ ॥
वर्णाश्रमाचारधर्मं साक्षात्कारमुपैष्यति ॥
कियन्ति च पुराणानि कियत्सङ्ख्यानि मानतः ॥ १० ॥
किङ्किमाख्यानयुक्तानि तद्वदस्व मम प्रभो ॥
चातुर्वर्ण्याश्रया नानाव्रतादीनां कथास्तथा ॥ ११ ॥
सृष्टिक्रमेण वंशानां कथाः सम्यक्प्रकाशय ॥
त्वत्तोऽधिको न चान्योऽस्ति पुराणाख्यानवित्प्रभो ॥ १२ ॥
तस्मादाख्याहि मह्यं त्वं सर्वसन्देहभञ्जनम् ॥
सूत उवाच ॥
ततः सनातनो विप्राः श्रुत्वा नारदभाषितम् ॥ १३ ॥
नारायणं क्षणं ध्यात्वा प्रोवाचाथ विदां वरः ॥
सनातन उवाच ॥
साधु साधु मुनिश्रेष्ठ सर्वलोकोपकारिका ॥ १४ ॥
पुराणाख्यानविज्ञाने यज्जाता नेष्ठिकी मतिः ॥
तुभ्यं समभिधास्यामि यत्प्रोक्तं ब्रह्मणा पुरा ॥ १५ ॥
मरीच्यादिऋषिभ्यस्तु पुत्रस्नेहावृतात्मना ॥
एकदा ब्रह्मणः पुत्रो मरीचिर्नाम विश्रुतः ॥ १६ ॥
स्वाध्यायश्रुतसम्पन्नो वेदवेदागपारगः ॥
उपसृत्य स्वपितरं ब्रह्मणं लोकभावनम् ॥ १७ ॥
प्रणम्य भक्त्या पप्रच्छ इदमेव मुनिश्वर ॥
पुराणाख्यानममलं यत्त्वं पृच्छसि मानद ॥ १८ ॥
मरीचिरुवाच ॥
भगवन्देवदेवेश लोकानां प्रभवाप्यय ॥
सर्वज्ञ सर्वकल्याण सर्वाध्यक्ष नमोऽस्तु ते ॥ १९ ॥
पुराणबीजमाख्यहि मह्यं शुश्रूषवे पितः ॥
लक्षणं च प्रमाणं च चं वक्तारं पृच्छकं तथा ॥ २० ॥
ब्रह्मोवाच ॥
श्रृणु वत्स प्रवक्ष्यामि पुराणानां समुच्चयम् ॥
यस्मिञ्ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम् ॥ २१ ॥
पुराणमेकमेवासीत्सर्वकल्पेषु मानद ॥
चतुर्वर्गस्य बीजं च शतकोटिप्रविस्तरम् ॥ २२ ॥
प्रवृत्तिः सर्वशास्त्राणां पुराणादभवत्ततः ॥
कालेनाग्रहणं दृष्ट्वा पुराणस्य महामतिः ॥ २३ ॥
हरिर्व्यासस्वरूपेण जायते च युगे युगे ॥
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ॥ २४ ॥
तदष्टादशधा कृत्वा भूर्लोके निर्द्दिशत्यपि ॥
अद्यापि देवलोके तु शतकोटिप्रविस्तरम् ॥ २५ ॥
अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते ॥
ब्राह्मं पाद्मं वैष्णवं च वायवीयं तथैव च ॥ २६ ॥
भागवतं नारदीयं मार्कण्डेयं च कीर्तितम् ॥
आग्नेयं च भविष्यं च ब्रह्मवैवर्त्तलिङ्गके ॥ २७ ॥
वाराहं च तथा स्कान्दं वामनं कूर्मसञ्ज्ञकम् ॥
मात्स्यं च गारुडं तद्वद्ब्रह्माण्डाख्यमिति त्रिषट् ॥ २८ ॥
एकं कथानकं सूत्रं वक्तुः श्रोतुः समाह्वयम् ॥
प्रवक्ष्यामि समासेन निशामय समाहितः ॥ २९ ॥
ब्रह्मं पुराणं तत्रादौ सर्वलोकहिताय वै ॥
व्यासेन वेदविदुषा समाख्यातं महात्मना ॥ ३० ॥
तद्वै सर्वपुराणाऽग्र्यं धर्मकामार्थमोक्षदम् ॥
नानाख्यानेतिहासाढ्यं दशसाहस्रमुच्यते ॥ ३१ ॥
देवानां च सुराणां च यत्रोत्पत्तिः प्रकीर्तिता ॥
प्रजापतीनां च तथा दक्षादीनां मुनीश्वर ॥ ३२ ॥
ततो लोकेश्वरस्यात्र सूर्यस्य परमात्मनः ॥
वंशानुकीर्तनं पुण्यं महापातकनाशनम् ॥ ३३ ॥
यत्रावतारः कथितः परमानन्दरूपिणः ॥
श्रीमतो रामचन्द्रस्य चतुर्व्यूहावतारिणः ॥ ३४ ॥
ततश्च सोमवंशस्यं कीर्तनं यत्र वर्णितम् ॥
कृष्णस्य जगदीशस्य चरितं कल्मषापहम् ॥ ३५ ॥
द्वीपानां चैव सर्वेषां वर्षाणां चाप्यशेषतः ॥
वर्णनं यत्र पातालस्वर्गाणां च प्रदृश्यते ॥ ३६ ॥
नरकाणां समाख्यानं सूर्यस्तुतिकथानकम् ॥
पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते ॥ ३७ ॥
दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम् ॥
पूर्वभागोऽयमुदितः पुराणस्यास्य नारद ॥ ३८ ॥
अस्योत्तरे विभागे तु पुरुषोत्तमवर्णनम् ॥
विस्तरेण समाख्यातं तीर्थयात्राविधानतः ॥ ३९ ॥
अत्रैव कृष्णचरितं विस्तरात्समुदीरितम् ॥
वर्णनं यमलोकस्य पितृश्राद्धविधिस्तथा ॥ ४० ॥
वर्णाश्रमाणां धर्माश्च कीर्तिता यत्र विस्तरात् ॥
विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम् ॥ ४१ ॥
योगानां च समाख्यानं साङ्ख्यानां चापि वर्णनम् ॥
ब्रह्मवादसमुद्देशः पुराणस्य प्रशंसनम् ॥ ४२ ॥
एतद्ब्रह्मपुराणं तु भागद्वयसमन्वितम् ॥
वर्णितं सर्वपापघ्नं सर्वसौख्यप्रदायकम् ॥ ४३ ॥
सूतशौनकसंवादं भुक्तिमुक्तिप्रदायकम् ॥
लिखित्वैतत्पुराणं यो वैशाख्यां हेमसंयुतम् ॥ ४४ ॥
जलधेनुयुतं चापि भक्त्या दद्याद्द्विजातये ॥
पौराणिकाय सम्पूज्य वस्त्रभोज्यविभूषणैः ॥ ४५ ॥
स वसेद्ब्रह्मणो लोके यावच्चन्द्रार्कतारकम् ॥
यः पठेच्छृणुयाद्वापि ब्राह्मानुक्रमणीं द्विज ॥ ४६ ॥
सोऽपि सर्वपुराणस्य श्रोतुर्वक्तुः फलं लभेत् ॥
श्रृणोति यः पुराणं तु ब्रह्मं सर्वं जितेन्द्रियः ॥ ४७ ॥
हविष्याशी च नियमात्स लभेद्ब्रह्मणः पदम् ॥
किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ॥
तत्सर्वं लभते वत्स पुराणस्यास्य कीर्तनात् ॥ ४८ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्राह्मपुराणेतिहासकथनं नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥