सनत्कुमार उवाच ॥
अथ वक्ष्ये महेशस्य मन्त्रं सर्वार्थसाधकम् ॥
यं समाराध्य मनुजो भुक्तिं मुक्तिं च विन्दति ॥ १ ॥
हृदयं सबकः सूक्ष्मो लान्तोऽनन्तान्वितो मरुत् ॥
पञ्चाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः ॥ २ ॥
वामदेवी मुनीश्छन्दः पङ्क्तिरीशोऽस्य देवता ॥
षड्भिर्वर्णैः षडङ्गानि कुर्यान्मन्त्रेण देशिकः ॥ ३ ॥
मन्त्रवर्णादिकान्न्यस्येन्मन्त्रमूर्तिर्यथाक्रमम् ॥
तर्जनीमध्ययोरन्त्यानामिकाङ्गुष्ठके पुनः ॥ ४ ॥
ताः स्युस्तत्पुरुषाघोरभववामेशसञ्ज्ञिकाः ॥
वक्त्रहृत्पादगुह्येषु निजमूर्द्धनि ताः पुनः ॥ ५ ॥
प्राग्याम्यवारुणोदीच्यमध्यवक्त्रेषु पञ्चसु ॥
मन्त्राङ्गानिन्यसेत्पश्चाज्जातियुक्तानि षट् क्रमात् ॥ ६ ॥
कुर्वीत गोलकन्यासं रक्षायै तदनन्तरम् ॥
हृदि वक्त्रेंऽसयोरूर्वोः कण्ठे नाभौ द्विपार्श्वयोः ॥ ७ ॥
पृष्ठे हृदि तथा मूर्ध्नि वदने नेत्रयोर्नसोः ॥
दोःपत्सन्धिषु साग्रेषु विन्यसेत्तदनन्तरम् ॥ ८ ॥
शिरोवदनहृत्कुक्षिसोरुपादद्वये पुनः ॥
हृदि वक्त्राम्बुजे टङ्कमृगा भयवरेष्वथ ॥ ९ ॥
वक्त्रांसहृत्सपादोरुजठरेषु क्रमान्न्यसेत् ॥
मूलमन्त्रस्य षड वर्णान्यथावद्देशिकोत्तमः ॥ १० ॥
मूर्ध्नि भालोदरांसेषु हृदये ताः पुनर्न्यसेत् ॥
पश्चादनेन मन्त्रेण कुर्वीत व्यापकं सुधीः ॥ ११ ॥
नमोस्त्वनन्तरूपाय ज्योतिर्लिङ्गामृतात्मने ॥
चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ॥ १२ ॥
एवं न्यस्तशरीरोऽसौ चिन्तयेत्पार्वतीपतिम् ॥
ध्यायेन्नित्यं महेशानं रौप्यपर्वतसन्निभम् ॥ १३ ॥
चारुचन्द्रावतंसं च रत्नाकल्पोज्ज्वलाङ्गकम् ॥
परश्वधवराभीतिमृगहस्तं शुभाननम् ॥ १४ ॥
पद्मासीनं समन्तात्तु स्तुतं सुमनसां गणैः ॥
व्याघ्रकृत्तिं वसानं च विश्वाद्यं विश्वरूपकम् ॥ १५ ॥
त्रिनेत्रं पञ्चवक्त्रं च सर्वभीतिहरं शिवम् ॥
तत्त्वलक्षं जपेन्मन्त्रं दीक्षितः शैववर्त्मना ॥ १६ ॥
तावत्सङ्ख्यसहस्राणि जुहुयात्पायसैः शुभैः ॥
ततः सिद्धो भवेन्मन्त्रः साधकाऽभीष्टसिद्धिदः ॥ १७ ॥
देवं सम्पूजयेत्पीठे वामादिनवशक्तिके ॥
वामा ज्येष्ठा तथा रौद्री काली कलपदादिका ॥ १८ ॥
विकारिण्याह्वया प्रोक्ता बलाद्या विकरिण्यथ ॥
बलप्रमथनी पश्चात्सर्वभूतदमन्यथ ॥ १९ ॥
मनोन्मनीति सम्प्रोक्ताः शैवपीठस्य शक्तयः ॥
नमो भगवते पश्चात्सकलादि वदेत्ततः ॥ २० ॥
गुणात्मशक्तिभक्ताय ततोऽनन्ताय तत्परम् ॥
योगपीठात्मने भूयो नमस्तारादिको मनुः ॥ २१ ॥
अमुना मनुना दद्यादासनं गिरिजापतेः ॥
मूर्तिं मूलेन सङ्कल्प्य तत्रावाह्य यजेच्छिवम् ॥ २२ ॥
कर्णिकायां यजेन्मूर्तिरीशमीशानदिग्गजम् ॥
शुद्धस्फटिकसङ्काशं दिक्षु तत्पुरुषादिका ॥ २३ ॥
पीताञ्जनश्वेतरक्ताः प्रधानसदृशायुधाः ॥
चतुर्वक्त्रसमायुक्ता यथावत्ताः प्रपूजयेत् ॥ २४ ॥
कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरूपाः कलाः क्रमात् ॥
अङ्गानि केसरस्थानि विघ्नेशान्पन्नगान्यजेत् ॥ २५ ॥
अनन्तं सुखनामानं शिवोत्तममनन्तरम् ॥
एकनेत्रमेकरुद्रं त्रिमूर्तिं तदनन्तरम् ॥ २६ ॥
पश्चाच्छीकण्ठनामानं शिखण्डिनमिति क्रमात् ॥
रक्तपीतसितारक्तकृष्णरक्ताञ्जनासितान् ॥ २७ ॥
किरीटार्पितबालेन्दून्पद्मस्थान्भूषणान्वितान् ॥
त्रिनेत्राञ्छूलवज्रास्त्रचापहस्तान्मनोरमान् ॥ २८ ॥
उत्तरादि यजेत्पश्चाद्रुद्रं चण्डेश्वरं पुनः ॥
ततो नन्दिमहाकालौ गणेशं वृषभं पुनः ॥ २९ ॥
अथ भृङ्गिं रिटिं स्कन्दमेतान्पद्मासनस्थितान् ॥
स्वर्णतोयारुणश्याममुक्तेन्दुसितपाटलान् ॥ ३० ॥
इन्द्रादयस्ततः पूज्या वज्राद्यायुधसंयुताः ॥
इत्थं सम्पूजयेद्देवं सहस्रं नित्यशो जपेत् ॥ ३१ ॥
सर्वपापविनिर्मुक्तः प्राप्नुयाद्वाञ्छितं श्रियम् ॥
द्विसहस्रं जपन् रोगान्मुच्यते नात्र संशयः ॥ ३२ ॥
त्रिसन्मन्त्रं जपन्मन्त्रं दीर्घमायुरवाप्नुयात् ॥
सहस्रवृद्धया प्रजपन्सर्वकामानवाप्नुयात् ॥ ३३ ॥
आज्यान्वितैस्तिलैः शुद्धैर्जुहुयाल्लक्षमादरात् ॥
उत्पातजनितान् क्लेशान्नाशयेन्नात्र संशयः ॥ ३४ ॥
शतलक्षं जपन्साक्षाच्छिवो भवति मानवः ॥
षडक्षरः शक्तिरुद्धः कथितोऽष्टाक्षरो मनुः ॥ ३५ ॥
ऋषिश्छन्दः पुरा प्रोक्तो देवता स्यादुमापतिः ॥
अङ्गानि पूर्वमुक्तानि सौम्यमीशं विचिन्तयेत् ॥ ३६ ॥
बन्धूकाभं त्रिनेत्रं च शशिखण्डधरं विभुम् ॥
स्मेरास्यं स्वकरैः शूलं कम्पालं वरदाभये ॥ ३७ ॥
वहन्तं चारुभूपाढ्यं वामोरुस्थाद्रिकन्यया ॥
भुजेनाश्लिष्टदेहं तं चिन्तयेन्मनसा हृदि ॥ ३८ ॥
मनुलक्षं जपेन्मन्त्रं तत्सहस्रं यथाविधि ॥
जुहुयान्मान्मधुससिक्तैरारग्वधसमिद्वरैः ॥ ३९ ॥
प्राक्प्रोक्ते पूजयेत्पीठे गन्धपुष्पैरुमापतिम् ॥
अङ्गावृतैर्बहिः पूज्या हृल्लेखाद्या यथापुरा ॥ ४० ॥
मध्यप्राग्दक्षिणोदीच्यपश्चिमेषु विधानतः ॥
यजेत्पूर्वादिपत्रेषु वृषभाद्याननुक्रमात् ॥ ४१ ॥
शूलटङ्काक्षवलयकमण्डलुलसत्करम् ॥
रक्ताकारं त्रिनयनं चण्डेशमथ पूजयेत् ॥ ४२ ॥
चक्रशङ्खाभयाभीष्टकरां मरकतप्रभाम् ॥
दुर्गां प्रपूजयेत्सौम्यां त्रिनेत्रां चारुभूषणाम् ॥ ४३ ॥
कल्पशाखान्तरे घण्टां दधानं द्वादशेक्षणम् ॥
बालार्काभं शिशुं कान्तंषण्मुखं पूजयेत्ततः ॥ ४४ ॥
नन्दितं च यजेत्सौम्यां॥
रत्नभूषणमण्डितम् परश्वधवराभीतिटङ्किनं श्यामविग्रहम् ॥ ४५ ॥
पाशाङ्कुशवराभीष्टधारिणं कुङ्कुमप्रभम् ॥
विघ्ननायकमभ्यर्चेच्चन्द्रार्द्धकृतशेखरम् ॥ ४६ ॥
श्यामं रक्तोत्पलकरं वामाङ्कन्यस्ततत्करम् ॥
द्विनेत्रं रक्तवस्त्राढ्यं सेनापतिमथार्चयेत् ॥ ४७ ॥
ततोऽष्टमातरः पूज्या ब्राह्याद्याः प्रोक्तलक्षणाः ॥
इन्द्रादिकान्लोकपालान्स्वस्वदिक्षु समर्चयेत् ॥ ४८ ॥
वज्रादीनि तदस्त्राणि तद्बहिः क्रमतोऽर्चयेत् ॥
एवं यो भजते मन्त्री देवं शम्भुमुमापतिम् ॥ ४९ ॥
स भवेत्सर्वलोकानां सौभाग्यश्रेयसां पदम् ॥
सान्तसद्यान्तसंयुक्तो बिन्दुभूषितमस्तकः ॥ ५० ॥
प्रासादाख्यो मनुः प्रोक्तो भजतां सर्वसिद्धिदः ॥
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥ ५१ ॥
षडर्णवत्तु मुन्याद्याः प्रोक्ताश्चास्यापि नारद ॥
ईशानाद्या न्यसेन्मूर्तीरङ्गुष्ठादिषु देशिकः ॥ ५२ ॥
ईशानाख्यं तत्पुरुषमघोरं तदनन्तरम् ॥
वामदेवाह्वयं सद्योजातबीजं क्रमाद्विदुः ॥ ५३ ॥
उकाराद्यैः पञ्चह्रस्वौर्विलोमान्संयुतं च यत् ॥
तत्तदङ्गुलिभिर्भूयस्तत्तदिकान्न्यसेत् ॥ ५४ ॥
शिरोवदनहृद्गुह्यपाददेशे यथाक्रमात् ॥
उर्द्धप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु च ॥ ५५ ॥
ततः प्रविन्यसेद्विद्वानष्टत्रिंशत्कलास्तनौ ॥
ईशानाद्या ऋचः सम्यगङ्गुलीषु यथाक्रमात् ॥ ५६ ॥
अङ्गुष्ठादिकनिष्ठान्तं न्यसेद्देशिकसत्तमः ॥
मूर्द्धास्यहृदयाम्भोजगुह्यपादे तु ताः पुनः ॥ ५७ ॥
वक्त्रे मूर्धादिषु न्यस्य भूयोऽङ्गानि प्रकल्पयेत् ॥
तारपञ्चकमुच्चार्य सर्वज्ञाय हृदीरितम् ॥ ५८ ॥
अमृते तेजो मालिनि तृप्तायेति पदं पुनः ॥
तदन्ते ब्रह्मशिरसे शिरोगं ज्वलितं ततः ॥ ५९ ॥
शिखिं शिखाय परतोऽनादिबोधाय तच्छिखा ॥
वज्रिणे वज्रहस्ताय स्वतन्त्राय तनुच्छदम् ॥ ६० ॥
सौं सौं हौमिति सम्भाष्य परतो तों गुह्यशक्तये ॥
नेत्रमुक्तं श्लीपशुं हुं फडन्ते नेत्रं शक्तये ॥ ६१ ॥
अस्त्रमुक्तं षडङ्गानि कुर्यादेवं समाहितः ॥
पूर्वदक्षिणपश्चात्प्राक्सौम्यमध्येषु पञ्चसु ॥ ६२ ॥
वक्त्रेषु पञ्च विन्यस्येदीशानस्य कलाः क्रमात् ॥
ईशानः सर्वविद्यानां शशिनी प्रथमा कला ॥ ६३ ॥
ईश्वरः सर्वभूतानां मङ्गला तदनन्तरम् ॥
ब्रह्माधिपतिः शब्दान्ते ब्रह्मणोऽधिपतिः पुनः ॥ ६४ ॥
ब्रह्मेष्टदा तृतीयास्याच्छिवो मे अस्तु तत्परा ॥
मरीचिः कथिता विप्र चतुर्थी च सदाशिवे ॥ ६५ ॥
अंशुमालिन्यथ परा प्रणवाद्या नमोन्विताः ॥
पूर्वपश्चिमयाम्योदग्वक्त्रेषु तदनन्तरम् ॥ ६६ ॥
चतस्रो विन्यसेन्मन्त्री पुरुषस्य कलाः क्रमात् ॥
आद्या तत्पुरुषायेति विद्महे शान्तिरीरिता ॥ ६७ ॥
महादेवाय शब्दान्ते धीमहि स्यात्ततः परम् ॥
विद्या द्वितीया कथिता तन्नो रुद्रः पदं ततः ॥ ६८ ॥
प्रतिष्ठा कथिता पश्चात्तृतीया स्यात्प्रचोदयात् ॥
निवृत्तिस्तत्परा सर्वा प्रणवाद्या नमोन्विता ॥ ६९ ॥
हृदि चांसद्वये नाभिकुक्षौ पृष्ठेऽथ वक्षसि ॥
अथोरसि कला न्यस्येदष्टौ मन्त्री यथाविधि ॥ ७० ॥
अघोरेभ्यस्तथा पूर्वमीरिता प्रथमा कला ॥
अथ घोरेभ्य इत्यन्ते मोहास्यात्तदनन्तरम् ॥ ७१ ॥
अघोरान्ते क्षमा पश्चात्तृतीया परिकीर्तिता ॥
घोरतरेभ्यो निद्रा स्यात्सर्वेभ्यः सर्वतत्परा ॥ ७२ ॥
व्याधिस्तु पञ्चमी प्रोक्ता शर्वेभ्यस्तदनन्तरम् ॥
मृत्युर्निगदिता षष्ठी नमस्ते अस्तु तत्परम् ॥ ७३ ॥
क्षुधा स्यात्सप्तमी रुद्ररूपेभ्यः कथिता तृषा ॥
अष्टमी कथिता एताध्रुवाद्या नमसान्विताः ॥ ७४ ॥
गुह्ययुग्मोरुयुग्मेषु जानुजङ्घास्फिजोः पुनः ॥
कट्यां पार्श्वद्वये वामकला न्यस्येत्त्रयोदश ॥ ७५ ॥
प्रथमा वामदेवाय नमोन्ते स्याद्रुजा कला ॥
स्याज्ज्येष्ठाय नमो रक्षा द्वितीया परिकीर्तिता ॥ ७६ ॥
कलकामा पञ्चमी स्यात्ततो विकरणाय च ॥
नमः संयमनी षष्ठी कथिता तदनन्तरम् ॥ ७७ ॥
बलक्रिया सप्तमीष्टा कला विकरणाय च ॥
नमो वृद्धिस्त्वष्टमी स्याद्बलान्ते च स्थिरा कला ॥ ७८ ॥
पश्चात्प्रमथनायान्ते नमो रात्रिरुदीरिता ॥
सर्वभूतदमनाय नमोन्ते भ्रामणी कला ॥ ७९ ॥
नमोन्ते मोहिनी प्रोक्ता मन्त्रज्ञैर्द्वादशी कला ॥
मनोन्मन्यै नमः पश्चाज्ज्वरा प्रोक्ता त्रयोदशी ॥ ८० ॥
प्रणवाद्याश्चतुर्थ्यन्ता नमोन्तास्तु प्रकीर्तिताः ॥
पाददोस्तननासासु मूर्ध्नि बाहुयुगे न्यसेत् ॥ ८१ ॥
सद्योजातभवाः सम्यगष्टौ मन्त्राः कलाः क्रमात् ॥
सद्योजातं प्रपद्यामि सिद्धिः स्यात्प्रथमा कला ॥ ८२ ॥
सद्योजाताय वै भूयो नमः स्याद् वृद्धिरीरिता ॥
भवेद्युतिस्तृतीया स्यादभवे तदनन्दरम् ॥ ८३ ॥
लक्ष्मी चतुर्थी कथिता ततो नातिभवेपदम् ॥
मेधा स्यात्पञ्चमी प्रोक्ता कलाभूयो भवस्व माम् ॥ ८४ ॥
प्राज्ञा समीरिता षष्ठी भवान्ते स्यात्प्रभा कला ॥
उद्भवाय नमः पश्चात्सुधा स्यादष्टमी कला ॥ ८५ ॥
प्रणवाद्याश्चतुर्थ्यन्ता कलाः सर्वा नमोन्विताः ॥
अष्टात्रिंशत्कलाः प्रोक्ताः पञ्च ब्रह्मपदादिकाः ॥ ८६ ॥
इति विन्यस्तदेहोऽसौ भवेद्गङ्गाधरः स्वयम् ॥
ततः समाहितो भूत्वा ध्यायेदेवं सदाशिवम् ॥ ८७ ॥
सितपीतासितश्वेतजपाभैः पञ्चभिर्मुखैः ॥
अक्षैर्युतं ग्लौमुकुटं कोटिपूर्णेन्दुसम्प्रभम् ॥ ८८ ॥
शूलं टङ्कं कृपाणं च वज्राग्न्यहिपतीन्करैः ॥
दधानम्भूषणोद्दीप्तं घण्टापाशवराभयान् ॥ ८९ ॥
एवं ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुतैः ॥
प्रसूनैः करवीरोत्थैर्जुहुयात्तद्दशांशतः ॥ ९० ॥
पूर्वोदिते यजेत्पीठे मूर्तिं मूलेन कल्पयेत् ॥
आवाह्य पूजयेत्तस्यां मूर्तावावरणैः सह ॥ ९१ ॥
शक्तिं डमरुकाभीतिवरान्सन्दधतं करैः ॥
ईशानं त्रीक्षणं शुभ्रमैशान्यां दिशि पूजयेत् ॥ ९२ ॥
परश्वेणवराभीतीर्दधानं विद्युदुज्ज्वलम् ॥
चतुर्मुखं तत्पुरुषं त्रिनेत्रं पूर्वतोऽर्चयेत् ॥ ९३ ॥
अक्षस्रजं वेदपाशौ ऋषिं डमरुकं ततः ॥
खट्वाङ्गं निशितं शूलं कपालं बिभ्रतं करैः ॥ ९४ ॥
अञ्जनाभं चतुर्वक्त्रं भीमदन्तं भयावहम् ॥
अघोरं त्रीक्षणं याम्ये पूजयेन्मन्त्रवित्तमः ॥ ९५ ॥
कुङ्कुमाभचतुर्वक्त्रं वामदेवं त्रिलोचनम् ॥
हरिणाक्षगुणाभीतिवरहस्तं चतुर्मुखम् ॥ ९६ ॥
बालेन्दुशेखरोल्लासिमुकुटं पश्चिमे यजेत् ॥
कर्पूरेन्दुनिभं सौम्यं सद्योजातं त्रिलोचनम् ॥ ९७ ॥
वराभयाक्षवलयकुठारान्दधतं करैः ॥
विलासिनं स्मेरवक्त्रं सौम्ये सम्यक्समर्चयेत् ॥ ९८ ॥
कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरूपाः कलाः क्रमात् ॥
विघ्नेश्वराननन्ताद्यान्पत्रेषु परितो यजेत् ॥ ९९ ॥
उमादिकास्ततो बाह्ये शक्राद्यानायुधैः सह ॥
इति सम्पूज्य देवेशं भक्त्या परमया युतः ॥ १०० ॥
प्रणीयेन्नृत्यगीताद्यैः स्तोत्रमैर्त्रीं मनोहरैः ॥
तारो मायावियद्बिन्दुमनुस्वरसमन्वितः ॥ १०१ ॥
पञ्चाक्षरसमायुक्तो वसुवर्णो मनुर्मतः ॥
पञ्चाक्षरोक्तवत्कुर्यादङ्गन्यासादिकं बुधः ॥ १०२ ॥
सिन्दूराभं लसद्रत्नमुकुटं चन्द्रमौलिनम् ॥
दिव्यभूषाङ्गरागं च नागयज्ञोपवीतिनम् ॥ १०३ ॥
वामोरुस्थप्रियोरोजन्यस्तहस्तं च बिभ्रतम् ॥
वेदटङ्केष्मभयं ध्यायेत्सर्वेश्वरं शिवम् ॥ १०४ ॥
अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं घृतान्वितैः ॥
पायसैर्जुहुयात्पीठेमूर्तिं सङ्कल्प्य मूलतः ॥ १०५ ॥
अङ्गैरावरणं पूर्वमनन्ताद्यैरनन्तरम् ॥
उमादिभिः समुद्दिष्टं तृतीयं लोकनायकैः ॥ १०६ ॥
चतुर्थं पञ्चमं तेषामायुधैः परिकीर्तितम् ॥
एवं प्रतिदिनं देवं पूजयेत्साधकोत्तमः ॥ १०७ ॥
पुत्रपौत्रादिगां लक्ष्मीं सम्प्राप्यह्यत्र मोदते ॥
तारः स्थिरा सकर्णेन्दुर्भघृगुः सर्गसमन्वितः ॥ १०८ ॥
अक्षरात्मा निगदितो मन्त्रो मृत्युञ्जयात्मकः ॥
ऋषइः कहोलो देव्यादिगायत्री छन्द ईरितम् ॥ १०९ ॥
मृत्युञ्जयो महादेवो देवतास्य समीरितः ॥
भृगुणा दीर्घयुक्तेन षडङ्गानि समाचरेत् ॥ ११० ॥
चन्द्रार्कहुतभुङ्नेत्रं स्मितास्यं युग्मपद्मगम् ॥
मुद्रापाशैणाक्षसूत्रलसत्पाणिं शशिप्रभम् ॥ १११ ॥
भालेन्दुविगलन्त्पीयूषप्लुताङ्गमलङ्कृतम् ॥
हाराद्यैर्निजकान्त्या तु ध्यायेद्विश्वविमोहनम् ॥ ११२ ॥
गुणलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्सुधीः ॥
अमृताशकलैः शुद्धदुग्धाज्यसमभिप्लुतैः ॥ ११३ ॥
शैवे सम्पूजयेत्पीठे मूर्तिं सङ्कल्पमूलतः ॥
अङ्गावरणमाराध्यपश्चाल्लोकेश्वरान्यजेत् ॥ ११४ ॥
तदस्त्राणि ततो बाह्ये पूजयेत्साधकोत्तमः ॥
जपपूजादिभिः सिद्धे मन्त्रेऽस्मिन्मुनिसत्तम ॥ ११५ ॥
कुर्यात्प्रयोगान्कल्योक्तानभीष्टफलसिद्धये ॥
दुग्धसिक्तैः सुधाखण्डैर्हुत्वा प्रत्यहमादरात् ॥ ११६ ॥
सहस्रमासपर्यन्तं लभेदायुर्धनं सुतान् ॥
सुधावटतितान्पूर्वा पयः सर्पिः पयो हविः ॥ ११७ ॥
सप्त द्रव्याणि वारेषु क्रमाद्दशशतं हुनेत् ॥
सप्ताधिकान् द्विजान्नित्यं भोजयेन्मधुरान्वितम् ॥ ११८ ॥
ऋत्विग्भ्यो दक्षिणां दद्यादरुणां गां पयस्विनीम् ॥
गुरुं सम्प्रीणयेत्पश्चाद्धनाद्यैर्देवताधिया ॥ ११९ ॥
अनेन विधिना साध्यः कृत्याद्रोहज्वंरादिभिः ॥
विमुक्तः सुचिरं जीवेच्छरदां शतमञ्जसा ॥ १२० ॥
अभिचारे ज्वरे स्तम्भघोरोन्मादे शिरोगदे ॥
असाध्यरोगे क्ष्वेडार्तौ मोहे दाहे महाभये ॥ १२१ ॥
होमोऽयं शान्तिदः प्रोक्तः सर्वाभयप्रदायकः ॥
द्रव्यैरेतैः प्रजुहुयात्त्रिजन्मसु यथाविधि ॥ १२२ ॥
भोजयेन्मधुरैर्भोज्यैर्ब्राह्मणान्वेदपारगान् ॥
दीर्घमायुरवाप्नोति वाञ्छितां विन्दति श्रियम् ॥ १२३ ॥
एकादशाहुतीर्नित्यं दूर्वाभिर्जुहुयाद् बुधः ॥
अपमृत्युजिदेव स्यादायुरारोग्यवर्द्धनम् ॥ १२४ ॥
त्रिजन्मसु सुधावल्लीकाश्मीरीबकुलोद्भवैः ॥
समिद्वरैः कृतो होमः सर्वमृत्युगदापहः ॥ १२५ ॥
सिद्धार्थैर्विहितो होमो महाज्वरविनाशनः ॥
अपामार्गसमिद्धोमः सर्वामयनिषूदनः ॥ १२६ ॥
दक्षिणामूर्तये पूर्वं तुभ्यं पदमनन्तरम् ॥
वटमूलपदस्यान्ते प्रवदेच्च निवासिने ॥ १२७ ॥
ध्यानैकनिरताङ्गाय पश्चाद् ब्रूयान्नमः पदम् ॥
रुद्राय शम्भवे तारशक्तिरुद्धोऽयमीरितः ॥ १२८ ॥
षट्त्रिंशदक्षरो मन्त्रः सर्वकामफलप्रदः ॥
मुनिः शुकः समुद्दिष्टश्छन्दोऽनुष्टुप्प्रकीर्तितम् ॥ १२९ ॥
देवता दक्षिणामूर्तिर्नाम्ना शम्भुरुदीरितः ॥
तारशक्तियुक्तैः पूर्वं ह्रीमाद्यन्तैश्च मन्त्रजैः ॥ १३० ॥
षट्षष्ठाष्टेषु वह्न्यर्णैर्हृदयाद्यङ्गकल्पनम् ॥
मूर्ध्नि भाले दृशोः श्रोत्रे गण्डयुग्मे सनासिके ॥ १३१ ॥
आस्यदोःसन्धिषु गले स्तनहृन्नाभिमण्डले ॥
कट्यां गुह्ये पुनः पादसन्धिष्वर्णान्न्यसेन्मनोः ॥ १३२ ॥
व्यापकं तारशक्तिभ्यां कुर्याद्देहे ततः परम् ॥
हिमाचलतटे रम्ये सिद्धिकिन्नरसेविते ॥ १३३ ॥
विविधद्रुमशाखाभिः सर्वतो वारितातपे ॥
सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमे ॥ १३४ ॥
शिलाविवरनिर्गच्छन्निर्झरानिलशीतले ॥
गायद्देवाङ्गनासङ्घे नृत्यद्बर्हि कदम्बके ॥ १३५ ॥
कूजत्कोकिलसङ्घेन मुखरीकृतदिङ्मुखे ॥
परस्परविनिर्मुक्तमात्सर्यमृगसेविते ॥ १३६ ॥
जलजैः स्थलजैः पुष्पैरामोदिभिरलङ्कृते ॥
आद्यैः शुकाद्यैर्मुनिभिरजस्रसुखसेविते ॥ १३७ ॥
पुरन्दरमुखैर्देवैः साङ्गनाद्यैर्विलोकिते ॥
वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्लम् ॥ १३८ ॥
गारुत्मतमयैः पत्रैर्निबिडैरुपशोभितम् ॥
नवरत्नमयाकल्पैर्लम्बमानैरलङ्कृतम् ॥ १३९ ॥
संसारतापविच्छेदकुशलच्छायमद्भुतम् ॥
तस्य मूले सुसङ्क्लृप्तरत्नसिंहासने शुभे ॥ १४० ॥
आसीनमसिताकल्पं शरच्चन्द्रनिभाननम् ॥
कैलासाद्रिनिभं त्र्यक्षं चन्द्राङ्कितकपर्दकम् ॥ १४१ ॥
नासाग्रालोकनपरं वीरासनसमास्थितम् ॥
भद्राटके कुरङ्गाढ्यजानुस्थकरपल्लवम् ॥ १४२ ॥
कक्षाबद्धभुजङ्गं च सुप्रसन्नं हरं स्मरेत् ॥
अयुतद्वयसंयुक्तगुणलक्षं जपेन्मनुम् ॥ १४३ ॥
तद्दशांशं तिलैः शुद्धैर्जुहुयात्क्षीरसंयुतैः ॥
पञ्चाक्षरोदिते पीठे तद्विधानेन पूजयेत् ॥ १४४ ॥
भिक्षाहारो जपेन्मासं मनुमेनं जितेन्द्रियः ॥
नित्यं सहस्रमष्टार्द्धं परां विन्दति वाक्छ्रियम् ॥ १४५ ॥
त्रिवारं जप्तमेतेन पयस्तु मनुना पिबेत् ॥
दक्षिणामूर्तिंसन्ध्यानाच्छास्त्रव्याख्यानकृद्भवेत् ॥ १४६ ॥
प्रणवो हृदयं पश्चाद्वदेद्भगवतेपदम् ॥
ङेयुतं दक्षिणामूर्तिं मह्यम्मेधामुदीरयेत् ॥ १४७ ॥
प्रयच्छ ठद्वयान्तोऽयं द्वाविंशत्यक्षरो मनुः ॥
मुनिश्चतुर्मुखश्छन्दो गायत्री देवतोदिता ॥ १४८ ॥
ताररुद्धैः स्वरैर्दीर्घैः षड्भिरङ्गानि कल्पयेत् ॥
पदैर्मन्त्रभवैर्वापिध्यानाद्यं पूर्ववन्मतम् ॥ १४९ ॥
लोहितोग्र्यासनः सद्यो बिन्दुमान्प्रथमं ततः ॥
द्वितीयं वह्निबीजस्था दीर्घा शान्तीन्दुभूषिता ॥ १५० ॥
तृतीया लाङ्गलीशार्णमन्त्रो बीजत्रयान्वितः ॥
नीलकण्ठात्मकः प्रोक्तो विषद्वयहरः परः ॥ १५१ ॥
हरद्वयं वह्निजाया हृदयं परिकीर्तितम् ॥
कपर्द्दिने पदयुगं शिरोमन्त्र उदाहृतः ॥ १५२ ॥
नीलकण्ठाय ठद्वन्द्वं शिखामन्त्रोऽयमीरितः ॥
कालकूटपदस्यान्ते विषभक्षणङेयुतम् ॥ १५३ ॥
हुं फट् कवचमुद्दिष्टं नीलकण्ठिन इत्यतः ॥
स्वाहान्तमस्त्रमेतानि पञ्चागानि मनोर्विदुः ॥ १५४ ॥
मूर्ध्नि कण्ठे हृदम्भोजे क्रमाद्वीजत्रयं न्यसेत् ॥
बालार्कायुतवर्चस्कं जटाजूटेन्दुशोभितम् ॥ १५५ ॥
नागाभूषं जपवटीं शूलं ब्रह्यकपालकम् ॥
खट्वाङ्गं दधतं दोर्भिस्त्रिनेत्रं चिन्तयेद्धरम् ॥ १५६ ॥
लक्षत्रयं जपेन्मन्त्रं तद्दशांशं ससर्पिषा ॥
हविषा जुहुयात्सम्यक्संस्कृते हव्यवाहने ॥ १५७ ॥
शैवं पीठे यजेद्देवं नीलकण्ठं समाहितः ॥
मृत्युं जयविधानेन विषद्वयविनाशनम् ॥ १५८ ॥
अग्निः संवर्तकादित्यरानिलौ षष्टिबिन्दुमान् ॥
चिन्तामणिरिति ख्यातं बीजं सर्वसमृद्धिदम् ॥ १५९ ॥
कश्यपो मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् ॥
अर्द्धनारीश्वरः प्रोक्तो देवता जगतां पतिः ॥ १६० ॥
रेफादिव्यञ्जनैः षड्भिः कुर्यादङ्गानि षट् क्रमात् ॥
त्रिनेत्रं नीलमणिभं शूलपाशं कपालकम् ॥ १६१ ॥
रक्तोत्पलं च हस्ताब्जैर्दधतं चारुभूषणम् ॥
बालेन्दुबद्धमुकुटमर्द्धनारीश्वरं स्मरेत् ॥ १६२ ॥
एकलक्षं जपेन्मन्त्रं त्रिशतं मधुराप्लुतैः ॥
तिलैर्हुनेद्यजेत्पीठे शैवेङ्गावरणैः सह ॥ १६३ ॥
वृषाद्यैर्मातृभिः पश्चाल्लोकपालैस्तदायुधैः ॥
प्रासादाद्यं जपेन्मन्त्रमयुतं रोगशान्तये ॥ १६४ ॥
स्वाहावृत्तमिदं बीजं विगलत्परमामृतम् ॥
चन्द्रबिम्बस्थितं मूर्ध्नि ध्यातं क्ष्वेडगदापहम् ॥ १६५ ॥
प्रतिलोमस्वराढ्या च बीजं वह्निगृहे स्थितम् ॥
रेफादिव्यञ्जनोल्लासिषट्कोणाभिवृतं बहिः ॥ १६६ ॥
भूतार्तस्य स्मृतं मूर्ध्नि भूतमाशु विनाशयेत् ॥
पीडिताङ्गे स्मृतं तत्तत्पीडां शमयति ध्रुवम् ॥ १६७ ॥
प्रणवो हृदयं पश्चान् ङेन्तः पशुपतिः पुनः ॥
तारो नमो भूतपदं ततोऽधिपतये ध्रुवम् ॥ १६८ ॥
नमोरुद्राय युगलं खङ्गरावण शब्दतः ॥
विहरद्वितयं पश्चान्नरीनृत्ययुगं पृथक् ॥ १६९ ॥
श्मशानभस्माचितान्ते शरण्याय ततः परम् ॥
घण्टाकपालमालादिधरायेति पदं पुनः ॥ १७० ॥
व्याघ्रचर्मपदस्यान्ते परिधानाय तत्परम् ॥
शशाङ्ककृतशब्दान्ते शेखराय ततः परम् ॥ १७१ ॥
कृष्णसर्पपदात्पश्चाद्वदेद्यज्ञोपवीतिने ॥
बलयुग्मं चलायुग्ममनिवर्तकपालिने ॥ १७२ ॥
हनुयुग्मं ततो भूतांस्त्रासयद्वितयं पुनः ॥
भूयो मण्डलमध्ये स्यात्कटयुग्मं ततः परम् ॥ १७३ ॥
रुद्राङ्कुशेन शमय प्रवेशययुगं ततः ॥
आवेशययुगं पश्चाञ्चण्डासिपदमीरयेत् ॥ १७४ ॥
धाराधिपतिरुद्रोऽयं ज्ञापयत्यग्निसुन्दरी ॥
खड्गरावणमन्त्रोऽयं सप्तत्यूर्द्धशताक्षरः ॥ १७५ ॥
भूताधिपतये स्वाहा पूजामन्त्रोऽयमीरितः ॥
सिद्धमन्त्रोऽयमुदितो जपादेव प्रसिद्ध्यति ॥ १७६ ॥
अयुतद्वितयात्पश्चाद्भूतादिग्रहणे क्षमः ॥
माया स्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः ॥ १७७ ॥
घातयद्वितयं वर्मफडन्तः समुदीरितः ॥
एकपञ्चाशदर्णोऽयमघोरास्त्रं महामनुः ॥ १७८ ॥
अघोरोऽस्य नुनिः प्रोक्तस्त्रिवृच्छन्दं उदाहृतम् ॥
अघोररुद्रः सन्दिष्टो देवता मन्त्रनायकः ॥ १७९ ॥
हृदयं पञ्चभिः प्रोक्तं शिरः षड्भिरुदाहृतम् ॥
शिखा दशभिराख्याता नवभिः कवचं मतम् ॥ १८० ॥
वसुवर्णैः स्मृतं नेत्रं दशार्णैरस्त्रमीरितम् ॥
मूर्ध्नि नेत्रास्यकण्ठेषु हृन्नाभ्यामूरुषु क्रमात् ॥ १८१ ॥
जानुजङ्घापदद्वन्द्वे रुद्रभिन्नाक्षरैर्न्यसेत् ॥
पञ्चषट्काष्टवेदाङ्गद्विव्द्यब्धिरसलोचनैः ॥ १८२ ॥
श्यामं त्रिनेत्रं सपार्ढ्यं रक्तवस्त्राङ्गराङ्गकम् ॥
नानाशस्त्रधरं ध्यायेनदघोराख्यं सदाशिवम् ॥ १८३ ॥
भूतवेतालकादीनां क्षयोऽयं निग्रहे मनुः ॥
तारो वान्तो धरासंस्थो वामनेत्रेन्दुभूषितः ॥ १८४ ॥
पाशी बकः कर्णनेत्रवर्मास्त्रान्तः षडक्षरः ॥
मनुः पाशुपतास्त्राख्यो ग्रहक्षुद्रनिवारणः ॥ १८५ ॥
षड्भिर्वर्णैः षडङ्गानि हुम्फडन्तैः सजातिभिः ॥
मध्याह्नार्कप्रभं भीमं त्र्यक्षं पन्नगभूषणम् ॥ १८६ ॥
नानाशस्त्रं चतुर्वक्त्रं स्मरेत्पशुपतिं हरम् ॥
वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥ १८७ ॥
गव्येन सर्पिषा मन्त्रो संस्कृते हव्यवाहने ॥
शैवे पीठे यजेदङ्गमातृलोकेश्वरायुधैः ॥ १८८ ॥
अनेन मन्त्रितं तोयं भूतग्रस्तमुखे क्षिपेत् ॥
सद्यः स मुञ्चति क्रन्दान्महामन्त्रप्रभावतः ॥ १८९ ॥
अनेन मन्त्रितान्बाणान्विसृजेद्युधि यो नरः ॥
जयेत्क्षणेन निखिलाञ्छत्रून्पार्थ इवापरः ॥ १९० ॥
वर्णान्तिमो बिन्दुयुतः क्षेत्रपालाय हृन्मनुः ॥ १९१ ॥
ताराद्यो वसुवर्णोऽयं क्षेत्रपालस्य कीर्तितः ॥
षड्दीर्घयुक्तबीजेन षडङ्गं न्यस्य चिन्तयेत् ॥ १९२ ॥
नीलाचलाभं दिग्वस्त्रं सर्पभूषं त्रिलोचनम् ॥
पिङ्गोर्ध्वकेशान्दधतं कपालं च गदां स्मरेत् ॥ १९३ ॥
लक्षमेकं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥
चरुणा घृतसिक्तेन ततः क्षेत्रे समर्चयेत् ॥ १९४ ॥
धर्मादिकल्पिते पीठे साङ्गावरणमादरात् ॥
तस्मै सपरिवाराय बलिमेतेन निर्हरेत् ॥ १९५ ॥
पूर्वमेहिद्वयं पश्चाद्विद्विषं पुरुषं द्वयम् ॥
भञ्जयद्वितयं भूयो नर्तयद्वितयं पुनः ॥ १९६ ॥
ततो विघ्नपदद्वन्द्वं महाभैरव तत्परम् ॥
क्षेत्रपालबलिं गृह्णद्वयं पावकसुन्दरी ॥ १९७ ॥
बलिमन्त्रोऽयमाख्यातः सर्वकामफलप्रदः ॥
सोपदेशं बृहत्पिण्डे कृत्वा रात्रिषु साधकः ॥ १९८ ॥
स्मृत्वा यथोक्तं क्षेत्रेशँ तस्य हस्ते बलिं हरेत् ॥
बलिनानेन सन्तुष्टः क्षेत्रपालः प्रयच्छति ॥ १९९ ॥
कान्तिं मेधां बलायोग्यं तेजः पुष्टिं यशः श्रियम् ॥
उद्धरेद्बटुकं ङेन्तमापदुद्धारणं तथा ॥ २०० ॥
कुरुद्वयं ततः पश्चाद्वटुकं ङेन्तमुच्चरेत् ॥
शक्तिरुद्धो ध्रुवादिश्च द्वाविंशत्यक्षरो मनुः ॥ २०१ ॥
द्विचतुःसप्तवेदाब्धिचन्द्रार्णैरङ्गकं मनोः ॥
बालं स्फटिकसङ्काशं तल्लोललसिताननम् ॥ २०२ ॥
दिव्याकल्पैः प्रदीप्ताङ्गं त्र्यक्षं दण्डत्रिशूलिनम् ॥
सुप्रसन्नं स्मरेद्भक्त्या भक्तानामभयङ्करम् ॥ २०३ ॥
वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥
तद्दशांशं प्रजुहुयान्त्तिलैर्मधुरसंयुतैः ॥ २०४ ॥
धर्मादिकल्पिते पीठे पङ्कजे चातिशोभने ॥
षट्कोणान्तस्त्रिकोणस्थव्योमपङ्कजसंयुते ॥ २०५ ॥
बटुकं पूजयेद्देवं साङ्गावरणकं क्रमात् ॥
शत्रुपक्षस्य रुधिरं पिशिन्त च दिनेदिने ॥
भक्षयस्व गणैः सार्द्धं सारमेयसमन्वितः ॥ २०६ ॥
बलिमन्त्रोऽयमाख्यातः शत्रुनाम्ना विदर्भितः ॥
अनेन बलिना हृष्टो बटुकः परसैन्यकम् ॥ २०७ ॥
छित्वा गणेभ्यो विभजेदामिषं क्रुद्धमानसः ॥
अङ्कशो वह्निशिखरो लान्तदान्त इतीरितः ॥ २०८ ॥
फडन्तश्चण्डमन्त्रोऽयं त्रिवर्णात्मा समीरितः ॥
अस्य त्रितो मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् ॥ २०९ ॥
चण्डेशो देवता प्रोक्ता वक्ष्यतेंऽगप्रकल्पनम् ॥
हृदयं दीप्तफट् प्रोक्तं ज्वलफट् शिर ईरितम् ॥ २१० ॥
शिखाज्वालिनि फट् प्रोक्ता वहफट् कवचं मतम् ॥
हलफट् नेत्रमाख्यातं सर्वज्वानिनिफट् परम् ॥ २११ ॥
विन्यस्यैवं षडङ्गानि ततो देवं विचिन्तयेत् ॥
चण्डेश्वरं रक्ततनुन्त्र्यक्षं रक्ताम्बरावृतम् ॥ २१२ ॥
दधतं च त्रिशूलाक्षमालाटं ककमण्डलून् ॥
वर्णलक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ॥ २१३ ॥
मधुरत्रयसंयुक्तैर्विशुद्धैस्तिलतण्डुलैः ॥
पञ्चाक्षरोदिते पीठे मूर्तिं मूलेन कल्पयेत् ॥ २१४ ॥
कूर्मेशो बिन्दुसंयुक्तस्ततश्चण्डेश्वराय च ॥
हृदयं मनुराख्यातश्चण्डेशस्य प्रपूजने ॥ २१५ ॥
अङ्गैर्मातृभिराशेशैर्वज्राद्यैरावृतिर्भवेत् ॥
शैवमन्त्रेषु निष्णातश्चण्डेश्वरमनुं जपेत् ॥ २१६ ॥
सर्वान्कामानवाप्नोति परत्रेह च नन्दति ॥
श्रृणु नारद वक्ष्यामि दिव्यं माहेश्वरं स्तवम् ॥ २१७ ॥
यस्य पाठेन पूजायां सिद्ध्यन्ति मनवोऽखिलाः ॥ २१८ ॥
धराम्ब्वग्निमरुव्द्योममखेशेन्द्वर्कमूर्तये ॥
सर्वभूतान्तरस्थाय शङ्कराय नमोनमः ॥ २१९ ॥
श्रुत्यन्तकृतवासाय श्रुतये श्रुतिजन्मने ॥
अतीन्द्रियाय महसे शाश्वताय नमोनमः ॥ २२० ॥
स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शम्भवे ॥
भवाय भवसम्भूतदुःखहन्त्रे नमोनमः ॥ २२१ ॥
तर्कमार्गातिदूराय तपसां फलदायिने ॥
चतुर्वर्गवदान्याय सर्वज्ञाय नमोनमः ॥ २२२ ॥
आदिमध्यान्तशून्याय निरस्ताशेषभीतये ॥
योगिध्येयाय महते निर्गुणाय नमोनमः ॥ २२३ ॥
विश्वात्मने विविक्ताय विलसच्चन्द्रमौलये ॥
कन्दर्प्पदर्प्पनाशाय कालहन्त्रे नमोनमः ॥ २२४ ॥
विषाशनाय विहरद्वृषस्कन्धमुपेयुषे ॥
सरिद्दामसमाबद्धकपदार्य नमोनमः ॥ २२५ ॥
शुद्धाय शुद्धभावा शुद्धानामन्तरात्मने ॥
पुरान्तकाय पूर्णाय पुण्यनाम्नो नमोनमः ॥ २२६ ॥
भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने ॥
विवाससे निवासाय विश्वेषां पतये नमः ॥ २२७ ॥
त्रिमूर्तिमूलभूताय त्रिनेत्राय त्रिशूलिने ॥
त्रिधाम्ने धामरूपाय जन्मदाय नमोनमः ॥ २२८ ॥
देवासुरशिरोरत्नकिरीटारुणिताङ्घ्रये ॥
कान्ताय निजकान्तायै दत्तार्द्धाय नमोनमः ॥ २२९ ॥
एतत्स्तोत्रं महेशस्य प्रोक्तं सर्वाघनाशनम् ॥
शिवसान्निध्यदं विप्र सर्पतन्त्रप्रकाशकम् ॥ २३० ॥
एतत्ते सुमहत्तन्त्रें सर्वदेवप्रकाशकम् ॥
लोकाभिलाषसम्पूर्तिक्रियासाधनसङ्गतम् ॥ २३१ ॥
ये तु सामान्यतः प्रोक्तास्तन्त्रेऽस्मिन्मनवो द्विज ॥
ते तु लोकोपकाराय ज्ञातव्याः सिद्धिदायकाः ॥ २३२ ॥
विशेषतो वैष्णवा ये मन्त्राः सर्वोत्तमोत्तमाः ॥
त एव साधनीयाः स्युश्चतुर्वर्गफलाप्तये ॥ २३३ ॥
राममन्त्राः कृष्णमन्त्राः साङ्गा रासेशिमन्त्रकाः ॥
शाक्ताः सौराश्च गाणेशाः शैवाः प्रोक्ताः शुभावहाः ॥ २३४ ॥
तेषु स्वात्मप्रकाशाय भजेन्मुक्तिफलप्रदान् ॥
एतत्ते सर्वमाख्यातं यत्त्वयाभ्यर्थितं मुने ॥
देवताराधनं भक्त्या किं भूयः श्रोतुमिच्छसि ॥ २३५ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे महेशमन्त्रकथनं नामैकनवतितमोऽध्यायः ॥ ९१ ॥
इति तृतीयः पादः ॥