०८८

सूत उवाच ॥
श्रुत्वेत्थं यजनं विप्रा मन्त्रध्यानपुरःसरम् ॥
सर्वासामवताराणां नारदो देवदर्शनः ॥ ८८-१ ॥

सर्वाद्याया जगन्मातुः श्रीराधायाः समर्चनम् ॥
अवतारकलानां हि पप्रच्छ विनयान्वितः ॥ ८८-२ ॥

नारद उवाच ॥
धन्योऽस्मिकृतकृत्योऽस्मि जातोऽहं त्वत्प्रसादतः ॥
पज्जगन्मातृमन्त्राणां वैभवं श्रुतवान्मुने ॥ ८८-३ ॥

यथा लक्ष्मीमुखानां तु अवताराः प्रकीर्तिताः ॥
तथा राधावताराणां श्रोतुमिच्छामि वैभवम् ॥ ८८-४ ॥

यत्सङ्ख्याकाश्च यद्रूपा यत्प्रभावा विदांवर ॥
राधावतारास्तान्सत्यं कीर्तयाशेषसिद्धिदान् ॥ ८८-५ ॥

एतच्छुत्वा वचस्तस्य नारदस्य विधेः सुतः ॥
सनत्कुमारः प्रोवाच ध्यात्वा राधापदाम्बुजम् ॥ ८८-६ ॥

सनत्कुमार उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥
राधावतारचरितं भजतामिष्टिसिद्धिदम् ॥ ८८-७ ॥

चन्द्रावली च ललिता द्वे सख्यौ सुप्रिये सदा ॥
मालावतीमुखाष्टानां चन्द्रावल्यधिपास्मृता ॥ ८८-८ ॥

कलावतीमुखाष्टानामीश्वरी ललिता मता ॥
राधाचरणपूजायामुक्ता मालावतीमुखाः ॥ ८८-९ ॥

ललिताधीश्वरीणां तु नामानि श्रृणु साम्प्रतम् ॥
कलावती मधुमती विशाखा श्यामलाभिधा ॥ ८८-१० ॥

शैब्या वृन्दा श्रीधराख्या सर्वास्तुत्तुल्यविग्रहाः ॥
सुशीलाप्रमुखा श्चान्याः सख्यो द्वात्रिंशदीरिताः ॥ ८८-११ ॥

ताः श्रृणुष्व महाभाग नामतः प्रवदामि ते ॥
सुशीलां शशिलेखा च यमुना माधवी रतिः ॥ ८८-१२ ॥

कदम्बमाला कुन्ती च जाह्नवी च स्वयम्प्रभा ॥
चन्द्रानना पद्ममुखी सावित्री च सुधामुखी ॥ ८८-१३ ॥

शुभा पद्मा पारिजाता गौरिणी सर्वमङ्गला ॥
कालिका कमला दुर्गा विरजा भारती सुरा ॥ ८८-१४ ॥

गङ्गा मधुमती चैव सुन्दरी चन्दना सती ॥
अपर्णा मनसानन्दा द्वात्रिंशद्राधिकाप्रियाः ॥ ८८-१५ ॥

कदाचिद्छलिला देवी पुंरूपा कृष्णविग्रहा ॥
ससर्ज षोडशकलास्ताः सर्वास्तत्समप्रभाः ॥ ८८-१६ ॥

तासा मन्त्रं तथा ध्यानं यन्त्रार्चादिक्रमं तथा ॥
वर्णये सर्वतन्त्रेषु रहस्यं मुनिसत्तम ॥ ८८-१७ ॥

वातो मरुच्चाग्रिवह्नी धराक्ष्मे जलचारिणी ॥
विमुखं चरशुचिविभू वनस्वशक्तयः स्वराः ॥ ८८-१८ ॥

प्राणस्तेजः स्थिरा वायुर्वायुश्चापि प्रभा तथा ॥
ज्यकुमभ्रं तथा नादो दावकः पाथ इत्यथ ॥ ८८-१९ ॥

व्योमरयः शिखी गोत्रा तोयं शून्यजवीद्युतिः ॥
भूमी रसो नमो व्याप्तं दाहश्चापि रसाम्बु च ॥ ८८-२० ॥

वियत्स्पर्शश्च हृद्धंसहलाग्रासो हलात्मिकाः ॥
चन्द्रावली च ललिता हंसेला नायके मते ॥ ८८-२१ ॥

ग्रासस्थिता स्वयं राधा स्वयं शक्तिस्वरूपिणी ॥
शेषास्तु षोडशकला द्वात्रिंशत्तत्कलाः स्मृताः ॥ ८८-२२ ॥

वाङ्मयं निखिलं व्याप्तमाभिरेव मुनीश्वर ॥
ललिताप्रमुखाणां तु षोडशीत्वमुपागता ॥ ८८-२३ ॥

श्रीराधा सुन्दरी देवी तान्त्रिकैः परिकीर्त्यते ॥
कुरुकुल्ला च वाराही चन्द्रालिललिते उभे ॥ ८८-२४ ॥

सम्भूते मन्त्रवर्गं तेऽभिधास्येऽहं यथातथम् ॥
हृत्प्राणेलाहंसदावह्निस्वैर्ललितेरिता ॥ ८८-२५ ॥

त्रिविधा हंसभेदेव श्रृणु तां च यथाक्रमम् ॥
हंसाद्ययाऽद्या मध्या स्यादादिमध्यस्थहंसया ॥ ८८-२६ ॥

तृतीया प्रकृतिः सैव तुर्या तैरन्त्यमायया ॥
आसु तुर्याभवन्मुक्त्यै तिस्रोऽन्याः स्युश्चसम्पदे ॥ ८८-२७ ॥

इति त्रिपुरसुन्दर्या विद्या सरुमतसमीरिता ॥
दाहभूमीरसाक्ष्मास्वैर्वशिनीबीजमीरितम् ॥ ८८-२८ ॥

प्राणो रसाशक्तियुतः कामेश्वर्यक्षरं महत् ॥
शून्यमम्बुरसावह्निस्वयोगान्मोहनीमनुः ॥ ८८-२९ ॥

व्याप्तं रसाक्ष्मास्वयुतं विमलाबीजमीरितम् ॥
ज्यानभोदाहवह्निस्वयोगैः स्यादरुणामनुः ॥ ८८-३० ॥

जयिन्यास्तु समुद्दिष्टः सर्वत्र जयदायकः ॥
कं नभोदाहसहितं व्याप्तक्ष्मास्वयुतं मनुः ॥ ८८-३१ ॥

सर्वेश्वर्याः समाख्यातः सर्वसिद्धिकरः परः ॥
ग्रासो नभोदाहवह्निस्वैर्युक्तः कौलिनीमनुः ॥ ८८-३२ ॥

एतैर्मनुभिरष्टाभिः शक्तिभिर्वर्गसंयुक्तैः ॥
वाग्देवतान्तैर्न्यासः स्याद्येन देव्यात्मको भवेत् ॥ ८८-३३ ॥

रन्ध्रे भाले तथाज्ञायां गले हृदि तथा न्यसेत् ॥
नाभावाधारके पादद्वये मूलाग्रकावधि ॥ ८८-३४ ॥

षड्दीर्घाढ्येन बीजेन कुर्याश्चैव षडङ्गकम् ॥
लोहितां ललितां बाणचापपाशसृणीः करैः ॥ ८८-३५ ॥

दधानां कामराजाङ्के यन्त्रीतां मुदुतां स्मरेत् ॥
मध्यस्थदेवी त्वेकैव षोडशाकारतः स्थाता ॥ ८८-३६ ॥

यतस्तस्मात्तनौ तस्यास्त्वन्याः पञ्चदशार्चयेत् ॥
ऋषिः शिवश्छन्द उक्ता देवता ललितादिकाः ॥ ८८-३७ ॥

सर्वासामपि नित्यानामावृतीर्नामसञ्चये ॥
पटले तु प्रयोगांश्च वक्ष्याम्यग्रे सविस्तरम् ॥ ८८-३८ ॥

अथ षोडशनित्यासु द्वितीया या समीरिता ॥
कामेश्वरीति तां सर्वकामदां श्रृणु नारद ॥ ८८-३९ ॥

शुचिः स्वेन युतस्त्वाद्यो ललिता स्याद्द्वितीयकः ॥
शून्यमग्नियुतं पश्चाद्रयोव्याप्तेन संयुतम् ॥ ८८-४० ॥

प्राणो रसाग्निसहितः शून्ययुग्मं चरान्वितम् ॥
नभोगोत्रा पुनश्चैषां दाहेन समयोजिता ॥ ८८-४१ ॥

अम्बु स्याच्चरसंयुक्तं नवशक्तियुतं च हृत् ॥
एषा कामेश्वरी नित्या कामदैकादशाक्षरी ॥ ८८-४२ ॥

मूलविद्याक्षरैरेव कुर्यादङ्गानि षट् क्रमात् ॥
एकेन हृदयं शीर्षं तावताथो द्वयं द्वयात् ॥ ८८-४३ ॥

चतुर्भिर्नयनं तद्वदस्त्रमेकेन कीर्तितम् ॥
दृक्श्रोत्रनासाद्वितये जिह्वाहृन्नाभिगुह्यके ॥ ८८-४४ ॥

व्यापकत्वेन सर्वाङ्गे मूर्द्धादिप्रपदावधि ॥
न्यसेद्विद्याक्षराण्येषु स्थानेषु तदनन्तरम् ॥ ८८-४५ ॥

समस्तेन व्यापकं तु कुर्यादुक्तक्रमेण तु ॥
अथ ध्यानं प्रवक्ष्यामि नित्यपूजासु चोदितम् ॥ ८८-४६ ॥

येन देवी सुप्रसन्ना ददातीष्टमयत्नतः ॥
बालार्ककोटिसङ्काशां माणिक्यमुकुटोज्ज्वलाम् ॥ ८८-४७ ॥

हारग्रैवेयकाञ्चीभिरूर्मिकानूपुरादिभिः ॥
मण्डितां रक्तवसनां रत्नाभरणशोभिताम् ॥ ८८-४८ ॥

षड्भुजां त्रीक्षणामिन्दुकलाकलितमौलिकाम् ॥
पञ्चाष्टषोडशद्वन्द्वषट्कोणचतुरस्रगाम् ॥ ८८-४९ ॥

मन्दस्मितलसद्वक्त्रां दयामन्थरवीक्षणाम् ॥
पाशाङ्कुशौ च पुण्ड्रेक्षुचापं पुष्पशिलीमुखम् ॥ ८८-५० ॥

रत्नपात्रं सीधुपूर्णं वरदं बिभ्रतीं करैः ॥
ततः प्रयोगान्कुर्वीत सिद्धे मत्रे तु साधकः ॥ ८८-५१ ॥

तृतीयामथ वक्ष्यामि नाम्ना तु भगमालिनी ॥
कामेश्वर्यादिरादिः स्याद्रसश्चापस्थिरारसः ॥ ८८-५२ ॥

धरायुक्सचरा पश्चात्स्थिरा पश्चाद्रसः स्मृतः ॥
स्थिराशून्येऽग्निसंयुक्ते रसः स्यात्तदनन्तरम् ॥ ८८-५३ ॥

स्थिरा भूसहिता गोत्रा सदाहोऽग्निरसः स्थिरा ॥
नभश्च मरुता युक्तं रसवर्णसमन्वितम् ॥ ८८-५४ ॥

ततो रसः स्थिरा पश्चान्मरुता सह योजिता ॥
अम्बहंसचरोऽथिक्तो रसोऽथ स्यात्स्थिरा पुनः ॥ ८८-५५ ॥

स्थिराधरान्विता हंसो व्याप्तेन च चरेण च ॥
रसः स्थिरा ततो व्याप्तं भूयुतं शून्यमग्नियुक् ॥ ८८-५६ ॥

रसः स्थिरा ततः साग्निशून्यं तवियुतो मरुत् ॥
रयः शून्यं चाग्नियुतं हृदाहंसाच्च तत्परम् ॥ ८८-५७ ॥

रसः स्थिराम्बु च वियत्स्वयुतं प्राण एव च ॥
दाहोऽग्रियुग्रसस्तस्मास्थिराक्ष्मा दाहसंयुता ॥
सचरः स्याज्जवीपूर्वविद्या तर्तीयतः क्रमात् ॥ ८८-५८ ॥

चतुष्टयमथार्णानां रसस्तदनु च स्थिरा ॥
हृदम्बुयुक् क्ष्मया दाहः सचरः स्याज्जवी च हृत् ॥ ८८-५९ ॥

दाहोंऽबुमरुता युक्तो व्योम्नि साग्निरसस्तुतः ॥
स्थिरा तु मरुता युक्ता शून्यं साग्निनभश्चरौ ॥ ८८-६० ॥

हंसो व्याप्तमरुद्युक्तः शून्यं व्याप्तमतोंऽबु च ॥
दाहो गोत्राचरयुता तथा दाहस्तथा रयः ॥ ८८-६१ ॥

हृद्धरासहितं दाहरयौ चरसमन्वितौ ॥
रसः स्थिरा ततः प्राणो रसाग्निसहितो भवेत् ॥ ८८-६२ ॥

शून्ययुग्मं चरयुतं ततः पूर्वमतः परम् ॥
शून्ययुग्मं च गोत्रा स्याद्वाहयुक्ताम्बुना चरः ॥ ८८-६३ ॥

प्राणो रसा चरयुतो गोत्रव्यसिमतः परम् ॥
गोत्रादाहमरुद्युक्ता त्वम्बुन्यासमतो भवेत् ॥ ८८-६४ ॥

युक्तोनाम्भश्च भूयुक्तं वाश्चरेण समन्वितम् ॥
ग्रासो धरायुतः पश्चाद्रसः शक्त्या समन्वितः ॥ ८८-६५ ॥

ग्रासो भूसहितो विप्र रसो व्याप्तं ततश्च हृत् ॥
दाहोनाम्बु च हृत्पश्चाद्रयेंऽबुमरुदन्वितः ॥ ८८-६६ ॥

शून्यं च केवलं चैव रसश्च सचरस्थिरा ॥
वियदम्बुयुतं दाहस्त्वग्नियुक्सयुतः शुचिः ॥ ८८-६७ ॥

भूमी रसाक्ष्मास्वयुता पञ्चैकान्तरिताः स्थिराः ॥
तदन्तरित बीजानि स्वसंयुक्तानि पञ्च वै ॥ ८८-६८ ॥

तानि क्रमाज्ज्यासचरो रसो भूश्च नभोयुता ॥
हंसश्चरयुतो द्विः स्यात्ततः प्राणो रसाग्नियुक् ॥ ८८-६९ ॥

शून्ययुग्मं चरयुतं हृद्दाहोम्बुमरुद्युतः ॥
व्योमाग्निसहितं पश्चाद्रसश्च मरुता स्थिरा ॥ ८८-७० ॥

शून्यं साग्निनभश्चैव चरेण सहितं तथा ॥
अम्बु पश्चाद्वियत्तस्मान्नभश्च मरुदन्वितम् ॥ ८८-७१ ॥

शून्यं व्याप्तं च दद्युक्तं रयदाहस्ववह्निभिः ॥
हंसः सदाहोम्बगुरसा चरस्वैः संयुतो भवेत् ॥ ८८-७२ ॥

हंसः सदाहवह्निस्वैर्युक्तमन्त्यमुदीरितम् ॥
सप्तत्रिंशच्छतार्णैः स्यान्नित्या सौभागमालिनी ॥ ८८-७३ ॥

अङ्गानि मन्त्रवर्णैः स्युराद्येन हृदुदीरितम् ॥
ततश्चतृर्भिः शीर्षं स्याच्छिखा त्रिभिरुदीरिता ॥ ८८-७४ ॥

गुणवेदाक्षरैः शेषाण्यङ्गानि षडिति क्रमात् ॥
अरुणामरुणाकल्पां सुन्दरीं सुस्मिताननाम् ॥ ८८-७५ ॥

त्रिनेत्रां बाहुभिः षड्भिरुपेतां कमलासनाम् ॥
कह्लारपाशपुण्ड्रेक्षुकोदण्डान्वामबाहुभिः ॥ ८८-७६ ॥

दधानां दक्षिणैः पद्ममङ्कुशं पुष्पसायकम् ॥
तथाविधाभिः परितो युतां शक्तिगणैः स्तुतैः ॥ ८८-७७ ॥

अक्षरोक्ताभिरन्याभिः स्मरोन्मादमदात्मभिः ॥
एषा तृतीया कथिता वनिता जनमोहिनी ॥ ८८-७८ ॥

चतुर्थीं श्रृणु विप्रेन्द्र नित्यक्लिन्नासमाह्वयाम् ॥
हंसस्तु दाहवह्निस्वैर्युक्तः प्रथममुच्यते ॥ ८८-७९ ॥

कामेश्वर्यास्तृतीयादिवर्णानामष्टकं भवेत् ॥
हृदम्बुमरुता युक्तः स एवैकादशाक्षरः ॥ ८८-८० ॥

एकादशाक्षरी चेयं विद्यार्णैरङ्गकल्पनम् ॥
आद्येन मन्त्रवर्णेन हृदयं समुदीरितम् ॥ ८८-८१ ॥

द्वाभ्यां द्वाभ्यां तु शेषाणि अङ्गानि परिकल्पयेत् ॥
न्यसेदङ्गुष्ठमूलादिकनिष्ठाग्रान्तमूर्द्ध्वगम् ॥ ८८-८२ ॥

शेषं तद्वलये न्यस्य हृद्दृक्छ्रोत्रे नसोर्द्वयोः ॥
त्वचि ध्वजे च पायौ च पादयो रर्णकान्न्यसेत् ॥ ८८-८३ ॥

अरुणामरुणाकल्पामरुणांशुकधारिणीम् ॥
अरुणस्रग्विलेपां तां चारुस्मेरमुखाम्बुजाम् ॥ ८८-८४ ॥

नेत्रत्रयोल्लसद्वक्त्रां भालेघर्माम्बुमौक्तिके ॥
विराजमानां मुकुटलसदर्द्धेन्दुशेखराम् ॥ ८८-८५ ॥

चतुर्भिर्बाहुभिः पाशमङ्कुशं पानपात्रकम् ॥
अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम् ॥ ८८-८६ ॥

ध्यात्वैवं पूजयेन्नित्यक्किन्नां नित्यां स्वशक्तिभिः ॥
पुण्या चतुर्थी गदिता नित्याक्किन्नाह्वया मुने ॥ ८८-८७ ॥

वनिता नवनीतस्य दाविकाग्निर्जयादिना ॥
भूः स्वेन युक्ता प्रथमं प्राणो दाहेन तद्युतः ॥ ८८-८८ ॥

रसो दाहेन तद्युक्तं प्रभादाहेन तद्युता ॥
ज्या च दाहेन तद्युक्ता नित्याक्लिन्नान्तगद्वयम् ॥ ८८-८९ ॥

एषा नवाक्षरी नित्या भेरुण्डा सर्वसिद्धिदा ॥
प्रणवं ठद्वयं त्यक्त्वा मध्यस्थैः षड्भिरक्षरैः ॥ ८८-९० ॥

षडङ्गानि प्रकुर्वीत वर्णन्यासं ततः परम् ॥
रन्ध्राद्यामुखकण्ठेषु हन्नाभ्यां धारयद्वयम् ॥ ८८-९१ ॥

न्यसेन्मन्त्रार्णनवकं मातृकान्यासपूर्वकम् ॥
अथ ध्यानं प्रवक्ष्यामि देव्याः सर्वार्थसिद्धिदम् ॥ ८८-९२ ॥

तप्तकाञ्चनसङ्काशदेहां नेत्रत्रयान्विताम् ॥
चारुस्मितां चितमुखीं दिव्यालङ्कारभूषिताम् ॥ ८८-९३ ॥

ताटङ्कहारकेयूररत्नस्तबकमण्डिताम् ॥
रसनानूपुरोर्म्यादिभूषणैरतिसुन्दरीम् ॥ ८८-९४ ॥

पाशाङ्कुशौ चर्मखङ्गौ गदावह्निधनुःशरान् ॥
करैर्दधानामासीना पूजायां मत्पसस्थिताम् ॥ ८८-९५ ॥

शक्तीश्च तत्समाकारतेजोहेतिभिरन्विताः ॥
पूजयेत्तद्वदभितः स्मितास्या विजयादिकाः ॥ ८८-९६ ॥

पञ्चमीय समाख्याता भेरुण्डाख्या मुनीश्वर ॥
यस्याः स्मरणतो नश्येद्गरलं त्रिविधं क्षणात् ॥ ८८-९७ ॥

या तु षष्ठी द्विजश्रेष्ठ सा नित्या वह्निवासिनी ॥
तद्विधानं श्रृणुष्वाद्य साधकानां सुसिद्धिदम् ॥ ८८-९८ ॥

भेरुण्डाद्यमिहाद्यं स्यान्नित्यक्लिन्नाद्यनन्तरम् ॥
ततोंऽबुशून्ये हंसाग्निह्युत्तमम्बुमरुद्युतम् ॥ ८८-९९ ॥

हृदग्निना युतं शून्यं व्याप्तेन शुचिना च युक् ॥
शून्यं नभः शक्तियुतं नवार्णेयमुदाहृता ॥ ८८-१०० ॥

विद्या द्वितीयबीजेन स्वरान्दीर्घान्नियोजयेत् ॥
मायान्तान्षड्भिरेवां गान्याचरेत्सकराङ्गयोः ॥ ८८-१०१ ॥

नवाक्षराणि विद्याया नवरन्ध्रेषु विन्यसेत् ॥
व्यापकं च समस्तेन कुर्यादेवात्मसिद्धये ॥ ८८-१०२ ॥

सर्वास्वपि च विद्यासु व्यापकन्यासमाचरेत् ॥
तप्तकाञ्चनसङ्काशां नवयौवनसुन्दरीम् ॥ ८८-१०३ ॥

चारुस्मेरमुखाम्भोजां विलसन्नयनत्रयाम् ॥
अष्टाभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम् ॥ ८८-१०४ ॥

पद्मरागकिरीटांशुसम्भेदारुणिताम्बराम् ॥
पीतकौशेयवसनां रत्नमञ्जीरमेखलाम् ॥ ८८-१०५ ॥

रक्तमौक्तिकसकम्भिन्नस्तबकाभरणोज्ज्वलाम् ॥
रत्नाब्जकम्बुपुण्ड्रेक्षुचापपूर्णेन्दुमण्डलम् ॥ ८८-१०६ ॥

दधानां बाहुभिर्वामैः कह्लारं हेमश्रृङ्गकम् ॥
पुष्पेषुं मातुलिङ्गं च दधानां दक्षिणैः करैः ॥ ८८-१०७ ॥

स्वस्वनामाभिरभितः शक्तिभिः परिवारिताम् ॥
एवं ध्यात्वार्चयेद्वह्निवासिनीं वह्निविग्रहम् ॥ ८८-१०८ ॥

यस्याः स्मरपतो वश्यं जायते भुवनत्रयम् ॥
अथ या सप्तमी नित्या महावज्रेश्वरी मुने ॥ ८८-१०९ ॥

तस्या विद्यां प्रवक्ष्यामि साधकानां सुसिद्धिदाम् ॥
द्वितीयं वह्विवासिन्या नित्यक्लिन्ना चतुर्थकम् ॥ ८८-११० ॥

पञ्चमं भगमालाद्यं भेरुण्डाया द्वितीयकम् ॥
नित्यक्लिन्नाद्वितीयं च तृतीयं षष्ठसप्तमौ ॥ ८८-१११ ॥

अष्टमं नवमं चापि पूर्वं स्यादन्तिमं पुनः ॥
द्वयमेकैकमथ च द्वयद्वयमथ द्वयम् ॥ ८८-११२ ॥

मायया पुटितं कृत्वा कुर्यादङ्गानि षट् क्रमात् ॥
प्रत्येकं शक्तिपुटुतैर्मन्त्रार्णैर्दशभिर्न्यसेत् ॥ ८८-११३ ॥

दृक्छ्रोत्रनासावाग्वक्षोनाभिगुह्येषु च क्रमात् ॥
रक्तां रक्ताम्बरां रक्तगङ्घमालाविभूषणाम् ॥ ८८-११४ ॥

चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम् ॥
पाशाङ्कुशामिक्षुचापं दाडिमीशायकं तथा ॥ ८८-११५ ॥

दधानां बाहुभिर्नेत्रैर्दयासुप्रीतिशीतलैः ॥
पश्यन्ती साधके अस्त्रषट्कोणाब्जमहीपुरे ॥ ८८-११६ ॥

चक्रमध्ये सुखासीनां स्मेरवक्त्रसरोरुहाम् ॥
शक्तिभिः स्वस्वरूपाभिरावृतां पीतमध्यगाम् ॥ ८८-११७ ॥

सिंहासनेऽभितः प्रेङ्खत्पोतस्थाभिश्च शक्तिभिः ॥
वृतां ताभिर्विनोदानि यातायातादिभिः सदा ॥ ८८-११८ ॥

कुर्वाणामरुणाम्भोधौ चिन्तयेन्मन्त्रनायकम् ॥
एषा तु सप्तमीप्रोक्ता दूतिं चाप्यष्टमीं श्रृणु ॥ ८८-११९ ॥

वज्रेश्वर्याद्यमाद्यं स्याद्वियदग्नियुतं ततः ॥
अम्बु स्यान्मरुता युक्तं गोत्रा क्ष्मासंयुता ततः ॥ ८८-१२० ॥

रयोव्यासेन शुचिना युतः स्यात्तदनन्तरम् ॥
अत्यार्णां वह्निवासिन्या दूती नित्या समीरिताः ॥ ८८-१२१ ॥

षड्दीर्घस्वरयुक्तेन विद्यायाः स्यात्षडङ्गकम् ॥
तेनैव पुटितैरर्णैर्न्यसेच्छ्रोत्रादिपञ्चसु ॥ ८८-१२२ ॥

षष्ठकं नसि विन्यस्य व्यापकं विद्यया न्यसेत् ॥
निदाघकालमध्याह्नदिवाकरसमप्रभाम् ॥ ८८-१२३ ॥

नवरत्नकिरीटां च त्रीक्षणामरुणाम्बराम् ॥
नानाभरणसम्भिन्नदेहकान्तिविराजिताम् ॥ ८८-१२४ ॥

शुचिस्मितामष्टभुजा स्तूयमानां महर्षिभिः ॥
पाशं खेटं गदां रत्नचषकं वामबाहुभिः ॥ ८८-१२५ ॥

दक्षिणैरङ्कुशं खड्गं कट्टारं कमलं तथा ॥
दधानां साधकाभीष्टदानोद्यमसमन्विताम् ॥ ८८-१२६ ॥

ध्यात्वैवं पृनयेद्देवीं दूतीं दुर्न्नीतिनाशिनीम् ॥
इत्येषा कथिता तुभ्यं समस्तापन्निवारिणी ॥ ८८-१२७ ॥

श्रीकरी शिवतावासकारिणी सर्वसिद्धिदा ॥
अथ ते नवमीं नित्यां त्वरितां नाम नारद ॥ ८८-१२८ ॥

प्रवक्ष्यामि यशोविद्याधनारोग्यसुखप्रदाम् ॥
आद्यं तु वह्निवासिन्या दूत्यादिस्तदनन्तरम् ॥ ८८-१२९ ॥

हंसो धरा स्वयं युक्तस्तेजश्चरसमन्वितम् ॥
वायुः प्रभाचरयुता ग्रासशक्तिसमन्वितः ॥ ८८-१३० ॥

हृदार येण दाहेन वह्निस्वाष्टमं तथा ॥
हंसः क्ष्माखंयुतो ग्रासश्चरयुक्तो द्वितीयकः ॥ ८८-१३१ ॥

द्वितिर्नादयुता नित्या त्वरिता द्वादशाक्षरी ॥
विद्या चतुर्थवर्णादिसप्तभिस्त्वक्षरैस्तथा ॥ ८८-१३२ ॥

कुर्यादङ्गानि युग्मार्णैः षट्क्रमेण कराङ्गयोः ॥
शिरोललाटकण्ठेषु हृन्नाभ्याधारके तथा ॥ ८८-१३३ ॥

ऊरुयुग्मे तथा जानुद्वये जङ्घाद्वये तथा ॥
पादयुग्मे तथा वर्णान्मन्त्रजान्दश विन्यसेत् ॥ ८८-१३४ ॥

द्वितीयोपान्त्यमध्यस्थैर्मन्त्रार्णैरितरैरपि ॥
ताराद्यैः श्रृणु तद्ध्यानं सर्वसिद्धिविधायकम् ॥ ८८-१३५ ॥

श्यामवर्णशुभाकारां नवयौवनशोभिताम् ॥
द्विद्विक्रमादष्टनागैः कल्पिताभरणोज्ज्वलैः ॥ ८८-१३६ ॥

ताटङ्कमङ्गदं तद्वद्रसना नूपुरं च तैः ॥
विप्रक्षत्रियविट्शूद्रजातिभिर्भीमविग्रहैः ॥ ८८-१३७ ॥

पल्लवांशुकसंवीतां शिखिपिच्छकृतैः शुभैः ॥
वलयैर्भूषितभुजां माणिक्यमुकुटोज्ज्वलाम् ॥ ८८-१३८ ॥

बर्हिबर्हिकृतापीडां तच्छत्रां तत्पताकिनीम् ॥
गुञ्जागुणलसद्वक्षः कुचकुङ्कुममण्डलाम् ॥ ८८-१३९ ॥

त्रिनेत्रां चारुवदनां मन्दस्मितमुखाम्बुजाम् ॥
पाशाङ्कुशवराभीतिलसद्भुजचतुष्टयाम् ॥ ८८-१४० ॥

ध्यात्वैवं तोतलां देवीं पूजयेच्छक्तिभिर्वृताम् ॥
तदग्रस्था लु फट्कारी शरचापकरोज्ज्वला ॥ ८८-१४१ ॥

प्रसीदेत्फलदाने च साधकानां त्वरान्वितां ॥
एषा तु नवमी नित्या त्वरितोक्ता मुनीश्वर ॥ ८८-१४२ ॥

विध्नदुःस्वप्रशमनी सर्वाभीष्टप्रदायिनी ॥
शुचिः स्वेन युतस्त्वाद्यो रसावह्निसमन्वितः ॥ ८८-१४३ ॥

प्राणो द्वितीयः स्वयुतो वनदुच्छक्तिभिः परः ॥
इतीरिता त्र्यक्षराख्या नित्येयं कुलसुन्दरी ॥ ८८-१४४ ॥

यस्याः स्मरण मात्रेण सर्वज्ञत्वं प्रजायते ॥
त्रिभिस्तैरुदितैर्मूलवर्णैः कुर्य्यात्षडङ्गकम् ॥ ८८-१४५ ॥

आदिमध्यावसानेषु पूजाजपविधिक्रमात् ॥
प्रत्येक तैस्त्रिभिर्बीजैर्दीर्घस्वरसमन्वितैः ॥ ८८-१४६ ॥

कुर्यात्कराङ्गवक्त्राणां न्यासं प्रोक्तं यथाविधि ॥
ऊर्द्ध्वप्राग्दक्षिणोदक्च पश्चिमाधस्नाग्नभिः ॥ ८८-१४७ ॥

सुविनद्यन्तरस्थैस्तन्नदात्मसु यथाक्रमम् ॥
आधाररन्ध्रहृत्स्वेकं द्वितीयं लोचनत्रये ॥ ८८-१४८ ॥

तृतीयं श्रोत्रचिबुके चतुर्थं घ्राणतालुषु ॥
पञ्चमं चांसनाभीषु ततः पाणिपदद्वये ॥ ८८-१४९ ॥

मूलमध्याग्रतो न्यस्येन्नवधा मूलवर्णकैः ॥
लोहितां लोहिताकारशक्तिम्बृदनिषेविताम् ॥ ८८-१५० ॥

लोहितांशुकभूषास्रग्लेपनां षण्मुखाम्बुजाम् ॥
अनर्ध्यरत्नघटितमाणिक्यमुकुटोज्वलाम् ॥ ८८-१५१ ॥

रत्नस्तबकसम्भिन्नलसद्वक्षःस्थलां शुभाम् ॥
कारुण्यानन्दपरमा मरुणाम्बुजविष्टराम् ॥ ८८-१५२ ॥

भुजैर्द्वादशभिर्युक्तां सर्वेषां सर्ववाढ्मयीम् ॥
प्रवालाक्षस्रजं पद्मं कुण्डिकां रत्ननिर्मिताम् ॥ ८८-१५३ ॥

रत्नपूर्णं तु चषकं लुङ्गीं व्याख्यानमुद्रिकाम् ॥
दधानां दक्षिणैर्वामैः पुस्तकं चारुणोत्पलम् ॥ ८८-१५४ ॥

हैमीं च लेखनीं रत्नमालां कम्बुवरं भुजैः ॥
अभितः स्तूयमानां च देवगन्धर्वकिन्नरैः ॥ ८८-१५५ ॥

यक्षराक्षसदैत्यर्षिसिद्धविद्याधरादिभिः ॥
ध्यात्वैवमर्चन्नित्यां वाग्लक्ष्मीकान्तिसिद्धये ॥ ८८-१५६ ॥

सितां केवलवाक्सिद्ध्यै लक्ष्म्यै हेमप्रभामपि ॥
धूमाभां वैरिविद्विष्ट्यै मृतये निग्रहाय च ॥ ८८-१५७ ॥

नीलां च मूकीकरणे स्मरेत्तत्तदपेक्षया ॥
इत्येषा दशमी नित्याप्रोक्ता ते कुलसुन्दरी ॥ ८८-१५८ ॥

नित्यानित्यां तु दशमीं त्रिकुटां वच्मि साम्प्रतम् ॥
हंसश्च हृत्प्राणरसादाहकर्णैः समन्वितः ॥ ८८-१५९ ॥

विद्यया कुलसुन्दर्या योजितः सम्प्रदायतः ॥
नित्यानित्यत्रिवर्णेयं षड्भिः कूटाक्षरैर्युता ॥ ८८-१६० ॥

प्रतिलोमादिभी रूपैर्द्विसप्ततिभिदा मता ॥
यस्या भजनतः सिद्धो नरः स्यात्खेचरः सुखी ॥ ८८-१६१ ॥

निग्रहानुग्रहौ कर्तुं क्षमः स्याद्भुवनत्रये ॥
दीर्घस्वरसमेताभ्यां हंसहृभ्द्यां षडङ्गकम् ॥ ८८-१६२ ॥

भ्रूमध्ये कण्ठहृन्नाभिगुह्याधारेषु च क्रमात् ॥
विद्याक्षराणि क्रमशो न्यसेद्विन्दुयुतानि च ॥ ८८-१६३ ॥

व्यापकं च समस्तेन विधाय विधिना पुनः ॥
ध्यायेत्समस्तसम्पत्तिहेतोः सर्वात्मिकां शिवाम् ॥ ८८-१६४ ॥

उद्यद्भास्करबिम्बाभां माणिक्यमुकुटोज्ज्वलाम् ॥
पद्मरागकृताकल्पामरुणांशुकधारिणीम् ॥ ८८-१६५ ॥

चारुस्मितलसद्वक्त्रषट्सरोजविराजिताम् ॥
प्रतिवक्त्रं त्रिनयनां भुजैर्द्वादशभिर्युताम् ॥ ८८-१६६ ॥

पाशाक्षगुणपुण्ड्रेक्षुचापखेटत्रिशूलकान् ॥
करैर्वामैर्दधानां च अङ्कुशं पुस्तकं तथा ॥ ८८-१६७ ॥

पुष्पेषुमम्बुजं चैव नृकपालाभये तथा ॥
दधानां दक्षिणैर्हस्तैर्ध्यायेद्देवीमनन्यधीः ॥ ८८-१६८ ॥

इत्येषैकादशी प्रोक्ता द्वादशीं श्रृणु नारद ॥
त्वरितोयान्त्यमाद्यं स्याद्युतिदोहचरस्वयुक् ॥ ८८-१६९ ॥

हृञ्च दाहक्ष्मास्वयुतं वज्रेशीपञ्चमं तथा ॥
मरुत्स्वयुक्तो मध्याढ्यो दशम्याः परतः पुनः ॥ ८८-१७० ॥

भूमी रसाक्ष्मास्वयुता वज्रेशीत्यष्टमः क्रमात् ॥
षडक्षराणि त्वरिता तृतीयं तदनन्तरम् ॥ ८८-१७१ ॥

द्युतिर्दाहचरस्वेन अस्या आद्यमनन्तरम् ॥
उक्ता नीलपताकाख्या नित्या सप्तदशाक्षरी ॥ ८८-१७२ ॥

द्विद्विपक्षाक्षिषड्वर्णैर्मन्त्रोत्थैरङ्गकल्पनम् ॥
श्रोत्रादिनासायुगले वाचि कण्ठे हृदि क्रमात् ॥ ८८-१७३ ॥

नाभावाधारकेऽथापि पादसन्धिषु च क्रमात् ॥
मन्त्राक्षराणि क्रमशो न्यसेत्सप्तदशापि च ॥ ८८-१७४ ॥

व्यापकं च समस्तेन विदध्याञ्च यथाविधि ॥
इन्द्रनीलनिभां भास्वन्मणिमौलिविराजिताम् ॥ ८८-१७५ ॥

पञ्चवक्त्रां त्रिनयनामरुणांशुकधारिणीम् ॥
दशहस्तां लसन्मुक्तामण्याभरणमण्डिताम् ॥ ८८-१७६ ॥

रत्नस्तबकसम्पन्नदेहां चारुस्मिताननाम् ॥
पाशं पताकां चर्मापि शार्ङ्गचापं वरं करैः ॥ ८८-१७७ ॥

दधानां वामपार्श्वस्थैः सर्वाभरणभूषितैः ॥
अङ्कुशे च तथा शर्क्ति खङ्गं बाणं तथाभयम् ॥ ८८-१७८ ॥

दधानां दक्षिणैर्हस्तैरासीनां पद्मविष्टरे ॥
स्वाकारवर्णवेषास्यपाण्यायुधविभूषणैः ॥ ८८-१७९ ॥

शक्तिवृन्दैर्वृतां ध्यायेद्देवीं नित्यार्चनक्रमे ॥
त्रिषट्कोणयुतं पद्ममष्टपत्रं ततो बहिः ॥ ८८-१८० ॥

अष्टास्रं भूपुरद्वन्द्वावृतं तत्पुरयुग्मकम् ॥
चतुर्द्वारयुतं दिक्षु शाखाभिश्च समन्वितम् ॥ ८८-१८१ ॥

कृत्वा नामावृतां शक्तिं गणैस्तत्रार्चयेच्छिवाम् ॥
एषा ते द्वादशी नित्या प्रोक्ता नीलपताकिनी ॥ ८८-१८२ ॥

समरे विजयं खङ्गपादुकाञ्जनसिद्धिदा ॥
वेतालयक्षिणीचेटपिशाचादिप्रसाधिनी ॥ ८८-१८३ ॥

निधानबिलसिद्धान्नसाधिनी कामचोदिता ॥
अथ त्रयोदेशीं नित्यां वक्ष्यामि श्रृणु नारद ॥ ८८-१८४ ॥

रसो नभस्तथा दाहो व्याप्तक्ष्मावनपूर्विका ॥
खेन युक्ता भवेन्नित्या विजयैकाक्षरा मुने ॥ ८८-१८५ ॥

विद्याया व्यञ्जनैर्दीर्घस्वरयुक्तैश्चतुष्टयम् ॥
शेषाभ्यां च द्वयं कुर्यात्षडङ्गानि कराङ्गयोः ॥ ८८-१८६ ॥

ज्ञानेन्द्रियेषु श्रोत्रादिष्वथ चित्ते च विन्यसेत् ॥
अक्षराणि क्रमाद्बिन्दुयुतान्यन्यत्तु पूर्ववत् ॥ ८८-१८७ ॥

पञ्च वक्त्रां दशभुजां प्रतिवक्त्रं त्रिलोचनाम् ॥
भास्वन्मुकुटविन्यासचन्द्रलेखाविराजिताम् ॥ ८८-१८८ ॥

सर्वाभरणसंयुक्तां पीताम्बरसमुज्ज्वलाम् ॥
उद्यद्भास्वद्बिम्बतुल्यदेहकान्तिं शुचिस्मिताम् ॥ ८८-१८९ ॥

शङ्खं पाशं खेटचापौ कह्लारं वामबाहुभिः ॥
चक्रं तथाङ्कुशं खङ्गं सायकं मातुलुं गकम् ॥ ८८-१९० ॥

दधानां दक्षिणैर्हस्तैः प्रयोगे भीमदर्शनाम् ॥
उपासनेति सौम्यां च सिंहोपरि कृतासनाम् ॥ ८८-१९१ ॥

व्याघ्रारूढाभिरभितः शक्तिभिः परिवारिताम् ॥
समरे पूजनेऽन्येषु प्रयोगेषु सुखासनाम् ॥ ८८-१९२ ॥

शक्तयश्चापि पूजायां सुखासनसमन्विताः ॥
सर्वा देव्याः समाकारमुखपाण्यायुधा अपि ॥ ८८-१९३ ॥

चतुरस्रद्वयं कृत्वा चतुर्द्वारोपशोभितम् ॥
शाखष्टकसमोपेतं तत्र प्राग्वत्समर्चयेत् ॥ ८८-१९४ ॥

तदन्तर्वृतयुग्मान्तरष्टकोणं विधाय तु ॥
तदन्तश्च तथा पद्मं षोडशच्छदसंयुतम् ॥ ८८-१९५ ॥

तथैवाष्टच्छद पद्मं विधायावाह्य तत्र ताम् ॥
तत्तच्छक्त्या वृतां सम्यगुपचारैस्तथार्चयेत् ॥ ८८-१९६ ॥

एषा त्रiयोदशी प्रोक्ता वादेयुद्धे जयप्रदा ॥
चतुर्दशीं प्रवक्ष्येऽथ नित्यां वै सर्वमङ्गलाम् ॥ ८८-१९७ ॥

हृदम्बुवनयुक्तं खं नित्या स्यात्सर्वमङ्गला ॥ ८८-१९८ ॥

एकाक्षर्यनया सिद्धो जायते खेचरः क्षणात् ॥
षड्दीर्घाढ्यां मूलविद्यां षडङ्गेषु प्रविन्यसेत् ॥ ८८-१९९ ॥

तां नित्यां जातरूपाभां मुक्तामाणिक्यभूषणाम् ॥
माणिक्यमुकुटां नेत्रद्वयप्रेङ्खद्दयापराम् ॥ ८८-२०० ॥

द्विभुजां शासनां पद्मे त्वष्टषोडशतद्द्वयैः ॥
पत्रैरुपेते सचतुद्वारम्भूसद्मयुग्मके ॥ ८८-२०१ ॥

मातुलुङ्गफलं दक्षे दधानां करपङ्कजे ॥
वामेन निजभक्तानां प्रयच्छन्तीं धनादिकम् ॥ ८८-२०२ ॥

स्वसमानाभिरभितः शक्तिभिः परिवारिताम् ॥
षट्सप्तातीभिरन्याभिरप्सरोत्थाभिरन्विताम् ॥ ८८-२०३ ॥

प्रयोगेष्वन्यदा नित्यं सपर्यासूक्तशक्तिकाम् ॥
एषा चतुर्दशी प्रोक्ता तथा पञ्चदशीं श्रृणु ॥ ८८-२०४ ॥

भूः शून्यं नभसा भूश्च रसश्चाथ स्थिराम्बु च ॥
रयोग्निना युतीज्याम्बुमरुद्युक्तारसा मरुत् ॥ ८८-२०५ ॥

नभश्च मरुता युक्तं रसा शून्येऽपि संयुते ॥
गोत्रा चरेण सहिता अम्बुपूर्वाक्षरस्तथा ॥ ८८-२०६ ॥

अम्ब्वग्नी हृञ्च दाहाम्बुरसक्ष्मारयहृत्स्वयुक् ॥
हंसश्च मरुता दाहः प्राणश्च मरुता युतः ॥ ८८-२०७ ॥

दाहः साग्निप्राणचरौ ज्यामरुत्सहितारयः ॥
चरेणाम्बु च गोत्राहृत्साग्निर्ज्याम्बुरसा स्वयुक् ॥ ८८-२०८ ॥

रयः साग्निर्ज्याम्बुरसा पुनरेते जवी ततः ॥
दाहेनानेन ते द्विः स्याद्भस्वो दाहमरुत्स्वयुक् ॥ ८८-२०९ ॥

हंसः सदाहवह्निस्वो दाहक्ष्मास्वयुतश्च सः ॥
सप्तदाहास्ततोऽस्याः स्युरष्टमाद्यास्तु पञ्च ते ॥ ८८-२१० ॥

उपान्त्याधः स्थितं नीलपताकाया अनन्तरम् ॥
त्वरिता त्वं च भेरुण्डाष्टमं च नवनं तथा ॥ ८८-२११ ॥

सा ज्वालामालिनीनित्या त्रिषष्ट्यर्णा समीरिता ॥
एकद्वयचतुःपञ्चचतुष्टयदशाक्षरैः ॥ ८८-२१२ ॥

कुर्यादङ्गानि मूलार्णैरादितः षट्कराङ्गयोः ॥
शेषैस्तु व्यापकं कुर्यात्ततो ध्यायेत्सनातनीम् ॥ ८८-२१३ ॥

ज्वलज्ज्वलनसङ्काशां माणिक्यमुकुटोज्ज्वलाम् ॥
षड्वक्त्रां द्वादशभुजां सर्वाभरणभूषिताम् ॥ ८८-२१४ ॥

पाशाङ्कुशौ खङ्गखेटौ चापबाणौ गदादरौ ॥
शूलवह्नी वराभीती दधानां कपपङ्कजैः ॥ ८८-२१५ ॥

स्वप्रमाणाभिरभितः शक्तिभिः परिवारिताम् ॥
चारुस्मितलसद्वक्त्र सरोजां त्रीक्षणान्वताम् ॥ ८८-२१६ ॥

ध्यात्वैवमुपचारैस्तैरर्चयेत्तां तु नित्यशः ॥
चतुरस्रद्वयं कृत्वा चतुर्द्वारसमन्वितम् ॥ ८८-२१७ ॥

सशाखमष्टपत्राब्जमन्तरा त्र्यस्रकं ततः ॥
षट्कोणं मध्यतस्त्र्यस्रं विधायात्र शिवां जयेत् ॥ ८८-२१८ ॥

एषा पञ्चदशी प्रोक्ता षोडशीं श्रृणु नारद ॥
वायुप्रणवतत्त्वैस्तु चित्रास्यादक्षरद्वया ॥ ८८-२१९ ॥

या सिद्धा धनधान्यात्मनिधिलाभाय कल्प्यते ॥
विद्याद्यवायुना कुर्याद्दीर्घस्वरयुजा क्रमात् ॥ ८८-२२० ॥

षडङ्गानि यथापूर्वं मातृकां विद्यया न्यसेत् ॥
उद्यदादित्यबिम्बाभां नवरत्नविभूषणाम् ॥ ८८-२२१ ॥

नवरत्नकिरीटां च चित्रपट्टांशुकोज्ज्वलाम् ॥
चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीम् ॥ ८८-२२२ ॥

सर्वानन्दमयीं नित्यां समस्तेप्सितदायिनीम् ॥
चतुर्भुजेषु वै पाशमङ्कुशं वरदाभये ॥ ८८-२२३ ॥

दधानां मङ्गलां पद्मकर्णिकायोनिमध्यगाम् ॥
तच्छक्तिभिश्च तच्चक्रे तथैवार्चनमीरितम् ॥ ८८-२२४ ॥

प्राणदाहौ धरायुक्तो पुनराद्यं रसे मरुत् ॥
व्यासं मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम् ॥ ८८-२२५ ॥

अस्या आद्यां रसायुग्मं चरणेन प्रयोजितम् ॥
दाहेन वह्निशक्तिभ्यां युतो हंसस्ततः परम् ॥ ८८-२२६ ॥

नभोदिर्हृत्सदाहाम्बुज्या शून्यं स्वेन संयुतम् ॥
अम्बु पश्चाद्विषयुक्तं मरुता तु नभोयुतम् ॥ ८८-२२७ ॥

शून्यं व्याप्तं भुवा हंसः पूर्वान्त्यौ स्यान्मनुत्रयम् ॥
अस्याः षष्ठादिपञ्चार्णा दैत्यास्यादाद्य ईरितः ॥ ८८-२२८ ॥

एकादशाक्षरादन्त्या द्वितीयः खण्ड ईरितः ॥
तृतीयः पञ्चविंशार्णः प्रोक्ता मन्त्रा इति क्रमात् ॥ ८८-२२९ ॥

बाला बीजत्रयाद्यैर्द्विस्त्रिभिर्मन्त्रैः षडगङ्कम् ॥
विकीर्णकुन्तलां नग्रां रक्तामानन्दविग्रहाम् ॥ ८८-२३० ॥

दधानां चिन्तयेद्बाणचापपाशसृणीकरैः ॥
तत्समानायुधाकारवर्णा देव्यास्तु बा ॥ ८८-२३१ ॥

ऋतुस्राताः स्फुरद्योन्यः सदानन्दारुणेक्षणाः ॥
इत्येषा कुरुकुल्लान्ते प्रोक्ता चन्द्रावलीस्वयम् ॥ ८८-२३२ ॥

वाराहीमभिधास्यामि ललितायाः परा तनुः ॥
शुचिः स्वेनाथ शून्यं स्यान्नभसाभ्ररसिस्थिरा ॥ ८८-२३३ ॥

अम्बु पश्चाद्रयः साग्निर्मरुताम्बुरयौ तथा ॥
इलसायुतोऽग्निरेतानि पुनरम्बुमरुद्युतम् ॥ ८८-२३४ ॥

दाहाम्बुमरुताहंसस्त्वग्निनैतत्त्रयं पुनः ॥
अम्बुदाहौ मरुद्युक्तौ हंसोऽथ धरया नभः ॥ ८८-२३५ ॥

तेजोग्निना पुनः पञ्च वातः स्वेन समायुतः ॥
तोयं चरेण तत्पूर्वं तोयमग्नियुतं ततः ॥ ८८-२३६ ॥

शून्यं व्याप्तेन शुचिना शून्यं शक्त्या नभो युतम् ॥
दाहो धरा स्वसहरितस्तोयं चरसमन्वितम् ॥ ८८-२३७ ॥

एतत्पूर्वमधुः प्रोक्तं चतुष्टयमतः परम् ॥
ज्याख्येन युक्ता सचरो रभश्चैतस्य पूर्वकम् ॥ ८८-२३८ ॥

रसोऽग्निना पुनः प्रोक्तं चतुष्का अपयं ततः ॥
शुभोभ्रता चरेणापि हंसः स्वेन सपूर्वकम् ॥ ८८-२३९ ॥

हंसोऽग्निना प्राक् त्रितयं हृदयं स्वसमायुतम् ॥
रसश्चरेण तत्पूर्वमग्निना च रसो युतः ॥ ८८-२४० ॥

पश्चादुक्तस्त्रयं वातो धरया च नभोन्वितम् ॥
प्राणः स्वेन युतः पश्चाद्धृदयस्वयुतं रसः ॥ ८८-२४१ ॥

व्याप्तमेतत्त्रयं पश्चाद्दाहेनाम्बु समन्वितम् ॥
गोत्राभरायुता स्पर्शो नादयुक्तो जवीयुतः ॥ ८८-२४२ ॥

दाहेन पूर्वपूर्वं च पूर्वं च मरुता युतम् ॥
शून्यं मरुत्स्वसहितं हृद्दाहेनाम्बुना चरः ॥ ८८-२४३ ॥

स्पर्शो मरुत्स्वसहितो हृद्दाहेनाम्बुसंयुतम् ॥
ज्याग्निः स्वसंयुतो हंसस्तथाम्बु मरुता सह ॥ ८८-२४४ ॥

हृद्रूप्रेण स्वेन युतं रसश्च स्वेन संयुतः ॥
प्राणदाहौ धरायुक्तौ पुनस्तौ वह्निना वियत् ॥ ८८-२४५ ॥

वार्द्दाहयुक्तमम्बु स्यादिषष्ट्यासस्वसंयुतम् ॥
पूर्वद्विरुक्तवर्णौ च शुद्धिः स्वेन युतस्तथा ॥ ८८-२४६ ॥

स्थिरा रसा वतस्वेन दावौ हंसौ धरा स्वयुक् ॥
युतिर्नादवती पश्चाद्धृदम्बुमरुता युतम् ॥ ८८-२४७ ॥

हंसश्च मरुता विद्यः दशोत्तरशताक्षरी ॥
वाराही पञ्चमी विश्वविजया भद्रकौमुदी ॥ ८८-२४८ ॥

वार्तालीति च विख्याता स्तम्भनाद्यखिलेष्टदा ॥
अङ्गानि कुर्यान्मन्त्रार्णैः सप्तभिषड्भिरेव च ॥ ८८-२४९ ॥

दशभिः सप्तभिः सप्तसङ्ख्यैर्जातिभिर्दिताः ॥
त्रिकोणवृत्तषट्कोणवृत्तद्वयसमन्वितम् ॥ ८८-२५० ॥

विधाय चक्रं तत्रैव स्वनामालिख्यपूजयेत् ॥
ध्यायेच्च देवीं कीलास्यां ततः काञ्चनसन्निभाम् ॥ ८८-२५१ ॥

आकण्ठं वनितारूपां ज्वलत्पिङ्गसरोरुहाम् ॥
त्रिनेत्रामष्टहस्तां च चक्रं शङ्खमथाङ्कुशम् ॥ ८८-२५२ ॥

पाशं च मुशलं शीर्षमभयं वरदं तथा ॥
दधानां गरुडस्कन्धे सुखासीनां विचिन्तयेत् ॥ ८८-२५३ ॥

नित्यपूजासु तच्छक्तीस्तत्समानाः स्मरेन्मुने ॥
प्रयोगेषु स्मरेद्देवीं सिंहस्थां व्याघ्रगामपि ॥ ८८-२५४ ॥

गजारूढां हयारूढां तर्श्यारूढां च शक्तिभिः ॥
श्यामामप्यरुणां पीतामसिताम्भोजविग्रहाम् ॥ ८८-२५५ ॥

तत्तत्त्प्रयोगेषु तथा ध्यायेत्तत्तदवाप्तये ॥
अरुणां पञ्चमीं वश्ये पीतां स्तम्भनके स्मरेत् ॥ ८८-२५६ ॥

श्यामां च दुर्गमे मार्गे सितां युद्धेऽरिनष्टये ॥
धूम्रामुच्चाटने ध्यायेत्साधको द्विजसत्तमः ॥ ८८-२५७ ॥

एताः षोडश नित्यास्ते सङ्क्षपात्समुदीरिताः ॥
भजतामिष्टदाः सद्यः सर्वपापक्षयङ्कराः ॥ ८८-२५८ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधादिमन्त्रनिरूपणं नामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥