०८७

सनत्कुमार उवाच ॥
अवतारत्रयं लक्ष्म्याः कथित ते द्विजोत्तम ॥
दुर्गायाश्चाभिधास्यामि सर्वलोकोपकारकान् ॥ ८७-१ ॥

प्रणवः श्रीः शिवायुग्मं वाणीवैरोचनीपदम् ॥
वज्राद्यं क्षुधिता सूक्ष्मा मृता स्वाग्नीन्दुसंयुता ॥ ८७-२ ॥

प्रतिष्ठाप्य शिवा फट् च स्वाहान्तोऽत्यष्टिवर्णवान् ॥
भैरवोऽस्य मुनिः सम्राट् छन्दो मन्त्रस्य देवता ॥ ८७-३ ॥

छिन्नमस्ता रमा बीजं स्वाहा शक्तिरुदीरिता ॥
आं खङ्गाय हृदाख्यातमीं खङ्गाय शिरः स्मृतम् ॥ ८७-४ ॥

ऊं वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छदम् ॥
औमङ्कुशाय नेत्रं स्याद्विसर्गो वसुरक्षयुक् ॥ ८७-५ ॥

मायायुग्मं चास्त्रमङ्गं मनवः प्रणवादिकाः ॥
स्वाहान्ताश्चैवमङ्गानि कृत्वा ध्यायेद्थाम्बिकाम् ॥ ८७-६ ॥

भानुमण्डलसंस्थानां प्रविकीर्णालकं शिरः ॥
छिन्नं स्वकं स्फारमुखं स्वरक्तं प्रपिबद्गलत् ॥ ८७-७ ॥

उपरिस्थां रतासक्तरतिमन्मथयोर्निजे ॥
डाकिनीवर्णिनीसख्यौ दृष्ट्वा मोदभराकुलाम् ॥ ८७-८ ॥

ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ॥
पालाशैर्विल्वजैर्वापि जुहुयात्कुसुमैः फलैः ॥ ८७-९ ॥

आधारशक्तिमारभ्य परतत्त्वान्तपूजिते ॥
पीठे जयाख्या विजया जिता चापि पराजिता ॥ ८७-१० ॥

नित्या विलासिनी षष्ठी दोग्ध्य घोरा च मङ्गला ॥
दिक्षु मध्ये च सम्पूज्या नव पीठस्य शक्तयः ॥ ८७-११ ॥

सर्वबुद्धिप्रदे वर्णनीये सर्वभृगुः सदृक् ॥
सिद्धिप्रदे डाकिनीये तारो वज्रः सभौतिकः ॥ ८७-१२ ॥

खङ्गीशो रोचनीयेन्ते भगं धेहि नमोन्तकः ॥
तारादिपीठमन्त्रोऽयं वेदरामाक्षरो मतः ॥ ८७-१३ ॥

समर्प्यासनमेतेन तत्र सम्पूजयेच्छिवाम् ॥
त्रिकोणमध्यषट्कोणपद्मभूपुरमध्यतः ॥ ८७-१४ ॥

बाह्यावरणमारभ्य पूजयेत्प्रतिलोमतः ॥
भूपुरे बाह्यभागेषु वज्रादीनि प्रपूजयेत् ॥ ८७-१५ ॥

तदन्तः सुरराजादीन्पूजयेद्धरितां पतीन् ॥
भूपुरस्य चतुर्द्वार्षु द्वारपालान्यजेदथ ॥ ८७-१६ ॥

करालविकरालाख्यावतिकालस्तृतीयकः ॥
महाकालश्चतुर्थः स्यादथ पद्मेष्टशक्तयः ॥ ८७-१७ ॥

एकलिङ्गा योगिनी च डाकिनी भैरवी तथा ॥
महाभैरवकेन्द्राक्षी त्वसिताङ्गी तु सप्तमी ॥ ८७-१८ ॥

संहारिण्यष्टमी चेति षट्कोणेष्वङ्गमूर्तयः ॥
त्रिकोणगा छिन्नमस्ता पार्श्वयोस्तु सखीद्वयम् ॥ ८७-१९ ॥

डाकिनीवर्णनीसञ्ज्ञं तारावाग्भ्यां प्रपूजयेत् ॥
एवं पूजादिभिः सिद्धे मन्त्रे मन्त्री मनोरथान् ॥ ८७-२० ॥

प्राप्नुयान्निखिलान्सद्यो दुर्लभांस्तत्प्रसादतः ॥
श्रीपुष्पैर्लभते लक्ष्मीं तत्फैलश्च समीहितम् ॥ ८७-२१ ॥

वाक्सिद्धिं मालतीपुष्पैश्चम्पकैर्हवनात्सुखम् ॥
घृताक्तं छागमांसं यो जुहुयात्प्रत्यहं शतम् ॥ ८७-२२ ॥

मासमेकं तु वशगास्तस्य स्युः सर्वपार्थिवाः ॥
करवीरसुमैः श्वतैर्लक्षसङ्ख्यैर्जुहोति यः ॥ ८७-२३ ॥

रोगजालं पराभूय सुखी जीवेच्छतं समाः ॥
रक्तौ स्तत्सङ्ख्यया हुत्वा वशयेन्मन्त्रिणो नृपान् ॥ ८७-२४ ॥

फलैर्हुत्वामुयाल्लक्ष्मीमुदुम्बरपलाशजैः ॥
गोमायुमांसैस्तामेव कवितां पायसान्धसा ॥ ८७-२५ ॥

बन्धूककुसुमैर्भाग्यं कर्मिकारैः समीहितम् ॥
तिलतण्डुलहोमेन वशयेन्निखिलाञ्जनान् ॥ ८७-२६ ॥

नारीरजोभिराकृष्टैर्मृगमांसैः समीहितम् ॥
स्तम्भनं माहिषैर्मांसैः पङ्कजैः सघृतैरपि ॥ ८७-२७ ॥

चिताग्नौ परभृत्पक्षैर्जुर्हुयादरिमृत्यवे ॥
उन्मत्तकाष्ठदीप्तेऽग्नौ तत्फलं वायसच्छदैः ॥ ८७-२८ ॥

द्यूते वने नृपद्वारे समरे वैरिसङ्कटे ॥
विजयं लभते मन्त्री ध्यायन्देवीं जपन्मनुम् ॥ ८७-२९ ॥

भुक्त्यै मुक्त्यै सितां ध्यायेदुच्चाटे नीलरोचिषम् ॥
रक्तां वश्ये मृतौ धूम्रां स्तम्भने कनकप्रभाम् ॥ ८७-३० ॥

निशि दद्याद्बलिं तस्यै सिद्धये मदिरादिना ॥
गोपनीयः प्रयोगोऽय प्रोच्यते सर्वसिद्धिदः ॥ ८७-३१ ॥

भूताहे कृष्णपक्षस्य मध्यरात्रे तमोघने ॥
स्नात्त्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः ॥ ८७-३२ ॥

आनीय पूजयेन्नारीं छिन्नमस्तास्वरूपिणीम् ॥
सुन्दरीं यौवनाक्रान्तां नरपञ्चकगामिनीम् ॥ ८७-३३ ॥

सुस्मितां मुक्तकबीरीं भूषादानप्रतोषिताम् ॥
विवस्त्रां पूजयित्वैनामयुतं प्रजपेन्मनुम् ॥ ८७-३४ ॥

बलिं दत्त्वा निशां नीत्वा सम्प्रेष्य धनतोषिताम् ॥
भोजयेद्विविधैरन्नैर्ब्राह्यणान्भोजनादिना ॥ ८७-३५ ॥

अनेन विधिना लक्ष्मीं पुत्रान्पौत्रान्धनं यशः ॥
नारीमायुः सुखं धर्ममिष्टं च समवाप्नुयात् ॥ ८७-३६ ॥

तस्यां रात्रौ व्रतं कार्यं विद्याकामेन मन्त्रिणा ॥
मनोरथेषु चान्येषु गच्छेत्तां प्रजपन्मनुम् ॥ ८७-३७ ॥

उषस्युत्थाय शय्यायामुपविष्टो जपेच्छतम् ॥
षण्मासाभ्यन्तरेमन्त्री कवित्वेन जयेत्कविम् ॥ ८७-३८ ॥

शिवेन कीलिता चेयं तदुत्कीलनमुच्यते ॥
मायां तारपुटां मन्त्री जपेदष्टोत्तरं शतम् ॥ ८७-३९ ॥

मन्त्रस्यादौ तथैवान्ते भवेत्सिद्धिप्रदा तु सा ॥
उदिता छिन्नमस्तेयं कलौ शीघ्रमभीष्टदा ॥ ८७-४० ॥

अवतारान्तरं देव्या वच्मि ते मुनिसत्तम ॥
ज्ञानामृतारुणा श्वेताक्रोधिनीन्दुसमन्विता ॥ ८७-४१ ॥

शान्तिस्तथाविधा चापि नीचसर्गान्वितास्तथा ॥
वाग्भवं कामराजाख्यं शक्तिबीजाह्वयं तथा ॥ ८७-४२ ॥

त्रिभिर्बीजैः पञ्चकूटात्मिका त्रिपुरभैरवी ॥
ऋषिः स्याद्दक्षिणामूर्तिश्छन्दः पङ्क्तिरुदीरिता ॥ ८७-४३ ॥

देवता देशिकैरुक्ता देवी त्रिपुरभैरवी ॥
नाभेराचरणं न्यस्य वाग्भवं मन्त्रवित्पुनः ॥ ८७-४४ ॥

हृदयान्नाभिपर्यन्तं कामबीजं प्रविन्यसेत् ॥
शिरसो हृत्प्रदेशान्तं तार्तीयं विन्यसेत्ततः ॥ ८७-४५ ॥

आद्यं द्वितीयं करयोस्तार्तीयमुभयं न्यसेत् ॥
मूलाधारे हृदि न्यस्य भूयो बीजत्रयं क्रमात् ॥ ८७-४६ ॥

नवयोन्यात्मकं न्यासं कुर्याद्बीजैस्त्रिभिः पुनः ॥
बालोदितप्रकारेण मूर्तिन्यासमथाचरेत् ॥ ८७-४७ ॥

स्वस्वबीजादिकं पूर्वं मूर्ध्नीशानमनोभवम् ॥
न्यसेद्वक्त्रे तत्पुरुषं मकरध्वजमात्मवित् ॥ ८७-४८ ॥

हृद्यघोरकुमारादिकन्दर्प्पं तदनन्तरम् ॥
गुह्यदेशे प्रविन्यस्येद्वामदेवादिमन्मथम् ॥ ८७-४९ ॥

सद्योजातं कामदेवं पादयोर्विन्यसेत्ततः ॥
ऊर्द्ध्वम्प्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु तान् ॥ ८७-५० ॥

प्रविन्यसेद्य धापूर्व भृगुर्व्योमाग्निसंस्थितः ॥
सद्यादिपञ्चह्रस्वाद्या बीजमेषां प्रकीर्तितम् ॥ ८७-५१ ॥

षड्दीर्घयुक्तेनाद्येन बीजेनाङ्गक्रिया मता ॥
पञ्चबाणांस्ततो न्यस्येन्मन्त्री त्रैलोक्यमोहनान् ॥ ८७-५२ ॥

द्रामाद्यां द्राविणीं मूर्ध्निं द्रामाद्यां क्षोभणी पदे ॥
क्लींवशीकरणीं वक्त्रे गुह्ये ब्लृं बीजपूर्विकाम् ॥ ८७-५३ ॥

आकर्षणीं हृदि पुनः सर्वान्तभृगुसंस्थिताम् ॥
सम्मोहनीं क्रमादेवं बाणन्यासोऽयमीरितः ॥ ८७-५४ ॥

भालभ्रूमध्यवदने घण्टिकाकण्ठहृत्सु च ॥
नाभ्यधिष्ठानयोः पञ्च ताराद्याः सुभगादिकाः ॥ ८७-५५ ॥

मस्तकाविधि नाभेश्च मन्त्रिणा सुभगा भगा ॥
भगसर्पिण्यथ परा भगमालिन्यनन्तरम् ॥ ८७-५६ ॥

अनङ्गानङ्गकुसुमा भूयश्चानङ्गमेखला ॥
अनङ्गमदना सर्वा मदविभ्रममन्थरा ॥ ८७-५७ ॥

प्रधानदेवता वर्णभूषणाद्यैरलङ्कृताः ॥
अक्षस्रक्पुस्तकाभीतिवरदाढ्यकराम्बुजाः ॥ ८७-५८ ॥

वाक्कामब्लूं स्त्रीं सरान्ते ताराः पञ्च प्रकीर्तिताः ॥
ततः कुर्याद्भूषणाख्यं न्यासमुक्तदिशा मुने ॥ ८७-५९ ॥

एवं न्यस्तशरीरोऽसौ ध्यायेत्त्रिपुरभैरवीम् ॥
सहस्रभानुसङ्काशामरुणक्षौमवाससीम् ॥ ८७-६० ॥

शिरोमालामसृग्लिप्तस्तनीं जपवटीं करैः ॥
विद्यामभीतिं च वरं दधतीं त्रीक्षणाननाम् ॥ ८७-६१ ॥

दीक्षां प्राप्य जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः ॥
पुष्पैर्भानुसहस्राणि जुहुयाद्बह्मवृक्षजैः ॥ ८७-६२ ॥

त्रिमध्वक्तैः प्रसूनैर्वा करवीरसमुद्भवैः ॥
पद्मं वसुदलोपेतं नवयोन्यष्टकर्णिकम् ॥ ८७-६३ ॥

इच्छादिशक्तिभिर्युक्तं भैरव्याः पीठमर्चयेत् ॥
इच्छा ज्ञाना क्रिया पश्चात्कामिनी कामदायिनी ॥ ८७-६४ ॥

रतिप्रिया मदानन्दा नवमी स्यान्मनोन्मनी ॥
वरदाभयधारिण्यः सम्प्रोक्ता नव शक्तयः ॥ ८७-६५ ॥

वाग्भवं लोहितो रायै श्रीकण्ठो लोहितोऽनलः ॥
दीर्घवान्यै परा पश्चादपरायौ हसौ युतः ॥ ८७-६६ ॥

सदाशिवमहाप्रेतङेन्तं पद्मासनं नमः ॥
अनेन मनुना दद्यादासनं श्रीगुरुक्रमम् ॥ ८७-६७ ॥

प्राङ्मध्ययोन्यन्तराले पूजयेत्कल्पयेत्ततः ॥
पञ्चभिः प्रणवैर्मूर्तिं तस्यामावाह्य देवताम् ॥ ८७-६८ ॥

पूजयेदगमोक्तेन विधानेन समाहितः ॥
तारावाक्छक्तिकमला हसखूफ्रें हसौः स्मृताः ॥ ८७-६९ ॥

वामकोणे यजेद्देव्या रतिमिन्दुसमप्रभाम् ॥
सृणिपाशधरां सौम्यां मदविभ्रमविह्वलाम् ॥ ८७-७० ॥

प्रीतिं तक्षिणकोणस्थां तप्तकाञ्चनसन्निभाम् ॥
अङ्कुशं प्रणतं दोभ्यां धारयन्तीं समर्चयेत् ॥ ८७-७१ ॥

अग्रे मनोभवां रक्तां रक्तपुष्पाद्यलङ्कृताम् ॥
इक्षुकार्मुकपुष्पेषुधारिणीं सस्मिताननाम् ॥ ८७-७२ ॥

अङ्गान्यभ्यर्चयेत्पश्चाद्यथापूर्वं विधानवित् ॥
दिक्ष्वग्रे च निजैर्मन्त्रैः पूजयेद्बाणदेवताः ॥ ८७-७३ ॥

हस्ताब्जैर्धृतपुष्पेषुप्रणामामृतसप्रभाः ॥
अष्टयोनिष्वष्टशक्तीः पूजयेत्सुभगादिकाः ॥ ८७-७४ ॥

मातरो भैरवाङ्कस्था मदविभ्रमविह्वलाः ॥
अष्टपत्रेषु सम्पूज्या यथावत्कुसुमादिभिः ॥ ८७-७५ ॥

लोकपालांस्ततो दिक्षु तेषामस्त्राणि तद्बहिः ॥
पूर्वजन्मकृतैः पुण्यैर्ज्ञात्वैनां परदेवताम् ॥ ८७-७६ ॥

यो भजेदुक्तमार्गेण स भवेत्सम्पदां पदम् ॥
एवं सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः ॥ ८७-७७ ॥

जुहुयादरुणाम्भोञ्जैरदोषैर्मधुराप्लुतैः ॥
लक्षसङ्ख्यं तदर्द्धं वा प्रत्यहं भोजयेद्द्विजान् ॥ ८७-७८ ॥

वनिता युवती रम्याः प्रीणयेद्देवताधिया ॥
होमान्ते धनधान्याद्यैस्तोषयेद्गुरुमात्मनः ॥ ८७-७९ ॥

एवं कृते जगद्वश्यो रमाया भवनं भवेत् ॥
रक्तोत्पलैस्त्रिमध्वक्तैररुणैर्वा हयारिजैः ॥ ८७-८० ॥

पुष्पैः पयोन्नैः सघृतैर्होमाद्विश्वं वशं नयेत् ॥
वाक्सिद्धं लभते मन्त्री पलाशकुसुमैर्हुतैः ॥ ८७-८१ ॥

कर्पूरागुरुसंयुक्तं गुग्गुलं जुहुयात्सुधीः ॥
ज्ञानं दिव्यमवाप्नोति तेनैव स भवेत्कविः ॥ ८७-८२ ॥

क्षीराक्तैरमृताखण्डैर्होमः सर्वापमृत्युजित् ॥
दूर्वाभघिरायुषे होमः क्षीराक्ताभिर्दिनत्रयम् ॥ ८७-८३ ॥

गिरिकर्णीभवैः पुष्पैर्ब्राह्यणान्वशयेद्धुतैः ॥
कह्लारैः पार्थिवान्पुष्पैस्तद्वधूः कर्णिकारजैः ॥ ८७-८४ ॥

मल्लिकाकुसुमैर्हुत्वा राजपुत्रान्वशं नयेत् ॥
कोरण्टकुसुमैर्वैंश्यान्वृषलान्पाटलोद्भवैः ॥ ८७-८५ ॥

अनुलोमां विलोमान्तस्थितसाध्याह्वयान्वितम् ॥
मन्त्रमुच्चार्य जुहुयान्मन्त्री मधुरलोलितैः ॥ ८७-८६ ॥

सर्षपैर्मधुसम्मिश्रैर्वशयेत्पार्थिवान् क्षणात् ॥
अनेनैव विधानेन तत्पत्नीस्तत्सुतानपि ॥ ८७-८७ ॥

जातिबिल्वभवैः पुष्पैर्मधुरत्रयसंयुतैः ॥
नरनारीनरपतीन्होमेन वशयेत्क्रमात् ॥ ८७-८८ ॥

मालतीबकुलोद्भूतैः पुष्पैश्चन्दनलोलितैः ॥
जुहुयात्कवितां मन्त्री लभते वत्सरान्तरे ॥ ८७-८९ ॥

मधुरत्रघयसंयुक्तैः फलैर्बिल्वसमुद्भवैः ॥
जुहुयाद्वाशयेल्लोकं श्रियं प्राप्नोति वाञ्छिताम् ॥ ८७-९० ॥

साज्यमन्नं प्रजुहुयाद्भवेदन्नसमृद्धिमान् ॥
कस्तूरीकुङ्कुमोपेतं कर्पूरं जुहुयाद्वशी ॥ ८७-९१ ॥

कन्दर्पादधिकं सद्यः सौन्दर्यमधिगच्छति ॥
लाजान्प्रजुहुयान्मन्त्री दधिक्षीरमधुप्लुतान् ॥ ८७-९२ ॥

विजित्य रोगानखिलान्स जीवेच्छरदां शतम् ॥
पादद्वयं मलयजं पादं कुङ्कुमकेसरम् ॥ ८७-९३ ॥

पादं गोरोचनान्तानि त्रीणि पिष्ट्वाहिमाम्भसा ॥
विदध्यात्तिलकं भाले यान्पश्येद्यैर्विलोक्यते ॥ ८७-९४ ॥

यान्स्पृशेत्स्पृश्यते यैर्वा वश्याः स्युस्तस्य तेऽचिरात् ॥
कर्पूरकपिचोराणि समभागानि कल्पयेत् ॥ ८७-९५ ॥

चतुर्भुजा जटामांसी तावती रोचना मता ॥
कुङ्कुमं समभागं स्याद्दिग्भातं चन्दनं मतम् ॥ ८७-९६ ॥

अगुरुर्नवभागं स्यादितिभागक्रमेण च ॥
हिमाद्भिः कन्यया पिष्टमेतत्सर्वं सुसाधितम् ॥ ८७-९७ ॥

आदाय तिलकं भाले कुर्य्याद्भूमिपतीन्नरान् ॥
वनितामदगर्वाढ्या मदोन्मत्तान्मतन्दजान् ॥ ८७-९८ ॥

सिंहव्याघ्रान्महासर्पान्भूतवेतालराक्षसान् ॥
दर्शनादेव वशयेत्तिलकं धारयन्नरः ॥ ८७-९९ ॥

इत्येषा भैरवी प्रोक्ता ह्यवतारान्तरं श्रृणु ॥
वाङ्माया कमला तारो नमोन्ते भगवत्यथ ॥ ८७-१०० ॥

श्रीमातङ्गेश्वरि वदेत्सर्वजनमनोहरि ॥
सर्वादिसुखराज्यन्ते सर्वादिसुखरञ्जनी ॥ ८७-१०१ ॥

सर्वराजवशं पश्चात्करिसर्वपदं वदेत् ॥
स्त्रीपुरुषवशं सृष्टिविद्याक्रोधिनिकान्विता ॥ ८७-१०२ ॥

सर्वं दुष्टमृगवशं करिसर्वपदं ततः ॥
सर्वसत्त्ववशङ्करिसर्वलोकं ततः परम् ॥ ८७-१०३ ॥

अमुकं मे वशं पश्चादानयानलसुन्दरी ॥
अष्टाशीत्यक्षरो मन्त्रो मुन्याद्या भैरवीगताः ॥ ८७-१०४ ॥

न्यासान्मन्त्री तनौ कुर्याद्वक्ष्यमाणान्यथाक्रमम् ॥
शिरोललाटभ्रूमध्ये तालुकण्ठगलोरसि ॥ ८७-१०५ ॥

अनाहते भुजद्वन्द्वे जठरे नाभिमण्डले ॥
स्वाधिष्ठाने गुप्तदेशे पादयोर्दक्षवामयोः ॥ ८७-१०६ ॥

मूलाधारे गुदे न्यस्येत्पदान्यष्टादश क्रमात् ॥
गुणैकद्विचतुः षड्भिर्वसुपर्वनवाष्टभिः ॥ ८७-१०७ ॥

नन्दपङ्क्त्यष्टवेदाग्निचन्द्रयुग्मगुणा क्षिभिः ॥
यदुक्लृप्तिरियं प्रोक्ता मन्त्रवर्णैर्यथाक्रमम् ॥ ८७-१०८ ॥

रत्याद्या मृलहृदयभ्रुमध्येषु विचक्षणः ॥
वाक्शक्तिलक्ष्मीबीजाद्या मातङ्ग्यन्ताः प्रविन्यसेत् ॥ ८७-१०९ ॥

शिरोवदनहृद्गुह्यपादेषु विधिना न्यसेत् ॥
हृल्लेखां गगनां रक्तां भूयो मन्त्री करालिकाम् ॥ ८७-११० ॥

महोच्छुष्मां स्वनामादिवर्णबीजपुरः सराः ॥
मातङ्ग्यन्ताः षडङ्गानि ततः कुर्वीत साधकः ॥ ८७-१११ ॥

वर्णैश्चतुर्विंशतिभिर्हृत्त्रयोदशभिः शिरः ॥
शिखाष्टादशभिः प्रोक्ता वर्म तावद्भिरक्षरैः ॥ ८७-११२ ॥

स्यात्त्रयोदशभिर्नेत्रं द्वाभ्यामस्त्रं प्रकीर्तितम् ॥
बाणन्यासं ततः कुर्याद्भैरवीप्रोक्तवर्त्मना ॥ ८७-११३ ॥

मातङ्गीपदयोश्चान्यं मन्मथान्वदनांशयोः ॥
पार्स्वकट्योर्नाभिदेशे कटिपार्श्वांशके पुनः ॥ ८७-११४ ॥
बीजत्रयादिकान्मन्त्री मन्मथं मकरध्वजम् ॥
मदनं पुष्पधन्वानं पञ्चमं कुसुमायुधम् ॥ ८७-११५ ॥

षष्ठं कन्दर्पनामानं मनोभवरतिप्रियौ ॥
मातङ्ग्यन्तास्ततो न्यस्येत्स्थानेष्वेतेषु मन्त्रवित् ॥ ८७-११६ ॥

कुसुमा मेखला चैव मदना मदना तुरा ॥
मदनवेगा सम्भवा च भुवनपालेन्दुरेखिका ॥ ८७-११७ ॥

अनङ्गपदपूर्वाश्च मातङ्ग्यन्ताः समीरिताः ॥
विन्यस्तव्यास्ततो मूलेऽधिष्ठाने मणिपूरके ॥ ८७-११८ ॥

हृत्कण्ठास्ये भ्रुवोर्मध्ये मस्तके चापि मत्रिणा ॥
आद्ये लक्ष्मीसरस्वत्यौ रतिः प्रीतिश्च कृत्तिका ॥ ८७-११९ ॥

शान्तिः पुष्टिः पुनस्तुष्टिमार्तगम्पदशेखरा ॥
मूलमन्त्रं पृथङ्न्यस्येन्निजमूर्द्धनि मन्त्रवित् ॥ ८७-१२० ॥

आधारदेशेऽधिष्ठाने नाभौ पश्चादनाहते ॥
कण्ठदेशे भ्रवोर्मध्ये बिन्दौ भूयः कला पदोः ॥ ८७-१२१ ॥

निरोधिकायामर्द्धेन्दुनादे नादान्तयोः पुनः ॥
उन्नतांसेषु वक्त्रे च ध्रुवमण्डलके शिवे ॥ ८७-१२२ ॥

मातङ्ग्यन्ताः प्रविन्यस्ये द्वामां ज्येष्ठमतः परम् ॥
रौद्रीं प्रशान्तां श्रद्धाख्यां पुनर्माहेश्वरीमथ ॥ ८७-१२३ ॥

क्रियाशक्तिं सुलक्ष्मीं च सृष्टिं सञ्ज्ञां च मोहिनीम् ॥
प्रमथाश्वासिनीं विद्युल्लतां चिच्छक्तिमप्यथ ॥ ८७-१२४ ॥

ततश्च सुन्दरीं निन्दां नन्दबुद्धिमिमाः क्रमात् ॥
शिरोभालहृदाधारेष्वेता बीजत्रयाधिकाः ॥ ८७-१२५ ॥

मातङ्ग्याद्याः प्रविन्यस्येद्यथावद्देशिकोत्तमः ॥
मातङ्गीं महदाद्यां तां महालक्ष्मीपदादिकाम् ॥ ८७-१२६ ॥

सिद्धलक्ष्मीपदाद्यां च मूलमाधारमण्डलम् ॥
न्यसेत्तेनैव कुर्वीत व्यापकं देशिकोत्तमः ॥ ८७-१२७ ॥

एवं न्यस्तशरीरोऽसौ चिन्तयेन्मन्त्रदेवताम् ॥
श्यामां शुकोक्तिं श्रृण्वन्तीं न्यस्तैकाङ्घ्रिशिरोरुहाम् ॥ ८७-१२८ ॥

शशिखण्डधरां वीणां वादयन्तीं मधून्मदाम् ॥
रक्तांशुकां च कह्लारमालाशोभितचूलिकाम् ॥ ८७-१२९ ॥

शङ्खपत्रां तु मातङ्गीं चित्रकोद्भासिमस्तकाम् ॥
अयुतं प्रजपेन्मन्त्रं तद्दशांशं मधूकजैः ॥ ८७-१३० ॥

पुष्पैस्त्रिमधुरोपेतैर्जुहुयान्मन्त्रसिद्धये ॥
त्रिकोणकर्णिकं पद्ममष्टपत्रं प्रकल्पयेत् ॥ ८७-१३१ ॥

अष्टपत्रावृतं बाह्ये वृतं षोडशभिर्दलैः ॥
चतुरस्रीकृतं बाह्ये कान्त्या दृष्टिमनोहरम् ॥ ८७-१३२ ॥

एतस्मिन्पूजयेत्पीठे नवशक्तीः क्रमादिमाः ॥
विभूतिपूर्वाः पूर्वोक्ता मातङ्गीपदपश्चिमाः ॥ ८७-१३३ ॥

सर्वान्ते शक्तिकमलासनाय नम इत्यथ ॥
वाक्सत्यलक्ष्मी बीजाद्य उक्तः पीठार्चने मनुः ॥ ८७-१३४ ॥

मूलेन मूर्तिं सङ्कल्प्य तस्यामावाह्य देवताम् ॥
अर्चयेद्विधिनानेन वक्ष्यमाणेन मन्त्रवित् ॥ ८७-१३५ ॥

रत्याद्यास्त्रिषु कोणेषु पूजयेत्पूर्ववत्सुधीः ॥
हृहृल्लेखाः पञ्चपूज्या मध्ये दिक्षु च मन्त्रिणा ॥ ८७-१३६ ॥

पाशाङ्कुशाभयाभीष्टधारिण्यो भूतसप्रभाः ॥
अङ्गानि पूजयेत्पश्चाद्यथापूर्वं विधानवित् ॥ ८७-१३७ ॥

बाणानभ्यर्चयेद्दिक्षु पञ्चमं पुरतो यजेत् ॥
दलमध्येऽथ सम्पूज्या अनङ्गकुसुमादिकाः ॥ ८७-१३८ ॥

पाशाङ्कुशाभयाभीष्टधारिण्योऽरुणविग्रहाः ॥
पत्राग्रेषु पुनः पूज्या लक्ष्म्याद्या वल्लकीकराः ॥ ८७-१३९ ॥

बहिरष्टदलेष्वर्च्या मन्मथाद्या मदोद्धताः ॥
अपराङ्गा निषङ्गाद्याः पुष्पास्त्रेषुधनुर्द्धराः ॥ ८७-१४० ॥

पत्रस्था मातरः पूज्या ब्राह्याद्याः प्रोक्तलक्षणाः ॥
तदग्रेष्वर्चयेद्विद्वानसिताङ्गादिभैरवान् ॥ ८७-१४१ ॥

पुनः षोडश पत्रेषु पूज्याः षोडश शक्तयः ॥
वामाद्याः कलवीणाभिर्गायन्त्यः श्यामविग्रहाः ॥ ८७-१४२ ॥

चतुरस्रे चतुर्दिक्षु चतस्रः पूजयेत्पुनः ॥
मातङ्ग्याद्यामदोन्मत्ता वीणोल्लसितपाणयः ॥ ८७-१४३ ॥

आग्नेयकोणे विघ्नेशं दुर्गां नैशाचरेः यजेत् ॥
वायव्ये बटुकान् पश्चादीशाने क्षेत्रपं यजेत् ॥ ८७-१४४ ॥

लोकपाला बहिः पूज्या वज्राद्यैरायुधैः सह ॥
मन्त्रेऽस्मिन्सन्धिते मन्त्री साधयेदिष्टमात्मनः ॥ ८७-१४५ ॥

मल्लिकाजातिपुन्नागैर्होमाद्भाग्यालयो भवेत् ॥
फलौर्बिल्यसमुद्भूतैस्तत्पत्रैर्वा हुताद्भवेत् ॥ ८७-१४६ ॥

राजपुत्रस्य राज्याप्तिः पङ्कजैः श्रियमाप्नुयात् ॥
उत्पलैर्वशयेद्विश्वं क्षारैर्मध्वाश्रितैः स्त्रियम् ॥ ८७-१४७ ॥

वञ्जुलस्य समिद्भोमो वृष्टिं वितनुतेऽचिरात् ॥
क्षीराक्तैरमृताखण्डैर्होमान्नाशयति ज्वरम् ॥ ८७-१४८ ॥

दूर्वाभिरायुराप्नोति तन्दुलैर्धनवान्भवेत् ॥
कदम्बैर्वश्यमाप्नोति सर्वं त्रिमधुरप्लुतम् ॥ ८७-१४९ ॥

नन्द्यावर्तभवैः पुष्पैर्होमो वाक्सिद्धिदायकः ॥
निम्बप्रसूनैर्जुहुयादीप्सितश्रीसमृद्धये ॥ ८७-१५० ॥

पलाशकुसुमैर्होमात्तेजस्वी जायते नरः ॥
चन्दनागुरुकस्तूरी चन्द्रकुङ्कुमरोचनाः ॥ ८७-१५१ ॥

वश्याय च प्रियत्वाय हुताश्च तिलकीकृताः ॥
निर्गुण्डीमूलहोमेन निगडान्मुच्यते नरः ॥ ८७-१५२ ॥

निम्बतैलान्वितैर्लोणैर्होमः शत्रुविनाशनः ॥
हरिद्राचूर्णसम्मिश्रैर्लवणैः स्तम्भयेज्जगत् ॥ ८७-१५३ ॥

मातङ्गीसिद्धविद्यैषा प्रोक्ता ते द्विजसत्तम ॥
अवतारान्तरं भूयो वर्णयामि निशामय ॥ ८७-१५४ ॥

दीपकाप्रीतिचन्द्राढ्या द्विधा चेद्रञ्जितापुनः ॥
वतिवह्निप्रियामन्त्रो धूमावत्या गजाक्षरः ॥ ८७-१५५ ॥

पिप्पलादो मुनिश्छन्दो निवृद्धूमावतीश्वरी ॥
बीजेन षड्दीर्घजातियुक्तेन परिकल्पयेत् ॥ ८७-१५६ ॥

ततो धूमावतीं ध्यायेच्छत्रुनिग्रहकारिणीम् ॥
विवर्णां चञ्चलां दुष्टां दीर्घां च मलिनाम्बराम् ॥ ८७-१५७ ॥

विमुक्तकुन्तलां सूक्ष्मां विधवां विरलद्विजाम् ॥
कङ्कध्वजरथारूढां प्रलम्बितपयोधरम् ॥ ८७-१५८ ॥

सूर्यहस्तां निरुक्षाङ्कधृतहस्ताम्बरान्विताम् ॥
प्रवृद्धलोमां तु भृशं कुटिलाकुटिलेक्षणाम् ॥ ८७-१५९ ॥

क्षुत्पिपासार्दितां नित्यं भयदां कलहप्रियाम् ॥
एवंविधां तु सञ्चिन्त्य नमः स्वाहा फडन्तकम् ॥ ८७-१६० ॥

बीजं साध्योपरि न्यस्य तस्मिन्स्थाप्य शवं जपेत् ॥
अवष्टभ्य शवं शत्रुनाम्नाथ प्रजपेन्मनुम् ॥ ८७-१६१ ॥

सोष्णीषकञ्चुको विद्वान्कृष्णे भूते दिवानिशम् ॥
उपवासी श्मशाने वा विपिने शून्यमन्दिरे ॥ ८७-१६२ ॥

मन्त्रस्य सिद्ध्यै यतवाग्ध्यायन्देवीं निरन्तरम् ॥
सहस्रादूर्द्धूतः शत्रुर्ज्वरेण परिगृह्यते ॥ ८७-१६३ ॥

पञ्चगव्येन शान्तिः स्याज्ज्वरस्य पयसापि वा ॥
मन्त्राद्या क्षरमालिख्य शत्रूनाम ततः परम् ॥ ८७-१६४ ॥

द्वितीयं मनुवर्णं च शत्रुनामैवमालिखेत् ॥
सर्वं मनुदिक्सहस्रजपाच्छवमृतिर्भवेत् ॥ ८७-१६५ ॥

दग्ध्वा कङ्कं श्यशानाग्नौ तद्भस्मादाय मन्त्रवित् ॥
विरोधिनाम्नाष्टशतं जप्तमुच्चाटनं रिपोः ॥ ८७-१६६ ॥

श्मशानभस्मना कृत्वा शवं तस्योपरि न्यसेत् ॥
विरोधिनामसंरुद्धं कृष्णे पक्षे समुच्चरेत् ॥ ८७-१६७ ॥

महिषीक्षीरधूपं च दद्याच्छत्रुविपत्करम् ॥
एवं सङ्क्षेपतः प्रोक्तं अवतारचतुष्टयम् ॥ ८७-१६८ ॥

दुर्गाया जगदम्बायाः किं पुनः प्रष्टुमिच्छसि ॥ ८७-१६९ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दुर्गामन्त्रचतुष्टयवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥