सनत्कुमार उवाच ॥
कलिकल्पान्तरे ब्रह्मन् ब्रह्मणोऽव्यक्तजन्मनः ॥
लोकपद्मे तपस्थस्य सृष्ट्यर्थं सम्बभूवतुः ॥ ८४-१ ॥
विष्णुकर्णमलोद्भूतावसुरौ मधुकैटभौ ॥
तौ जातमात्रौ पयसि लोकप्रलयलक्षणे ॥ ८४-२ ॥
जानुमात्रे स्थितौ दृष्ट्वा ब्रह्मणं कमलस्थितम् ॥
प्रवृत्तावत्तुमालक्ष्य तुष्टाव जगदम्बिकाम् ॥ ८४-३ ॥
ततो देवी जगत्कर्त्री शैवी शक्तिरनुत्तमा ॥
नारायणाक्षिसंस्थाना निद्रा प्रीता बभूव ह ॥ ८४-४ ॥
तस्या मन्त्रादिकं सर्वं कथयिष्यामि तच्छृणु ॥
सारुणा क्रोधनी शान्तिश्चन्द्रालङ्कृतशेखरा ॥ ८४-५ ॥
एकाक्षरीबीज मन्त्रऋषिः शक्तिरुदाहृता ॥
गायत्री च भवेच्छन्दो देवता भुवनेश्वरी ॥ ८४-६ ॥
षड्दिर्घयुक्तबीजेन कुर्यादङ्गानि षट् क्रमात् ॥
संहारसृष्टिमार्गेण मातृकान्यस्तविग्रहः ॥ ८४-७ ॥
मन्त्रन्यासं ततः कुर्याद्देवताभावसिद्धये ॥
हृल्लेखां मूर्ध्नि वदने गगनां हृदयाम्बुजे ॥ ८४-८ ॥
रक्तां करालिकां गुह्ये महोच्छुष्मां पदद्वये ॥
ऊर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषूत्तरेऽपि च ॥ ८४-९ ॥
सद्यादिह्रस्वबीजाद्यान्वस्तव्या भूतसप्रभाः ॥
अङ्गानि विन्यसेत्पश्चाज्जातियुक्तानि षट् क्रमात् ॥ ८४-१० ॥
ब्रह्माणं विन्यसेद्भाले गायत्र्या सह संयुतम् ॥
सावित्र्या सहितं विष्णुं कपोले दक्षिणे न्यसेत् ॥ ८४-११ ॥
वागीश्वर्या समायुक्तं वामगण्डे महेश्वरम् ॥
श्रिया धनपतिं न्यस्य वामकर्णाग्रके पुनः ॥ ८४-१२ ॥
रत्या स्मरं मुखे न्यस्य पुण्यागणपतिं न्यसेत् ॥
सव्यकर्णोपरि निधाकर्णगण्डान्तरालयोः ॥ ८४-१३ ॥
न्यस्तव्यं वदने मूलं भूपश्चैत्रांस्ततो न्यसेत् ॥
कण्ठमूले स्तनद्वन्द्वे वामांसे हृदयाम्बुजे ॥ ८४-१४ ॥
सव्यांसे पार्श्वयुगले नाभिदेशे च देशिकः ॥
भालांश्च पार्श्वजठरे पार्श्वांसापरके हृदि ॥ ८४-१५ ॥
ब्रह्माण्याद्यास्तनौ न्यस्य विधिना प्रोक्तलक्षणाः ॥
मूलेन व्यापकं देहे न्यस्य देवीं विचिन्तयेत् ॥ ८४-१६ ॥
उद्यद्दिवाकरनिभां तुङ्गोरोजां त्रिलोचनाम् । ।
स्मरास्यामिन्दुमुकुटां वरपाशाङ्कुशाभयाम् ॥ ८४-१७ ॥
रदलक्षं जपेन्मन्त्रं त्रिमध्वक्तैर्हुनेत्ततः ॥
अष्टद्रव्यैर्दशांशेन ब्रह्मवृक्षसमिद्वरैः ॥ ८४-१८ ॥
द्राक्षाखर्जूरवातादशर्करानालिकेरकम् ॥
तन्दुलाज्यतिलं विप्र द्रव्याष्टकमुदाहृतम् ॥ ८४-१९ ॥
दद्यादर्ध्यं दिनेशाय तत्र सञ्चिन्त्य पार्वतीम् ॥
पद्ममष्टदलं बाह्ये वृत्तं षोडशभिर्द्दलैः ॥ ८४-२० ॥
विलिखेत्कणिङ्क्रामध्येषड्कोणमतिसुन्दरम् ॥
ततः सम्पूजयेत्पीठं नवशक्तिसमन्वितम् ॥ ८४-२१ ॥
जयाख्या विजया पश्चादजिताह्वापराजिता ॥
नित्या विलासिनी गोग्धीत्यघोरा मङ्गला नव ॥ ८४-२२ ॥
बीजाढ्यमासनं दत्त्वा मूर्तिं तेनैव कल्पयेत् ॥
तस्यां सम्पूजयेद्देवीमावाह्यावरणैः क्रमात् ॥ ८४-२३ ॥
मध्यपाग्याम्यसौम्येषु पूजयेदङ्गदेवताः ॥
षट्कोणेषु यजेन्मन्त्री पश्चान्मिथुनदेवताः ॥ ८४-२४ ॥
इन्द्रकोणं लसद्दण्डकुण्डिकाक्षगुणाभयाम् ॥
गायत्रीं पूजयेन्मत्री ब्रह्माणमपि तादृशम् ॥ ८४-२५ ॥
रक्षः कोणे शङ्खचक्रगदापङ्कजधारिणीम् ॥
सावित्रीं पीतवसनां यजेद्विणुं च तादृशम् ॥ ८४-२६ ॥
वायुकोणे परश्वक्षमाला भयवरान्विताम् ॥
यजेत्सरस्वतीमच्छां रुद्रं तादृशलक्षणम् ॥ ८४-२७ ॥
वह्निकोणे यजेद्रत्नकुम्भं मणिकरण्डकम् ॥
कराभ्यां बिभ्रतीं पीतां तुन्दिलं धनदायकम् ॥ ८४-२८ ॥
आलिङ्ग्य सव्यहस्तेन वामे ताम्बूलधारिणीम् ॥
धनदाङ्कसमारूढां महालक्ष्मीं प्रपूजयेत् ॥ ८४-२९ ॥
पश्चिमे मदनं बाणपाशाङ्कुशशरासनाम् ॥
धारयन्तं जपारक्तं पूजयेद्रक्तभूषणम् ॥ ८४-३० ॥
सव्येन पतिमाश्लिष्य वामेनोत्पलधारिणीम् ॥
पाणिना रमणाङ्कस्थां रतिं सम्यक्समर्चयेत् ॥ ८४-३१ ॥
ऐशान्ये पूजयेत्सम्यक् विघ्नराजं प्रियान्वितम् ॥
सृणिपाशधरं कान्तं वराङ्गासृक्कलाङ्गुलिम् ॥ ८४-३२ ॥
माध्वीपूर्णकपालाढ्यं विघ्नराजं दिगम्बरम् ॥
पुष्करे विगलद्रत्नस्फुरच्चषकधारिणम् ॥ ८४-३३ ॥
सिन्दूरसदृशाकारामुद्दाममदविभ्रमाम् ॥
धृतरक्तोत्पलामन्यपाणिना तु ध्वजस्पृशाम् ॥ ८४-३४ ॥
आश्लिष्टकान्तामरुणां पुष्टिमर्चेद्दिगम्बराम् ॥
कर्णिकायां निधी पूज्यौ षट्कोणस्याथ पार्श्वयोः ॥ ८४-३५ ॥
अङ्गानि केसरेष्वेताः पश्चात्पत्रेषु पूजयेत् ॥
अनङ्गकुसुमा पश्चाद्द्वितीयानङ्गमेखला ॥ ८४-३६ ॥
अनङ्गगमना तद्वदनङ्गमदनातुरा ॥
भुवनपाला गगनवेगा षष्ठी चैव ततः परम् ॥ ८४-३७ ॥
शशिलेखा गगनलेखा चेत्यष्टौ यत्र शक्तयः ॥
खङ्गखेटकधारिण्यः श्यामाः पूज्याश्च मातरः ॥ ८४-३८ ॥
पद्माद्बहिः समभ्यर्च्याः शक्तयः परिचारिकाः ॥
प्रथमानङ्गद्वयास्यादनङ्गमदना ततः ॥ ८४-३९ ॥
मदनातुरा भवनवेगा ततो भुवनपालिका ॥
स्यात्सर्वशिशिरानङ्गवेदनानङ्गमेखला ॥ ८४-४० ॥
चषकं तालवृन्तं च ताम्बूलं छत्रमुज्ज्वलम् ॥
चामरे चांशुकं पुष्पं बिभ्राणाः करपङ्कजैः ॥ ८४-४१ ॥
सर्वाभरणसन्दीप्तान् लोकपालान्बहिर्यजेत् ॥
वज्रादीन्यपि तद्बाह्ये देवीमित्थं प्रपूजयेत् ॥ ८४-४२ ॥
मन्त्री त्रिमधुरोपेतैर्हुत्वाश्वत्थसमिद्वरैः ॥
ब्राह्मणान्वशयेच्छीघ्रं पार्थिवान्पद्महोमतः ॥ ८४-४३ ॥
पलाशपुष्पैस्तत्पत्नीं मन्त्रिणः कुसुदैरपि ॥
पञ्चविंशतिधा जप्तैर्जलैः स्नानं दिने दिने ॥ ८४-४४ ॥
आत्मानमभिषिञ्चेद्यः सर्वसौभाग्यवान्भवेत् ॥
पञ्चविंशतिधा जप्तं जलं प्रातः पिबेन्नरः ॥ ८४-४५ ॥
अवाप्य महतीं प्रज्ञां कवीनामग्रणीर्भवेत् ॥
कर्पूरागरुसंयुक्तकुङ्कुमं साधु साधितम् ॥ ८४-४६ ॥
गृहीत्वा तिलकं कुर्याद्राजवश्यमनुत्तमम् ॥
शालिपिष्टमयीं कृत्वा पुत्तलीं मधुरान्विताम् ॥ ८४-४७ ॥
जप्तां प्रतिष्ठितप्राणां भक्षयेद्रविवासरे ॥
वशं नयति राजानं नारीं वा नरमेव च ॥ ८४-४८ ॥
कण्ठमात्रोदके स्थित्वा वीक्ष्य तोयोद्गतं रविम् ॥
त्रिसहस्रं जपेन्मन्त्रं कन्यामिष्टां लभेत्ततः ॥ ८४-४९ ॥
अन्नं तन्मन्त्रितं मन्त्री भुञ्जीत श्रीप्रसिद्धये ॥
लिखितां भस्मना मायां ससाध्यां फलकादिषु ॥ ८४-५० ॥
तत्कालं दर्शयेद्यन्त्रं सुखं सूयेत गर्भिणी ॥
भुवनेशीयमाख्याता सहस्रभुजसम्भवा ॥ ८४-५१ ॥
भुक्तिमुक्तिप्रदा नॄणां स्मर्तॄणां द्विजसत्तम ॥
ततः कल्पान्तरे विप्र कदाचिन्महिषासुरः ॥ ८४-५२ ॥
बभूव लोकपालांस्तु जित्वा भुङ्क्ते जगत्त्रयम् ॥
ततस्त्पीडिता देवा वैकुण्ठं शरणं ययुः ॥ ८४-५३ ॥
ततो देवी महालक्ष्मीश्चक्राद्याङ्गोत्थतेजसा ॥
श्रीर्बभूवमुनिश्रेष्ठ मूर्ता व्याप्तजगत्त्रया ॥ ८४-५४ ॥
स्वयं सा महिषादींस्तु निहत्य जगदीश्वरी ॥
अरविन्दवनं प्राप्ता भजतामिष्टदायिनी ॥ ८४-५५ ॥
तस्याः समर्चनं वक्ष्ये सङ्क्षेपेण श्रृणु द्विज ॥
मृत्युक्रोधेन गुरुणा बिन्दुभूषितमस्तका ॥ ८४-५६ ॥
बीजमन्त्रः श्रियः प्रोक्तो भजतामिष्टदायकः ॥
ऋषिर्भृगुर्निवृच्छन्दो देवता श्रीः समीरिता ॥ ८४-५७ ॥
षड्दीर्घयुक्तबीजेन कुर्यादङ्गानि षट् क्रमात् ॥
ततो ध्यायेज्जगद्वेद्यां श्रियं सम्पत्तिदायिनीम् ॥ ८४-५८ ॥
काञ्चनाभां गजैः श्वेतैश्चतुर्भिः स्वकरोद्धृतैः ॥
हिरण्मयामृतघटैः सिच्यमानां सरोजगाम् ॥ ८४-५९ ॥
वराभयाब्जस्रग्धस्तां क्षौमवस्त्रां किरीटिनीम् ॥
सिद्धलक्षं जपेन्मन्त्रं तत्सहस्रं हुनेत्तथा ॥ ८४-६० ॥
सुगन्धकुसुमैरिष्ट्वा कमलैर्मधुरप्लुतैः ॥
महालक्ष्म्युदिते पीठे मूर्तिं मूलेन कल्पयेत् ॥ ८४-६१ ॥
यजेत्पूर्ववदङ्गानि दिग्दलेष्वर्चयेत्ततः ॥
वासुदेवं सङ्कर्षणं प्रद्युम्नमनिरुद्धकम् ॥ ८४-६२ ॥
हिमपीततमालेन्द्रनीलाभान्पीतवाससः ॥
शङ्खचक्रगदापद्मधारिणस्तांश्चतुर्भुजान् ॥ ८४-६३ ॥
विदिगन्तेषु पत्रेषु दमकादीन्यजेद्गजान् ॥
दमकं पुण्डरीकं च गुग्गुलं च कुरण्टकम् ॥ ८४-६४ ॥
यजेच्छङ्खनिधिं देव्या दक्षिणे प्रमदान्वितम् ॥
मुक्तामाणिक्यसङ्काशौ किञ्चित्स्मितमुखाम्बुजौ ॥ ८४-६५ ॥
अन्योन्यालिङ्गनपरौ शङ्खपङ्कजधारिणौ ॥
विगलद्रत्नवर्षाभ्यां शङ्खभ्या मूर्ध्नि लाञ्छितौ ॥ ८४-६६ ॥
तुन्दिलं कम्बुकनिधिं वसुधारां घनस्तनीम् ॥
वामतः पङ्कजनिधिं प्रियया सहितं यजेत् ॥ ८४-६७ ॥
सिन्दूराभौ भुजश्लिष्टौ रक्तपद्मोत्पलान्वितौ ॥
निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूर्ध्नि लाञ्छितौ ॥ ८४-६८ ॥
तुन्दिलं पङ्कजनिधिं तत्त्वां वसुमतीमपि ॥
दलाग्रेषु यजेदेताबलाक्याद्याः समन्ततः ॥ ८४-६९ ॥
बलाकी विमला चैव कमला वनमालिका ॥
विभीषिका मालिका च शाङ्करी वसुमालिका ॥ ८४-७० ॥
पङ्कजद्वयधारिण्यो मुक्ताहारसमप्रभाः ॥
लोकेशान्पूजयेदन्ते वज्राद्यास्त्राणि तद्बहिः ॥ ८४-७१ ॥
इत्थं यो भजते देवीं विधिना साधकोत्तमः ॥
धनधान्यसमृद्धः स्याच्छ्रियमाप्नोत्यनिन्दिताम् ॥ ८४-७२ ॥
वक्षःप्रमाणसलिले स्थित्वा मन्त्रमिमं जपेत् ॥
त्रिलक्षमर्कगं ध्यायन्स भवेत्कमलालयः ॥ ८४-७३ ॥
विष्णुगेहस्थबिल्वस्य मूले लक्षत्रयं जपेत् ॥
साधको यः स लभते वाञ्छितं धनसञ्चयम् ॥ ८४-७४ ॥
अशोकवह्नावाज्याक्तैस्तण्डुलैर्वशयेज्जगत् ॥
होमेनखादिरे वह्नौ तण्डुलेर्मधुरोक्षितैः ॥ ८४-७५ ॥
राजा वश्यो भवेच्छीघ्रं महालक्ष्मीश्च वर्द्धते ॥
बिल्वच्छायामधिवसन्बिल्वमिश्रहविष्यभुक् ॥ ८४-७६ ॥
संवत्सरत्रयं हुत्वा तत्फलैरथवाम्बुजैः ॥
साधकेन्द्रो महालक्ष्मीं चक्षुषा पश्यति ध्रुवम् ॥ ८४-७७ ॥
अथ कल्पान्तरे ब्रह्मन्देवराज्यविलुम्पकौ ॥
जातौ शुभनिशुम्भौ द्वावसुरौ लोककण्टकौ ॥ ८४-७८ ॥
ततो भ्रष्टाधिकारैस्तु शक्राद्यैः संस्तुता मुने ॥
महासरस्वती देवी तदा चावततार ह ॥ ८४-७९ ॥
हिमालये महापुण्ये शैलोद्देशेऽतिशोभने ॥
ततः शुम्भादिकान्हत्वा दैवतैः परिपूजिता ॥ ८४-८० ॥
वरं दत्त्वाविशद्देवी मानसं नाम वै सरः ॥
तस्या मन्त्रं प्रवक्ष्यामि श्रृणुष्वावहितो मुने ॥ ८४-८१ ॥
ज्ञानामृता शशधरा क्रान्तभालोपशोभिता ॥
वाग्बीजं तेन चाङ्गानि कल्पयेत्साधकोत्तमः ॥ ८४-८२ ॥
ऋषिः सदाशिवश्चास्य छन्दोऽनुष्टुबुदाहृतम् ॥
देवता वाक्समाख्याता भजतामिष्टदायिनी ॥ ८४-८३ ॥
श्वेताम्बरां विसश्वेतां वीणापुस्तकधारिणीम् ॥
दिव्यैराभरणैर्युक्तां ध्यायेद्देवीं निरन्तराम् ॥ ८४-८४ ॥
महासरस्वतीपीठे मूर्तिं मूलेन कल्पयेत् ॥
देवीं सम्पूजयेत्तस्यामङ्गाद्यावरणैः सह ॥ ८४-८५ ॥
आदावङ्गावृतिः पश्चादम्बिकाद्यास्समीरिताः ॥
द्वितीया मातृभिः प्रोक्ता तृतीयाद्यष्टशक्तिभिः ॥ ८४-८६ ॥
चतुर्थी पञ्चमी प्रोक्ता द्वात्रिंशच्छक्तिभघिः पुनः ॥
चतुःषष्ट्या स्मृता षष्ठी शक्तिभिर्लोकनायकैः ॥ ८४-८७ ॥
सप्तमी पुनरेतेषामस्त्रैः स्यादष्टमावृतिः ॥
एवं पूज्या जगद्धात्री श्रीमती वाग्भवाभिधा ॥ ८४-८८ ॥
स्थानेषु पूर्वमुक्तेषु यजेदङ्गानि साधकः ॥
अम्बिका वाग्भवा दुर्गा श्रीशक्तिश्चोक्तलक्षणा ॥ ८४-८९ ॥
ब्रह्माद्याश्च ततः पूज्याः कराली विकराल्युमा ॥
सरस्वती श्रीर्दुर्गा च लक्ष्मीश्चैव धृतिः स्मृतिः ॥ ८४-९० ॥
श्रद्धा मेधा रतिः कान्तिरार्या षोडश शक्तयः ॥
खङ्गखेटकधारिण्यः श्यामाः पूज्याः स्वलङ्कृताः ॥ ८४-९१ ॥
विषघ्नी पुष्टयः प्रज्ञा सिनीवाली कुहूः पुनः ॥
रुद्रवीर्या प्रभा नन्दा पोषणा वृद्धिदा शुभा ॥ ८४-९२ ॥
कालरात्रिर्महारात्रिर्भद्रकाली कपार्दिनी ॥
विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ॥ ८४-९३ ॥
निशुम्भमथनी चण्डमुण्डविनाशिनी ॥
इन्द्राणी चैव रुद्राणी शङ्करार्द्धशरीरिणी ॥ ८४-९४ ॥
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥
अम्बिका ह्रदिनी चैव द्वात्रिंशच्छक्तयः सिताः ॥ ८४-९५ ॥
चक्रहस्ताः पिशाचास्याः सम्पूज्याश्चारुभूषणाः ॥
पिङ्गलाक्षी विशालाक्षी समृद्धिर्बुद्धिरेव च ॥ ८४-९६ ॥
श्रद्धा स्वाहा स्वधा भिक्षा माया सञ्ज्ञा वसुन्धरा ॥
त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ॥ ८४-९७ ॥
सरूपा बहुरूपा च स्कन्दमाता श्रुतप्रिया ॥
विमला कमला पश्चादरुणी पुनरारुणी ॥ ८४-९८ ॥
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥
सन्ध्या माता सती हंसी मर्दिका वज्रिका परा ॥ ८४-९९ ॥
देवमाता भगवती देवकी कमलासना ॥
त्रिमुखी सप्तवदना सुरासुरविमर्द्दिनी ॥ ८४-१०० ॥
लम्बोष्ठी चोर्द्द्वकेशी च बहुशिश्ना वृकोदरी ॥
रथरेखाह्वया पश्चाच्छशिरेखा तथापरा ॥ ८४-१०१ ॥
गगनवेगा पवनवेगा वेगा च तदनन्तरम् ॥
ततो भुवनपालाख्या ततः स्यान्मदनातुरा ॥ ८४-१०२ ॥
अनङ्गानङ्गवदना तथैवानङ्गमेखला ॥
अनङ्गकुसुमा विश्वरूपा सुरभयङ्करी ॥ ८४-१०३ ॥
अक्षोभ्या सप्तवाहिन्या वज्रारूपा शुचिव्रताः ॥
वरदाख्याथ वागीशी चतुःषष्टिस्समीरिताः ॥ ८४-१०४ ॥
चापबाणधराः सर्वा ज्वालाजिह्वा महाप्रभाः ॥
दंष्ट्रिण्यश्चोर्द्ध्वकेश्यस्ता युद्धोपक्रान्तमानसाः ॥ ८४-१०५ ॥
सर्वाभरणसन्दीप्ता पूजनीयाः प्रयत्नतः ॥
लोकेशाः पूर्ववत्पूज्यास्तद्वद्वज्रादिकान्यपि ॥ ८४-१०६ ॥
जपेत्षोडशलक्षं च तद्दशांशं हुनेत्सुधीः ॥
आज्येन खादिरे वह्नौ ततः सिद्धो भवेन्मनुः ॥ ८४-१०७ ॥
कमलैरयुतं हुत्वा राजानं वशमानयेत् ॥
उत्पलैर्जुह्वतो नूनं महालक्ष्मीः प्रजायते ॥ ८४-१०८ ॥
पलाशकुसुमैर्हुत्वा वत्सरेण कंविर्भवेत् ॥
राजीलवणहोमेन वनितां वशमानयेत् ॥ ८४-१०९ ॥
भूमौ भोगांस्तु भुक्त्वान्ते विष्णुलोकमवाप्नुयात् ॥
वाणीबीजजपाशक्तो नात्र कार्या विचारणा ॥ ८४-११० ॥
इति श्रीबृहन्नारदीचयपुरणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवीमन्त्रनिरूपणं नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥