०८१

श्रीसनत्कुमार उवाच ॥
अथ कृष्णस्य मन्त्राणां वक्ष्ये भेदान् मुनीश्वर ॥
यान्समाराध्य मनुजाः साधयन्तीष्टमात्मनः ॥ ८१-१ ॥

शक्तिश्रीमारपूर्वश्च श्रीशक्तिस्मरपूर्वकः ॥
मारशक्तिरमापूर्वो दशार्णा मनवस्त्रयः ॥ ८१-२ ॥

मुनिः स्यान्ना रदच्छन्दो गायत्री देवता पुनः ॥
कृष्णो गोविन्दनामात्र सर्वकामप्रदो नृणाम् ॥ ८१-३ ॥

चक्रैः पूर्ववदङ्गानि त्रयाणामपि कल्पयेत् ॥
ततः किरीटमनुनाव्यापकं हि समाचरेत् ॥ ८१-४ ॥

सुदर्शनस्य मनुना कुर्याद्दिग्बन्धनं तथा ॥
विंशत्यर्णोक्तवत्कुर्यादाद्ये ध्यानार्चनादिकम् ॥ ८१-५ ॥

द्वितीये तु दशार्णोक्तं ध्यानपूजादिकं चरेत् ॥
तृतीये तु हरिं ध्यायेत्समाहितमनाः सुधीः ॥ ८१-६ ॥

शखचक्रधनुर्बाणपाशाङ्कुशधरारुणम् ॥
दोर्भ्यां धृतं धमन्तं च वेणुं कृष्णदिवाकरम् ॥ ८१-७ ॥

एवं ध्यात्वा जपेन्मन्त्रान्पञ्चलक्षं पृथक् सुधीः ॥
जुहुयात्तद्दशांशेन पायसेन ससर्पिषा ॥ ८१-८ ॥

एवं सिद्धे मनौ मन्त्री कुर्यात्काम्यानि पूर्ववत् ॥
श्रीशक्तिकामः कृष्णाय गोविन्दायाग्निसुन्दरी ॥ ८१-९ ॥

रव्यर्णो ब्रह्मगायत्रीकृष्णा ऋष्यादयोऽस्य तु ॥
बीजैरमाब्धियुग्मार्णैः षडङ्गानि प्रकल्पयेत् ॥ ८१-१० ॥

विंशत्यर्णोदितजपध्यानहोमार्चनादिकम् ॥
किं बहूक्तेन मन्त्रोऽयं सर्वाभीष्टफलप्रदः ॥ ८१-११ ॥

श्रीशक्तिस्मरपूर्वोगजन्मा शक्तिरमान्तिकः ॥
दशाक्षरः स एवादौ प्रोक्तः शक्तिरमायुतः ॥ ८१-१२ ॥

मन्त्रौ षोडशरव्यार्णौ चक्रैरङ्गानि कल्पयेत् ॥
वरदाभयहस्ताभ्यां श्लिष्यँतं स्वाङ्गके प्रिये ॥ ८१-१३ ॥

पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रदरोज्वलम् ॥
ध्यात्वैवं प्रजपेल्लक्षदशकं तद्दशांशतः ॥ ८१-१४ ॥

आज्यैर्हुत्वा ततः सिद्धौ भवेतां मन्त्रनायकौ ॥
सर्वकामप्रदौ सर्वसम्पत्सौभगाग्यदौ नृणाम् ॥ ८१-१५ ॥

अष्टादशार्णः कामान्तो मनुः सुतधनप्रदः ॥
नारदोऽस्य मुनिश्छन्दो गायत्री देवता मनोः ॥ ८१-१६ ॥

कृष्णः कामो बीजमुक्तं शक्तिर्वह्निप्रिया मता ॥
षड्वीर्याढ्येन बीजेन षडङ्गानि समाचरेत् ॥ ८१-१७ ॥

पाणौ पायसपक्वं च दक्षे हैयङ्गवीनकम् ॥
वामे दधद्दिव्यदिगम्बरो गोपीसुतोऽवतु ॥ ८१-१८ ॥

ध्यात्वैवं प्रजपेन्मन्त्रं द्वात्रिंशल्लक्षमानतः ॥
दशांशं जुहुयादग्नौ सिताढ्येन पयोंऽधसा ॥ ८१-१९ ॥

पूर्वोक्तवैष्णवे पीठे यजेदष्टादशार्णवत् ॥
पद्मस्थं कृष्णमभ्यर्च्य तर्पयेत्तन्मुखाम्बुजे ॥ ८१-२० ॥

क्षीरेण कदलीपक्कैर्दध्ना हैयङ्गवेन च ॥
पुत्रार्थी तर्पयेदेवं वत्सराल्लभते सुतम् ॥ ८१-२१ ॥

यद्यदिच्छति तत्सर्वं तर्पणादेव सिद्ध्यति ॥
वाक्कामो ङेयुतं कृष्णपदं माया ततः पगरम् ॥ ८१-२२ ॥

गोविन्दाय रमा पश्चाद्दशार्णं च समुद्धरेत् ॥
मनुस्वरयुतौ सर्गयुक्तौ भृगुतदूर्द्धूगौ ॥ ८१-२३ ॥

द्वाविंशत्यक्षरो मन्त्रो वागीशत्वप्रदायकः ॥
ऋषिः स्यान्नारदश्छन्दो गायत्री देवता पुनः ॥ ८१-२४ ॥

विद्याप्रदश्च गोपालः कामो बीजं प्रकीर्तितम् ॥
शक्तिस्तु वाग्भवं विद्याप्राप्तये विनियोजना ॥ ८१-२५ ॥

वामोर्द्ध्वहस्ते दधतं विद्यापुस्तकमुत्तमम् ॥
अक्षमालां च दक्षोर्द्ध्वस्फाटिकीं मातृकामयीम् ॥ ८१-२६ ॥

शब्दब्रह्म मयं वेणुमधः पाणिद्वये पुनः ॥
गायत्रीगीतवसनं श्यामलं कोमलच्छविम् ॥ ८१-२७ ॥

बर्हावतंसं सर्वज्ञं सेवितं मुनिपुङ्गवैः ॥
ध्यात्वैवं प्रमदावेशविलासं भुवनेश्वरम् ॥ ८१-२८ ॥

वेदलक्षं जपेन्मन्त्रं किंशुकैस्तद्दशांशतः ॥
हुत्वा तु पूजयेन्मन्त्री विंशत्यर्णविधानतः ॥ ८१-२९ ॥

एवं यो भजते मन्त्रं भवेद्वागीश्वरस्तु सः ॥
अदृष्टान्यपि शास्त्राणि तस्य गङ्गातरङ्गवत् ॥ ८१-३० ॥

तारः कृष्णयुगं पश्चान्महाकृष्ण इतीरयेत् ॥
सर्वज्ञ त्वम्प्रशंशब्दान्ते सीदमेऽग्निश्च मारम् ॥ ८१-३१ ॥

णान्ति विद्येश विद्यामाशु प्रयच्छ ततश्च मे ॥
त्रयस्त्रिंशदक्षरोऽयं महाविद्याप्रदोमनुः ॥ ८१-३२ ॥

नारदोऽस्य मुनिश्छन्दोऽनुष्टुम् कृष्णोऽस्य देवता ॥
पादैः सर्वेण पञ्चाङ्गं कृत्वा ध्यायेत्ततो हरिम् ॥ ८१-३३ ॥

दिव्योद्याने विवस्वत्प्रतिममणिमये मण्डपे योगपीठे मध्ये यः सर्ववेदान्तमयसुरतरोः सन्निविष्टो मुकुन्दः ॥
वेदैः कल्पद्रुरूपैः शिखरिशतसमालम्बिकोशैश्चतुर्भिर्न्यायैस्तर्कैपुराणैः स्मृतिभिरभिवृतस्तादृशैश्चामराद्यैः ॥ ८१-३४ ॥

दद्याद्बिभ्रत्कराग्रैरपि दरमुरलीपुष्पबाणेक्षुचापानक्षस्पृक्पूर्णकुम्भौ स्मरललितवपुर्दिव्यभूषाङ्गरागः ॥
व्याख्यां वामे वितन्वन् स्फुटरुचिरपदो वेणुना विश्वमात्रे शब्दब्रह्मोद्भवेन श्रियमरुणरुचिर्बल्लवीवल्लभो नः ॥ ८१-३५ ॥

एवं ध्यात्वा जपेल्लक्षं दशांशं पायसैर्हुनेत् ॥
अष्टादशार्णवत्कुर्याद्यजनं चास्य मन्त्रवित् ॥ ८१-३६ ॥

तारो नमो भगवते नन्दपुत्राय संवदेत् ॥
आनन्दवपुषे दद्यादृशार्णं तदनन्तरम् ॥ ८१-३७ ॥

अष्टाविंशतिवर्णोऽयं मन्त्रः सर्वेष्टदायकः ॥
नन्दपुत्रपदं ङेन्तं श्यामलाङ्गपदं तथा ॥ ८१-३८ ॥

तथा बालवपुःकृष्णं गोविन्दं च तथा पुनः ॥
दशार्णोऽतो भवेन्मन्त्रो द्वात्रिंशदक्षरान्वितः ॥ ८१-३९ ॥

अनयोर्नारदऋषिश्छन्दस्तूष्णिगनुष्टुभौ ॥
देवता नन्दपुत्रस्तु विनियोगोऽखिलाप्तये ॥ ८१-४० ॥

चक्रैः पञ्चाङ्गमर्चास्यादङ्गदिक्पालहेतिभिः ॥
दक्षिणे रत्नचषकं वामे सौवर्णनेत्रकम् ॥ ८१-४१ ॥

करे दधानं देवीभ्यां श्लिष्टं सञ्चिन्तयेद्विभुम् ॥
लक्षं जपो दशांशेन जुहुयात्पायसेन तु ॥ ८१-४२ ॥

एताभ्यां सिद्धमन्त्राभ्यां मन्त्री कुर्याद्यथेप्सितम् ॥
प्रणवः कमला माया नमो भगवते ततः ॥ ८१-४३ ॥

नन्दपुत्राय तत्पश्चाद्बालान्ते वपुषे पदम् ॥
ऊनविंशतिवर्णोऽयं मुनिर्ब्रह्मा समीरितः ॥ ८१-४४ ॥

छन्दोऽनुष्टुप् देवता च कृष्णो बालवपुः स्वयम् ॥
मन्त्रोऽयं सर्वसम्पत्तिसिद्धये सेव्यते बुधैः ॥ ८१-४५ ॥

तारो ह्यद्भगवानङेन्तो रुक्मिणीवल्लभाय च ॥
वह्निजायावधिः प्रोक्तो मन्त्रः षोडशवर्णवान् ॥ ८१-४६ ॥

नारदोऽस्य मुनिश्छन्दोऽनुष्टुप् च देवता मनोः ॥
रुक्मिणीवल्लभश्चन्द्रदृग्वेदाङ्गाक्षिवर्णकैः ॥
पञ्चाङ्गानि प्रकुर्वीत ततो ध्यायेत्सुरेश्वरम् ॥ ८१-४७ ॥

तापिच्छच्छविरङ्कगां प्रियतमां स्वर्णप्रभामम्बुजप्रोद्यद्दामभुजां स्ववामभुजयाश्लिष्यन्स्वचित्ताशया ॥
श्लिष्यन्तीं स्वयमन्यहस्तविलत्सौवर्णवेत्रश्चिरं पायान्नः सुविशुद्धपीतवसनो नानाविभूषो हरिः ॥ ८१-४८ ॥

ध्यात्वैवं प्रजपेल्लक्षं रक्तैः पद्मैर्दशांशतः ॥ ८१-४९ ॥

त्रिमध्वक्तैर्हुनेत्पीठे पूर्वोक्ते पूजयेद्धरिम् ॥
अङ्गैर्नारदमुख्यैश्च लोकेशैश्च तदायुधैः ॥ ८१-५० ॥

एवं सिद्धो मनुर्दद्यात्सर्वान्कामांश्च मन्त्रिणे ॥
लीलादण्डपदाब्जोऽपि जनसंसक्तदोः पदम् ॥ ८१-५१ ॥

दण्डान्ते वा धरावह्निरधीशाढ्योऽथ लोहितः ॥
मेघश्यामपदं पश्चाद्भगवान् सलिलंसदृक् ॥ ८१-५२ ॥

विष्णो इत्युक्त्वा ठद्वयं स्यादेकोनत्रिंशदर्णवान् ॥
नारदोऽस्य मुनिश्छन्दोऽनुष्टुप् च देवता मनोः ॥ ८१-५३ ॥

लीलादण्डहरिः प्रोक्तो मन्वब्धधियुगवह्निभिः ॥
वेदैः पञ्चां गकं भागैर्मन्त्रवर्णोत्थितैः क्रमात् ॥ ८१-५४ ॥

सम्मोहयंश्च निजवामकरस्थलीलादण्डेन गोपयुवतीः परसुन्दरीश्च ॥
दिश्यन्निजप्रियसखांसगन्दक्षहस्तो देवश्रियं निहतकंस उरुक्रमो नः ॥ ८१-५५ ॥

लक्षं जपो दशांशेन जुहुयात्तिलतण्डुलैः ॥
त्रिमध्वक्तैस्ततोऽभ्यर्चेदङ्गं दिक्पालहेतिभिः ॥ ८१-५६ ॥

लीलादण्ड हरिं यो वै भजते नित्यमादरात् ॥
स सर्वैः पूज्यते लोकैस्तस्य गेहे स्थिरा रमा ॥ ८१-५७ ॥

सद्यारूढा स्मृतिस्तोयं केशवाढ्यधरायुगम् ॥
भयाग्निवल्लभामन्त्रः सप्तार्णः सर्वसिद्धिदः ॥ ८१-५८ ॥

ऋषिः स्यान्नारदश्छन्दो उष्णिग्गोवल्लमस्य तु ॥
देवतापूर्ववच्चक्रैः पञ्चाङ्गानि तु कल्पयेत् ॥ ८१-५९ ॥

ध्येयो हरिः सकपिलागणमध्यसंस्थस्ता आह्वयन्दधद्दक्षिणदोस्थवेणुम् ॥
पाशं सयष्टिमपरत्र पयोदनीलः पीताम्बराहिरिपुपिच्छकृतावतंसः ॥ ८१-६० ॥

सप्तलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः ॥
गोदुग्धैः पूजयेत्पीठे स्यादङ्गैः प्रथमावृतिः ॥ ८१-६१ ॥

सुवर्णपिङ्गलां गौरपिङ्गलां रक्तपिङ्गलाम् ॥
गुडपिङ्गां बभ्रुवर्णां चोत्तमां कपिलां तथा ॥ ८१-६२ ॥

चतुष्कपिङ्गलां पीतपिङ्गलां चोत्तमां शुभाम् ॥
गोगणाष्टकमभ्यर्च्य लोकेशानुयुधैर्युतान् ॥ ८१-६३ ॥

सम्पूज्यैवं मनौ सिद्धे कुर्यात्काम्यानि मन्त्रवित् ॥
अष्टोत्तरसहस्रं यः पयोभिर्दिनशो हुनेत् ॥ ८१-६४ ॥

पक्षात्सगोगणो मुक्तो दशार्णे चाप्ययं विधिः ॥
तारो हृद्भगवान् ङेन्तः श्रीगोविन्दस्तथा भवेत् ॥ ८१-६५ ॥

द्वादशार्णो मनुः प्रोक्तो नारदोऽस्य मुनिर्मतः ॥
छन्दः प्रोक्तं च गायत्री श्रीगोविन्दोऽस्य देवता ॥

चन्द्राक्षियुगभूतार्णैः सर्वैः पञ्चाङ्गकल्पनम् ॥ ८१-६६ ॥
ध्यायेत्कल्पद्रुमूलाश्रितमणिविलसद्दिव्यसिंहासनस्थं मेघश्यामं पिशङ्गांशुकमतिसुभगं शङ्खरेत्रे कराभ्याम् ॥ ८१-६७ ॥

बिभ्राणं गोसहस्रैर्वृतममरपतिं प्रौढहस्तैककुम्भप्रश्चोतत्सौधधारास्नपितमभिनवाम्भोजपत्राभनेत्रम् ॥ ८१-६८ ॥

रविलक्षं जपेन्मन्त्रं दुग्धैर्हुत्वा दशांशतः ॥
यजेच्च पूर्ववद्गोष्ठस्थितं वा प्रतिमादिषु ॥ ८१-६९ ॥

पूर्वोक्ते वैष्णवे पीठे मूर्तिं सङ्कल्प्य मूलतः ॥
तत्रावाह्य यजेत्कृष्णं गुरुपूजनपूर्वकम् ॥ ८१-७० ॥

रुक्मिणीं सत्यभामां च पार्श्वयोरिन्द्रमग्रतः ॥
पृष्ठतः सुरभिं चेष्ट्वा केसरेष्वङ्गपूजनम् ॥ ८१-७१ ॥

कालिं द्याद्या महिष्योऽष्टौ वसुपत्रेषु संस्थिताः ॥
पीठकोणेषु बद्ध्वादिकिङ्कणीं च तथा पुनः ॥ ८१-७२ ॥

दामानि पृष्ठयोर्वेणुं पुरः श्रीवत्सकौस्तुभौ ॥
अग्रतो वनमासादिर्दिक्ष्वष्टसु तथा स्थिताः ॥ ८१-७३ ॥

पाञ्चजन्यं गदा चक्रं वसुदेवश्च देवकी ॥
नन्दगोपो यशोदा च सगोगोपालगोपिकाः ॥ ८१-७४ ॥

इन्द्राद्याश्च स्थिता बाह्ये वज्राद्याश्च ततः परम् ॥
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ॥ ८१-७५ ॥

शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्टितः ॥
विष्वक्सेनश्च सम्पूज्यः स्वात्मा चार्च्यस्ततः परम् ॥ ८१-७६ ॥

एककालं त्रिकालं वा यो गोविन्दं यजेन्नरः ॥
स चिरायुर्निरातङ्को धनधान्यपतिर्भवेत् ॥ ८१-७७ ॥

स्मृतिः सद्यान्विता चक्री दक्षकर्णयुतोधरा ॥
नाथाय हृदयान्तोऽयं वसुवर्णो महामनुः ॥ ८१-७८ ॥

मुनिर्ब्रह्मास्य गायत्री छन्दः कृष्णोऽस्य देवता ॥
वर्णद्वन्द्वैश्च सर्वेण पञ्चाङ्गान्यस्य कल्पयेत् ॥ ८१-७९ ॥

पञ्चवर्षमतिलोलमङ्गणे धावमानमतिचञ्चलेक्षणम् ॥
किङ्किणीवलयहारनूपुरै रञ्जितं नमत गोपबालकम् ॥ ८१-८० ॥

एवं ध्यात्वा जपेदष्टलक्षं मन्त्री दशांशतः ॥
ब्रह्मवृक्षसमिद्भिश्च जुहुयात्पायसेन वा ॥ ८१-८१ ॥

प्रागुक्ते वैष्णवे पीठे मूर्तिं सङ्कल्प्य मूलतः ॥
तत्रावाह्यार्चयेत्कृष्णं मन्त्री वै स्थिरमानसः ॥ ८१-८२ ॥

केसरेषु चतुर्दिक्षु विदिक्ष्वङ्गानि पूजयेत् ॥
वासुदेवं बलं दिक्षु प्रद्युम्नमनिरुद्धकम् ॥ ८१-८३ ॥

विदिक्षु रुक्मिणीसत्यभामे वै लक्ष्यणर्क्षजे ॥
लोकेशान्सायुधान्बाह्ये एवं सिद्धो भवेन्मनुः ॥ ८१-८४ ॥

तारः श्रीभुवनाकामो ङेन्तं श्रीकृष्णमीरयेत् ॥
श्रीगोविन्दं ततः प्रोच्य गोपीजनपदं ततः ॥ ८१-८५ ॥

वल्लभाय ततः पद्मात्रयं तत्वाक्षरो मनुः ॥
मुन्यादिकं च पूर्वोक्तं सिद्धगोपालकं स्मरेत् ॥ ८१-८६ ॥

माधवीमण्डपासीनौ गरुडेनाभिपालितौ ॥
दिव्यक्रीडासु निरतौ रामकृष्णौ स्मरन् जपेत् ॥ ८१-८७ ॥

पूजनं पूर्ववच्चास्य कर्तव्यं वैष्णवोत्तमैः ॥
चक्री मुनिस्वरोपेतः सर्गी चैकाक्षरो मनुः ॥ ८१-८८ ॥

कृष्णेति द्व्यक्षरः प्रोक्तः कामादिः स्यात्त्रिवर्णकः ॥
सैव ङेन्तो युगार्णः स्यात्कृष्णाय नम इत्यपि ॥ ८१-८९ ॥

पञ्चाक्षरश्च कृष्णाय कामरुद्धस्तथा परः ॥
गोपालायाग्निजायान्तो रसवर्णः प्रकीर्तितः ॥ ८१-९० ॥

कामः कृष्णपदं ङेन्तं वह्निजायान्तकः परः ॥
कृष्णगोविन्दकौ ङेन्तौ सप्तार्णः सर्वसिद्धिदः ॥ ८१-९१ ॥

श्रीशक्तिकामाः कृष्णाय कामः सप्ताक्षरः परः ॥
कृष्णगोविन्दकौ ङेन्तौ हृदन्तोऽन्यो नवाक्षरः ॥ ८१-९२ ॥

ङेन्तौ च कृष्णगोविन्दौ तथा कामः पुटः परः ॥
कामः शार्ङ्गी धरासंस्थो मन्विन्द्वाढ्यश्च मन्मथः ॥ ८१-९३ ॥

श्यामलाङ्गाय हृदयं दशार्णः सर्वसिद्धिदः ॥
बालान्ते वपुषे कृष्णायाग्निजायान्तिमोऽपरः ॥ ८१-९४ ॥

द्विठान्ते बालवपुषे कामः कृष्णाय संवदेत् ॥
ततो ध्यायन्स्वहृदये गोपीजनमनोहरम् ॥ ८१-९५ ॥

श्रीवृन्दाविपिनप्रतोलिषु नमत्सम्फुल्लवल्लीततिष्वन्तर्जालविघट्टैनः सुरभिणा वातेन संसेविते ॥
कालिन्दीपुलिने विहारिणमथो राधैकजीवातुकं वन्दे नन्दकिशोरमिन्दुवदनं स्निग्धाम्बुदाडम्बरम् ॥ ८१-९६ ॥

पूर्वाक्तवर्त्मना पूजा ज्ञेया ह्येषां मुनीश्वर ॥
देवकीसुतवर्णान्ते गोविन्दपदमुच्चरेत् ॥ ८१-९७ ॥

वासुदेवपदं प्रोच्य सम्बृद्ध्यन्तं जगत्पतिम्म् ॥
देहि मे तनयं पश्चात्कृष्ण त्वामहमीरयेत् ॥ ८१-९८ ॥

शरणं गत इत्यन्तो मन्त्रो द्वात्रिंशदक्षरः ॥
नारदोऽस्य मुनिश्छन्दो गायत्री चाप्यनुष्टुभम् ॥
देवः सुतप्रदः कृष्णः पादैः सर्वेण चाङ्गकम् ॥ ८१-९९ ॥

विजयेन युतो रथस्थितः प्रसमानीय समुद्रमध्यतः ॥
प्रददत्तनयान् द्विजन्मने स्मरणीयो वसुदेवनन्दनः ॥ ८१-१०० ॥

लक्षं जपोऽयुतं होमस्तलैर्मधुरसम्प्लुतैः ॥
अर्चा पूर्वोदिते पीठे अङ्गलोकेश्वरायुधैः ॥ ८१-१०१ ॥

एवं सिद्धे मनौ मन्त्री वन्ध्यायामपि पुत्रवान् ॥
तारो माया ततः सान्तसेन्दुष्वान्तश्च सर्ववान् ॥ ८१-१०२ ॥

सोऽहं वह्निप्रियान्तोऽयं मन्त्रो वस्वक्षरः परः ॥
पञ्चब्रह्मात्मकस्यास्य मन्त्रस्य मुनि सत्तमः ॥ ८१-१०३ ॥

ऋषिर्ब्रह्मा च परमा गायत्रीछन्द ईरितम् ॥
परञ्ज्योतिः परं ब्रह्म देवता परिकीर्तितम् ॥ ८१-१०४ ॥

प्रणवो बीजमाख्यातं स्वाहा शक्तिरुदाहृता ॥
स्वाहेति हृदयं प्रोक्तं सोऽहं वेति शिरो मतम् ॥ ८१-१०५ ॥

हंसश्चेति शिखा प्रोक्ता हृल्लेखा कवचं स्मृतम् ॥
प्रणवो नेत्रमाख्यातमस्त्रं हरिहरेति च ॥ ८१-१०६ ॥

स ब्रह्मा स शिवो विप्र स हरिः सैव देवराट् ॥
स सर्वरूपः सर्वाख्यः सोऽक्षरः परमः स्वराट् ॥ ८१-१०७ ॥

एवं ध्यात्वा जपेदष्टलक्षहोमो दशांशतः ॥
पूजाप्रणवपीठेऽस्य साङ्गावरणकैर्मता ॥ ८१-१०८ ॥

एवं सिद्धे मनौ ज्ञानं साधकेन्द्रस्य नारद ॥
जायते तत्त्वमस्यादिवाक्योक्तं निर्विकल्पकम् ॥ ८१-१०९ ॥

कामो ङेन्तो हृषीकेशो हृदयान्तो गजाक्षरः ॥
ऋषिर्ब्रह्मास्य गायत्री छन्दो गायत्रमीरितम् ॥ ८१-११० ॥

देवता तु हृषीकेशो विनियोगोऽखिलाप्तये ॥
कामो बीजं तथायेति शक्तिरस्य ह्युदाहृता ॥ ८१-१११ ॥

बीजेनैव षडङ्गानि कृत्वा ध्यानं समाचरेत् ॥
पुरुषोत्तममन्त्रोक्तं सर्वं वास्य प्रकीर्तितम् ॥ ८१-११२ ॥

लक्षं जपोऽयुतं होमो घृतेनैव प्रकीर्तितः ॥
तर्पणं सर्वकामाप्त्यै प्रोक्तं सम्मोहिनीसुमैः ॥ ८१-११३ ॥

श्रीबीजं शक्तिरापेति बीजेनैव षडङ्कस्तथा ॥
त्रैलोक्यमोहनः शब्दो नमोंऽतो मनुरीरितः ॥ ८१-११४ ॥

ऋषिर्ब्रह्मा च गायत्री छन्दः श्रीधरदेवता ॥
श्रीबीजं शक्तिरापेति बीजेनैव षडङ्गकम् ॥ ८१-११५ ॥

पुरुषोत्तमवद्ध्यानपूजादिकमिहोदितः ॥
लक्षं जपस्तथा होम आज्येनैव दशांशतः ॥ ८१-११६ ॥

सुगन्धश्वेतपुष्पैस्तु पूजां होमादिकं चरेत् ॥
एवं कृते तु विप्रेन्द्र साक्षात्स्याच्छ्रीधरः स्वयम् ॥ ८१-११७ ॥

अच्युतानन्तगोविन्दपदं ङेन्तं नमोन्तिमम् ॥
मन्त्रोऽस्य शौनकऋषिर्विराट् छन्दः प्रकीर्तितम् ॥ ८१-११८ ॥

एषां पराशरव्यासनारदा ऋषयः स्मृताः ॥
विराट् छन्दः समाख्यातं परब्रह्मात्मको हरिः ॥ ८१-११९ ॥

देवताबीजशक्ती तु पूर्वोक्ते साधकैर्मते ॥
शङ्खचक्रधरं देवं चतुर्बाहुं किरीटिनम् ॥ ८१-१२० ॥

सर्वैरप्यायुधैर्युक्तं गरुडोपरि संस्थितम् ॥
सनकादिमुनीन्द्रैस्तु सर्वदेवैरुपासितम् ॥ ८१-१२१ ॥

श्रीभूमिसहितं देवमुदयादित्यसन्निभम् ॥
प्रातरुद्यत्सहस्रांशुमण्डलोपमकुण्डलम् ॥ ८१-१२२ ॥

सर्वलोकस्य रक्षार्थमनन्तं नित्यमेव हि ॥
अभयं वरदं देवं प्रयच्छन्तं मुदान्वितम् ॥ ८१-१२३ ॥

एवं ध्यात्वा र्चयेत्पीठे वैष्णवे सुसमाहितः ॥
आद्यावरणसङ्गैः स्याच्चक्रशङ्खगदासिभिः ॥ ८१-१२४ ॥

मुशलाढ्यधनुः पाशाङ्कुशैः प्रोक्तं द्वितीयकम् ॥
सनकादिकशाक्तेयव्यासनारदशौनकैः ॥ ८१-१२५ ॥

तृतीयं लोकपालैस्तु चतुर्थं परिकीर्तितम् ॥
लक्षं जपो दशांशेन घृतेन हवनं स्मृतम् ॥ ८१-१२६ ॥

एवं सिद्धे मनौ मन्त्री प्रयोगानप्युपाचरेत् ॥
श्रीवृक्षमूले देवेशं ध्यायन्वैरोगिणं स्मरन् ॥ ८१-१२७ ॥

स्पृष्ट्वा जप्त्वायुतं साध्यं स्मृत्वा वा मनसा द्विज ॥
रोगिणां रोगनिर्मुक्तिं कुर्यान्मन्त्री तु मण्डलात् ॥ ८१-१२८ ॥

कन्यार्थी जुहुयाल्लाजैर्बिल्वैश्चापि धनाप्तये ॥
वस्त्रार्थी गन्धकुसुमैरारोग्याय तिलैर्हुनेत् ॥ ८१-१२९ ॥

रविवारे जले स्थित्वा नाभिमात्रे जपेत्तु यः ॥
अष्टोत्तरसहस्रं वै स ज्वरं नाशयेद् ध्रुवम् ॥ ८१-१३० ॥

विवाहार्थं जपेन्मासं शशिमण्डलमध्यगम् ॥
ध्यात्वा कृष्णं लभेत्कन्यां वाञ्छितां चापि नारद ॥ ८१-१३१ ॥

वसुदेवपदं प्रोच्य निगडच्छेदशब्दतः ॥
वासुदेवाय वर्मास्त्रे स्वाहान्तो मनुरीरितः ॥ ८१-१३२ ॥

नारदोऽस्य ऋषिश्छन्दो गायत्री कृष्णदेवता ॥
वर्म बीजं शिरः शक्तिरन्यत्सर्वं दशार्णवत् ॥ ८१-१३३ ॥

बालः पवनदीर्घैदुयुक्तो झिण्टीशयुर्जलम् ॥
अत्रिर्व्यासाय हृदयं मनुरष्टाक्षरोऽवतु ॥ ८१-१३४ ॥

ब्राह्मानुष्टुप् मुनिश्छन्दो देवः सत्यवतीसुतः ॥
आद्यं बीजं नमः शक्तिदीर्घाढ्यो नादिनाङ्गकम् ॥ ८१-१३५ ॥

व्याख्यामुद्रिकया लसत्करतलं सद्योगपीठस्थितं वामे जानुतले दधानमपरं हस्तं सुविद्यानिधिम् ॥
विप्रव्रातवृतं प्रसन्नमनसं पाथोरुहाङ्गद्युतिं पाराशर्य्यमतीव पुण्यचरितं व्यासं स्मरेत्सिद्धये ॥ ८१-१३६ ॥

जपेदष्टसहस्राणि पायसैर्होममाचरेत् ॥
पूर्वोक्तपीठे व्यासस्य पूर्वमङ्गानि पूजयेत् ॥ ८१-१३७ ॥

प्राच्यादिषु यजेत्पैलं वैशम्पायनजैमिनी ॥
सुमम्प्तुं कोणभागेषु श्रीशुकं रोमहर्षणम् ॥ ८१-१३८ ॥

उग्रश्रवसमन्यांश्च मुनीन्सेन्द्रादिकाययुधान् ॥
एवं सिद्धमनुर्मन्त्री कवित्वं शोभनाः प्रजाः ॥ ८१-१३९ ॥

व्याख्यानशक्तिं कीर्तिं च लभते सम्पदां चयम् ॥
नृसिंहो माधवो दृष्टो लोहितो निगमादिमः ॥ ८१-१४० ॥

कृशानुजाया पञ्चार्णो मनुर्विषहरः परः ॥
अनन्तपङ्क्तिपक्षीन्द्रा मुनिश्छन्दः सुरा मताः ॥ ८१-१४१ ॥

तारवह्निप्रिये बीजशक्ती मन्त्रस्य कीर्तिते ॥
ज्वलज्वल महामन्त्री स्वाहा हृदयमीरितम् ॥ ८१-१४२ ॥

गरुडेति पदस्यान्ते चूडाननशुचिप्रिया ॥
शिरोमन्त्रो गरुडतः शिखे स्वाहा शिखा मनुः ॥ ८१-१४३ ॥

गरुडेति पदं प्रोच्य प्रभञ्जययुगं वदेत् ॥
प्रभेदययुगं पश्चाद्वित्रासय विमर्दय ॥ ८१-१४४ ॥

प्रत्येकं द्विस्ततः स्वाहा कवचस्य मनुर्मतः ॥
उग्ररूपधरान्ते तु सर्वविषहरेति च ॥ ८१-१४५ ॥

भीषयद्वितयं प्रोच्य सर्वं दहदहेति च ॥
भस्मीकुरु ततः स्वाहा नेत्रमन्त्रोऽयमीरितः ॥ ८१-१४६ ॥

अप्रतिहतवर्णान्ते बलाय प्रहतेति च ॥
शासनान्ते तथा हुं फट् स्वाहास्त्रमनुरीरितः ॥ ८१-१४७ ॥

पादे कटौ हृदि मुखे मूर्ध्निं वर्णान्प्रविन्यसेत् ॥ ८१-१४८ ॥

तप्तस्वर्णनिभं फणीन्द्रनिकरैःक्लृप्ताङ्ग भूषम्प्रभुं स्तर्तॄणां शमयन्तमुग्रमखिलं नॄणां विषं तत्क्षणात् ॥
चञ्च्वग्रप्रचलद्भुजङ्गमभयं पाण्योर्वरं बिभ्रतं पक्षोच्चारितसामगीतममलं श्रीपक्षिराजं भजे ॥ ८१-१४९ ॥

पञ्चलक्षं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः ॥
पूजयेन्मातृकापीठे गरुडं वेदविग्रहम् ॥ ८१-१५० ॥

चतुर्थ्यन्तः पक्षिराजः स्वाहा पीठमनुः स्मृतः ॥
दृष्ट्वाङ्गं कर्णिकामध्ये नागान्यन्त्रेषु पूजयेत् ॥ ८१-१५१ ॥

तद्बिहिर्लोकपालांश्च वज्राद्यैर्विलसत्करान् ॥
एवं सिद्धमनुर्मन्त्री नाशयेद्गरलद्वयम् ॥
देहान्ते लभते चापिश्रीविष्णोः परमं पदम् ॥ ८१-१५२ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कृष्णादिमन्त्रभेदनिरूपणं नामैकाशीतितमोऽध्यायः ॥ ८१ ॥