०८०

सूत उवाच ॥
श्रुत्वा तु नारदो विप्राः कुमारवचनं मुनिः ॥
यत्पप्रच्छ पुनस्तच्च युष्मभ्यं प्रवदाम्यहम् ॥ ८0-१ ॥

कार्तवीर्यस्य कवचं तथा हनुमतोऽपि च ॥
चरितं च महत्पुण्यं श्रुत्वा भूयोऽब्रवीद्वचः ॥ ८0-२ ॥

नारद उवाच ॥
साधु साधु मुनिश्रेष्ठ त्वयातिकरुणात्मना ॥
श्रावितं चरितं पुण्यं शिवस्य च हनूमतः ॥ ८0-३ ॥

तन्त्रस्यांस्य क्रमप्राप्तं कथनीयं च यत्त्वया ॥
तत्प्रब्रूहि महाभाग किं पृष्ट्वान्यद्विदांवर ॥ ८0-४ ॥

सनत्कुमार उवाच ॥
अथ वक्ष्ये कृष्णमन्त्रान्भुक्तिमुक्तिफलप्रदान् ॥
ब्रह्माद्या यान्समाराध्य सृष्ट्यादिकरणे क्षमाः ॥ ८0-५ ॥

कामः कृष्णपदं ङतं गोविन्दं च तथाविधम् ॥
गोपीजनपदं पश्चाद्वल्लभायाग्निसुन्दरी ॥ ८0-६ ॥

अष्टादशार्णो मन्त्रोऽयं दुर्गाधिष्ठातृदैवतः ॥
नारदोऽस्य मुनिश्छन्दो गायत्री देवता पुनः ॥ ८0-७ ॥

श्रीकृष्णः परमात्मा च कामो बीजं प्रकीर्तितम् ॥
स्वाहा शक्तिर्नियोगस्तु चतुर्वर्गप्रसिद्धये ॥ ८0-८ ॥

ऋषिं शिरसि वक्त्रे तु छन्दश्च हृदि देवताम् ॥
गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः ॥ ८0-९ ॥

युगेवदाब्धि निगमैर्द्वाभ्यां वर्णैर्मनूद्भवैः ॥
पञ्चाङ्गानि प्रविन्यस्य तत्त्वन्यासं समाचरेत् ॥ ८0-१0 ॥

हृदन्तिमादिकान्तार्णमपराद्यानि चात्मने ॥
मत्यन्तानि च तत्वानि जीवाद्यानि न्यसेत्क्रमात् ॥ ८0-११ ॥

जीवं प्राणं मतिमहङ्कारं मनस्तथैव च ॥
शब्दं स्पर्शं रूपरसौ गन्धं श्रोत्रं त्वचं तथा ॥ ८0-१२ ॥

नेत्रं च रसनाङ्घ्राणं वाचं पाणिं पदेन्द्रियम् ॥
पायुं शिश्नमथाकाशं वायुं वह्निं जलं महीम् ॥ ८0-१३ ॥

जीवं प्राणं च सर्वागे मत्यादित्रितयं हृदि ॥
मूर्द्धास्यहृद्गुह्य पादेष्वथ शब्दादिकान्न्यसेत् ॥ ८0-१४ ॥

कर्णादिस्वस्वस्थानेषु श्रोत्रादीनीन्द्रियाणि च ॥
तथा वागादीन्द्रियाणि स्वस्वस्थानषु विन्यसेत् ॥ ८0-१५ ॥

मूद्धस्यहृद्गुह्यपादेष्वाकाशादीन्न्यसेत्ततः ॥
हृत्पुण्डरीकमर्केन्दुह्निबिम्बान्यनुक्रमात् ॥ ८0-१६ ॥

द्विषट्ह्यष्टदशकलाव्याप्तानि च तथा मतः ॥
भूताष्टां गाक्षिपदगैर्वर्णैः प्रग्विन्न्यसेद्धृदि ॥ ८0-१७ ॥

अथाकाशादिस्थलेषु वासुदेवादिकांस्ततः ॥
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ८0-१८ ॥

नारायणश्च क्रमशः परमेष्ठ्यादिभिर्युताः ॥
परमेष्ठिपुमाञ्च्छौ चविश्वनिवृत्तिसर्वकाः ॥ ८0-१९ ॥

श्वेतानिलाग्न्यम्बुभूमिवर्णैः प्राग्वत्प्रविन्यसेत् ॥
स्वबीजाद्यं कोपतत्वं नृसिंहं व्यापकेन च ॥ ८0-२0 ॥

प्राग्वद्विन्यस्य सर्वाङ्गे तत्त्वन्यासोऽयमीरितः ॥
मकाराद्या आद्यवर्णाः सर्वे स्युश्चन्द्रभूषिताः ॥ ८0-२१ ॥

वासुदेवादिका ज्ञेया ङेन्ताः साधकसत्तमैः ॥
प्राणायामं ततः कृत्वा पूरकुम्भकरेचकैः ॥ ८0-२२ ॥

चतुर्भिः षड्भर्द्वाभ्यां च मूलमन्त्रेण मन्त्रवित् ॥
केचिदाहुरिहाचार्याः प्राणायामोत्तरं पुनः ॥ ८0-२३ ॥

पीठन्यासं विधायाथ न्यासानन्यान्समाचरेत् ॥
दशतत्त्वादि विन्यस्य वक्ष्यमाणविधानतः ॥ ८0-२४ ॥

मूर्तिपञ्जरनामानं पूर्वोक्तं विन्यसेद्बुधः ॥
सर्वाङ्गे व्यापकं कृत्वा किरीटमनुना सुधीः ॥ ८0-२५ ॥

ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः ॥
पञ्चाङ्गुलीषु करयोः पञ्चाङ्गं विन्यसेत्ततः ॥ ८0-२६ ॥

त्रिशो मूलेन मूर्द्धादिपादान्तं व्यापकं न्यसेत् ॥
सकृद्व्यापय्य तारेण मन्त्रन्यासं ततश्चरेत् ॥ ८0-२७ ॥

शिरोललाटे भ्रूमध्ये कर्णयोश्चक्षुषोस्तथा ॥
घ्राणयोर्वदने कण्ठे हृदि नाभौ तथा पुनः ॥ ८0-२८ ॥

कट्यां लिङ्गे जानुनोश्च पादयोर्विन्यसेत्क्रमात् ॥
हृदन्तान्मन्त्रवर्णांश्च ततो मूर्ध्नि ध्रुवं न्यसेत् ॥ ८0-२९ ॥

पुनर्नयनयोरास्ये हृदि गुह्ये च पादयोः ॥
विन्यसेद्धृदयान्तानि मनोः पञ्चपदानि च ॥ ८0-३0 ॥

भूयो मुन्यादिकं न्यस्य पञ्चाङ्गं पूर्ववन्न्‌यसेत् ॥
अथ वक्ष्ये महागुह्यं सर्वन्यासोत्तमोत्तमम् ॥ ८0-३१ ॥

यस्य विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः ॥
अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः ॥ ८0-३२ ॥

यस्याराधनतो मन्त्री कृष्णसन्निध्यतां व्रजेत् ॥
ताराद्याभिर्व्याहृतिभिः सम्पुटं विन्यसेन्मनुम् ॥ ८0-३३ ॥

मन्त्रेण पुटितांश्चापि प्रणवाद्यांस्ततो न्यसेत् ॥
गायत्र्या पुटुतं मन्त्रं विन्यसेन्मातृकास्थले ॥ ८0-३४ ॥

मन्त्रेण पुटितां तां च गायत्रीं विन्यसेत्क्रमात् ॥
मातृकापुटितं मूलं विन्यसेत्साधकोत्तमः ॥ ८0-३५ ॥

मूलेन पुटितां चैव मातृकां विन्यसेत्क्रमात् ॥
तृचं न मातृकावर्णान्पूर्वं तत्तत्स्थले सुधीः ॥ ८0-३६ ॥

विन्यसेन्न्यासषट्कं च षोढा न्यासोऽयमीरितः ॥
अनेन न्यासवर्येण साक्षात्कृष्णसमो भवेत् ॥ ८0-३७ ॥

न्यासेन पुटितं दृष्ट्वा सिद्धगन्धर्वकिन्नराः ॥
देवा अपि नमन्त्येनं किम्पुनर्मानवा भुवि ॥ ८0-३८ ॥

सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः ॥
देवं ध्यायन्स्वहृदये सर्वाभीष्टप्रदायकम् ॥ ८0-३९ ॥

उत्फुल्लकुसुमव्रातनम्रशाखैर्वरद्रुमैः ॥
सस्मेयमञ्जरीवृन्दवल्लरीवेष्टितैः शुभैः ॥ ८0-४0 ॥

गलत्परागधूलिभिः सुरभीकृतदिङ्मुखः ॥
स्मरेच्छिशिरितं वृन्दावनं मन्त्रीसमाहितः ॥ ८0-४१ ॥

उन्मीलन्नवकञ्जालिविगलन्मधुसञ्चयैः ॥
लुब्धान्तः करणैर्गुञ्जद्द्विरेफपटलैः शुभम् ॥ ८0-४२ ॥

मरालपरभृत्कीरकपोतनिकरैर्मुहुः ॥
मुखरीकृतमानृत्यन्मायूरकुलमञ्जुलम् ॥ ८0-४३ ॥

कालिन्द्या लोलकल्लोलविप्रुषैर्मन्दवाहिभिः ॥
उन्निद्राम्बुरुहव्रातरजोभिर्धूसरैः शिवैः ॥ ८0-४४ ॥

प्रदीपित स्मरैर्गोष्ठसुन्दरीमृदुवाससाम् ॥
विलोलनपरैः संसेवितं वा तैर्निरन्तरम् ॥ ८0-४५ ॥

स्मरेत्तदन्ते गीर्वाणभूरुहं सुमनोहरम् ॥
तदधः स्वर्णवेद्यां च रत्नपीठमनुत्तमम् ॥ ८0-४६ ॥

रत्नकुट्टिमपीठेऽस्मिन्नरुणं कमलं स्मरेत् ॥
अष्टपत्रं च तन्मध्ये मुकुन्दं संस्मरेत्स्थितम् ॥ ८0-४७ ॥

फुल्लेन्दीवरकान्तं च केकिबर्हावतंसकम् ॥
पीतांशुकं चन्द्रमुखं सरसीरुहनेत्रकम् ॥ ८0-४८ ॥

कौस्तुभोद्भासिताङ्गं च श्रीवत्साङ्कं सुभूषितम् ॥
व्रजस्त्रीनेत्रकमलाभ्यर्चितं गोगणावृतम् ॥ ८0-४९ ॥

गोपवृन्दयुतं वंशीं वादयन्तं स्मरेत्सुधीः ॥
एवं ध्यात्वा जपेदादावयुतद्वितयं बुधः ॥ ८0-५0 ॥

जुहुयादरुणाम्भोजैस्तद्दशांशं समाहितः ॥
जपेत्पश्चान्मन्त्रसिद्ध्यै भूतलक्षं समाहितः ॥ ८0-५१ ॥

अरुणैः कमलैहुत्वा सर्वसिद्धीश्वरो भवेत् ॥
पूर्वोक्ते वैष्णवे पीठे मूर्तिं सङ्कल्प्य मूलतः ॥ ८0-५२ ॥

तस्यामावाह्य चाभ्यर्चेद्गोपीजनमनोहरम् ॥
मुखे वेणुं समभ्यर्च्य वनमालां च कौस्तुभम् ॥ ८0-५३ ॥

श्रीवत्सं च हृदि प्रार्च्य ततः पुष्पाञ्जलिं क्षिपेत् ॥
ततः श्वेतां च तुलसीं शुक्लचन्दनपङ्किलाम् ॥ ८0-५४ ॥

रक्तां च तुलसीं रक्तञ्चदनाक्तां क्रसात्सुधीः ॥
अर्पयेद्दक्षिणे जद्वयमश्वारियुग्मकम् ॥ ८0-५५ ॥

हयमारद्वयेनैव हृदि मूर्ध्नि तथा पुनः ॥
पद्मद्वयं च विधिवत्ततः शीर्षे समर्पयेत् ॥ ८0-५६ ॥

तुलसीद्वयमम्भोजद्वयमश्वारियुग्मकम् ॥
ततः सर्वाणि पुष्पाणि सर्वाङ्गेषु समर्पयेत् ॥ ८0-५७ ॥

दक्षिणे वासुदेवाख्यं स्वच्छं चैतन्यमव्ययम् ॥
वामे च रुक्मिणीं तदून्नित्यां रक्तां रजोगुणाम् ॥ ८0-५८ ॥

एवं सम्पूज्य गोपालं कुर्यादावरणार्चनम् ॥
यजेद्दामसुदामौ च वसुदामं च किङ्किणीम् ॥ ८0-५९ ॥

पूर्वाद्याशासु दामाद्या ङेन्नमोन्तध्रुवादिकाः ॥
अग्निनैर्ऋतिवाय्वीशकोणेषु हृदयादिकान् ॥ ८0-६0 ॥

दिक्ष्वस्त्राणि समभ्यर्च्य पत्रेषु महिषीर्यजेत् ॥
रुक्मिणी सत्यभामा च नाग्नजित्यभिधा पुनः ॥ ८0-६१ ॥

सुविन्दा मित्रविन्दा च लक्ष्मणा चर्क्षजा ततः ॥
सुशीला च लसद्रम्यचित्रिताम्बरभूषणा ॥ ८0-६२ ॥

ततो यजेद्दलाग्रेषु वसुदेवञ्च देवकीम् ॥
नन्दगोपं यशोदां च बलभद्रं सुभद्रिकाम् ॥ ८0-६३ ॥

गोपानूगोपीश्च गोविन्दविलीनमतिलोचनान् ॥
ज्ञानमुद्राभयकरौ पितरौ पीतपाण्डुरौ ॥ ८0-६४ ॥

दिव्यमाल्याम्बरालेपभूषणे मातरौ पुनः ॥
धारयन्त्यौ चरुं चैव पायसीं पूर्णपात्रिकाम् ॥ ८0-६५ ॥

अरुणश्यामले हारमणिकुं डलमण्डिते ॥
बलः शङ्खेन्दुधवलो मुशलं लाङ्गलं दधत् ॥ ८0-६६ ॥

हालालोलो नीलवासा हलवानेककुण्डलः ॥
कला या श्यामला भद्रा सुभद्रा भद्रभूषणा ॥ ८0-६७ ॥

वराभययुता पीतवसना रूढयौवना ॥
वेणुवीणाहेमयष्टिशङ्खश्रृङ्गादिपाणयः ॥ ८0-६८ ॥

गोपा गोप्यश्च विविधप्राभृतान्नकराम्बुजाः ॥
मन्दारदींश्च तद्बाह्ये पूजयेत्कल्पपादपान् ॥ ८0-६९ ॥

मन्दारश्च तथा सन्तानको वै पारिजातकः ॥
कल्पद्रुमस्ततः पश्चाद्ध्वरिचन्दनसञ्ज्ञकः ॥ ८0-७0 ॥

मध्ये दिक्षु समभ्यर्च्य बहिः शक्रादिकान्यजेत् ॥
तदस्त्राणि च सम्पूज्य यजेत्कृष्णाष्टकेन च ॥ ८0-७१ ॥

कृष्णं च वासुदेवं च देवकीनन्दनं तथा ॥
नारायणं यदुश्रेष्ठं वार्ष्णेयं धर्मपालकम् ॥ ८0-७२ ॥

असुराक्रान्तभूभारहारिणं पूजयेत्ततः ॥
एभिरावरणैः पूजा कर्तव्यासुखैरिणः ॥ ८0-७३ ॥

संसारसागरोत्थीर्त्यै सर्वकामाप्तये बुधः ॥
एवं पूजादिभिः सिद्धा भवद्वैश्रवणो यमः ॥ ८0-७४ ॥

त्रिकालपूजनं चास्य वक्ष्ये सर्वार्थसिद्धिदम् ॥
श्रीमदुद्यानसंवीतिहेमभूरत्नमण्डपे ॥ ८0-७५ ॥

लसत्कल्पद्रुमाधस्थरत्नाब्जपीठसंस्थितम् ॥
सुत्रामरत्नसङ्काशं गुडस्निग्धालकं शिशुम् ॥ ८0-७६ ॥

चलत्कनककुण्डलोल्लसितचारुगण्डस्थलं सुघोणधरमद्भुतस्मितमुखांवुतं सुन्दरम् ॥
स्फुरद्विमलरत्नयुक्कनकसूत्रनद्धं दधत्सुवर्णपरिमण्डितं सुभगपौण्डरीकं नखम् ॥ ८0-७७ ॥

समुद्धूसरोरस्थले धेनुधूल्या सुपुष्टाङ्गमष्टापदाकल्पदीप्तम् ॥
कटीलस्थले चारुजङ्घान्तयुग्मं पिनद्धं क्वणत्किङ्किणीजालदाम्ना ॥ ८0-७८ ॥

हसन्तं हसद्वन्धुजीवप्रसूनप्रभापाणिपादाम्बुजोदारकान्त्या ॥
दधानं करो दक्षिणे पायसान्न सुहैयङ्गवीनं तथा वामहस्ते ॥ ८0-७९ ॥

लसद्गोपगोपीगवां वृन्दमध्ये स्थितं वासवाद्यैः सुरैरर्चितान्ध्रिम् ॥
महाभारभूतामरारातियूथांस्ततः पूतनादीन्निहन्तुं प्रवृत्तम् ॥ ८0-८0 ॥

एवं ध्यात्वार्च्चयेद्देवं पूर्ववत्स्थिरमानसः ॥
दध्ना गुडेन नैवेद्यं दत्वा दशशतं जपेत् ॥ ८0-८१ ॥

मध्यन्दिने यजेदेवं विशिष्यरूपधारिणम् ॥
नारदाद्यैर्मुनिगणैः सुरवृन्दैश्च पूजितम् ॥ ८0-८२ ॥

लसद्गोपगोपीगवां वृन्दमध्यस्तितं सान्द्रमेघप्रभंसुन्न्दराङ्गम् ॥
शिखण्डिच्छदापीडमब्जायताक्षं लसञ्चिल्लिकं पूर्णचद्राननं च ॥ ८0-८३ ॥

चलत्कुण्डलोल्लासिगण्डस्थलश्रीभरं सुन्दरं मन्दहासं सुनासम् ॥
सुकार्तस्वराभाम्बरं दिव्यभूषं क्वणत्किङ्किणीजालमत्तानुलेपम् ॥ ८0-८४ ॥

वेणुं धमन्तं स्वकरे दधानं सव्ये दरं यष्टिमुदारवेषम् ॥
दक्षे तथैवेप्सितदानदक्षं ध्यात्वार्चयेन्नन्दजमिन्दिराप्त्यै ॥ ८0-८५ ॥

एवं ध्यात्वार्चयेत्कृष्णं पूर्ववद्वैष्णवोत्तमः ॥
अपूपपायसान्नाद्यैर्नैवैद्यं परिकल्पयेत् ॥ ८0-८६ ॥

हुत्वा चाष्टत्तरशतं पयोऽनैः सर्पिषाप्लुतैः ॥
स्वस्वदिक्षु बलिं दद्याद्दिशेदाचमनं ततः ॥ ८0-८७ ॥

अष्ट्त्तरसहस्रं च प्रजपेन्मन्त्रमुत्तमम् ॥
अह्नो मध्ये यजेदेवं यः कृष्णं वैष्णवोत्तमः ॥ ८0-८८ ॥

देवाः सर्वे नमस्यन्ति लोकानां वल्लभो नरः ॥
मेधायुःश्रीकान्तियुक्तः पुत्रैः पौत्रैश्च वर्द्धते ॥ ८0-८९ ॥

तृतीयकालपूजायामस्ति कालविकल्पना ॥
सायाह्ने निशि वेत्यत्र वदन्त्येके विपश्चितः ॥ ८0-९0 ॥

दशाक्षरेण चेद्रात्रौ सायाह्नेऽष्टादशार्णतः ॥
उभयीमुभयेनैव कुर्यादित्यपरे जगुः ॥ ८0-९१ ॥

सायाह्ने द्वारवत्यां तु चित्रोद्यानोपशोभिते ॥
अष्टसाहस्रसङ्ख्यातैर्भवनैरुपमण्डिते ॥ ८0-९२ ॥

हंससारससङ्कीर्णकमलोत्पलशालिभिः ॥
सरोभिर्नीलाम्भोभिः परीते भवनोत्तमे ॥ ८0-९३ ॥

उद्यत्प्रद्योतनोद्योतद्युतौ श्रीमणिमण्डले ॥
हेमाम्भोजासनासीनं कृष्णं त्रैलोक्यमोहनम् ॥ ८0-९४ ॥

मुनिवृन्दैः परिवृतमात्मतत्त्वविनिर्णये ॥
तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परमक्षरम् ॥ ८0-९५ ॥

उन्निद्रेन्दीवरश्यामं पद्मपत्रायतेक्षणम् ॥
स्निग्धं कुन्तलसम्भिन्नकिरीटवनमालिनम् ॥ ८0-९६ ॥

चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥
श्रीवत्सवक्षसं भ्राजत्कौस्तुभं सुमनोहरम् ॥ ८0-९७ ॥

काश्मीरकपिशोरस्कं पीतकौशेयवाससम् ॥
हारकेयूरकटककटिसूत्रैरलङ्कृतम् ॥ ८0-९८ ॥

हृतविश्वम्भराभूरिभारं मुदितमानसम् ॥
शङ्खचक्रगदापद्मराजद्भुजचतुष्टयम् ॥ ८0-९९ ॥

एवं ध्यात्वार्चयेन्मन्त्री स्यादङ्गैः प्रथमावृत्तिः ॥
द्वितीया महिषीभिस्तु तृतीयायां समर्चयेत् ॥ ८0-१00 ॥

नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् ॥
विष्वक्सेनं च शैनेयं दिक्ष्वग्रे विनतासुतम् ॥ ८0-१0१ ॥

लोकपालैश्च वज्राद्यैः पूजयेद्वैष्णवोत्तमः ॥
एवं सम्पूज्य विधिवत्पायसं विनिवेदयेत् ॥ ८0-१0२ ॥

तर्पयित्वा खण्डमिश्रदुग्धबुद्ध्या जलैरिह ॥
जपेदष्टशतं मन्त्री भावयन्पुरुषोत्तमम् । ८0-१0३ ॥

पूजासु होमं सर्वासु कुर्यान्मध्यन्दिनेऽथवा ॥
आसनादर्घ्यपर्यन्तं कृत्वा स्तुत्वा नमेत्सुधीः ॥ ८0-१0४ ॥

समर्थात्मानमुद्वास्य स्वीयहृत्सरसीरुहे ॥
विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत् ॥ ८0-१0५ ॥

सायाह्ने वासुदेवं यो नित्यमेवं समर्चयेत् ॥
सर्वान्कामानवाप्यान्ते स याति परमां गतिम् ॥ ८0-१0६ ॥

रात्रौ चेन्मदनाक्रान्तचेतसं नन्दनन्दनम् ॥
यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगम् ॥ ८0-१0७ ॥

विकसत्कुन्दकह्लारमल्लिकाकुसुमोद्गतैः ॥
रजोभिर्धूसरैर्मन्दमारुतैः शिशिरीकृते ॥ ८0-१0८ ॥

उन्मीलन्नवकैरवालिविगलन्माध्वीकलब्धान्तरं भ्राम्यन्मत्तमिलिन्दगीतललिते सन्मल्लिकोज्जृम्भिते ॥
पीयूषांशुकरैर्विशालितहरित्प्रान्ते स्मरोद्दीपने कालिन्दीपुलिनाङ्गणे स्मितमुखं वेणुं रणन्तं मुहुः ॥ ८0-१0९ ॥

अन्तस्तोयलसन्नवाम्बुदघटासङ्घट्टकारत्विषं चञ्चञ्चिल्लिकमम्बुजायतदृशं बिम्बाधरं सुन्दरम् ॥
मायूरच्छदबद्धमौलिविलसद्धम्मिल्लमालं चलं दीप्यत्कुण्डलरत्नरश्मिविलसद्गण्डद्वयोद्बासितम् ॥ ८0-११0 ॥

काञ्चीनूपुरहारकङ्कणलसत्केयूरभूषान्वितं गोपीनां द्वितयां तरे सुललितं वन्यप्रसूनस्रजम् ॥
अन्योन्यं विनिबद्धगोपदयितादोर्वल्लिवीतं लसद्रासक्रीडनलोलुपं मनसिजाक्रान्तं मुकुन्दं भवेत् ॥ ८0-१११ ॥

विविधश्रुतिभिन्नमनोज्ञतरस्वरसप्तकमूर्छनतानगणैः ॥
भ्रममाणममूभिरुदारमणिस्फुटमण्डनसिञ्जितचारुतनुम् ॥ ८0-११२ ॥

इतरेतरबद्धकरप्रमदागणकल्पितरासविहारविधौ ।
मणिशङ्कुगमप्यमुना वपुषा बहुधा विहितस्वकदिव्यतनुम् ॥ ८0-११३ ॥

एवं ध्यात्वार्चयेन्मन्त्री स्यादङ्गैः प्रथमावृतिः ॥
श्रीकामः सस्वराद्यानि कलाब्जैर्वैष्णवोत्तमः ॥ ८0-११४ ॥

यजेत्केशवकीर्त्यादिमिथुनानि च षोडश ॥
इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम् ॥ ८0-११५ ॥

पृन्थु सुवृत्तं मसृणं वितस्तिमात्रोन्नतं कौ विनिखन्य शङ्कुम् ॥
आक्रम्य पद्भ्यामितरेतरैस्तु हस्तैर्भ्रमोऽयं खलु रासगोष्ठी ॥ ८0-११६ ॥

सपूज्यैवं च पयसा ससितो पलसर्पिषा ॥
नैवेद्यमर्चयित्वा तु चषकैर्नृपसङ्ख्यकैः ॥ ८0-११७ ॥

स-तं पापप्ते मन्त्री मिथुनेष्वर्पयेत्क्रमात् ॥
विधाय पूर्ववच्छेषं सहस्रं प्रजपेन्मनुम् ॥ ८0-११८ ॥

स्तुत्वा नत्वा च सम्प्रार्थ्य पूजाशेषं समापयेत् ॥
एवं यः पूजयेत्कृष्णं स सस्मृद्धेः पदं भवेत् ॥ ८0-११९ ॥

अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः ॥
भुक्त्वेह विविधान्भोगानन्ते विष्णुपदं व्रजेत् ॥ ८0-१२0 ॥

एवं पूजादिभिः सिद्धे मनौकाम्यानि साधयेत् ॥
अष्टाविंशतिवारं वा त्रिकालं पूजयेत्सुधीः ॥ ८0-१२१ ॥

स्वकालविहितान् भूयः परिवारांश्च तर्पयेत् ॥
प्रातर्द्दध्ना गुडाक्तेन मध्याह्ने पयसा पुनः ॥ ८0-१२२ ॥

नवनीतयुतेनाथ सायाह्ने तर्पयेत्पुनः ॥
ससितोपलमिश्रेण पयसा वैष्णवोत्तमः ॥ ८0-१२३ ॥

तर्पयामिपदं योज्यं मन्त्रान्ते स्वेषु नामसु ॥
द्वितीयान्तेषु तु पुनः पूजाशेषं समापयेत् ॥ ८0-१२४ ॥

अभ्युक्ष्यतत्प्रसादाद्भिरात्मानं प्रपबेदपः ॥
तत्तृत्पस्तमथोद्वास्य तन्मयः प्रजपेन्मनुम् ॥ ८0-१२५ ॥

अथ द्रव्याणि काम्येषु प्रोच्यन्ते तर्पणेषु च ॥
तानि प्रोक्तविधानानामाश्रित्यान्यतमं भजेत् ॥ ८0-१२६ ॥

पायसं दाधिकं चाज्यं गौडान्नं कृसरं पयः ॥
दधीनि कदली मोचा चिञ्चा रजस्वला तथा ॥ ८0-१२७ ॥

अपूपा मोदका लाजाः पृथुका नवनीतकम् ॥
द्रव्यषोडशकं ह्येतत्कथितं पद्मजादिभिः ॥ ८0-१२८ ॥

लाजान्ते पृथुकं प्राक्च समर्प्य च सितोपलम् ॥
चतुःसप्ततिवारं यः प्रातरेवं प्रतर्पयेत् ॥ ८0-१२९ ॥

ध्यात्वा कृष्णपदं मत्री मण्डलादिष्टमाप्नुयात् ॥
धारोष्णपक्कपयसा नवनीतं दधीनि च ॥ ८0-१३0 ॥

दौग्धाम्रमाज्यं मत्स्यण्डी क्षौद्रं कीलालमेव च ॥
पूजयेन्नवभिर्द्रव्यैः प्रत्येकं रविसङ्ख्यया ॥ ८0-१३१ ॥

एवमष्टोतरशतंसङ्ख्याकं तर्पणं पुनः ॥
यः कुर्याद्वैष्णवश्रेष्टः पूर्वोक्तं फलमाप्नुयात् ॥ ८0-१३२ ॥

किं बहूक्तेन सर्वेष्टदायकं तर्पणं त्विदम् ॥
ससितोपलधारोष्णदुग्धबुद्ध्या जलेन वै ॥ ८0-१३३ ॥

कृष्णं प्रतपर्यन् ग्रामं व्रजन्प्राप्नोति साधकः ॥
धनवस्त्राणि भोज्यं च परिवारगणैः सह ॥ ८0-१३४ ॥

यावत्सन्तर्पयेन्मन्त्री तावत्सङ्ख्यं जपेन्मनुम् ॥
तर्पणेनैव कार्याणि साधयेदखिलान्यपि ॥ ८0-१३५ ॥

काम्यहोममथो वक्ष्ये साधकानां हिताय च ॥
श्रीपुष्पैर्जुहुयान्मन्त्री श्रियमिच्छन्निनिन्दिताम् ॥ ८0-१३६ ॥

साज्येनान्नेन जुहुयात्घृतान्नस्य समृद्धये ॥
वन्यपुष्पैर्द्विजान् जातीपुष्पैश्च पृथिवीपतीन् ॥ ८0-१३७ ॥

असितैः कुसुमैर्वैश्यान् शूद्रान्नीलोत्पलैस्तथा ॥
वशयेल्लवणैः सर्वानम्बुजैर्युवतीजनम् ॥ ८0-१३८ ॥

गोशालासु कृतो होमः पायसेन ससर्पिषा ॥
गवां शान्तिं करोत्याशु गोपालो गोकुलेश्वरः ॥ ८0-१३९ ॥

शिक्षावेषधरं कृष्णं किङ्किणीजालशोभितम् ॥
ध्यात्वा प्रतर्पयेन्मन्त्री दुग्धबुद्ध्या शुभैर्जलैः ॥ ८0-१४0 ॥

धनं धान्यं सुतान्कीर्तिं प्रीतस्तस्मै ददाति सः ॥
ब्रह्मवृक्षसमिद्भिर्वा कुशैर्वा तिलतन्दुलैः ॥ ८0-१४१ ॥

जुहुयादयुतं मन्त्री त्रिमध्वाक्तैर्हुताशने ॥
वशयेद्ब्राह्मणांश्चाथ राजवृक्षसमुद्भवैः ॥ ८0-१४२ ॥

प्रसूनैः क्षत्रियान्वैश्यान्कुरङ्ङकुसुमैस्तथा ॥
पाटलोत्थैश्च कुसुमैर्वशयेदन्तिमान्सुधीः ॥ ८0-१४३ ॥

श्वेतपद्मै रक्तपप्दैश्चम्पकैः पाटलैः क्रमात् ॥
हुत्वायुतं त्रिमध्वाक्तैर्वशयेत्तद्वराङ्गनाः ॥ ८0-१४४ ॥

नित्यं हयारिकुसुमौर्निशीथे त्रिमधुप्लुतैः ॥
वरस्त्रीर्वशयेत्प्राज्ञः सम्यग्धृत्वा दिनाष्टकम् ॥ ८0-१४५ ॥

अयुतत्रितयं रात्रौ सिद्धार्थैस्त्रिमधुप्लुतैः ॥
प्रत्यहं जुह्वतो मासात्सुरेशोऽपि वशीभवेत् ॥ ८0-१४६ ॥

आहृत्य बल्लवीवस्त्राण्यारूढं नीपभूरुहे ॥
स्मरेत्कृष्णं जपेद्रात्रौ सहस्रं खेन्दूहात्सुधीः ॥ ८0-१४७ ॥

हठादाकर्षयेच्छीघ्रमुर्वशीमपि साधकः ॥
बहुना किमिहोक्तेन मन्त्रोऽयं सर्ववश्यकृत् ॥ ८0-१४८ ॥

रहस्यं परमं चाथ वक्ष्ये मोक्षप्रदं नृणाम् ॥
ध्यायेत्स्वहृत्सरसिजे देवकीनन्दनं विभुम् ॥ ८0-१४९ ॥

श्रीमत्कुन्देन्दुगौरं सरसिजनयनं शङ्खचक्रे गदाब्जे बिभ्राणं हस्तपद्मैर्नवनलिनलसन्मालयादीप्यमानम् ॥
वन्दे वेद्यं मुनीन्द्रैः कणिकमुनिलसद्दिव्यभूषाभिरामं दिव्याङ्गालेपभासं सकलभयहरं पीतवस्त्रं नुरारिम् ॥ ८0-१५0 ॥

एवं ध्यात्वा पुमांसं स्फुटहृदयसरोजासनासीनमाद्यं सान्द्राम्भोदाच्छबिम्बाद्भुतकनकनिभं सञ्जपेदर्कलक्षम् ॥
मन्वोरेकं द्वितारान्तरितमथः हुनेदर्कसाहस्रमिध्मैः क्षीरिद्रूत्थर्यथोक्तैः समधुघृतसितेनाथवा पायसेन ॥ ८0-१५१ ॥

एवं लोकेश्वराराध्यं कृष्णं स्वहृदयाम्बुजे ॥
ध्यायन्ननुदिनं मन्त्री त्रिसहस्रं जपेन्मनुम् ॥ ८0-१५२ ॥

सायाह्नोक्तेन विधिना सम्पूज्य हवनं पुनः ॥
कृत्वा पूर्वोक्तविधिना मन्त्री तद्गतमानसः ॥ ८0-१५३ ॥

एवं यो भजते नित्यं विद्वान् गोपालनन्दनम् ॥
समुत्तीर्य भवाम्भोधिं स याति परमं पदम् ॥ ८0-१५४ ॥

मध्ये केणेषु बाह्येष्वनलपुरपुटस्यालिखेत्कर्णिकायां कन्दर्पं साध्ययुक्तं विवरगतषडर्णद्विषः केशरेषु ॥
शक्तिः श्रीपूर्विकाणिद्विनवलिपिमनोरक्षराणिच्छदानां मध्ये वर्णान्दशान्तो दशलिपिमनुवर्यस्य वैकैकशोऽब्जम् ॥ ८0-१५५

भूसद्मनाभिवृतमस्रगमन्मथेन गोरोचनाविलिखितं तपनीयसूच्या ॥
पट्टे हिरण्यरचिते गुलिकीकृतं तद्गोपालयन्त्रमखिलार्थदमेतदुक्तम् ॥ ८0-१५६ ॥

संयातसिक्तमभिजप्तमिमं महद्भिर्धार्यं जगत्त्रयवशीकरणैकदक्षम् ॥
रक्षायशः सुतमहीधनधान्यलक्ष्मीसौभाग्यलिप्सुभिरजस्रमनर्घ्यवीर्यम् । ८0-१५७ ॥

स्मरस्त्रिविक्रमाक्रान्तश्चाक्रीष्ट्याय हृदित्यसौ ॥
षडक्षरोऽयं सम्प्रोक्तः सर्वसिद्धिकरो मनुः ॥ ८0-१५८ ॥

क्रोडः शान्तीन्दुवह्न्याढ्यो माया बीज प्रकीर्ततम् ॥
गोविन्दवह्निचन्द्राढ्यो मनुः श्रीबीजमीरितम् ॥ ८0-१५९ ॥

आभ्यामष्टादशक्लिपः स्याद्विंशत्यक्षरो मनुः ॥
शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु वा ॥ ८0-१६0 ॥

नित्यं पूजा हरेः कार्या न तु केवलभूतले ॥
एवं यो भजन्ते कृष्णं स याति परमां गतिम् ॥ ८0-१६१ ॥

विंशार्णस्य मुनिर्ब्रह्मा गायत्री छन्द ईरितम् ॥
कृष्णश्च देवता कामो बीजं शक्तिर्द्विठो बुधैः ॥ ८0-१६२ ॥

रामाग्निवेदवेदाब्धेर्नेत्रार्णैरङ्गकल्पनम् ॥
मूलेन व्यापकं कृत्वा मनुना पुटितानथ ॥ ८0-१६३ ॥

मातृकार्णान्न्यसेत्तत्तत्स्थानेषु सुसमाहितः ॥
दशतत्त्वानि विन्यस्य मूलेन व्यापकं चरेत् ॥ ८0-१६४ ॥

मन्त्रन्यासं ततः कुर्याद्देवताभावसिद्धये ॥
शीर्षे ललाटे भ्रूमध्ये नेत्रयोः कर्णयोस्तथा ॥ ८0-१६५ ॥

नसोर्वक्रे च चिबुके कण्ठे दोर्मूलके हृदि ॥
उदरे नाभिदेशे च लिङ्गे मूलसरोरुहे ॥ ८0-१६६ ॥

कट्यां जान्वोर्जङ्घयोश्च गुल्फयोः पादयोः क्रमात् ॥
न्यसेद्धृदन्तान्मन्त्राणां सृष्टिन्यासोऽयमीरितः ॥ ८0-१६७ ॥

हृदये चोदरे नाभौ लिङ्गे मूलसरोरुहे ॥
कट्यां जान्वोर्जङ्घयोश्च गुल्फयोः पादयोस्तथा ॥ ८0-१६८ ॥

मूर्ध्नि कपोले भ्रूमध्ये नेत्रयोः कर्णयोर्नसोः ॥
वदने चिबुके कण्ठे दोर्मूले विन्यसेत्क्रमात् ॥ ८0-१६९ ॥

नमोतान्मन्त्रवर्णांश्च स्थितिन्यासोऽयमीरितः ॥
पादयोर्गुल्फयोश्चैव जङ्घयोर्जानुनोस्तथा ॥ ८0-१७0 ॥

कट्यां मूले ध्वजे नाभौ जठरे हृदये पुनः ॥
दोर्मूले कण्ठदेशे च चिबुके वदने नसोः ॥ ८0-१७१ ॥

कर्णयोर्नेत्रयोश्चैव भ्रूमध्ये निटिले तथा ॥
मूर्ध्नि न्यसेन्मन्त्रवर्णान्संहाराख्योऽयमीरितः ॥ ८0-१७२ ॥

पुनः सृष्टिस्थितिन्यासौ विधाय वैष्णवोत्तमः ॥
मूर्तिपञ्जरनामानं विन्यसेत्पूर्ववत्ततः ॥ ८0-१७३ ॥

पुनः षडङ्गं कृत्वाथ ध्यायेत्कृष्णं हृदम्बुजे ॥
द्वारवत्यां सहस्रार्कभास्वरैर्भवनोत्तमैः ॥ ८0-१७४ ॥

अनल्पैः कल्पवृक्षैश्च परीते मणिमण्डपे ॥
ज्वलद्रत्न मयस्तम्भद्वारतोरणकुड्यके ॥ ८0-१७५ ॥

फुल्लप्रफुल्लसञ्चित्रवितानालम्बिमौक्तिके ॥
पद्मरागस्थलीराजद्रत्नसङ्घैश्च मध्यतः ॥ ८0-१७६ ॥

अनारतगलद्रत्नधाराढ्यस्वस्तस्तरोरधः ॥
रत्नप्रदीपावलिभिः प्रदीपितदिगन्तरे ॥ ८0-१७७ ॥

उद्यदादित्यसङ्काशमणिसिंहासनाम्बुजे ॥
समासीनोऽच्युतो ध्येयो द्रुतहाटकसन्निभः ॥ ८0-१७८ ॥

समानोदितचन्द्रार्कतडित्कोटिसमद्युतिः ॥
सर्वाङ्गसुन्दरः सौम्यः सर्वाभरणभूषितः ॥ ८0-१७९ ॥

पीतवासाः शङ्खचक्रगदाम्भोजलसत्करः ॥
अनाहतोच्छलद्रत्नधारौघकलशं स्पृशन् ॥ ८0-१८0 ॥

वामपादाम्बुजाग्रेण मुष्णता पल्लवच्छविम् ॥
रुक्मिणीसत्यभामेऽस्य मूर्ध्नि रत्नौघधारया ॥ ८0-१८१ ॥

सिञ्चन्त्यौ दक्षवामस्थे स्वदोस्थकलशोत्थया ॥
नाग्नजिती सुनन्दा च दिशन्त्यौ कलशौ तयोः ॥ ८0-१८२ ॥

ताभ्यां च दक्षवामस्थमित्रविन्दासुलक्ष्मणे ॥
रत्ननद्याः समुद्धृत्य रत्नपूर्णौ घटौ तयोः ॥ ८0-१८३ ॥

जाम्बवती सुशीला च दिशन्त्यौ दक्षवामके ॥
बहिः षोडश साहस्रसङ्ख्याकाः परितः प्रियाः ॥ ८0-१८४ ॥

ध्येयाः कनकरत्नौघधारायुक्कलशोज्वलाः ॥
तद्बहिश्चाष्टनिधायः पूरयन्तो धनैर्धराम् ॥ ८0-१८५ ॥

तद्बहिर्वृष्णयः सर्वे पुरोवच्च स्वरादयः ॥
एवं ध्यात्वा जपेल्लक्षपञ्चकं तद्दशांशतः ॥ ८0-१८६ ॥

अरुणैः कमलैर्हुत्वा पीठे पूर्वोदिते यजेत् ॥
विलिप्य गन्धपङ्केन लिखेदष्टदलाम्बुजम् ॥ ८0-१८७ ॥

कर्णिकायां च षट्कोणं ससाध्यं तत्र मन्मथम् ॥
शिष्टैस्तु सप्तदशभिरक्षरैर्वेष्टयेत्स्वरम् ॥ ८0-१८८ ॥

प्राग्रक्षोऽनिलकोणेषु श्रियं शिष्टेषु संविदम् ॥
षट्सु सन्धिषु षट्कर्णे केसरेषु त्रिशस्त्रिशः ॥ ८0-१८९ ॥

विलिखेत्स्मरगायत्रीं मालामन्त्रं दलाष्टके ॥
षटूषः संलिख्य तद्बाह्ये वेष्टयेन्मातृकाक्षरैः ॥ ८0-१९0 ॥

भूबिम्बं च लिखेद्बाह्ये श्रीमायादिग्विदिक्ष्वपि ॥
भूग्रहं चतुरस्रं स्यादष्टवज्रविभूषितम् ॥ ८0-१९१ ॥

एतद्यन्त्रं हाटकादिपट्टेष्वालिख्य पूर्ववत् ॥
संस्कृतं धारयेद्यो वै सोऽर्च्यते त्रिदशैरपि ॥ ८0-१९२ ॥

स्याद्गायत्री वामदेवपुष्पबाणौ तु ङेन्तिमौ ॥
विद्महेधीमहियुतौ तन्नोऽनङ्गः प्रचोदयात् ॥ ८0-१९३ ॥

जप्या जपादौ गोपालमनूनां जनरञ्जनी ॥
हृदयं कामदेवाय ङेन्तं सर्वजनप्रियम् ॥ ८0-१९४ ॥

उक्त्वा सर्वजनान्ते तु सम्मोहनपदं तथा ॥
ज्वल ज्वल प्रज्वलेति प्रोच्य सर्वजनस्य च ॥ ८0-१९५ ॥

हृदयं मम च ब्रूयाद्वशङ्कुरुयुगं शिरः ॥
प्रोक्तो मदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः ॥ ८0-१९६ ॥

जपादौ स्मरबीजाद्यो जगत्त्रयवशीकरः ॥
पीठ प्राग्वत्समभ्यर्च्य मूर्ति सङ्कल्प्य मूलतः ॥ ८0-१९७ ॥

तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् ॥
आसनादिविभूषान्तं पुनर्न्यासक्रमाद्यजेत् ॥ ८0-१९८ ॥

सृष्टिं स्थितिं षडङ्गं च किरीटं कुण्डलद्वयम् ॥
शङ्खं चक्रं गदां पद्मं मालां श्रीवत्सकौस्तुभौ ॥ ८0-१९९ ॥

गन्धपुष्पैः समभ्यर्च्य मूलेन वैष्णवोत्तमः ॥
षट्कोणेषु षडङ्गानि दिग्दलेषु क्रमाद्यजेत् ॥ ८0-२00 ॥

वासुदेवादिकान्कोणेषु तु शान्त्यादिकांस्ततः ॥
पत्राग्रगा महिष्योऽष्टौ यजेत्साधकसत्तमः ॥ ८0-२0१ ॥

ततः षोडशसाहस्रं सकृदेवार्चयेत्प्रियाः ॥
इन्द्रनीलमुकुन्दांश्च करालानन्दकच्छपान् ॥ ८0-२0२ ॥

शङ्खपद्मौ ततः पद्मान्निधीनष्टौ क्रमाद्यजेत् ॥
तद्बहिर्लोकपालांश्च वज्राद्यानपि पूजयेत् ॥ ८0-२0३ ॥

एवं सप्तावृत्तिवृतं कृष्णमभ्यर्च्य चादरात् ॥
प्रीणयेद्दधिखण्डाज्यमिश्रेण तु पयोंऽधसा ॥ ८0-२0४ ॥

दिव्योपचारं दत्वाथ स्तुत्वा नत्वा च केशवम् ॥
उद्वासयेत्स्वहृदये परिवारगणैः सह ॥ ८0-२0५ ॥

न्यस्यात्मानं समभ्यर्च्य तन्मयो विहरेत्सुधीः ॥
रत्नाभिषेकध्यानेज्या विंशत्यर्णाश्रिते रिता ॥ ८0-२0६ ॥

एवं यो भजते मन्त्रं स समृद्धेः पदं भवेत् ॥
जपहोमार्चनध्यानैर्यो मनुं प्रजपेदमुम् ॥ ८0-२0७ ॥

तद्वेश्म पूर्यते रत्नैः रवर्णधान्यैरनारतम् ॥
पृथ्वी पृथ्वी करे तस्य सर्वसस्यसमाकुला ॥ ८0-२0८ ॥

पुत्रैर्मित्रैः सुसम्पन्नः प्रयात्यन्ते परां गतिम् ॥
वह्नावभ्यर्च्य गोविन्दं शुक्लपुष्पैः सतन्दुलैः ॥ ८0-२0९ ॥

आज्याक्तैरयुतं हुत्वा भस्म तन्मूर्ध्नि धारयेत् ॥
तस्यान्नादिसमृद्धिः स्यात्तदूशे सर्वयोषितः ॥ ८0-२१0 ॥

रक्ताम्भोजैस्त्रिमध्वक्तैर्हुनेल्लक्षं समाहितः ॥
श्रिया तस्यैन्द्रमैश्वर्यं तृणलेशायते ध्रुवम् ॥ ८0-२११ ॥

त्रिमध्वक्तैः सितैः पुष्पैरष्टोत्तरसहस्रकम् ॥
यो हुनेत्प्रत्यहं मासात्पुरोधा नृपतेर्भवेत् ॥ ८0-२१२ ॥

एवमादिप्रयोगांश्च साधयेन्मनुनामुना ॥
मन्त्रराजमथो वक्ष्ये दशार्णं सर्वसिद्धिदम् ॥ ८0-२१३ ॥

स्मृतिः सद्यान्विता साक्षिर्लोहितो जनवल्लभा ॥
पवनोऽग्निप्रियान्तोऽयं दशार्णो मन्त्र ईरितः ॥ ८0-२१४ ॥

नारदोऽस्य मुनिश्छन्दो विराट् कृष्णोऽस्य देवता ॥
कामो बीजं वह्निजाया शक्तिः प्रोक्ता मनीषिभिः ॥ ८0-२१५ ॥

आचक्रं च विचक्रं च सुचक्रं तदनन्तरम् ॥
त्रैलोक्यरक्षणं चक्रमसुरान्तकगचक्रकम् ॥ ८0-२१६ ॥

एतैर्ङेठद्वयान्तैश्च चक्रैः पञ्चाङ्गकं मनोः ॥
ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः ॥ ८0-२१७ ॥

सेन्दून्हृदन्तान्मन्त्रार्णान्प्रणवान्तरितान्न्यसेत् ॥
दक्षाङ्गुष्ठाच्च वामाङ्गुष्ठान्तमङ्गुलिपर्वसु ॥ ८0-२१८ ॥

सृष्टिन्यासोऽयमुदितः स्थितिन्यासोऽधुनोच्यते ॥
न्यसेद्वामकनिष्ठादिकनिष्टान्तं स्थितौ सुधीः ॥ ८0-२१९ ॥

वामाङ्गुष्ठान्न्यसेद्दक्षां गुष्ठान्तं संहृतौ तथा ॥
संहृतिर्दोषसङ्घातहारिणी परिकीर्तिता ॥ ८0-२२0 ॥

विद्याप्रदश्च सृष्ट्यन्तो वर्णिनां शुद्धचेतसाम् ॥
स्थित्यन्तः स्याद्गृहस्थानामेवं काम्यादिरूपतः ॥ ८0-२२१ ॥

संहारान्ते मुनीन्द्राणां विरक्तानां च सर्वशः ॥
पुनः स्थितिक्रमेणार्णान्मनोरङ्गुलिषु न्यसेत् ॥ ८0-२२२ ॥

पुनश्चक्रैश्च पूर्वोक्तैः पञ्चागं करयोर्न्यसेत् ॥
ततो मूलेन पुटितान्मातृकार्णान्सबिन्दुकान् ॥ ८0-२२३ ॥

विन्यसेन्मातृकान्यासस्थानेषु प्रणतः सुधीः ॥
ततस्तारपुटं मूलं व्यापकत्वेन विन्यसेत् ॥ ८0-२२४ ॥

संहारसृष्टिभेदेन दशतत्त्वानि विन्यसेत् ॥
नमोन्तमूलमन्त्रार्णपदायाम्यानि चात्मने ॥ ८0-२२५ ॥

मत्यन्तानि च तत्त्वानि पृथिव्याद्यानि च क्रमात् ॥
पृथ्वी जलं तथा वह्निर्वायुराकाशमेव च ॥ ८0-२२६ ॥

अहङ्कारो महत्तत्वं प्रकृतिं पुरुषं परम् ॥
प्रविन्यसेन्मस्तके च नेत्रयोः श्रोत्रयोर्नसोः ॥ ८0-२२७ ॥

वदने हृदये नाभौ लिङ्गे जान्वोश्च पादयोः ॥
प्रणवान्तरितान्वर्णान्हृदन्तान्विज्यसेन्मनोः ॥ ८0-२२८ ॥

सृष्टिन्यासोऽयमाख्यातः स्थितिन्यासं श्रृणु द्विज ॥
हृदि नाभौ ध्वजे जान्वोः पादयोर्मस्तके पुनः ॥ ८0-२२९ ॥

नेत्रयोः कर्णयोर्घ्राणे वदने विन्यसेत्क्रमात् ॥
पदोर्जान्वोर्लिङ्गदेशे नाभौ हृदि मुखे नसोः ॥ ८0-२३0 ॥

कर्णयोर्नेत्रयोर्मूर्ध्नि संहाराख्योऽयमीरितः ॥
सृष्ट्यन्तो वर्णिनान्न्यासः स्थित्यन्तोगृहमेधिनाम् ॥ ८0-२३१ ॥

यतेर्वैराग्ययुक्तस्य संहारान्तः प्रकीर्तितः ॥
चतुर्द्धा वर्णिनां चैव गृहस्थानां च पञ्चधा ॥ ८0-२३२ ॥

यतीनां च त्रिधा न्यासः प्रोक्तोऽयं क्रमतः शुभः ॥
केचिद्विरक्ते गृहगे संहारान्तं विदुर्बुधाः ॥ ८0-२३३ ॥

विभूतिपञ्जरं न्यासं कुर्यादिष्टाप्तये ततः ॥
मनोर्दशावृत्तिमयं कृष्णसान्निध्यकारकम् ॥ ८0-२३४ ॥

आधारे च ध्वजे नाभौ हृदि कण्ठे मुखे शये ॥
ऊर्वोश्च कन्धरायां च नाभौ कुक्षौ तथा हृदि ॥ ८0-२३५ ॥

स्तनयोः पार्श्वयोः श्रोण्योर्मस्तकेवदनेतथा ॥
नेत्रयोः कर्णयोर्नासापुटयोश्च कपोलयोः ॥ ८0-२३६ ॥

एवं दक्षिणदोर्मूससन्ध्यग्रेष्वङ्गुलीषु च ॥
ततः शिरसि तत्पूर्वाद्यांशासु स्वकलासु च ॥ ८0-२३७ ॥

दोष्णोः सक्थ्नोः शिरोक्ष्यास्यकण्ठहृज्जठरेषु च ॥
मूलाधारे लिङ्गदेशे जानुनोः पादयोस्तथा ॥ ८0-२३८ ॥

श्रोत्रगण्डांसवक्षोजपार्श्वलिङ्गेषु विन्यसेत् ॥
ऊर्वोर्जान्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ॥ ८0-२३९ ॥

विभूतिपञ्जराख्योऽयं न्यासः सर्वार्थसिद्धिदः ॥
अनेन न्यासवर्येण साक्षात्कृष्णतनुर्भवेत् ॥ ८0-२४0 ॥

मूर्ति पञ्जरनामानं न्यासं पूर्वोदितं न्यसेत् ॥
ततो दशाङ्गपञ्चाङ्गौ न्यासवर्यौ न्यसे क्रमात् ॥ ८0-२४१ ॥

हृदि मूर्ध्नि शिखायां च सर्वाङ्गे दिक्षु पार्श्वयोः ॥
कट्यां पृष्ठे तथा मूर्ध्नि विन्यसेद्वैष्णवोत्तमः ॥ ८0-२४२ ॥

पञ्चाङ्गानि न्यसेद्भूयश्चक्रैः प्राग्वत्समाहितः ॥
अन्योऽप्यष्टादशार्णोक्तः कर्तव्यो न्याससञ्चयः ॥ ८0-२४३ ॥

ततः किरीटमन्त्रेण व्यापकं रचयेत्सुधीः ॥
वेणुबिल्वादिमुद्रांश्च दर्शयेत्साधकोत्तमः ॥ ८0-२४४ ॥

सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः ॥
अनङ्गुष्ठाश्च ऋजवः करशाखा भवन्ति चेत् ॥ ८0-२४५ ॥

हृन्मुद्रेयं समाख्याता शिरोमुद्रा तथा भवेत् ॥
अधोङ्गुष्ठा तु या मुष्टिः शिखामुद्रेयमीरिता ॥
प्रसारितकराङ्गुल्योर्वर्ममुद्रेयमीरिता ॥ ८0-२४६ ॥

नाराचमुष्ट्या धृतबाहुयुग्मः अङ्गुष्ठतर्जन्युदितो ध्वनिस्तु ॥
विष्वग्विमुक्ता कथितास्त्रमुद्रा यत्राक्षिणी तर्जनिमध्यमे च ॥ ८0-२४७ ॥

ओष्ठे वामकराङ्गुष्टो लग्नस्तस्य कनिष्टिका ॥
दक्षिणाङ्गुष्टसंसक्ता तत्कनिष्ठा प्रसारिता ॥ ८0-२४८ ॥

तर्जनी मध्यमानामा किञ्चित्सकुञ्च्य चालिता ॥
वेणुमुद्रेयमुदिता सुगुप्ता प्रेयसी हरेः ॥
नोच्यन्ते तत्र सिद्धत्वान्मालाश्रीवत्सकौस्तुभाः ॥ ८0-२४९ ॥

वामाङ्गुष्ठं समुद्रं तमपरकराङ्गुष्ठकेनाथ बद्ध्वा सम्पीड्याग्रं च दक्षाङ्गुलिभिरपि च तां वामहस्ताङ्गुलीभिः ॥
गाढं बद्ध्वा स्वकीये हृदयसरसिजे स्थापयेत्कामबीजं प्रोच्चार्यैषा तु गोप्या सकलसुखकरी विल्वमुद्रा मुनीन्द्रैः ॥ ८0-२५0 ॥

कायेन मनसा वाचा यत्पापं समुपार्जितम् ॥
मुद्राया ज्ञान मात्रेण सर्वं नाशमुपैष्यति ॥ ८0-२५१ ॥

ध्यानं जपस्त्रिकालार्चा कार्या पूर्वोदिता मनोः ॥
सर्वेष्वेकः क्रमः प्रोक्तो दशार्णाष्टादशार्णयोः ॥ ८0-२५२ ॥

एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ॥
उद्दण्डबाहुदोर्दंहधृतगोवर्द्धनाचलम् ॥ ८0-२५३ ॥

अन्यहस्तागुलीव्यक्तस्वरवंशार्पिताननम् ॥
ध्यायन्कृष्णं जपेन्मन्त्रं व्रजेच्छत्रं विना सुधीः ॥ ८0-२५४ ॥

वर्षवाताशनिभ्योऽपि भयं तस्य न जायते ॥
मोघमेधौघव्राताद्गगतेन्द्रं तं स्मरन्हुनेत् ॥ ८0-२५५ ॥

लोणैरयुतसङ्ख्यैः स्यादनावृष्टिर्न संशयः ॥
क्रीडन्तमर्कजातीरे मज्जनस्नापनादिभिः ॥ ८0-२५६ ॥

तच्छीकरजलासारैः सिच्यमानं प्रियाजनैः ॥
ध्यात्वायुतं पयः सिक्तैर्हुनेद्वा नीरतर्पणैः ॥ ८0-२५७ ॥

वृष्टिर्भवत्यकालेऽपि महती नात्र संशयः ॥
सदाहमोहैरार्तस्य विस्फोटकज्वरादिभिः ॥ ८0-२५८ ॥

अमुमेव स्मरन्मूर्ध्नि जपेच्छान्तिर्भवेत्क्षणात् ॥
अथवा गरुडारूढं प्रद्युम्नबलसंयुतम् ॥ ८0-२५९ ॥

निजज्वरनिष्पिष्टज्वराभिष्टुतमच्युतम् ॥
ध्यात्वा मूर्ध्नि जपेन्मन्त्रं ज्वरमुक्तो भवेज्ज्वरी ॥ ८0-२६0 ॥

ध्यात्वैवमग्नावभ्यर्च्य यथोक्तैश्चतुरङ्गुलैः ॥
जुहुयादमृताखण्डैरयुतं ज्वरशान्तये ॥ ८0-२६१ ॥

शिलीमुखविनिर्भिन्नभीष्मतापहरं हरिम् ॥
ध्यात्वा जपेत्स्पृशन्नार्तं पाणिभ्यां ज्वरशान्तये ॥ ८0-२६२ ॥

सान्दीपनाय ददतं पुत्रं ध्यात्वायुतं हुनेत् ॥
यथोक्तैरमृताखण्डैरपमृत्युनिवृत्तये । ८0-२६३ ॥

सपार्थं मृतपुत्रायार्पयन्तं च द्विजन्मने ॥
सुतं ध्यात्वा जपेल्लक्षं पुत्रपौत्रादिवृद्धये ॥ ८0-२६४ ॥

पुत्रजीवफलैर्हुत्वायुतं मधुरसम्प्लुतैः ॥
तत्काष्ठैरेधिते वह्नौ सुतान्दीर्घायुषो लभेत् ॥ ८0-२६५ ॥

क्षीरद्रुक्त्वाथसम्पूर्णमभ्यर्च्य कलशं निशि ॥
प्रातर्ज्जप्त्वायुतं नारीमभिषिञ्चेद्दिषड्दिनम् ॥ ८0-२६६ ॥

एवं कृते तु वन्ध्यापि लभेत्पुत्रांश्चिरायुषः ॥
प्रातर्वाचंयमाश्वत्थदलसम्पुटकं जलम् ॥ ८0-२६७ ॥

अष्टोत्तरशतं जप्तं मासं पुत्रार्थिनी पिबेत् ॥
सर्वलक्षणसम्पन्नं वन्ध्यापि लभते सुतम् ॥ ८0-२६८ ॥

जित्वा कृत्यां काशिराजप्रेषितां च निजारिणः ॥
तेजसा तस्य नगरं दहन्तं भावयन्हरिम् ॥ ८0-२६९ ॥

हुनेत्सप्तदिनं मन्त्री सुस्नेहाक्तैश्च सर्षपैः ॥
कृत्याकर्तारमेवास्मै कुपिता नाशयेद्ध्रुवम् ॥ ८0-२७0 ॥

बदरीद्रुमसङ्कीर्णे स्थितं दिव्याश्रमे शुभे ॥
स्पृशन्तं करपद्माभ्यां घण्टाकर्णकलेवरम् ॥ ८0-२७१ ॥

ध्यात्वैवं जुहुयाल्लक्षं तिलैस्त्रिमधुराप्लुतैः ॥
महापापयुतोऽप्येवं पूतो भवति तत्क्षणात् ॥ ८0-२७२ ॥

द्यूतासक्तौ रुक्मिबलौ द्वेषयन्तं हरिं स्मरन् ॥
जुहुयादिष्टयोर्द्विष्ट्यै गुलिका गोमयोद्भवाः ॥ ८0-२७३ ॥

नित्यं सहस्रं सप्ताहान्मिथो विद्वेषयेदरीन् ॥
वर्षन्तं गरुडारूढं ज्वलदग्निमुखैः शरैः ॥ ८0-२७४ ॥

धावन्तं रिपुसङ्घातमनुधावतमच्युतम् ॥
ध्यात्वा सप्तसहस्रं तु जपेन्मन्त्रमनन्यधीः ॥ ८0-२७५ ॥

उच्चाटनं भवत्येव शत्रूणां सप्तभिर्दिनैः ॥
ध्यायन्नुत्क्षिप्तवत्सं तु कपित्थफलहारिणम् ॥ ८0-२७६ ॥

प्रजपेदयुतं शत्रुमुञ्चाटयति तत्क्षणात् ॥
आत्मानं कंसमथनं ध्यायन्मञ्चान्निपातितम् ॥ ८0-२७७ ॥

कंसात्मानं व्यकर्षन्तं गतासुं तं जपेन्मनुम् ॥
रिपुजन्मर्क्षवृक्षोत्थसमिद्भिरयुतं निशि ॥ ८0-२७८ ॥

जुहुयादेवमुग्रोऽपि सपत्नो निधनं व्रजेत् ॥
अथवा निम्बतैलाक्तैर्हुनेधोभिरक्षजैः ॥ ८0-२७९ ॥

अयुतं नियतो रात्रौ मारयेदचिरादरीन् ॥
निशादिष्टदलव्योषकार्पासास्थिकरैर्निशि ॥ ८0-२८0 ॥

हुनेदेरण्डतैलाक्तैः श्मशाने रिपुशान्तये ॥
न शस्तं मारणं कर्म कुर्य्याञ्चेदयुतं हुनेत् ॥ ८0-२८१ ॥

पायसैर्वा हुनेत्तावच्छान्तये शान्तमानसः ॥
पारिजातहरं कृष्णं ध्यायन् लक्षं जपेन्मनुम् ॥ ८0-२८२ ॥

सर्वत्रैव जयस्तस्य न कदापि पराजयः ॥
व्याख्यामुद्राकरं कृष्णं रथस्थं भावयञ्जपेत् ॥ ८0-२८३ ॥

पार्थे दिशन्तं गीतार्थं धर्मवृद्ध्यै सुमानवः ॥
पावाशपुष्पैर्मध्वक्तैर्लक्षं विद्याप्तयेहुनेत् ॥ ८0-२८४ ॥

राष्ट्रपूर्ग्रामवस्तूनां शरीरस्यापि रक्षणे ॥
विश्वरूपधर प्रोद्यद्भानुकोटिसमप्रभम् ॥ ८0-२८५ ॥

अग्रीषोमात्मकं कृष्णं द्रुतचामीकरप्रभम् ॥
अर्काग्निद्योतितास्याङ्घ्रिम्प्रङ्कज दिव्यभूषणम् ॥ ८0-२८६ ॥

नानायुधधरं प्राप्तं विश्वाकाशावकाशकम् ॥
ध्यात्वा लक्ष जपेन्मन्त्रं रक्षणाय समाहितः ॥ ८0-२८७ ॥

रक्तैर्वन्यप्रसूनैर्यो दिनादौ पूजयेद्धरिम् ॥
दिनमध्योक्तविधिना जपेदष्टोत्तरं शतम् ॥ ८0-२८८ ॥

सहस्रमण्डलान्मन्त्री वशयेन्मुखरान्द्विजान् ॥
जातिपुष्पैः क्षत्रियांश्च गोपवेषधरं स्मरन् ॥ ८0-२८९ ॥

ध्यायन् क्रीडारतं कृष्णं रक्तैरश्वारिपुष्पकैः ॥
वशयेद्वैश्यजातीयान् शूद्रान्नीलोत्पलैः स्मरन् ॥ ८0-२९0 ॥

गीतनृत्यरतं श्वेतपुष्पैः साज्यैश्च तन्दुलैः ॥
हुत्वान्वहं सप्तदिनं भस्म भाले च मूर्द्धनि ॥ ८0-२९१ ॥

धारयन्वशयेत्कान्तां सापि तद्वत्पतिं ध्रुवम् ॥
ताम्बूलं कुसुमं वासोंऽजनं चन्दनमेव च ॥ ८0-२९२ ॥

सहस्रं मनुना जप्तं दद्याद्यस्मै नराय च ॥
सोऽचिरादेष वशगः सपुत्रपशुबान्धवः ॥ ८0-२९३ ॥

वृन्दारण्यस्थितं ध्यायन्बल्लवीसंयुतं हरिम् ॥
अपामार्गसमिद्भिस्तु हुत्वा तु वशयेज्जगत् ॥ ८0-२९४ ॥

सम्प्राप्य सद्गुरो र्दीक्षां कृष्णं यो विधिनामुना ॥
अर्चयेद्वैष्णवश्रेष्ठः सोऽष्टसिद्धीश्वरो भवेत् ॥ ८0-२९५ ॥

तस्य दर्शनमात्रेण वादिनो निष्प्रभाः स्मृताः ॥
वसेत्सरस्वती वक्रे गृहे चापि सभासदः ॥ ८0-२९६ ॥

भुक्त्वा नानाविधान्भोगानन्ते विष्णुपदं व्रजेत् ॥ ८0-२९७ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे कृष्णमन्त्रनिरूपणं नामाशीतितमोऽध्यायः ॥ ८0 ॥