सनत्कुमार उवाच ॥
अथापरं वायुसूनोश्चरितं पापनाशनम् ॥
यदुक्तं स्वासु रामेण आनन्दवनवासिना ॥ ७९-१ ॥
सद्योजाते महाकल्पे श्रुतवीर्ये हनूमति ॥
मम श्रीरामचन्द्रस्य भक्तिरस्तु सदैव हि ॥ ७९-२ ॥
श्रृणुष्व गदतो मत्तः कुमारस्य कुमारक ॥
चरितं सर्वपापघ्नं श्रृण्वतां पठतां सदा ॥ ७९-३ ॥
वाञ्छाम्यहं सदा विप्र सङ्गमं कीशरूपिणा ॥
रहस्यं रहसि स्वस्य ममानन्दवनोत्तमे ॥ ७९-४ ॥
परीतेऽत्र सखायो मे सख्यश्च विगतज्वराः ॥
क्रीडन्ति सर्वदा चात्र प्राकट्येऽपि रहस्यपि ॥ ७९-५ ॥
कस्मिंश्चिदवतारे तु यद्वृत्तं च रहो मम ॥
तदत्र प्रकटं तुभ्यं करोमि प्रीतमानसः ॥ ७९-६ ॥
आविर्भूतोऽस्म्यहं पूर्वं राज्ञो दशरथक्षये ॥
चतुर्यूहात्मकस्तकत्र तस्य भार्यात्रये मुने ॥ ७९-७ ॥
ततः कतिपयैरब्दैरागतो द्विजपुङ्गवः ॥
विश्वामित्रोऽर्थयामास पितरं मम भूपतिम् ॥ ७९-८ ॥
यक्षरक्षोविघातार्थं लक्ष्मणेन सहैव माम् ॥
प्रेषयामास धर्मात्मा सिद्धाश्रममरम्यकम् ॥ ७९-९ ॥
तत्र गत्वाश्रममृबेर्दूषयन्ती निशाचरौ ॥
ध्वस्तौ सुबाहुमारीचौ प्रसन्नोऽभूत्तदा मुनिः ॥ ७९-१0 ॥
अस्त्रग्रामं ददौ मह्यं मासं चावासयत्तथा ॥
ततो गाधिसुतोधीमान् ज्ञात्वा भाव्यर्थमादरात् ॥ ७९-११ ॥
मिथिलामनयत्तत्र रौद्रं चादर्शयद्ध्वनुः ॥
तस्य कन्यां पणीभूतां सीतां सुरसुतोपमाम् ॥ ७९-१२ ॥
धनुर्विभज्य समिति लब्धवान्मानिनोऽस्य च ॥
ततो मार्गे भृगुपतेर्दर्प्पमूढं चिरं स्मयन् ॥ ७९-१३ ॥
व्यषनीयागमं पश्चादयोध्यां स्वपितुः पुरीम् ॥
ततो राज्ञाहमाज्ञाय प्रजाशीलनमानसः ॥ ७९-१४ ॥
यौवराज्ये स्वयं प्रीत्या सम्मन्त्र्यात्पैर्विकल्पितः ॥
तच्छुत्वा सुप्रिया भार्या कैकैयी भूपतिं मुने ॥ ७९-१५ ॥
देवकार्यविधानार्थं विदूषितमतिर्जगौ ॥
पुत्रो मे भरतो नाम यौवराज्येऽभिषिच्यताम् ॥ ७९-१६ ॥
रामश्चतुर्दशसमा दण्डकान्प्रविवास्यताम् ॥
तदाकर्ण्या हमुद्युक्तोऽरण्यं भार्यानुजान्वितः ॥ ७९-१७ ॥
गन्तुं नृपतिनानुक्तोऽप्यगमं चित्रकूटकम् ॥
तत्र नित्यं वन्यफलैर्मांसैश्चावर्तितक्रियः ॥ ७९-१८ ॥
निवसन्नेव राज्ञस्तु निधनं चाप्यवागमम् ॥
ततो भरतशत्रुघ्नौ भ्रातरौ मम मानदौ ॥ ७९-१९ ॥
मान्तृवर्गयुतौ दीनौ साचार्यामात्यनागरौ ॥
व्यजिज्ञपतमागत्यपञ्चवट्यां निजाश्रमम् ॥ ७९-२0 ॥
अकल्पयं भ्रातृभार्यासहितश्च त्रिवत्सरम् ॥
ततस्त्रयोदशे वर्षे रावणो नाम राक्षसः ॥ ७९-२१ ॥
मायया हृतवान्सीतां प्रियां मम परोक्षतः ॥
ततोऽहं दीनवदन ऋष्यमूकं हि पर्वतम् ॥ ७९-२२ ॥
भार्यामन्वेषयन्प्राप्तः सख्यं हर्यधिपेन च ॥
अथ वालिनमाहत्य सुग्रीव स्तत्पदे कृतः ॥ ७९-२३ ॥
सह वानरयूथैश्च साहाय्यं कृतवान्मम ॥
विरुध्य रावणेनालं मम भक्तो विभीषणः ॥ ७९-२४ ॥
आगतो ह्यभिषिच्याशुलङ्केशो हि विकल्पितः ॥
हत्वा तु रावणं सङ्ख्ये सपुत्रामात्यबान्धवम् ॥ ७९-२५ ॥
सीतामादाय संशुद्ध्वामयोध्यां समुपागतः ॥
ततः कालान्तरे विप्रसुग्रीवश्च विभीषणः ॥ ७९-२६ ॥
निमन्त्रितौ पितुः श्राद्ध्वे षटेकुलाश्च द्विजोत्तमाः ॥
अयोध्यायां समाजग्मुस्ते तु सर्वे निमन्त्रिताः ॥ ७९-२७ ॥
ऋते विभीषिणं तत्र चिन्तयाने रघूत्तमे ॥
शम्भुर्ब्राह्मणरूपेण षट्कुलैश्च सहागतः ग॥ ७९-२८ ॥
अथ पृष्टो मया शम्भुर्विभीषणसमागमे ॥
नीत्वा मां द्रविडे देशे मोचय द्विजबन्धनात् ॥ ७९-२९ ॥
मया निमन्त्रिताः श्रद्धे ह्यगस्त्याद्या मुनीश्वराः ॥
सम्भोजितास्तु प्रययुः स्वस्वमाश्रममण्डलम् ॥ ७९-३0 ॥
ततः कालान्तरे विप्रा देवा दैत्या नरेश्वराः ॥
गौतमेन समाहूताः सर्वे यज्ञसभाजिताः ॥ ७९-३१ ॥
ते सर्वे स्फाटिकं लिङ्गं त्र्यम्बकाद्रौ निवेशितम् ॥
सम्पूज्य न्यवंसस्तत्र देवदैत्यनृपाग्रजाः ॥ ७९-३२ ॥
तस्मिन्समाजे वितते सर्वौर्लिङ्गे समर्चिते ॥
गौतमोऽप्यथ मध्याह्ने पूजयामास शङ्करम् ॥ ७९-३३ ॥
सर्वे शुक्लाम्बरधरा भस्मोद्धूलितविग्रहाः ॥
सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुण्ड्रकम् ॥ ७९-३४ ॥
नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः ॥
हृत्पद्ममध्ये सुषिरं तत्रैव भूतपञ्चकम् ॥ ७९-३५ ॥
तेषां मध्ये महाकाशमाकाशे निर्मलामलम् ॥
तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम् ॥ ७९-३६ ॥
अज्ञानसंयुतं भूतं समलं कर्मसङ्गतः ॥
तं देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना ॥ ७९-३७ ॥
आकाशस्यावृत्तिं चाहं दग्ध्वाकाशमथो दहेत् ॥
दग्ध्वाकाशमथो वायुमग्निभूतं तथा दहेत् ॥ ७९-३८ ॥
अब्भूतं च ततो दग्ध्वा पृथिवीभूतमेव च ॥
तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत् ॥ ७९-३९ ॥
एवं प्रदग्ध्वा भूतार्दि देही तज्ज्ञानवह्निना ॥
शिखामध्यस्थितं विष्णुमानन्दरसनिर्भरम् ॥ ७९-४0 ॥
निष्पन्नचन्द्रकिरणसङ्काशकिरणं किरणं शिवम् ॥
शिवाङ्गोत्पन्नकिरणैरमृतद्रवसंयुतैः ॥ ७९-४१ ॥
सुशीतला ततो ज्वाला प्रशान्ता चन्द्ररश्मिवत् ॥
प्रसारितसुधारुग्भिः सान्द्रीभूतश्च सम्प्लवः ॥
अनेन प्लावितं भूतग्रामं सञ्चिन्तयेत्परम् ॥ ७९-४२ ॥
इत्थं कृत्वा भूतशुद्धिं क्रियार्हो मर्त्यः शुद्धो जायते ह्येव सद्यः ॥
पूजां कर्तुं जप्यकर्मापि पश्चादेवं ध्यायेद्ब्रह्महत्यादिशुद्ध्यै ॥ ७९-४३ ॥
एवं ध्यात्वा चद्रन्दीप्तिप्रकाशं ध्यानेनारोप्याशु लिङ्गे शिवस्य ॥
सदाशिवं दीपमध्ये विचिन्त्य पञ्चाक्षरेणार्चनमव्ययं तु ॥ ७९-४४ ॥
आवाहनादीनुपचारांरतथापि कृत्वा स्नानं पूर्ववच्छङ्करस्य ॥
औदुम्बरं राजतं स्वर्णपीठं वस्त्रादिच्छन्नं सर्वमेवेह पीठम् ॥ ७९-४५ ॥
अन्ते कृत्वा बुद्बुदाभ्यां च सृष्टिं पीठे पीठे नागमेकं पुरस्तात् ॥
कुर्यात्पीठे चोर्द्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च ॥ ७९-४६ ॥
जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादशप्रातिगुण्ये ॥
सुश्वेतेन तस्य मध्ये महेशं लिङ्गाकारं पीठयुक्तं प्रपूज्यम् ॥ ७९-४७ ॥
एवं कृत्वा साधकास्ते तु सर्वे दत्त्वा दत्त्वा पञ्चगन्धाशष्टगन्धम् ॥
पुष्पैः पत्रैः श्रीतिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्चप्रपूज्य ॥ ७९-४८ ॥
धूपं दत्त्वा विधिवत्सम्प्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारम् ॥
पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्र तत्रापि चक्रुः ॥ ७९-४९ ॥
काले चास्मिन्सुव्रते गौतमस्य शिष्यः प्राप्तः शङ्करात्मेति नाम्ना ॥ ७९-५0 ॥
उन्मत्तवेषो दिग्वासा अनेकां वृत्तिमास्थितः ॥
क्वचिद्द्विजातिप्रवरः क्वचिञ्चण्डालसन्निभः ॥ ७९-५१ ॥
क्वचिच्छूद्रसमो योगी तापसः क्वचिदप्युत ॥
गर्जत्युत्पतते चैव नृत्यति स्तौति गायति ॥ ७९-५२ ॥
रोदिति श्रृणुतेऽत्युक्तं पतत्युत्तिष्ठति क्वचित् ॥
शिवज्ञानैकसम्पन्नः परमानन्दनिर्भरः ॥ ७९-५३ ॥
सम्प्राप्तो भोज्यवेलायां गौतमस्यान्तिकं ययौ ॥
बुभुजे गुरुणा साकं क्वचिदुच्छिष्टमेव च ॥ ७९-५४ ॥
क्वचिल्लिहति तत्पात्रं तूष्णीमेवाभ्यगात्क्वचित् ॥
हस्तं गृहीत्वैव गुरोः स्वयमेवाभुनक्क्वचित् ॥ ७९-५५ ॥
क्वचिद् गृहान्तरे मूत्रं क्वचित्कर्दमलेपनम् ॥
सर्वदा तं गुरुर्दृष्ट्वा करमालम्ब्य मन्दिरम् ॥ ७९-५६ ॥
प्रविश्य स्वीयपीठे तमुपवेश्याप्यभोजयत् ॥
स्वयं तदस्य पात्रेण बुभुजेगौतमो मुनिः ॥ ७९-५७ ॥
तस्य चित्तं परिज्ञातुं कदाचिदथ सुन्दरी ॥
अहल्या शिष्यमाहूय भुङ्क्ष्वेति प्राह तं मुदा ॥
निर्दिष्टो गुरुपत्न्या तु बुभुजे सोऽविशेषतः ॥ ७९-५८ ॥
यथा पपौ हि पानीयं तथा वह्निमपि द्विजा ॥
कण्टकानन्नवद्भुक्त्वा यथापूर्वमतिष्ठत ॥ ७९-५९ ॥
पुरो हि मुनिकन्याभिराहूतो भोजनाय च ॥
दिनेदिने तत्प्रदत्तं लोष्टमम्बु च गोमयम् ॥ ७९-६0 ॥
कर्दमं काष्ठदण्डं च भुक्त्वा पीत्वाथ हर्षितः ॥
एतादृशो मुनिरसौ चण्डालसदृशाकृतिः ॥ ७९-६१ ॥
सुजीर्णोपानहौ हस्ते गृहीत्वा प्रलपन्हसन् ॥
अन्त्यजोचितवेषश्च वृषपर्वाणमभ्यगात् ॥ ७९-६२ ॥
वृषपर्वेशयोर्मध्ये दिग्वासाः समतिष्टत ॥
वृषपर्वा तमज्ञात्वा पीडयित्वा शिरोऽच्छिनत् ॥ ७९-६३ ॥
हते तस्मिन्द्विजश्रेष्ठे जगदेतञ्चराचरम् ॥
अतीव कलुषं ह्यासीत्तत्रस्था मुनयस्तथा ॥ ७९-६४ ॥
गौतमस्य महाशोकः सञ्जातः सुमहात्मनः ॥
निर्ययौ चक्षुषो वारि शोकं सन्दर्शयन्निव ॥ ७९-६५ ॥
गौतमः सर्वदैत्तयानां सन्निधौ वाक्यमुक्तवान् ॥
किमनेन कृते पापं येन च्छिन्नमिदं शिरः ॥ ७९-६६ ॥
मम प्राणाधिकस्येह सर्वदा शिवयोगिनः ॥
ममापि मरणं सत्यं शिष्यच्छद्मा यतो गुरुः ॥ ७९-६७ ॥
शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनाम् ॥
मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवम् ॥ ७९-६८ ॥
तच्छ्रुत्वा ह्यसुराचार्यः सुक्रः प्राह विदांवरः ॥
एनं सञ्जीवयिष्यामि भार्गवं शङ्करप्रियम् ॥ ७९-६९ ॥
किमर्थं म्रियते ब्रह्मन्पश्य मे तपसो बलम् ॥
इति वादिनि विप्रेन्द्रे गौतमोऽपि ममार ह ॥ ७९-७0 ॥
तस्मिन्मृतेऽथ शुक्रोऽपि प्राणांस्तत्याज योगतः ॥
तस्यैवं हतिमाज्ञाय प्रह्लादाद्या दितीश्वराः ॥ ७९-७१ ॥
देवा नृपा द्विजाः सर्वे मृता आसंस्तदद्भुतम् ॥
मृतमासीदथ बलं तस्य बाणस्य धीमतः ॥ ७९-७२ ॥
अहल्या शोकसन्तप्ता रुरोदोञ्चैः पुनःपुनः ॥
गौतमेन महेशस्य पूजया पूजितो विभुः ॥ ७९-७३ ॥
वीरभद्रो महायोगी सर्वं दृष्ट्वा चुकोप ह ॥
अहो कष्टमहोकष्टं महेशा बहवो हताः ॥ ७९-७४ ॥
शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यथ ॥
इति निश्चित्य गतवान्मन्दराचलमव्ययम् ॥ ७९-७५ ॥
नमस्कृत्वा विरूपाक्षं वृत्तसर्वमथोक्तवान् ॥
ब्रह्माणं च हरिं तत्र स्थितौ प्राह शिवो वचः ॥ ७९-७६ ॥
मद्भक्तैः साहसं कर्म कृतं ज्ञात्वा वरप्रदम् ॥
गत्वा पश्यामि हे विष्णो सर्वं तत्कृतसाहसम् ॥ ७९-७७ ॥
इत्युक्त्वा वृषमारुह्य वायुना धूतचामरः ॥
नन्दिकेन सुवेषेण धृते छत्रेऽतिशोभने ॥ ७९-७८ ॥
सुश्वेते हेमदण्डे च नान्ययोग्ये धृते विभो ॥
महेशानुमतिं लब्ध्वा हरिर्नागान्तके स्थितः ॥ ७९-७९ ॥
आरक्तनीलच्छत्राभ्यां शुशुभे लक्ष्मकौस्तुभः ॥
शिवानुमत्या ब्रह्मापि हंसारूढोऽभवत्तदा ॥ ७९-८0 ॥
इन्द्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः ॥
इन्द्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः ॥ ७९-८१ ॥
अथ ते निर्ययुः सर्वे नानावाद्यानुमोदिताः ॥
कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः ॥ ७९-८२ ॥
ब्रह्मविष्णु महेशाना दृष्ट्वा तत्परमाद्भुतम् ॥
स्वभक्तं जीवयामास वामकोणनिरीक्षणात् ॥ ७९-८३ ॥
शङ्करो गौतमं प्राह तुष्टोऽहं ते वरं वृणु ॥
तदाकर्ण्य वचस्तस्य गौतमः प्राह सादरम् ॥ ७९-८४ ॥
यदि प्रसन्नो देवेश यदि देयो वरो मम ॥
त्वल्लिङ्गार्चनसामर्थ्यं नित्यमस्तु ममेश्वर ॥ ७९-८५ ॥
वृतमेतन्मया देव त्रिनेत्र श्रृणु चापरम् ॥
शिष्योऽयं मे महाभागो हेयादेयादिवर्जितः ॥ ७९-८६ ॥
प्रेक्षणीयं ममत्वेन न च पश्यति चक्षुषा ॥
न घ्राणग्राह्यं देवेश न पातव्यं न चेतरत् ॥ ७९-८७ ॥
इति बुद्ध्व्या तथा कुर्वन्स हि योगी महायशः ॥
उन्मत्तविकृताकारः शङ्करात्मेति कीर्तितः ॥ ७९-८८ ॥
न कश्चित्तं प्रति द्वेषी न च तं हिंसयेदपि ॥
एतन्मे दीयतां देव मृतानाममृतिस्तथा ॥ ७९-८९ ॥
तच्छ्रुत्वोमापतिः प्रीतो निरीक्ष्य हरिमव्ययः ॥
स्वांशेन वायुना देहमाविशज्जगदीश्वरः ॥ ७९-९0 ॥
हरिरूपः शङ्करात्मा मारुतिः कपिसत्तमः ॥
पर्यायैरुच्यतेऽधीशः साक्षाद्विष्णुः शिवः परः ॥ ७९-९१ ॥
आकल्पतेषु प्रत्येकं कामरूपमुपाश्रितः ॥
ममाज्ञाकारको रामभक्तः पूजितविग्रहः ॥ ७९-९२ ॥
अनन्तकल्पमीशानः स्थास्यति प्रीतमानसः ॥
त्वया कृतमिदं वेश्म विस्तृतं सुप्रतिष्टितम् ॥ ७९-९३ ॥
नित्यं वै सर्वरूपेण तिष्ठामः क्षणमादरात् ॥
समर्चिताः प्रयास्यामः स्वस्ववासं ततः परम् ॥ ७९-९४ ॥
अथाबभाषे विश्वेशं गौतमो मुनिपुङ्गवः ॥
अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति ॥ ७९-९५ ॥
ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते ॥
अथेशो विष्णुमालोक्य गृहीत्वा तत्करं करे ॥ ७९-९६ ॥
प्रहसन्नम्बुजाभाक्षमित्युवाच सदाशिवः ॥
क्षामोदरोऽसि गोविन्द देयं ते भोजनं किमु ॥ ७९-९७ ॥
स्वयं प्रविश्य यदि वा स्वयं भुङ्क्ष्व स्वगेहवत् ॥
गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति ॥ ७९-९८ ॥
इत्युक्त्वा तत्करालम्बी ह्येकान्तमगमद्विभुः ॥
आदिश्य नन्दिनं देवो द्वाराध्यक्षं यथोक्तवत् ॥ ७९-९९ ॥
स गत्वा गौतमं वाथ ह्युक्तवान्विष्णुभाषणम् ॥
सम्पादयान्नं देवेशा भोक्तुकामा वयं मुने ॥ ७९-१00 ॥
इत्युक्त्वैकान्तमगमद्वासुदेवेन शङ्करः ॥
मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ ॥ ७९-१0१ ॥
अन्योन्यं भाषणं कृत्वा प्रोत्तस्थतुरुभावपि ॥
गत्वा तडागं गम्भीरं स्रास्यन्तौ देवसत्तमौ ॥ ७९-१0२ ॥
कराम्बुपातमन्योन्यं पृथक्कृत्वोभयत्र च ॥
मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे ॥ ७९-१0३ ॥
अथ विष्णुर्महेशश्च जलपानानि शीघ्रतः ॥
चक्रतुः शङ्करऋ पद्मकिञ्जल्काञ्जलिना हरेः ॥ ७९-१0४ ॥
अवाकिरन्मुखे तस्य पद्मोत्फुल्लविलोचने ॥
नेत्रे केशरसम्पातात्प्रमीलयत केशवः ॥ ७९-१0५ ॥
अत्रान्तरे हरेः स्कन्धमारुरोह महेश्वरः ॥
हर्युत्तमाङ्गं बाहुभ्यां गृहीत्वा सन्न्यमज्जयत् ॥ ७९-१0६ ॥
उन्मज्जयित्वा च पुनः पुनश्चापि पुनःपुनः ॥
पीडितः स हरिः सूक्ष्मं पातयामास शङ्करम् ॥ ७९-१0७ ॥
अथ पादौ गृहीत्वा तं भ्रामयन्विचकर्ष ह ॥
अताडयद्ध्वरेर्वक्षः पातयामास चाच्युतम् ॥ ७९-१0८ ॥
अथोत्थितो हरिस्तोयमादायाञ्जलिना ततः ॥
शीर्षे चैवाकिरच्छम्भुमथ शम्भुरथो हरिः ॥ ७९-१0९ ॥
जलक्रीडैवमभवदथ चर्षिगणान्तरे ॥
जलक्रीडासम्भ्रमेण विस्रस्तजटबन्धनाः ॥ ७९-११0 ॥
अथ सम्भ्रमतां तेषामन्योन्यजटबन्धनम् ॥
इतरेतरबद्ध्वासु जटासु च मुनीश्वराः ॥ ७९-१११ ॥
शक्तिमन्तोऽशक्तिमत आकर्षन्ति च सव्यथम् ॥
पातयन्तोऽन्यतश्चापि क्त्रोशन्तो रुदतस्तथा ॥ ७९-११२ ॥
एवं प्रवृत्ते तुमुले सम्भूते तोयकर्मणि ॥
आकाशे वानरेशस्तु ननर्त च ननाद च ॥ ७९-११३ ॥
विपञ्चीं वादयन्वाद्यं ललितां गीतिमुज्जगौ ॥
सुगीत्या ललिता यास्तु आगायत विधा दश ॥ ७९-११४ ॥
शुश्राव गीतिं मधुरां शङ्करो लोकभावतः ॥
स्वयं गातुं हि ललितं मन्दम्मन्दं प्रचक्रमे ॥ ७९-११५ ॥
स्वयं गायति देवेशे विश्रामं गलदेशिकम् ॥
स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम् ॥ ७९-११६ ॥
स्वधारामृतसंयुक्तं गानेनैवमपोनयन् ॥
वासुदेवो मर्दलं च कराभ्यामप्यवादयत् ॥ ७९-११७ ॥
अम्बुजाङ्गश्चतुर्वक्रस्तुम्बुरुर्मुखरो बभौ ॥
तानका गौतमाद्यास्तु गयको वायुजोऽभवत् ॥ ७९-११८ ॥
गायके मधुरं गीतं हनूमति कपीश्वरे ॥
म्लानमल्मानमभवत्कृशाः पुष्टास्तदाभवन् ॥ ७९-११९ ॥
स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्च्छिता ॥
तूष्णीभूतं समभवद्देवर्षिगणदानवम् ॥ ७९-१२0 ॥
एकः स हनुमान् गाता श्रोतारः सर्व एव ते ॥
मध्याह्नकाले वितते गायमाने हनूमति ॥
स्वस्ववाह नमारुह्य निर्गताः सर्वदेवताः ॥ ७९-१२१ ॥
गानप्रियो महेशस्तु जग्राह प्लवगेश्वरम् ॥
प्लवग त्वं मयाज्ञप्तो निःशङ्को वृषमारुह ॥ ७९-१२२ ॥
मम चाभिमुखो भूत्वा गायस्वानेकगायनम् ॥
अथाह कपिशार्दूलो भगवन्तं महेश्वरम् ॥ ७९-१२३ ॥
वृषभारोहसामर्थ्यं तव नान्यस्य विद्यते ष॥
तव वाहनमारुह्य पातकी स्यामहं विभो ॥ ७९-१२४ ॥
मामेवारुह देवेश विहङ्गः शिवधारणः ॥
तव चाभिमुखँ गानं करिष्यामि विलोकय ॥ ७९-१२५ ॥
अथेश्वरो हनूमन्तमारुरोह यथा वृषम् ॥
आरूढे शङ्करे देवे हनुमत्कन्धरां शिवः ॥ ७९-१२६ ॥
छित्वा त्वचं परावृत्य सुखं गायति पूर्ववत् ॥
श्रृण्वन्गीतिसुधां शम्भुर्गौत मस्य गृहं ततः ॥ ७९-१२७ ॥
सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः ॥
पूजिता गौतमेनाथ भोजनावसरे सति ॥ ७९-१२८ ॥
यच्छुष्कं दारुसम्भूतं गृहो पकरणादिकम् ॥
प्ररूढमभवत्सर्वं गायमाने हनूमति ॥ ७९-१२९ ॥
तस्मिन्गाने समस्तानां चित्रं दृष्टिरतिष्टत ॥ ७९-१३0 ॥
द्विबाहुरीशस्य पदाभिवं दनः समस्तगात्राभरणोपपन्नः ॥
प्रसन्नमूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्द्ध्वाञ्जलिभिः शिरोभिः ॥ ७९-१३१ ॥
शिरः कराभ्यां परिगृह्य शङ्करो हनूमतः पूर्वमुखं चकार ॥
पद्मासनासीनहनूमतोंऽजलौ निधाय पादं त्वपरं मुखे च ॥ ७९-१३२ ॥
पादाङ्गुलीभ्यामथ नासिकां विभुः स्नेहेन जग्राह च मन्दमन्दम् ॥
स्कन्धे मुखे त्वंसतले च कण्ठे वक्षस्थले च स्तनमध्यमे हृदि ॥ ७९-१३३ ॥
ततश्च कुक्षावथ नाभिमण्डलं पादं द्वितीयं विदधाति चाञ्जलौ ॥
शिरो गृहीत्वाऽवनमय्य शङ्करः पस्पर्श पृष्ठं चिबुकेन सोऽध्वनि ॥ ७९-१३४ ॥
हारं च मुक्तापरिकल्पितं शिवो हनूमतः कण्ठगतं चकार ॥ ७९-१३५ ॥
अथ विष्णुर्महेशानमिह वचनमुक्तवान् ॥
हनूमता समो नास्ति कृत्स्नब्रह्माण्डमण्डले ॥ ७९-१३६ ॥
श्रुतिदेवाद्यगम्यं हि पदं तव कपिस्थितम् ॥
सर्वोपनिषदव्यक्तं त्वत्पदं कपिसर्वयुक् ॥ ७९-१३७ ॥
यमादिसाधनैंर्योगैर्न क्षणं ते पदं स्थिरम् ॥
महायोगिहृदम्भोजे परं स्वस्थं हनूमति ॥ ७९-१३८ ॥
वर्षकोटिसहस्रं तु सहस्राब्दैरथान्वहम् ॥
भक्त्या सम्पूजितोऽपीश पादो नो दर्शितस्त्वया ॥ ७९-१३९ ॥
लोके वादो हि सुमहाञ्छम्भुर्नारायणप्रियः ॥
हरिप्रियस्तथा शम्भुर्न तादृग्भाग्यमस्ति मे ॥ ७९-१४0 ॥
तच्छ्रुत्वा वचनं शम्भुर्विष्णोः प्राह मुदान्वितः ॥
न त्वया सदृशो मह्यं प्रियोऽन्योऽस्ति हरे क्वचित् ॥ ७९-१४१ ॥
पार्वती वा त्वया तुल्या वर्तते नैव भिद्यते ॥
अथ देवाय महते गौतमः प्रणिपत्य च ॥ ७९-१४२ ॥
व्यजिज्ञपदमेयात्मज्देवैर्हि करुणानिधे ॥
मध्याह्नोऽयं व्यतिक्रान्तो भुक्तिवेलाखिलस्य च ॥ ७९-१४३ ॥
अथाचम्य महादेवो विष्णुना सहितो विभुः ॥
प्रविश्य गौतमगृहं भोजनायोपचक्रमे ॥ ७९-१४४ ॥
रत्नाङ्गुलीयैरथनूपुराभ्यां दुकूलबन्धेन तडित्सुकाञ्च्या ॥
हारैरनेकैरथ कण्ठनिष्कयज्ञोपवीतोत्तरवाससी च ॥ ७९-१४५ ॥
विलम्बिचञ्चन्मणिकुण्डलेन सुपुष्पधम्मिल्लवरेण चैव ॥
पञ्चाङ्गगन्धस्य विलेपनेन बाह्वङ्गदैः कङ्कणकाङ्गुलीयैः ॥ ७९-१४६ ॥
अथो विभूषितः शिवो निविष्ट उत्तमासने ॥
स्वसम्मुखं हरिं तथा न्यवेशयद्वरासने ॥ ७९-१४७ ॥
देवश्रेष्ठौ हरीशौ तावन्योन्याभिमुखस्थितौ ॥
सुवर्णभाजनस्थान्नं ददौ भक्त्या स गौतमः ॥ ७९-१४८ ॥
त्रिंशत्प्रभेदान्भक्ष्यांस्तु पायसं च चतुर्विधम् ॥
सुपक्वं पाकजातं च कल्पितं यच्छतद्वयम् ॥ ७९-१४९ ॥
अपक्कं मिश्रकं तद्वत्त्रिंशतं परिकल्पितम् ॥
शतं शतं सुकन्दानां शाकानां च प्रकल्पितम् ॥ ७९-१५0 ॥
पञ्चविंशतिधा सर्पिःसंस्कृतं व्यञ्जनं तथा ॥
शर्कराद्यं तथा चूतमोचाखर्जूरदाडिमम् ॥ ७९-१५१ ॥
द्राक्षेक्षुनागरङ्गं च मिष्टं पक्वं फलोत्करम् ॥
प्रियालक्रञ्जम्बुफलं विकङ्कतफलं तथा ॥ ७९-१५२ ॥
एवमादीनि चान्यानि द्रव्याणीशे समर्प्य च ॥
दत्त्वापोशानकं विप्रो भुञ्जध्वमिति चाब्रवीत् ॥ ७९-१५३ ॥
भुञ्जानैषु च सर्वेषु व्यजनं सूक्ष्मविस्तृतम् ॥
गौतमः स्वयमादाय शिवविष्णू अवीजयत् ॥ ७९-१५४ ॥
परिहासमथो कर्तुमियेष परमेश्वरः ॥
पश्य विष्णो हनूमन्तं कथं भुङ्क्ते स वानरः ॥ ७९-१५५ ॥
वानरं पश्यति हरौ मण्डकं विष्णुभाजने ॥
चक्षेप मुनिसंषेषु पश्यत्स्वपि महेश्वरः ॥ ७९-१५६ ॥
हनूमते दत्तवांश्च स्वोच्छिष्टं पायसादिकम् ॥
त्वदुच्छिष्टभोज्यं तु तवैव वचनाद्विभो ॥ ७९-१५७ ॥
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलादिकम् ॥
मह्यं निवेद्य सकलं कूप एव विनिःक्षिपेत् ॥ ७९-१५८ ॥
अभुक्ते त्वर्द्वञ्चो नूनं भुक्ते चापि कृपा तव ॥
बाणलिङ्गे स्वयम्भूते चन्द्रकान्ते हृदि स्थिते ॥ ७९-१५९ ॥
चान्द्रायण समं ज्ञेयं शम्भोर्नैवेद्यभक्षणम् ॥
भुक्तिवेलेयमधुना तद्वैरस्यं कथान्तरात् ॥ ७९-१६0 ॥
भुक्त्वा तु कथयिष्यामि निर्विशङ्कं विभुङ्क्ष्व तत् ॥
अथासौ जलसंस्कारं कृतवान् गौतमो मुनिः ॥ ७९-१६१ ॥
आरक्तसुस्निगन्धसुसूक्ष्मगात्राननेकधाधौतसुशोभिताङ्गान् ॥
तडागतोयैः कतबीजघर्षितैर्विशौधितैस्तैः करकानपूरयत् ॥ ७९-१६२ ॥
नद्याः सैकतवेदिकां नवतरां सञ्छाद्य सूक्ष्माम्बरैः,शुद्ध्वैः श्वेततरैरथोपरि घटांस्तोयेन पूर्णान्क्षिपेत् ॥
लिप्त्वा नालकजातिमास्तपुटकं तत्कौलकं कारिकाचूर्णं चन्दनचन्द्ररश्मिविशदां मालां पुटान्तं क्षिपेत् ॥
यामस्यापि पुनश्च वारिवसनेनाशोध्य कुम्भेन तञ्चन्द्प्रन्थिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलम् ॥ ७९-१६३ ॥
शेफालीस्तबकमथो जलं च तत्र,विन्यस्य प्रथमत एव तोयशुद्धिम् ॥
कृत्वाथो मृदुतरं सूक्ष्मवस्त्रखण्डेनावेष्टेत्सृणिकमुखं च सूक्ष्मचन्द्रम् ॥ ७९-१६४ ॥
अनातपप्रदेशे तु निधाय करकानथ ॥
मन्दवातसमोपेते सूक्ष्मव्यजनवीजेते ॥ ७९-१६५ ॥
सिञ्चेच्छीतैर्जलैश्चापि वासितैः सृणिकामपि ॥
संस्कृताः स्वायतास्तत्र नरा नार्योऽथवा नृपाः ॥ ७९-१६६ ॥
तत्कन्या वा क्षालिताङ्गा धौतपादास्सुवाससः ॥
मधुर्पिगमनिर्यासमसान्द्रमगुरूद्भवम् ॥ ७९-१६७ ॥
बाहुमूले च कण्ठे च विलिप्यासान्द्रमेव च ॥
मस्तके जापकं न्यस्य पञ्चगन्धविलेपनम् ॥ ७९-१६८ ॥
पुष्पनद्ध्वसुकेशास्तु ताः शुभाः स्युः सुनिर्मलाः ॥
एवमेवार्चिता नार्य आप्तकुङ्कुमविग्रहाः ॥ ७९-१६९ ॥
युवत्यश्चारुसर्वाङ्ग्यो नितरां भूषणैरपि ॥
एतादृग्वनिताभिर्वा नरैर्वा दापयेज्जलम् ॥ ७९-१७0 ॥
तेऽपि प्रादानसमये सूक्ष्मवस्त्राल्पवेष्टनम् ॥
अथवामकरे न्यस्य करकं प्रेक्ष्य तत्र हि ॥ ७९-१७१ ॥
दोरिकान्यस्तमुन्मुच्य ततस्तोयं प्रदापयेत् ॥
एवं स कारयामास गौतमो भगवान्मुनिः ॥ ७९-१७२ ॥
महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु ॥
प्रक्षालिताङ्घ्रिहस्तेषु गन्धोद्वर्तितपाणिषु ॥ ७९-१७३ ॥
उञ्चासनसमासीने देवदेवे महेश्वरे ॥
अथ नीचसमासीनादेवाः सर्षिगणास्तथा ॥ ७९-१७४ ॥
मणिपात्रेषु संवेष्ट्थ पूगखण्डान्सुधूपितान् ॥
अकोणान्वर्तुलान्स्थूलानसूक्ष्मानकृशानपि ॥ ७९-१७५ ॥
श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरखण्डकम् ॥
चूर्णं च शङ्करायाथ निवेदयति गौतमे ॥ ७९-१७६ ॥
गृहाण देव ताम्बूलमित्युक्तवचने मुनौ ॥
कपे गृहाण ताम्बूलं प्रयच्छ मम खण्डकान् ॥ ७९-१७७ ॥
उवाच वानरो नास्ति मम शुद्धिर्महेश्वर ॥
अनेकफलभोक्तॄत्वाद्वानरस्तु कथं शुचिः ॥ ७९-१७८ ॥
तच्छ्रुत्वा तु विरूपाक्षाः प्राह वानरसत्तमम् ॥
मद्वाक्यादखिलं शुद्ध्येन्मद्वाक्यादमृतं विषम् ॥ ७९-१७९ ॥
मद्वाक्यादखिला वेदा मद्वाक्याद्देवतादयः ॥
मद्वाङ्क्याद्ध्वर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते ॥ ७९-१८0 ॥
पुराणान्यागमाश्चैव स्मृतयो मम वाक्यतः ॥
अतो गृहाण ताम्बूलं मम देहि सुखण्डकान् ॥ ७९-१८१ ॥
हरिर्वामकरेणाधात्ताम्बूलं पूगखण्डकम् ॥
ततः पत्राणि सङ्गृह्य तस्मै खण्डान्समर्पयत् ॥ ७९-१८२ ॥
कर्पूरमग्रतो दत्तं गृहीत्वाभक्षयच्छिवः ॥
देवे तु कृतताम्बूले पार्वती मन्दराचलात् ॥ ७९-१८३ ॥
जयाविजययोर्हस्तं गृहीत्वायान्मुनेर्गृहम् ॥
देवपादौ ततो नत्वा विनम्रवदनाभवत् ॥ ७९-१८४ ॥
उन्नमय्य मुखि तस्या इदमाह त्रिलोचनः ॥
त्वदर्थं देवदेवेशि अपराधः कृतो मया ॥ ७९-१८५ ॥
यत्त्वां विहाय भुक्तं हि तथान्यच्छृणु सुन्दरि ॥
यत्त्वां स्वमन्दिरे त्यक्त्वा महदेनो मया कृतम् ॥ ७९-१८६ ॥
क्षन्तुमर्हसि देवेशि त्यक्तकोपा विलोकय ॥
न बभाषेऽप्येवमुक्ता सारुन्धत्या विनिर्ययौ ॥ ७९-१८७ ॥
निर्गच्छन्तीं मुनिर्ज्ञात्वा दण्डवत्प्रणनाम ह ॥
अथोवाच शिवा तं चगौतम त्वं किमिच्छसि ॥ ७९-१८८ ॥
अथाह गौतमो देवीं पार्वतीं प्रेक्ष्य सस्मिताम् ॥
कृतकृत्यो भवेयं वै भुक्तायां मद्गृहे त्वयि ॥ ७९-१८९ ॥
ततः प्राह शिवा विप्रं गौतमं रचिताञ्जलिम् ॥
भोक्ष्यामि त्वद्गृहे विप्र शङ्करानुमतेन वै ॥ ७९-१९0 ॥
अथ गत्वा शिवं विंशे लब्धानुज्ञस्त्वरागतः ॥
भोजयामास गिरिजां देवीं चारुन्धतीं तथा ॥ ७९-१९१ ॥
भुक्त्वाथ पार्वती सर्वगन्धपुष्पाद्यलङ्कृता ॥
सहानु चरकन्याभिः सहस्राभिर्हरं ययौ ॥ ७९-१९२ ॥
अथाह र्शकरो देवी गच्छ गौतममन्दिरम् ॥
सन्ध्योपास्तिमहं कृत्वा ह्यागमिष्ये तवान्तिकम् ॥ ७९-१९३ ॥
इत्युक्त्वा प्रययौ देवी गौतमस्यैव मदिरम् ॥
सन्ध्यावदनकामास्तु सर्व एव विनिर्गताः ॥ ७९-१९४ ॥
कृतसन्ध्यास्तडागे तु महेशाद्याश्च कृत्स्नशः ॥
अथोत्तरमुखः शम्भुर्न्यास कृत्वा जजाप ह ॥ ७९-१९५ ॥
अथ विष्णुर्महातेजा महेशमिदमब्रवीत् ॥
सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते ॥ ७९-१९६ ॥
हूयतं सर्वयज्ञेषु स भवान्किम् जपिष्यति ॥
रचिताञ्जलयः सर्वे त्वामेवैकमुपासिते ॥ ७९-१९७ ॥
स भवान्देवदेवेशः कस्मै विरचिताञ्जलिः ॥
नमस्कारादिपुण्यानां फलदस्त्वं महेश्वरर ॥ ७९-१९८ ॥
तव कः फलदो वन्द्यः को वा त्वत्तोऽधिको वद ॥
तच्छ्रुत्वा शङ्करः प्राह देवदेवं जनार्दनम् ॥ ७९-१९९ ॥
ध्याये न किञ्चिद्गोविन्दनमस्ये ह न किञ्चन ॥
किन्तु नास्तिकजन्तूनां प्रवृत्त्यर्थमिदं मया ॥ ७९-२00 ॥
दर्शनीयं हरे चैतदन्यथा पापकारिणः ॥
तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया ॥ ७९-२0१ ॥
ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्टत ॥
अथ ते गौतमगृहं प्राप्ता देवर्षयस्तदा ॥ ७९-२0२ ॥
सर्वे पूजामथो चक्रुर्देवदेवाय शूलिने ॥
देवो हनूमता सार्द्ध्वं गायन्नास्ते मुनीश्वर ॥ ७९-२0३ ॥
पञ्चाक्षरीं महाविद्यां सर्वे एव तदाऽजपन् ॥
हनुमत्करमालम्ब्य देवाभ्यां सङ्गतो हरः ॥ ७९-२0४ ॥
एकशय्यासमांसीनौ तावुभौ देवदम्पती ॥
गायन्नास्ते च हनुमांस्तुम्बुरुप्रमुखास्तथा ॥ ७९-२0५ ॥
नानाविधविलासांश्च चकार परमेश्वरः ॥
आहूय पार्वतीमीश इदं वाक्यमुवाच ह ॥ ७९-२0६ ॥
रचयिष्यामि धम्मिल्लमेहि मत्पुरतः शुभे ॥
देव्याह न च युक्तं तद्भर्त्त्रा शुश्रूषणं स्त्रियः ॥ ७९-२0७ ॥
केशप्रसाधनकृतावनर्थान्तरमापतेत् ॥
केशप्रसाधने देव तत्त्वं सर्वं न चेप्सितम् ॥ ७९-२0८ ॥
अथ बन्धेकृते पश्चादंसप्रान्तप्रमार्जनम् ॥
ततश्चरमसंलग्न केशपुष्पादिमार्जनम् ॥ ७९-२0९ ॥
एतस्मिन्वर्तमाने तु महात्मानो यदागमन् ॥
तदा किमुत्तरं वाच्यं तव देवादिवन्दित ॥ ७९-२१0 ॥
नायान्ति चेदथ विभो भीतिर्नाशमुपैष्यति ॥
एवं हि भाषमाणां तां करेणाकृष्य शङ्करः ॥ ७९-२११ ॥
स्वोर्वोः संस्थापयित्वैव विस्रस्य कचबन्धनम् ॥
विभज्य च कराभ्यां स प्रससार नखैरपि ॥ ७९-२१२ ॥
विष्णुदत्तां पारिजातस्रजं कचगतामपि ॥
कृत्वा धम्मिल्लमकरोदथ मालां करागताम् ॥ ७९-२१३ ॥
मल्लिकास्रजमादाय बबन्ध कचबन्धने ॥
कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः ॥ ७९-२१४ ॥
पार्वतीवसने गूढगन्धाढ्ये च समाददात् ॥
अथांसपृष्ठ संलग्नमार्जनं कृतवान् विभुः ॥ ७९-२१५ ॥
श्लथन्नीवेरधो देव्या वस्त्रवेष्टादधोगतः ॥
किमिदं देवि चेत्युक्त्वा नीवीबन्धं चकार ह ॥ ७९-२१६ ॥
नासाभूषणमेतत्ते सत्यमेव वदामि ते ॥
ततः प्राह शिवा शम्भुं स्मित्वा पर्वतनन्दिनी ॥ ७९-२१७ ॥
अहो त्वन्मन्दिरे शम्भो सर्ववस्तु समृद्धिमत् ॥
पूर्वमेव मया सर्वं ज्ञातप्रायमभूत्किल ॥ ७९-२१८ ॥
सर्वद्रविणसम्पत्तिर्भूषणैखगम्यते ॥
शिरो विभूषितं देव ब्रह्मशीर्षस्य मालया ॥ ७९-२१९ ॥
नरकस्य तथा माला वक्षस्थलविभूषणम् ॥
शेषश्च वासुकिश्चैव सविषौ तव कङ्कणौ ॥ ७९-२२0 ॥
दिशोंऽबरं जटाः केशा भसित चाङ्गरागकम् ॥
महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च ॥ ७९-२२१ ॥
ज्ञायेते पितरौ नैव विरूपाक्षं तथा वपुः ॥
एवं वदन्तीं गिरिजां विष्णुः प्राहातिकोपनः ॥ ७९-२२२ ॥
किमर्थं निन्दसेदेवि देवदेवं जगत्पतिम् ॥
दुष्प्राणा न प्रिया भद्रे तव नूनमसंयमात् ॥ ७९-२२३ ॥
यत्रेशनिन्दनं भद्रे तत्र नो मरणव्रतम् ॥
इत्युक्त्वाथ नखाभ्यां हि हरिश्छेत्तुं शिरो गतः ॥ ७९-२२४ ॥
महेशस्तत्करं गृह्य प्राह मा साहसं कृथाः ॥
पार्वतीवचनं सर्वं प्रियं मम न चाप्रियम् ॥ ७९-२२५ ॥
ममाप्रियं हृषीकेश कर्तुं यत्किञ्चिदिष्यते ॥
ओमित्युक्त्वाथ भगवांस्तूष्णीम्भूतोऽभवद्ध्वरिः ॥ ७९-२२६ ॥
हनुमानथ देवाय व्यज्ञापयदिदं वचः ॥
अर्थयामि विनिष्कामं मम पूजाव्रतं तथा ॥ ७९-२२७ ॥
पूजार्थमप्यहं गच्छे मामनुज्ञातुमर्हसि ॥
तच्छ्रत्वा शङ्करो देवः स्मित्वा प्राह वपीश्वरम् ॥ ७९-२२८ ॥
कस्य पूजा क्व वा पूजा किं पुष्पं किं दलं वद ॥
को गुरुः कश्च मन्त्रस्ते कीदृशं पूजन तथा ॥ ७९-२२९ ॥
एवं वदति देवैशे हनुमान्नीतिसंयुतः ॥
वेपमानसमस्ताङ्ग स्तोतुमेवं प्रचक्रमे ॥ ७९-२३0 ॥
नमो देवाय महते शङ्करायामितात्मने ॥
योरिने योगधात्रे च योगिनां गुरवे नमः ॥ ७९-२३१ ॥
योगगम्याय देवाय ज्ञानिनां पतये नमः ॥
वेदानां पतये तुभ्यं देवानां पतये नमः ॥ ७९-२३२ ॥
ध्यानाय ध्यानगम्याय ध्यातॄणां गुरवे नमः ॥
अष्टमूर्ते नमस्तुभ्यं पशूनां पतये नमः ॥ ७९-२३३ ॥
अम्बकाय त्रिनेत्राय सोमसूर्याग्निचक्षुषे ॥
सुभृङ्गराजधत्तूरद्रोणपुष्पप्रियस्य ते ॥ ७९-२३४ ॥
बृहतीपूग पुन्नागचपकादिप्रियाय च ॥
नमस्तेऽस्तु नमस्तेऽस्तु भूय एव नमोनमः ॥ ७९-२३५ ॥
शिवो हरिमथ प्राह मा भैषीर्वद मेऽखिलम् ॥
ततस्त्यक्त्वा भयं प्राह हनुमान् वाक्यकोविदः ॥ ७९-२३६ ॥
शिवलिङ्गार्चनं कार्यं भस्मोद्ध्वूलितदेहिना ॥
दिवा सम्पादितैस्तैयैः पुष्पाद्यैरपि तादृशैः ॥ ७९-२३७ ॥
देव विज्ञापयिष्यामि शिवपूजविधिं शुभम् ॥
सायङ्काले तु सम्प्राप्ते अशिरःस्नानमाचरेत् ॥ ७९-२३८ ॥
क्षालितं वसनं शुष्कं धृत्वाचम्य त्रिरन्यधीः ॥
अथ भस्म समादाय आग्नेयं स्नानमाचरेत् ॥ ७९-२३९ ॥
प्रणवेन समामन्त्र्य अष्टवारमथाम्पि वा ॥
पञ्चाक्षरेण मन्त्रेण नाम्ना वा येन केनचित् ॥ ७९-२४0 ॥
सप्ताभिमन्त्रितं भस्म दर्भपाणिः समाहरेत् ॥
ईशानः सर्वविद्यानामुक्त्वा शिरसिपातयेत् ॥ ७९-२४१ ॥
तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत् ॥
अघोरेभ्योऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत् ॥ ७९-२४२ ॥
वामदेवय नमः इति गुह्यस्थाने विनिक्षिपेत् ॥
सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः ॥ ७९-२४३ ॥
उद्ध्वूलयेत्समस्ताङ्गं प्रणवेन विचक्षणाः ॥
त्रैवर्णिकानामुदितः स्नानादिविधिरुत्तमः ॥ ७९-२४४ ॥
शूद्रादीनां प्रवक्ष्यामि यदुक्तं गुरुणा तथो ॥
शिवेति पदमुच्चार्य भस्म सम्मन्त्रयेत्सुधीः ॥ ७९-२४५ ॥
सप्त वारमथादाय शिवायेति शिरस्यथ ॥
शङ्कराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेत् ॥ ७९-२४६ ॥
स्थाणवे नम इत्युक्त्वा मुखे चापि स्वयम्भुवे ॥
उच्चार्य पादयोः क्षिप्त्वा भस्म शुद्ध्वमतः परम् ॥ ७९-२४७ ॥
नमः शिवायेत्युच्चार्य सर्वाङ्गोद्ध्वूलनं स्मृतम् ॥
प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः ॥ ७९-२४८ ॥
दर्भाभावे सुवर्णं स्यात्तदभावे गवालुकाः ॥
तदभावे तु दूर्वाः स्युस्तदभावे तु राजतम् ॥ ७९-२४९ ॥
सन्ध्योपास्तिं जपं देव्याः कृत्वा देवगृहं व्रजेत् ॥
देववेदीमथो वापि कल्पितं स्थण्डिलं तु वा ॥ ७९-२५0 ॥
मृण्मयं कल्पितं शुद्धूं पद्मादिरचनायुतम् ॥
चातुर्वर्णकरं गैश्च श्वेतेनैकेन वा पुनः ॥ ७९-२५१ ॥
विचित्राणि च पद्मानि स्वस्तिकादि तथैव च ॥
उत्पलादिगदाशङ्खत्रिशूलडमरूंस्तथा ॥ ७९-२५२ ॥
शरोक्तपञ्चप्रासादं शिवलिङ्गमथैव च ॥
सर्वकामफलं वृक्षं कुलकं कोलकं तथा ॥ ७९-२५३ ॥
षट्कोणं च त्रिकोणं च नवकोणमथापि वा ॥
कोणे द्वादशकान्दोलापादुकाव्यजनानि च ॥ ७९-२५४ ॥
चामरच्छत्त्रयुगलं विष्णुब्रह्मादिकांस्तथा ॥
चूर्णैविरचयेद्वेद्यां धीमान्देवालयेऽपि वा ॥ ७९-२५५ ॥
यत्रापि देवपूजा स्यात् तत्रैवं कल्पयेद्बुधः ॥
स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम् ॥ ७९-२५६ ॥
याचितं तु कनिष्टं स्याद्बलात्कारमथोऽधमम् ॥
अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम् ॥ ७९-२५७ ॥
रक्तशालिजपाशाणकलमासितरक्तकैः ॥
तन्दुलैर्वीहिमात्रोत्थैः कणैश्चैव यथाक्रमम् ॥ ७९-२५८ ॥
उत्तमैर्मध्यमैश्चैव कनिष्ठैरधमैस्तथा ॥
पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत् ॥ ७९-२५९ ॥
प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेत् ॥
आसनं च प्रवक्ष्यामि यथादृष्टं यथा श्रुतम् ॥ ७९-२६0 ॥
कौशं चार्मं चैलतल्पे दारवं तालपत्रकम् ॥
काम्बलं काञ्चनं चैव राजतं ताम्रमेव च ॥ ७९-२६१ ॥
गोकरीपार्कजैर्वापि ह्यासनं परिकल्पयेत् ॥
वैयाघ्रं रौरवं चैव हारिण मार्गमेव च ॥ ७९-२६२ ॥
चार्मं चतुर्विधं ज्ञेयमथ बन्धुकमेव च ॥
यथासम्भवमेतेषु ह्यासनं परिकल्पयेत् ॥ ७९-२६३ ॥
कृतपद्मासनो वापि स्वस्तिकासन एव च ॥
दर्भभस्मसमासीनः प्राणानायम्य वाग्यन्तः ॥ ७९-२६४ ॥
तावत्स देवतारूपो ध्यानं चान्तः समाचरेत् ॥
शिखान्ते द्वादशाङ्गुल्ये स्थितं सूक्ष्मतनुं शिवम् ॥ ७९-२६५ ॥
अन्तश्चरन्तं भूतेषु गुहायां विश्वतोमुखम् ॥
सर्वाभरणसंयुक्तमिमादिगुणान्वितम् ॥ ७९-२६६ ॥
ध्यात्वा तं धारयेञ्चित्ते तद्दीप्त्या पूरयेत्तनुम् ॥
तया दीप्त्या शरीरस्थं पापं नाशमुपागतम् ॥ ७९-२६७ ॥
स्वर्णपादैरसम्पर्काद्रक्तं श्वेतं यथा भवेत् ॥
तद्द्वादशदलावृत्तमष्ट पञ्च त्रिरेव वा ॥ ७९-२६८ ॥
परिकल्प्यासनं शुद्धवं तत्र लिङ्गं निधाय च ॥
गुहास्थितं महेशानं र्लिङ्गेशं चिन्तयेत्था ॥ ७९-२६९ ॥
शोधिते कलशे तोयं शोधितं गन्धवासितम् ॥
सुगन्धपुष्पं निक्षिप्य प्राणवेनाभिमन्त्रितम् ॥ ७९-२७0 ॥
प्राणायामश्च प्रणवः शूद्रेषु न विधीयते ॥
प्राणायामपदे ध्यानं शिवेत्योङ्कारमन्त्रितम् ॥ ७९-२७१ ॥
गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च ॥
तानि स्थाप्य समीपे तु ततः सङ्कल्पमाचरेत् ॥ ७९-२७२ ॥
शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च ॥
इति सङ्कल्पयित्वा तु तत आवाहनादिकम् ॥ ७९-२७३ ॥
कृत्वा तु स्नानपर्यन्तं ततः स्नानं प्रकल्पयेत् ॥
नमस्तेत्यादिमन्त्रेण शतरुद्रविधानतः ॥ ७९-२७४ ॥
अविच्छिन्ना तु या धारा मुक्तिधारेति कीर्तिता ॥
तया यः स्नापयेन्मांस जपचुद्रमुखांश्च चा ॥ ७९-२७५ ॥
एकवारं त्रिवारं च पञ्च सप्त नवापि वा ॥
एकादश तथा वारमथैकादशधान्वितम् ॥ ७९-२७६ ॥
मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम् ॥
शैवयाविद्यया स्नानं केवलं प्रणवेन वा ॥ ७९-२७७ ॥
मृण्ययैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा ॥
कांस्येन मुक्ताशुक्त्या च पुष्पादिकेसरेण वा ॥ ७९-२७८ ॥
स्नापयेद्देवदेवेशं यथासम्भवमीरितैः ॥
श्रृङ्गस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत् ॥ ७९-२७९ ॥
पूर्वमन्तस्तु संशोध्य बहिरन्तस्तु शोधयेत् ॥
सुग्रिग्धं लघु कृत्वाथ नाङ्गं छिन्द्यात्कथञ्चन ॥ ७९-२८0 ॥
नीचैकदेशविन्यस्तद्वारद्रोण्या सुहृत्तया ॥
कृशानुयुक्तं स्नानं तु देवाय परिकल्पयेत् ॥ ७९-२८१ ॥
एवं गवयश्रृङ्गस्य जलपूर्तिरथोच्यते ॥
द्वारे निषिद्धलोहार्द्धसन्धिद्वारासमन्विते ॥ ७९-२८२ ॥
योगवक्रं नागदण्डं नागाकारं प्रकल्पंयेत् ॥
फलस्थाने तु चषकं दण्डेन समरन्ध्रकम् ॥ ७९-२८३ ॥
तत्रैव पातयेत्तोयं मूर्द्ध्वयन्त्रघटे स्थितम् ॥
पातयेदथ चान्येन वामेनैव करेण वा ॥ ७९-२८४ ॥
मुक्तिधारा कृता तेन पवित्र पापनाशनम् ॥
एवं संस्नाप्य देवेशं पञ्चगव्यैस्तथैव च ॥ ७९-२८५ ॥
पञ्चामृतैरथ स्नाप्य मधुरत्रितयेन च ॥
विभूष्य भूषणैर्देवं पुनः स्नाप्यमहेश्वरम् ॥ ७९-२८६ ॥
शीतोपचारं कृत्वाथ तत आचमनादिकम् ॥
वस्त्रं तथोपवीतं च गन्धद्रव्यकमेव च ॥ ७९-२८७ ॥
कर्पूरमगरुं चापि पाटीरमथवा भवेत् ॥
उभयमिश्रितं चापि शिवलिङ्गं प्रपूजयेत् ॥
कृत्स्नं पीठं गन्धपूर्णं यद्वा विभवसारतः ॥
तूष्णीमथोपचारं वा कालीयं पुष्पमेव च ॥ ७९-२८८ ॥
श्रीपन्नमरुचित्याज्यं यथाशकत्यखिलं यथा ॥
अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा ॥ ७९-२८९ ॥
कपिलाघृतसंयुक्तं सर्वधूपं प्रशस्यते ॥
धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान् ॥ ७९-२९0 ॥
अथवा पूजामात्रेण दीपान्दत्वोपहारकम् ॥
नैवेद्यमुपपन्नं च दत्वा पुष्पसमन्वितम् ॥ ७९-२९१ ॥
मुखशुद्धिं ततः कृत्वा दत्त्वा ताम्बूलमादरात् ॥
प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते ॥ ७९-२९२ ॥
गीत्यङ्गपञ्चकं पश्चात्तानि विज्ञापयामि ते ॥
गीतिर्वाद्यं पुराणं च नृत्यं हासोक्तिरेव च ॥ ७९-२९३ ॥
नीराजनं च पुष्पाणामञ्जलिश्चाखिलार्पणम् ॥
क्षमापनं चोद्रसनं प्रोक्तं पञ्चोपचारकम् ॥ ७९-२९४ ॥
भूषणं च तथा छत्रं चामरव्यजने अपि ॥
उपवीत च कैकर्यं षोडशानुपचारकान् ॥ ७९-२९५ ॥
द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवम् ॥
एकेनाह्ना समस्तानां पातकानां क्षयो भवेत् ॥ ७९-२९६ ॥
एतच्छ्रुत्वा हनुमतो वचनं प्राह शङ्करः ॥
एवमेतत्कपिश्रेष्ठ युदुक्तं पूजनं मम ॥ ७९-२९७ ॥
सारभूतमहं तुभ्यमुपदेक्ष्यामि साम्प्रतम् ॥
आराधनं यथालिङ्गे विस्तरेण त्वयोदितम् ॥ ७९-२९८ ॥
मत्पादयुगलं प्रार्च्य पूजाफलमवाप्नुहि ॥
ततः प्राह कपिश्रेष्ठो देवदेवमुमापतिम् ॥ ७९-२९९ ॥
गुरिणा लिङ्गपूजैव नियता परिकल्पिता ॥
तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम् ॥ ७९-३00 ॥
इत्युक्त्वेश नमस्कृत्य शिवलिङ्गार्चनाय च ॥
सरसस्तीरमागत्य कृत्वा सैकतवेदिकाम् ॥ ७९-३0१ ॥
तालपत्रैर्विरचितमासनं पर्यकल्पयत् ॥
प्रक्षाल्य पादौ हस्तौ च समाचम्य समाहितः ॥ ७९-३0२ ॥
भस्मस्नानमथो चक्रे पुनराचम्य वाग्यतः ॥
देववेद्यामथो चक्रे पद्मं च सुमनोहरम् ॥ ७९-३0३ ॥
अनन्तरं तालपत्रे पद्मासनगतः कपिः ॥
प्राणानायम्य सन्न्यस्य शुल्कध्यानसमन्वितः ॥ ७९-३0४ ॥
प्रणम्य गुरुमीशानं जपन्नासीदतः परम् ॥
अथ देवार्यनं कर्त्तुं यत्नमास्थितवान्कपिः ॥ ७९-३0५ ॥
पलाशपत्रपुटकद्वयानीतजलं शुचि ॥
शिरः कमण्डलुगतं निधायाग्निनिमन्त्रितम् ॥ ७९-३0६ ॥
आवाहनादि कृत्वाथ स्नानपर्यन्तमेव च ॥
अथ स्नापयितुं देवमादाय करसम्पुटे ॥ ७९-३0७ ॥
कृत्वा निरीक्षणं देवपीठं नो दृष्टवान्कपिः ॥
लिङ्गमात्रं करगतं दृष्ट्वा भीतिसमन्वितः ॥ ७९-३0८ ॥
इदमाह महायोगी किंवा पापं मया कृतम् ॥
यदेतत्पीठरहितं शिवलिङ्गं करस्थितम् ॥ ७९-३0९ ॥
ममाद्य मरणं सिद्धं न पीठं चागमिष्यति ॥
अथ रुद्रं जपिष्यामि तदायति महेश्वरः ॥ ७९-३१0 ॥
इति निश्चित्य मनसा जजाप शतरुद्रियम् ॥
यदा तु न समायातो महेशोऽथ कपीश्वरः ॥ ७९-३११ ॥
रुद्रं न्यपातयद्भूमौ वीरभद्रः समागतः ॥
किमर्थं रुद्यते भद्र रुदिते कारणं वद ॥ ७९-३१२ ॥
तच्छ्रुत्वा प्राह हनुमान्वीरभद्रं मनोगतम् ॥
पीठहीनमिदं लिङ्गं पश्य मे पापसञ्चयम् ॥ ७९-३१३ ॥
वीरभद्रस्ततः प्राह श्रुत्वा कपिसमीरितम् ॥
यदि नायाति पीठं ते लिङ्गे मा साहसं कुरु ॥ ७९-३१४ ॥
दाहयिष्याम्यहं लोकान्यदि नायाति पीठकम् ॥
पश्य दर्शय मे लिङ्गं पीठं चात्रागतं न वा ॥ ७९-३१५ ॥
अत दृष्ट्वा वीरभद्रो लिङ्गे पीठमनागतम् ॥
दग्धुकामोऽखिलाल्ँलोकान्वीरभद्रः प्रातापवान् ॥ ७९-३१६ ॥
अनलं भुवि चिक्षेप क्षणाद्दग्धा मही तदा ॥
अथ सप्ततलान्दग्ध्वा पुनरूर्द्ध्वमवर्तत ॥ ७९-३१७ ॥
पञ्चोर्द्ध्वलोकानदहज्जनलोकनिवासिनः ॥
ललाटनेत्रसम्भूतं नखेनादाय चानलम् ॥ ७९-३१८ ॥
जम्बीरफलसङ्काशं कृत्वा करतले विभुः ॥
तपः सत्यं च सन्दग्धुमुद्यतोऽभून्मुनीश्वरः ॥ ७९-३१९ ॥
ततस्तु मुनयो दृष्ट्वातपोलोकनिवासिनः ॥
दग्धुकामं वीरभद्रं गौतमाश्रममागताः ॥ ७९-३२0 ॥
न दृष्ट्वा तत्र देवेशं शङ्करं स्वात्मनि स्थितम् ॥
अस्तुवन्भक्तिसंयुक्ताः स्तोत्रैर्वेदसमुद्भवैः ॥ ७९-३२१ ॥
ॐ वेदवेद्याय देवाय तस्मै शुद्धप्रभाचिन्त्यरूपाय कस्मै ॥
ब्रह्माद्यधीशाय सृष्ट्यादिकर्त्रे,विष्णुप्रियायार्तिहन्त्रेंऽतकर्त्रे ॥ ७९-३२२ ॥
नमस्तेऽखिलाधीश्वरायाम्बराय नमस्ते चरस्थावरव्यापकाय ॥
नमो वेदगुह्याय भक्तप्रियाय नमः पाकभोक्त्रे मखेशाय तुभ्यम् ॥ ७९-३२३ ॥
नमस्ते शिवायादिदेवाय कुर्मो नमो व्यालयज्ञोपवीतप्रधर्त्ने ॥
नमस्ते सुराबिन्दुवर्षापनाय त्रयीमूर्तये कालकालाय नाथ ॥ ७९-३२४ ॥
धरित्रीमरुद्व्योमतोयेन्दुवह्निप्रभामण्डलात्माष्टधामूर्ति धर्त्रे ॥
शिवायाशिवघ्नाय वीराय भूयात्सदा नः प्रसन्नो जगन्नाथकेज्यः ॥ ७९-३२५ ॥
कलानाथभालाय आत्मा महात्मा मनो ह्यग्रयानो निरूप्यो न वाग्भिः ॥
जगज्जाड्यविध्वंसनोभुक्तिमुक्तिप्रदः स्तात्प्रसन्नः सदा शुद्ध कीर्तिः ॥ ७९-३२६ ॥
यतः सम्प्रसूतं जगज्जातमीशात्स्थितं येन रक्षावता भावितं च ॥
लयं यास्यते यत्र वाचां विदूरे स वै नः प्रसन्नोऽस्तु कालत्रयात्मा ॥ ७९-३२७ ॥
यदार्दि च मध्यं तथान्तं न केऽपि विजानन्ति विज्ञा अपि स्वानुमानाः ॥
स वै सर्वमूर्तिः सदा नो विभूत्येप्रसन्नोऽस्तु किं ज्ञापयामोऽत्र कृत्यम् ॥ ७९-३२८ ॥
एतां स्तुतिमथाकर्ण्य भगनेत्रप्रदः शिवः ॥
विष्णुमाह मुनीनेतानानयस्व मदन्तिकम् ॥ ७९-३२९ ॥
अथ विष्णुः समागत्य तपोलोकनिवासिनः ॥
मुनीन्सान्त्वय्य विश्वेशं दर्शयामास शङ्करम् ॥ ७९-३३0 ॥
तानाह शङ्करो वाक्यं किमर्थं यूयमागताः ॥
तपोलोकाद्भूमिलोकं मुनयो मुक्तकिल्बिषाः ॥ ७९-३३१ ॥
तच्छ्रुत्वा शूलिनो वाक्यं प्रोचुस्ते मुनिसत्तमाः ॥
देव द्वादशलोकानां दृश्यन्ते भस्मराशयः ॥ ७९-३३२ ॥
स्थितमेकं वनमिदं पश्य तल्लोकसङ्क्षयम् ॥
तच्छ्रुत्वा गिरिशः प्राह तान्मुनीनूर्द्धरेतसः ॥ ७९-३३३ ॥
भूर्लोकस्य तु सन्दाहे पातालानां तथैव च ॥
सन्देहो नास्ति मुनयः स्थितानां नो रहःस्थले ॥ ७९-३३४ ॥
ऊर्द्धपञ्चकलोकानां दाहे सन्देह एव नः ॥
कथमङ्गारवृष्टिश्च कथं नो वा महाध्वनिः ॥ ७९-३३५ ॥
तदाकर्ण्य विभोर्वाक्यं शङ्करस्य मुनीश्वराः ॥
प्रोचुः प्राञ्जलयो देवं ब्रह्मादिसुरसङ्गतम् ॥ ७९-३३६ ॥
भीतिरस्माकमधुना वर्तते वीरभद्रतः ॥
स एवाङ्गार वृष्टिं च पिपासुरपिबद्विभोः ॥ ७९-३३७ ॥
देवोऽथ वीरमाहूय किं वीरेत्यब्रवीद्वचः ॥
वीरोऽप्याह कपेर्लिङ्गे पीठाभावादिदं कृतम् ॥ ७९-३३८ ॥
तच्छ्रुत्वाह शिवो देवो मुनींस्तान्भयविह्वलान् ॥
कपेश्चित्तं परिज्ञातुं मया कृतमिदं द्विजाः ॥ ७९-३३९ ॥
मा भैष्ट भवतां सौख्यं सदा सम्पादयाम्यहम् ॥
इत्युक्त्वा तु यथापूर्वं देवदेवः कृपानिधिः ॥ ७९-३४0 ॥
दग्धानप्यखिलाल्ँलोकान्पूर्वतः शोभनान्विभुः ॥
कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत् ॥ ७९-३४१ ॥
साधु वत्स यतो भद्रं भक्तानामीहसे सदा ॥
ततस्ते विपुला कीर्तिर्लोके स्थास्यति शाश्वती ॥ ७९-३४२ ॥
इत्युक्त्वालिङ्ग्य शिरसि समाघ्राय महेश्वरः ॥
ताम्बूलं वीरभद्राय दत्तवान्प्रीतमानसः ॥ ७९-३४३ ॥
अथासौ हनुमानीशपूजनं कृतवान्यथा ॥
समाप्तायां तु पूजायां हनुमान्प्रीतमानसः ॥ ७९-३४४ ॥
एकं वनचरं तत्र गन्धर्वं सविपञ्चकम् ॥
ददर्श तमथाभ्याह वीणा मे दीयतामिति ॥ ७९-३४५ ॥
गन्धर्वोऽप्याह न मया त्याज्या वीणा प्रिया मम ॥
ममापीष्टेहं गन्धर्व वीणेत्याह कपीश्वरः ॥ ७९-३४६ ॥
यदा न दत्ते गन्धर्वो वल्लकीं कपये प्रियाम् ॥
तदा मुष्टिप्रहारेण गन्धर्वः पातितः क्षितौ ॥ ७९-३४७ ॥
वीणामादाय महतीं स्वरतन्तुसमन्विताम् ॥
हनुमान्वानरश्रेष्ठो गायन्प्रागाच्छिवान्तिकम् ॥ ७९-३४८ ॥
ततो गानेन महता प्रसाद्य जगदीश्वरम् ॥
बृहतीकुसुमैः शुद्धै र्देवपादावपूजयत् ॥ ७९-३४९ ॥
ततः प्रसन्नो विश्वात्मा मुनीनां सन्निधौ तदा ॥
दैत्यानां देवतानां च नृपाणां शङ्करोऽपि च ॥ ७९-३५0 ॥
तस्मै वरमथ प्रादात्कल्पान्तं जीवितं पुनः ॥
समुल्लङ्घने शक्तिं शास्त्रज्ञत्वं बलोन्नतिम् ॥ ७९-३५१ ॥
एवं दत्तं वरं प्राप्य महेशेन महात्मना ॥
प्रत्यक्षं मम विप्रेन्द्र हनुमान्हर्षमागगतः ॥ ७९-३५२ ॥
समस्तभूषासु षेताङ्गः स्वदीप्तिर्मदीकृतदेवदीप्तिः ॥
प्रसन्नमूर्तिस्तरुणः शिवांशः सम्भावयामास समस्तदेवान् ॥ ७९-३५३ ॥
आज्ञप्तो हनुमांस्तत्र मत्सेवायै मुनीश्वरः ॥
महेशेनाहमप्येनं शशिमौलिमवैमि च ॥ ७९-३५४ ॥
किं बहूक्तेन विप्रर्षे यादृशो वानरेश्वरः ॥
बुद्धौ न्याये च वै धैर्ये तादृगन्योऽस्ति न क्वचित् ॥ ७९-३५५ ॥
इति ते सर्वमाख्यातं चरितं पापनाशनम् ॥
पठतां श्रृण्वतां चैव गच्छ विप्र यथासुखम् ॥ ७९-३५६ ॥
तच्छ्रुत्वा रामभद्रस्य रघुनाथस्य धीमतः ॥
वचनं दक्षिणीकृत्य नत्वा चागां यथागतः ॥ ७९-३५७ ॥
एतत्तेऽभिहितं विप्र चरितं च हनूमतः ॥
सुखदं मोक्षदं सारं किमन्यच्छ्रोतुमिच्छसि ॥ ७९-३५८ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमच्चरित्रं नाम एकोनाशीतितमोऽध्यायः ॥ ७९ ॥