नारद उवाच ॥
कार्तवीर्यतप्रभृतयो नृपा बहुविधा भुवि ॥
जायन्तेऽथ प्रलीयन्ते स्वस्वकर्मानुसारतः ॥ ७६-१ ॥
तत्कथं राजवर्योऽसौ लोकेसेव्यत्वमागतः ॥
समुल्लङ्घ्य नृपानन्यानेतन्मे नुद संशयम् ॥ ७६-२ ॥
सनत्कुमार उवाच ॥
श्रृणु नारद वक्ष्यामि सन्देहविनिवृत्तये ॥
यथा सेव्यत्वमापन्नः कार्तवीर्यार्जुनो भुवि ॥ ७६-३ ॥
यः सुदर्शनचक्रस्यावतारः पृथिवीतले ॥
दत्तात्रेयं समाराध्य लब्धवांस्तेज उत्तमम् ॥ ७६-४ ॥
तस्य क्षितीश्वरेन्द्रस्य स्मरणादेव नारद ॥
शत्रूञ्जयति सङ्ग्रामे नष्टं प्राप्नोति सत्वरम् ॥ ७६-५ ॥
तेनास्य मन्त्रपूजादि सर्वतन्त्रेषु गोपितम् ॥
तुभ्यं प्रकाशयिष्येऽहं सर्वसिद्धिप्रदायकम् ॥ ७६-६ ॥
वह्नितारयुता रौद्री लक्ष्मीरग्नीन्दुशान्तियुक् ॥
वेधाधरेन्दुशान्त्याढ्यो निद्रयाशाग्नि बिन्दुयुक् ॥ ७६-७ ॥
पाशो मायाङ्कुशं पद्मावर्मास्त्रे कार्तवीपदम् ॥
रेफोवा द्यासनोऽनन्तो वह्निजौ कर्णसंस्थितौ ॥ ७६-८ ॥
मेषः सदीर्घः पवनो मनुरुक्तो हृदन्तिमः ॥
ऊनर्विशतिवर्णोऽयं तारादिर्नखवर्णकः ॥ ७६-९ ॥
दत्तात्रेयो मुनिश्चास्यच्छन्दोऽनुष्टुबुदाहृतम् ॥
कार्तवीर्यार्जुनो देवो बीजशक्तिर्ध्रुवश्च हृत् ॥ ७६-१0 ॥
शेषाढ्यबीजयुग्मेन हृदयं विन्यसेदधः ॥
शान्तियुक्तचतुर्थेन कामाद्येन शिरोंऽगकम् ॥ ७६-११ ॥
इन्द्वाढ्यं वामकर्णाद्यमाययोर्वीशयुक्तया ॥
शिखामङ्कुशपद्माभ्यां सवाग्भ्यां वर्म विन्यसेत् ॥ ७६-१२ ॥
वर्मास्त्राभ्यामस्त्रमुक्तं शेषार्णैर्व्यापकं पुनः ॥
हृदये जठरे नाभौ जठरे गुह्यदेशतः ॥ ७६-१३ ॥
दक्षपादे वामपादे सक्थ्नि जानुनि जङ्घयोः ॥
विन्यसेद्बीजदशकं प्रणवद्वयमध्यगम् ॥ ७६-१४ ॥
ताराद्यानथ शेषार्णान्मस्तके च ललाटके ॥
भ्रुवोः श्रुत्योस्तथैवाक्ष्णोर्नसि वक्त्रे गलेंऽसके ॥ ७६-१५ ॥
सर्वमन्त्रेण सर्वाङ्गे कृत्वा व्यापकमादृतः ॥
सर्वेष्टसिद्धये ध्यायेत्कार्तवीर्यं जनेश्वरम् ॥ ७६-१६ ॥
उद्यद्रर्कसहस्राभं सर्वभूपतिवन्दितम् ॥
दोर्भिः पञ्चाशता दक्षैर्बाणान्वामैर्धनूंषि च ॥ ७६-१७ ॥
दधतं स्वर्णमालाढ्यं रक्तवस्त्रसमावृतम् ॥
चक्रावतारं श्रीविष्णोर्ध्यायेदर्जुनभूपतिम् ॥ ७६-१८ ॥
लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः ॥
सतण्डुलैः पायसेन विष्णुपीठे यजत्तुतम् ॥ ७६-१९ ॥
षट्कोणेषु षडङ्गानि ततो दिक्षु विविक्षु च ॥
चौरमदविभञ्जनं मारीमदविभञ्जनम् ॥ ७६-२0 ॥
अरिमदविभञ्जनं दैत्यमदविभञ्जनम् ॥
दुष्टनाशं दुःखनाशं दुरितापद्विनाशकम् ॥ ७६-२१ ॥
दिक्ष्वष्टशक्तयः पूज्याः प्राच्यादिष्वसितप्रभाः ॥
क्षेमङ्करी वश्यकरी श्रीकरी च यशस्करी ॥ ७६-२२ ॥
आयुः करी तथा प्रज्ञाकरी विद्याकरी पुनः ॥
धनकर्यष्टमी पश्चाल्लोकेशा अस्त्रसंयुताः ॥ ७६-२३ ॥
एवं संसाधितो मन्त्रः प्रयोगार्हः प्रजायते ॥
कार्तवीर्यार्जुनस्याथ पूजायन्त्रमिहोच्यते ॥ ७६-२४ ॥
स्वबीजानङ्गध्रुववाक्कर्णिकं दिग्दलं लिखेत् ॥
तारादिवर्मान्तदलं शेषवर्णदलान्तरम् ॥ ७६-२५ ॥
ऊष्मान्त्यस्वरकिञ्जल्कं शेषार्णैः परिवेष्टितम् ॥
कोणालङ्कृतभूतार्णभूगृहं यन्त्रमीशितुः ॥ ७६-२६ ॥
शुद्धभूमावष्टगन्धैर्लिखित्वा यन्त्रमादरात् ॥
तत्र कुम्भं प्रतिष्ठाप्य तत्रावाह्यार्चयेन्नृपम् ॥ ७६-२७ ॥
स्पृष्ट्वा कुम्भं जपेन्मन्त्रं सहस्रं विजितेन्द्रियः ॥
अभिषिं चेत्तदम्भोभिः प्रियं सर्वेष्टसिद्धये ॥ ७६-२८ ॥
पुत्रान्यशो रोगनाशमायुः स्वजनरञ्जनम् ॥
वाक्सिद्धिं सुदृशः कुम्भाभिषिक्तो लभते नरः ॥ ७६-२९ ॥
शत्रूपद्रव आपन्ने ग्रामे वा पुटभेदने ॥
संस्थापंयेदिदं यन्त्रं शत्रुभीतिनिवृत्तये ॥ ७६-३0 ॥
सर्षपारिष्टलशुनकार्पासैर्मार्यते रिपुः ॥
धत्तूरैः स्तभ्यते निम्बैर्द्वेष्यते वश्यतेंऽबुजैः ॥ ७६-३१ ॥
उच्चाटने विभीतस्य समिद्भिः खदिरस्य च ॥
कटुतैलमहिष्याज्यैर्होमद्रव्याञ्जनं स्मृतम् ॥ ७६-३२ ॥
यवैर्हुते श्रियः प्राप्तिस्तिलैराज्यैरघक्षयः ॥
तिलतण्डुलसिद्धार्थजालैर्वश्यो नृपो भवेत् ॥ ७६-३३ ॥
अपामार्गार्कदूर्वाणां होमो लक्ष्मीप्रदोऽघनुत् ॥
स्त्रीवश्यकृत्प्रियङ्गूणां मुराणां भूतशान्तिदः ॥ ७६-३४ ॥
अश्वत्थोदुम्बरप्लक्षवटबिल्वसमुद्भवाः ॥
समिधो लभते हुत्वा पुत्रानायुर्द्धनं सुखम् ॥ ७६-३५ ॥
निर्मोकहेमसिद्धार्थलवणैश्चौरनाशनम् ॥
रोचनागोमयैस्तम्भो भूप्राप्तिः शालिभिर्हुतैः ॥ ७६-३६ ॥
होमसङ्ख्या तु सर्वत्र सहस्रादयुतावधि ॥
प्रकल्पनीया मन्त्रज्ञैः कार्य्यगौरवलाघवात् ॥ ७६-३७ ॥
कार्तवीर्य्यस्य मन्त्राणामुच्यते लक्षणं बुधाः ॥
कार्तवीर्यार्जुनं ङेन्तं सर्वमन्त्रेषु योजयेत् ॥ ७६-३८ ॥
स्वबीजाद्यो दशार्णोऽसौ अन्ये नवशिवाक्षराः ॥
आद्यबीजद्वयेनासौ द्वितीयो मन्त्र ईरितः ॥ ७६-३९ ॥
स्वकामाभ्यां तृतीयोऽसौ स्वभ्रूभ्यां तु चतुर्थकः ॥
स्वपाशाभ्यां पञ्चमोऽसौ षष्टः स्वेन च मायया ॥ ७६-४0 ॥
स्वाङ्कुशाभ्यां सप्तमः स्यात्स्वरमाभ्यामथाष्टमः ॥
स्ववाग्भवाभ्यां नवमो वर्मास्त्राभ्यामथान्तिमः ॥ ७६-४१ ॥
द्वितीयादिनवान्तेषु बीजयोः स्याद्व्यतिक्रमः ॥
मन्त्रे तु दशमे वर्णा नववर्मास्त्रमध्यगाः ॥ ७६-४२ ॥
एतेषु मन्त्रवर्येषु स्वानुकूलं मनुं भजेत् ॥
एषामाद्ये विराट्छदोऽन्येषु त्रिष्टुबुदाहृतम् ॥ ७६-४३ ॥
दश मन्त्रा इमे प्रोक्ता यदा स्युः प्रणवादिकाः ॥
तदादिमः शिवार्णः स्यादन्ये तु द्वादशाक्षराः ॥ ७६-४४ ॥
त्रिष्टुपूछन्दस्तथाद्ये स्यादन्येषु जगती मता ॥
एवं विंशतिमन्त्राणां यजनं पूर्ववन्मतम ॥ ७६-४५ ॥
दीर्घाढ्यमूलबीजेन कुर्यादेषां षडङ्गकम् ॥
तारो हृत्कार्तवीर्यार्जुनाय वर्मास्त्रठद्वयम् ॥ ७६-४६ ॥
चतुर्दशार्णो मन्त्रोऽयमस्येज्या पूर्ववन्मता ॥
भूनेत्रसमनेत्राक्षिवर्णेरस्याङ्गपञ्चकम् ॥ ७६-४७ ॥
तारो हृद्भगवान् ङेन्तः कार्तवीर्यार्जुनस्तथा ॥
वर्मास्त्राग्निप्रियामन्त्रः प्रोक्तो ह्यष्टादशार्णकः ॥ ७६-४८ ॥
त्रिवेदसप्तयुग्माक्षिवर्णैः पञ्चाङ्गकं मनोः ॥
नमो भगवते श्रीति कार्तवीर्यार्जुनाय च ॥ ७६-४९ ॥
सर्वदुष्टान्तकायेति तपोबलपराक्रमः ॥
परिपालितसप्तान्ते द्वीपाय सर्वरापदम् ॥ ७६-५0 ॥
जन्यचूडा मणान्ते ये महाशक्तिमते ततः ॥
सहस्रदहनप्रान्ते वर्मास्त्रान्तो महामनुः ॥ ७६-५१ ॥
त्रिषष्टिवर्णवान्प्रोक्तः स्मरमात्सर्वविघ्नहृत् ॥
राजन्यक्रवर्ती च वीरः शूरस्तृतीयकः ॥ ७६-५२ ॥
माहिष्मतीपतिः पश्चाञ्चतुर्थः समुदीरितः ॥
रेवाम्बुपरितृप्तश्च काणो हस्तप्रबाधितः ॥ ७६-५३ ॥
दशास्येति च षड्भिः स्यात्पदैर्ङेतैः षडङ्गकम् ॥
सिञ्च्यमानं युवतिभिः क्रीडन्तं नर्मदाजले ॥ ७६-५४ ॥
हस्तैर्जलौधं रुन्धन्तं ध्यायेन्मत्तं नृपोत्तमम् ॥
एवं ध्यात्वायुतं मन्त्रं पजेदन्यत्तु पूर्ववत् ॥ ७६-५५ ॥
पूर्वं तु प्रजपेल्लक्षं पूजायोगश्च पूर्ववत् ॥
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ॥ ७६-५६ ॥
तस्य संस्मरणादेव हृतं नष्टं च संवदेत् ॥
लभ्यते मन्त्रवर्योऽयं द्वात्रिंशद्वर्णसंयुतः ॥ ७६-५७ ॥
पादैः सर्वेण पञ्चाङ्गं ध्यानपूजादि पूर्ववत् ॥
कार्तवीर्याय शब्दान्ते विद्महे पदमुञ्चरेत् ॥ ७६-५८ ॥
महावीर्याय वर्णान्ते धीमहीति पदं वदेत् ॥
तन्नोऽर्जुनः प्रवर्णान्ते चोदयात्पदमीरयेत् ॥ ७६-५९ ॥
गायत्र्येषार्जुन स्योक्ता प्रयोगादौ जपेत्तु ताम् ॥
अनुष्टुभं मनुं रात्रौ जपतां चौरसञ्चयाः ॥ ७६-६0 ॥
पलायन्ते गृहाद्दूरं तर्पणाद्ध्रवनादपि ॥
अथो दीपविधिं वक्ष्ये कार्तवीर्यप्रियङ्करम् ॥ ७६-६१ ॥
वैशाखे श्रावणे मार्गे कार्तिकाश्विनपौषतः ॥
माघफाल्गुनयोर्मासोर्दीपारम्भं समाचरेत् ॥ ७६-६२ ॥
तिथौ रिक्ताविहीनायां वारे शनिकुजौ विना ॥
हस्तोत्तराश्विरौद्रेयपुष्यवैष्णववायुभे ॥ ७६-६३ ॥
द्विदैवते च रोहिण्यां दीपारम्भो हितावहः ॥
चरमे च व्यतीपाते धृतौ वृद्धौ सुकर्मणि ॥ ७६-६४ ॥
प्रीतौ हर्षं च सौभाग्ये शोभनायुष्मतोरपि ॥
करणे विष्टिरहिते ग्रहणेऽर्द्धोदयादिषु ॥ ७६-६५ ॥
योगेषु रात्रौ पूर्वाह्णे दीपारम्भः कृतः शुभः ॥
कार्तिके शुक्लसप्तम्यां निशीथेऽतीव शोभनः ॥ ७६-६६ ॥
यदि तत्र रवेर्वारः श्रवणं भं च दुर्लभम् ॥
अत्यावश्यककार्येषु मासादीनां न शोधनम् ॥ ७६-६७ ॥
आद्ये ह्युपोष्य नियतो ब्रह्मचारी सपीतकैः ॥
प्रातः स्नात्वा शुद्धभूमौ लिप्तायां गोमयोदकैः ॥ ७६-६८ ॥
प्राणानायम्य सङ्कल्प्य न्यासान्पूर्वोदितांश्चरेत् ॥
षट्कोणं रचयेद्भूमौ रक्तचन्दनतण्डुलैः ॥ ७६-६९ ॥
अतः स्मरं समालिख्य षट्कोणेषु समालिखेत् ॥
नवार्णैर्वेष्टयेत्तञ्च त्रिकोणं तद्बहिः पुनः ॥ ७६-७0 ॥
एवं विलिखिते यन्त्रे निदध्याद्दीपभाजनम् ॥
स्वर्णजं रजतोत्थं वा ताम्रजं तदभावतः ॥ ७६-७१ ॥
कांस्यपात्रं मृण्मयं च कनिष्ठं लोहजं मृतौ ॥
शान्तये मुद्गचूर्णोत्थं सन्धौ गोधूमचूर्णजम् ॥ ७६-७२ ॥
आज्ये पलसहस्रे तु पात्रं शतपलं स्मृतम् ॥
आज्येऽयुतपले पात्रं पलपञ्चशता स्मृतम् ॥ ७६-७३ ॥
पञ्चसप्ततिसङ्ख्ये तु पात्रं षष्टिपलं स्मृतम् ॥
त्रिसाहस्री घृतपले शर्करापलभाजनम् ॥ ७६-७४ ॥
द्विसाहख्त्र्यां द्विशतमितं च भाजनमिष्यते ॥
शतेऽक्षिचरसंश्यातमेवमन्यत्र कल्पयेत् ॥ ७६-७५ ॥
नित्यदीपे वह्निपलं पात्रमाज्यं पलं स्मृतम् ॥
एवं पात्रं प्रतिष्ठाप्य वर्तीः सूत्रोत्थिताः क्षिपेत् ॥ ७६-७६ ॥
एका तिस्रोऽथवा पञ्चसप्ताद्या विषमा अपि ॥
तिथिमानादासहस्रं तन्तुसङ्ख्या विनिर्मिता ॥ ७६-७७ ॥
गोघृतं प्रक्षिपेत्तत्र शुद्धवस्त्रविशोधितम् ॥
सहस्रपलसङ्ख्यादिदशांशं कार्यगौरवात् ॥ ७६-७८ ॥
सुवर्णादिकृतां रम्यां शलाकां षोडशाङ्गुलाम् ॥
तदर्द्धां वा तदर्द्धां वा सूक्ष्माग्रां स्थूलमूलिकाम् ॥ ७६-७९ ॥
विमुञ्चेद्दक्षिणे पात्रमध्ये चाग्रे कृताग्रिकाम् ॥
पात्रदक्षिणदिग्देशे मुक्त्वां गुलचतुष्टयम् ॥ ७६-८0 ॥
अधोग्रां दक्षिणाधारां निखनेच्छुरिकां शुभाम् ॥
दीपं प्रज्वालयेत्तत्र गणेशस्मृतिपूर्वकम् ॥ ७६-८१ ॥
दीपात्पूर्वत्र दिग्भागे सर्वतोभद्रमण्डले ॥
तण्डुलाष्टदले वापि विधिवत्स्थापयेद्धूटम् ॥ ७६-८२ ॥
तत्रावाह्य नृपाधीशं पूजयेत्पूर्ववत्सुधीः ॥
जलाक्षतान्समादाय दीपं सङ्कल्पयेत्ततः ॥ ७६-८३ ॥
दीपसङ्कल्पमन्त्रोऽयं कथ्यते द्वीषुभूमितः ॥
प्रणवः पाशमाये च शिखा कार्ताक्षराणि च ॥ ७६-८४ ॥
वीर्यार्जुनाय माहिष्मतीनाथाय सहस्र च ॥
बाहवे इति वर्णान्ते सहस्रपदमुच्चरेत् ॥ ७६-८५ ॥
क्रतुदीक्षितहस्ताय दत्तात्रेयप्रियाय च ॥
आत्रेयायानुसूयान्ते गर्भरत्नाय तत्परम् ॥ ७६-८६ ॥
नमो ग्रीवामकर्णेन्दुस्थितौ पाश इमं ततः ॥
दीपं गृहाण अमुकं रक्ष रक्ष पदं पुनः ॥ ७६-८७ ॥
दुष्टान्नाशययुग्मं स्यात्तथा पातय घातय ॥
शत्रून् जहिद्वयं माया तारः स्वं बीजमात्मभूः ॥ ७६-८८ ॥
वह्नीप्रिया अनेनाथ दीपवर्येण पश्चिमा ॥
भिमुखेनामुकं रक्ष अमुकान्ते वरप्रद ॥ ७६-८९ ॥
मायाकाशद्वयं वामनेत्रचन्द्रयुतं शिवा ॥
वेदादिकामचामुण्डाः स्वाहा तु पूसबिन्दुकौ ॥ ७६-९0 ॥
प्रणवोऽग्निप्रिया मन्त्रो नेत्रबाणाधराक्षरः ॥
दत्तात्रेयो मुनिर्मालामन्त्रस्य परिकीर्तितः ॥ ७६-९१ ॥
छन्दोऽमितं कार्तवीर्युर्जुनो देवोऽखिलाप्तिकृत् ॥
चामुण्डया षडङ्गानि चरेत्षड्दीर्घयुक्तया ॥ ७६-९२ ॥
ध्यात्वा देवं ततो मन्त्रं पठित्वान्ते क्षिपेज्जजलम् ॥
गोविन्दाढ्यो हली सेन्दुश्चामुण्डाबीजमीरितम् ॥ ७६-९३ ॥
ततो नवाक्षरं मन्त्रं सहस्रं तत्पुरो जपेत् ॥
तारोऽनन्तो बिन्दुयुक्तो मायास्वं वामनेत्रयुक् ॥ ७६-९४ ॥
कूर्माग्नी शान्तिबिन्द्वाढ्यौ वह्नि जायाङ्कुशं ध्रुवम् ॥
ऋषिः पूर्वोदितोनुष्टुप्छन्दोऽन्यत्पूर्ववत्पुनः ॥ ७६-९५ ॥
सहस्रं मन्त्रराजं च जपित्वा कवचं पठेत् ॥
एवं दीपप्रदानस्य कर्ताप्नोत्यखिलेऽप्सितम् ॥ ७६-९६ ॥
दीपप्रबोधकाले तु वर्जयेदशुभां गिरम् ॥
विप्रस्य दर्शनं तत्र शुभदं परिकीर्तितम् ॥ ७६-९७ ॥
शूद्राणां प्रध्यमं प्रोक्तं म्लेच्छस्य वधबन्धनम् ॥
आख्वोत्वोर्दर्शनं दुष्टं गवाश्वस्य सुखावहम् ॥ ७६-९८ ॥
दीपज्वाला समा सिद्ध्यै वक्रा निशविधायिनी ॥
शब्दा भयदा कर्तुरुज्ज्वला सुखदा मता ॥ ७६-९९ ॥
कृष्णा शत्रुभयोत्पत्त्ये वमन्ती पशुनाशिनी ॥
कृते दीपे यदा पात्रं भग्नं दृश्यते दैवतः ॥ ७६-१00 ॥
पक्षादर्वाक्तदा गच्छेद्यजमानो यमालयम् ॥
वर्त्यतरं यदा कुर्यात्कार्यं सिद्ध्येद्विलम्बतः ॥ ७६-१0१ ॥
नेत्रहीनो भवेत्कर्ता तस्मिन्दीपान्तरे कृते ॥
अशुचिस्पर्शने व्याधिर्दीपनाशे तु चौरभीः ॥ ७६-१0२ ॥
श्वमार्जाराखुसंस्पर्शे भवेद्भूपतितो भयम् ॥
पात्रारम्भे वसुपलैः कृतो दीपोऽखिलेष्टदः ॥ ७६-१0३ ॥
तस्माद्दीपः प्रयत्नेन रक्षणीयोंऽतरायतः ॥
आसमाप्तेः प्रकुर्वीत ब्रह्मचर्यं च भूशयः ॥ ७६-१0४ ॥
स्त्रीशूद्रपतितादीनां सम्भाषामपि वर्जयेत् ॥
जपेत्सहस्रं प्रत्येकं मन्त्रराजं नवाक्षरम् ॥ ७६-१0५ ॥
स्तोत्रपाठं प्रतिदिनं निशीथिन्यां विशेषतः ॥
एकपादेन दीपाग्रे स्थित्वा यो मन्त्रनायकम् ॥ ७६-१0६ ॥
सहस्रं प्रजपेद्वात्रौ सोऽभीष्टं क्षिप्रमाप्नुयात् ॥
समाप्य शोभनदिने सम्भोज्य द्विजसत्तमान् ॥ ७६-१0७ ॥
कुम्भोदकेन कर्तारमभिषिञ्चन्मनुं जपेत् ॥
कर्ता तु दक्षिणां दद्यात्पुष्कलां तोषहेतवे ॥ ७६-१0८ ॥
गुरौ तुष्टे ददातीष्टं कृतवीर्यसुतो नृपः ॥
गुर्वाज्ञया स्वयं कुर्याद्यदि वा कारयेद्गुरुः ॥ ७६-१0९ ॥
दत्त्वा धनादिकं तस्मै दीपदानाय नारद ॥
गुर्वाज्ञामन्तरा कुर्याद्यो दीपं स्वेष्टसिद्धये ॥ ७६-११0 ॥
सिद्धिर्न जायते तस्य हानिरेव पदे पदे ॥
उत्तमं गोघृतं प्रोक्तं मध्यमं महषीभवम् ॥ ७६-१११ ॥
तिलतैलं तु तादृक् स्यात्कनीयोऽजादिजं घृतम् ॥
आस्यरोगे सुगन्धेन दद्यात्तैलेन दीपकम् ॥ ७६-११२ ॥
सिद्ध्वार्थसम्भवेनाथ द्विषतां नाशनाय च ॥
सहस्रेण पलैर्दीपे विहिते च न दृश्यते ॥ ७६-११३ ॥
कार्यसिद्धस्तदा कुर्यात्र्रिवारं दीपजं विधिम् ॥
तदा सुदुर्लभमपि कार्य्यं सिद्ध्व्येन्न संशयः ॥ ७६-११४ ॥
दीपप्रियः कार्तवीर्यो मार्तण्डो नतिवल्लभः ॥
स्तुतिप्रोयो महाविष्णुर्गणेश स्तपर्णप्रियः ॥ ७६-११५ ॥
दुर्गार्चनप्रिया नूनमभिषेकप्रियः शिवः ॥
तस्मात्तेषां प्रतोषाय विदध्यात्तत्तदादरात् ॥ ७६-११६ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यमाहात्म्यमन्त्रदीपकथनं नाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥