०७५

सनत्कुमार उवाच ॥
अथ दीपविधिं वक्ष्ये सरहस्यं हनूमतः ॥
यस्य विज्ञानमात्रेण सिद्धो भवति साधकः ॥ ७५-१ ॥

दीपपात्रप्रमाणं च तैलमानं क्रमेण तु ॥
द्रव्यस्य च प्रमाणं वै तत्तु मानमनुक्रमात् ॥ ७५-२ ॥

स्थानभेदं च मन्त्रं च दीपदानमनुं पृथक् ॥
पुष्पवासिततैलेन सर्वकामप्रदं मतम् ॥ ७५-३ ॥

तिलतैलं श्रियः प्राप्त्यै पथिकागमनं प्रति ॥
अतसीतैलमुद्दिष्टं वश्यकर्मणि निश्चितम् ॥ ७५-४ ॥

सार्षापं रोगनाशाय कथितं कर्मकोविदैः ॥
मारणे राजिकोत्थं वा विभीतकसमुद्भवम् ॥ ७५-५ ॥

उच्चाटने करजोत्थं विद्वेषे मधुवृक्षजम् ॥
अलाभे सर्वतैलानां तिलजं तैलमुत्तमम् ॥ ७५-६ ॥

गोधूमाश्च तिला माषा मुद्गा वै तण्डुलाः क्रमात् ॥
पञ्चधान्यमिदं प्रोक्तं नित्यदीपं तु मारुतेः ॥ ७५-७ ॥

पञ्चधान्यसमुद्भूतं पिष्टमात्रं सुशोभनम् ॥
सर्वकामप्रदं प्रोक्तं सर्वदा दीपदानके ॥ ७५-८ ॥

वश्ये तडुलपिष्टोत्थं मारणे माषपिष्टजम् ॥
उञ्चाटने कृष्णतिलपिष्टजं च प्रकीर्तितम् ॥ ७५-९ ॥

पथिकागमने प्रोक्तं गोधूमोत्थं सतण्डुलम् ॥
मोहने त्वाढकीजात विद्वेषे च कुलत्थजम् ॥ ७५-१0 ॥

सङ्ग्रामे केवला माषाः प्रोक्ता दीपस्य पात्रके ॥
सन्धौ त्रिपिष्टजं लक्ष्मीहेतोः कस्तूरिकाभवम् ॥ ७५-११ ॥

एलालवङ्गकर्पूरमृगनाभिसमुद्भवम् ॥
कन्याप्राप्त्यै तथा राजवंश्ये सख्ये तथैव च ॥ ७५-१२ ॥

अलाभे सर्ववस्तूनां पञ्चधान्यं वरं स्मृतम् ॥
अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ चः पुष्कलम् ॥ ७५-१३ ॥

पुष्कलानां चतुर्णां च ह्याढकः परिकीर्तितः ॥
चतुराढको भवेद्द्रोणः खारी द्रोणचतुष्टयम् ॥ ७५-१४ ॥

खारीचतुष्टय प्रस्थसञ्ज्ञा च परिकीर्तिता ॥
अथवान्यप्रकारेण मानमत्र निगद्यते ॥ ७५-१५ ॥

पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् ॥
चतुर्भिः कुडवैः प्रस्थस्तैश्चतुर्भिस्तथाढकः ॥ ७५-१६ ॥

चतुराढको भवेद्द्रोणःऋ खारी द्रोणचतुष्टयम् ॥
क्रमेणैतेन ते ज्ञेयाः पात्रे षट्कर्मसम्भवे ॥ ७५-१७ ॥

पञ्च सप्त नव तथा प्रमाणास्ते यथाक्रमम् ॥
सौगन्धे नैव मानं स्यात्तद्यथारुचि सम्मतम् ॥ ७५-१८ ॥

नित्यपात्रे तु तैलानां नियमो वार्तिकोद्भवः ॥
सोमवारे गृहीत्वातद्ध्वान्यं तोयप्लुतं धरेत् ॥ ७५-१९ ॥

पश्चात्प्रमाणतो ज्ञेयं कुमारीहस्तपेषणम्‌ ॥
तत्पिष्टं शुद्धपात्रे तु नदीतोयेन पिण्डितम् ॥ ७५-२0 ॥

दीपपात्रं ततः कुर्याच्छुद्धः प्रयतमानसः ॥
दीपपात्रे ज्वाल्यमाने मारुतेः कवचं पठेत् ॥ ७५-२१ ॥

शुद्धभूमौ समास्थाप्य भौमे दीपं प्रदापयेत् ॥
मालामनूनां ये वर्णाः साध्यनामसमन्विताः ॥ ७५-२२ ॥

वर्तिकायां प्रकर्त्तव्यास्तन्तवस्तत्प्रमाणकाः ॥
तत्त्रिंशांशेन वा ग्राह्या गुरुकार्येऽखिलाढ्यता ॥ ७५-२३ ॥

कूटतुल्याः स्मृता नित्ये सामान्येऽथ विशेषके ॥
रुद्राः कूटगणाः प्रोक्ता न पात्रे नियमो मतः ॥ ७५-२४ ॥

एकविंशतिसङ्ख्याकास्तन्तवोऽथाध्वनि स्मृताः ॥
रक्तसूत्रं हनुमतो दीपदाने प्रकीर्तितम् ॥ ७५-२५ ॥

कृष्णमुञ्चाटने द्वेषेऽरुणं मारणकर्मणि ॥
कूटतुल्यपलं तैलं गुरुकार्ये शिवैर्गुणम् ॥ ७५-२६ ॥

नित्ये पञ्चपलं प्रोक्तमथवा मानसी रुचिः ॥ ७५-२७ ॥

हनुमत्प्रतिमायास्तु सन्निधौ दीपदापनम् ॥
शिवालयेऽथवा कुर्यान्नित्यनैमित्तिके स्थले ॥ ७५-२८ ॥

विशेषोऽस्त्यत्र यः कश्चिन्मारुते रुच्यते मया ॥ ७५-२९ ॥

प्रतिमाग्रे प्रमोदेन ग्रहभूतग्रहेषु च ॥
चतुष्पथे तथा प्रोक्तं षट्सु दीपप्रदापनम् ॥ ७५-३0 ॥

सन्निधौ स्फाटिके लिङ्गे शालग्रामस्य सन्निधौ ॥
नानाभोगश्रियै प्रोक्तं दीपदानं हनूमतः ॥ ७५-३१ ॥

गणेशसन्निधौ विघ्नमहासङ्कटनाशने ॥
विषव्याधिभये घोरे हनुमत्सन्निधौ स्मृतम् ॥ ७५-३२ ॥

दुर्गायाः सन्निधौ प्रोक्तं सङ्ग्रामे दीपदापनम् ॥
चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च ॥ ७५-३३ ॥

राजद्वारे बन्धमुक्तौ कारागारेऽथवा मतम् ॥
अश्वत्थवटमूले तु सर्वकार्यप्रसिद्धये ॥ ७५-३४ ॥

वश्ये भये विवादे च वेश्मसङ्ग्रामसङ्कटे ॥
द्यूते दृष्टिस्तम्भने च विद्वेषे मारणे तथा ॥ ७५-३५ ॥

मृतकोत्थापने चैव प्रतिमाचालने तथा ॥
विषे व्याधौ ज्वरे भूतग्रहे क्रृत्याविमोचने ॥ ७५-३६ ॥

क्षतग्रन्थौ महारण्ये दुर्गेव्याघ्ने च दन्तिनि ॥
क्रूरसत्त्वेषु सर्वेषु शश्वदून्धविमोक्षणे ॥ ७५-३७ ॥

पथिकागमने चैव दुःस्थाने राजमोहने ॥
आगमे निर्गमे चैव राजद्वारे प्रकीर्तितम् ॥ ७५-३८ ॥

दीपदानं हनुमतो नात्र कार्या विचारणा ॥ ७५-३९ ॥

रुद्रैकविंशपिण्डांश्च त्रिधा मण्डलमानकम् ॥
लघुमानं स्मृतं पञ्च सप्त वा नव वा तथा ॥ ७५-४0 ॥

क्षीरेण नवनूतेन दध्ना वा गोमयेन च ॥
प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने ॥ ७५-४१ ॥

दक्षिणाभिमुखं वीरं कृत्वा केसरिविक्रमम् ॥ ७५-४२ ॥

ऋक्षविन्यस्तपादं च किरीटेन विराजितम् ॥
लिखेद्भित्तौ पटे वापि पीठे वा मारुतेः शुभे ॥ ७५-४३ ॥

मालामन्त्रेण दातव्यं दीपदानं हनूमतः ॥
नित्यदीपः प्रकर्त्तव्यो द्वादशाक्षरविद्यया ॥ ७५-४४ ॥

विशेषस्तत्र यस्तं वै दीपदानेऽवधारय ॥
षष्ट्यादौ च द्वितीयादाविमं दीपमितीरयेत् ॥ ७५-४५ ॥

गृहाणेति पदं पश्चाच्छेषं पूर्ववदुच्चरेत् ॥
कूटादौ नित्यदीपे च मन्त्रं सूर्याक्षरं वदेत् ॥ ७५-४६ ॥

तत्र मालाख्यमनुना तत्तत्कार्येषु कारयेत् ॥
गोमयेनोपलिप्तायां भूमौ तद्गतमानसः ॥ ७५-४७ ॥

षट्कोणं वसुपत्रं च भूमौ रेखासमन्वितम् ॥
कमलं च लिखेद्भद्रं तत्र दीपं निधापयेत् ॥ ७५-४८ ॥

शैवे वा वैष्णवे पीठे पूजयेदञ्जनासुतम् ॥
कूटषट्कं च षट्कोणे अन्तराले परलिखेत् ॥ ७५-४९ ॥

षट्कोणेषु षडङ्गानि बीजयुक्तानि संलिखेत् ॥
सौम्यं मध्यगतं लेख्यं तत्र सम्पूज्य मारुतिम् ॥ ७५-५0 ॥

षट्कोणेषु षडङ्गानि नामानि च पुरोक्तवत् ॥
वसुपत्रे क्रमात्पूज्या अष्टावेते च वानराः ॥ ७५-५१ ॥

सुग्रीवायाङ्गदायाथ सुषेणाय नलाय च ॥
नीलायाथो जाम्बवते प्रहस्ताय तथैव च ॥ ७५-५२ ॥

सुवेषाय ततः पश्चाद्यजेत्षडङ्गदेवताः ॥
आदावञ्जनापुत्राय ततश्च रुद्रमूर्तये ॥ ७५-५३ ॥

ततो वायुसुतायाथ जानकीजीवनाय च ॥
रामदूताय ब्रह्मास्त्रनिवारणाय तत्परम् ॥ ७५-५४ ॥

पञ्चोपचारैः सम्पूज्य देशकालौ च कीर्तेत् ॥
कुशोदकं समादाय दीपमन्त्रं समुञ्चरेत् ॥ ७५-५५ ॥

उत्तगभिमुखो जप्त्वा साधयेत्साधकोत्तमः ॥
तं मन्त्रं कूटधा जप्त्वा जलं भूमौ विनिक्षिपेत् ॥ ७५-५६ ॥

ततः करपुटं कृत्वा यथाशक्ति जपेन्मनुम् ॥
अनेन दीपवर्येण उदङ्मुखगतेन वै ॥ ७५-५७ ॥

तथा विधेहि हनुमन्यथा स्युर्मे मनोरथाः ॥
त्रयोदशैवं द्रव्याणि गोमयं मृत्तिका मसी ॥ ७५-५८ ॥

अलक्तं दरदं रक्तचन्दनं चन्दनं मधु ॥
कस्तूरिका दधि क्षीरं नवनीतं धृतं तथा ॥ ७५-५९ ॥

गोमयं द्विविधं तत्र प्रोक्तं गोमहिषीभवम् ॥
पश्चाद्विनष्टद्रव्याप्तौ माहिषं गोमयं स्मृतम् ॥ ७५-६0 ॥

पथिकागमने दूरान्महादुर्गस्य रक्षणे ॥
बालादिरक्षणे चैव चौरादिभयनाशने ॥ ७५-६१ ॥

स्त्रीवश्यादिषु कार्येषु शस्तं गोगोमयं मने ॥
भूमिस्पृष्टं न तद्ग्राह्यमन्तरिक्षाञ्च भाजने ॥ ७५-६२ ॥

चतुर्विधा मृत्तिका तु श्वेता पीतारुणासिता ॥
तत्र गोपीचन्दनं तु हरितालं च गौरिकम् ॥ ७५-६३ ॥

मषी लाक्षारसोद्भूता सर्वं वान्यत्स्फुटं मतम् ॥
कृत्वा गोपीचदन्नेन चतुरस्रं गृहं सुधीः ॥ ७५-६४ ॥

तन्मध्ये माहिषेणाथ कुर्यान्मूर्तिं हनूमतः ॥
बीजं क्रोधाञ्च तत्पुच्छं लिखेन्मन्त्री समाहितः ॥ ७५-६५ ॥

तैलेन स्नापयेन्मूर्तिं गुडेन तिलकं चरेत् ॥
शतपत्रसमो धूपः शालनिर्याससम्भवः ॥ ७५-६६ ॥

कुर्य्याञ्च तैलदीपं तु वर्तिपञ्चकसंयुतम् ॥
दध्योदनेन नैवेद्यं दद्यात्साधकसत्तमः ॥ ७५-६७ ॥

वारत्रयं कण्ठदेशे सशेषविषमुञ्चरन् ॥
एवं कृते तु नष्टानां महिषीणां गवामपि ॥ ७५-६८ ॥

दासीदासादिकानां च नष्टानां प्राप्तिरीरिता ॥
चौरादिदुष्टसत्त्वानां सर्पादीनां भये पुनः ॥ ७५-६९ ॥

तालेन च चतुर्द्वारं गृहं कृत्वा सुशोभनम् ॥
पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा ॥ ७५-७0 ॥

सर्पस्तु पश्चिमे द्वारे व्याघ्रश्चैवोत्तरे तथा ॥
एवं क्रमेण खड्गं च क्षुरिकादण्डमुद्गरान् ॥ ७५-७१ ॥

विलिख्य मध्ये मूर्तिं च महिषीगोमयेन वै ॥
कृत्वा डमरुहस्तां च चकिताक्षीं प्रयत्नतः ॥ ७५-७२ ॥

पयसा स्नापनं रक्तचन्दनेनानुलेपनम् ॥
जातीपुष्पैस्तु सम्पूज्य शुद्धधूप प्रकल्पयेत् ॥ ७५-७३ ॥

घृतेन दीपं दत्त्वाथ पायसान्नं निवेदयेत् ॥
गगनं दीपिकेन्द्वाढ्यां शास्त्रं च पुरतो जपेत् ॥ ७५-७४ ॥

एवं सप्तदिनं कृत्वा मुच्यते महतो भयात् ॥
अनयोर्भौमवारे तु कुर्यादारम्भमादरात् ॥ ७५-७५ ॥

शत्रुसेनाभये प्राप्ते गैरिकेण तु मण्डलम् ॥
कृत्वा तदन्तरे तालमीष्टन्नम्रं समालिखेत् ॥ ७५-७६ ॥

तत्रावलम्बमानां च प्रतिमां गोमयेन तु ॥
वामहस्तेन तालाग्रं दक्षिणे ज्ञानमुद्रिका ॥ ७५-७७ ॥

तालमूलात्स्वकाष्टायां मार्गे हस्तमिते गृहम् ॥
चतुरस्र विधायाथ तन्मध्ये मूर्तिमालिखेत् ॥ ७५-७८ ॥

दक्षिणाभिमुखीं रम्यां हृदये विहिताञ्जलिम् ॥
तोयेन स्नानगन्धादि यथासम्भवमर्पयेत् ॥ ७५-७९ ॥

कृशारान्नं च नैवेद्यं साज्यं तस्यै निवेदयेत् ॥
किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने ॥ ७५-८0 ॥

एवं कृते भवेच्छीघ्रं पथिकानां समागमः ॥
श्यामपाषाणखण्डेन लिखित्वा भूपतेर्गृहम् ॥ ७५-८१ ॥

प्राकारं तु चतुर्द्वारयुक्तं द्वारेषु तत्र वै ॥
अन्योन्यपुच्छ रिधित्रययुक्तां हनूमतः ॥ ७५-८२ ॥

कुर्यान्मूर्तिं गोमयेन धत्तूरकुसुमैयजेत् ॥
जटामांसीभवं धूपं तैलाक्तघृतदीपकम् ॥ ७५-८३ ॥

नैवेद्यं तिलतैलाक्तसक्षारा माषरोटिका ॥
ध्येयो दक्षिणहस्तेन रोटिकां भक्षयन्हरिः ॥ ७५-८४ ॥

वामहस्तेन पाषाणैस्त्रासयन्परसैनिकान् ॥
प्नारयन्भ्रुकुटीं बद्ध्वा भीषयन्मथयन्स्थितः ॥ ७५-८५ ॥

जपेञ्च भुग्भुगिति वै सहस्रं ध्यानतत्परः ॥
एवं कृतविधानेन परसैन्यं विनाशयेत् ॥ ७५-८६ ॥

रक्षा भवति दुर्गाणां सत्यं सत्य न संशयः ॥
प्रायोगा बहवस्तत्र सङ्क्षेपाद्गदिता मया ॥ ७५-८७ ॥

प्रत्यहं यो विधानेन दीपदानं हनूमतः ॥
तस्यासाध्यं न वै किञ्चिद्विद्यते भुवनत्रये ॥ ७५-८८ ॥

न देयं दुष्टहृदये दुष्टचिन्तनबुद्धये ॥
अविनीताय शिष्याय पिशुनाय कदाचन ॥ ७५-८९ ॥

कृतघ्नाय न दातव्यं दातव्यं च परीक्षिते ॥
बहुना किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ॥ ७५-९0 ॥

अथ मन्त्रान्तरं वक्ष्ये तत्त्वज्ञानप्रदायकम् ॥
तारो नमो हनुमते जाठरत्रयमीरयेत् ॥ ७५-९१ ॥

दनक्षोभं समाभाष्य संहरद्वयमीरयेत् ॥
आत्मतत्त्वं ततः पश्चात्प्रकाशययुगं ततः ॥ ७५-९२ ॥

वर्मास्त्रवह्निजायान्तः सार्द्धूषड्विंशदर्णवान् ॥
वसिष्ठोऽस्य मुनिश्छन्दोऽनुष्टुप् च देवताः पुनः ॥ ७५-९३ ॥

हनुमान्मुनिसप्तर्तुवेदाष्टनिगमैः क्रमात् ॥
मन्त्रार्णैश्च षडङ्गानि कृत्वा ध्यायेत्कपीश्वरम् ॥ ७५-९४ ॥

जानुस्थावामबाहुं च ज्ञानमुद्रापरं हृदि ॥
अध्यात्मचित्तमासीनं कदलीवनमध्यगम् ॥ ७५-९५ ॥

बालार्ककोटिप्रतिमं ध्यायेज्ज्ञानप्रदं हरिम् ॥
ध्यात्वैवं प्रजपेल्लक्षं दशांशं जुहुयात्तिलैः ॥ ७५-९६ ॥

साज्यैः सम्पूजयेत्पीठे पूर्वोक्ते पूर्ववत्प्रभुम् ॥
जप्तोऽयं मदनक्षोभं नाशयत्येव निश्चितम् ॥ ७५-९७ ॥

तत्त्वज्ञानमवाप्नोति कपीन्द्रस्य प्रसादतः ॥
अथ मन्त्रातरं वाक्ष्ये भूतविद्रावणं परम् ॥ ७५-९८ ॥

तारः काशीङ्कुक्षिपरवराहश्चाञ्जनापदम् ॥
पवनो वनपुत्रान्ते आवेशिद्वयमीरयेत् ॥ ७५-९९ ॥

तारः श्रीहनुमत्यश्चादस्त्ररचभुजाक्षरः ॥
ब्रह्मा मुनिः स्याद्गायत्री छन्दोऽत्र देवता पुनः ॥ ७५-१00 ॥

हनुमान्कमला बीजं फट् शक्तिः परिकीर्तितः ॥
षड्दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत् ॥ ७५-१0१ ॥

आञ्जनेय पाटलास्यं स्वर्णाद्रिसमविग्रहम् ॥
पारिजातद्रुमूलस्थं चिन्तयेत्साधकोत्तमः ॥ ७५-१0२ ॥

एवं ध्यात्वा जपेल्लक्षं दशांशं जुहुयात्तिलैः ॥
त्रिमध्वक्तैर्यञ्जत्पीठे पूर्वोक्तेपूर्ववत्सुधीः ॥ ७५-१0३ ॥

अनेन मनुना मन्त्री ग्रहग्रस्तं प्रमार्जयेत् ॥
आक्रन्दंस्तं विमुच्याथ ग्रहः शीघ्रं पलायते ॥ ७५-१0४ ॥

मनवोऽमी सदागोप्या न प्रकाश्या यतस्ततः ॥
परीक्षिताय शिष्याय देया वा निजसूनवे ॥ ७५-१0५ ॥

हनुमद्भजनासक्तः कार्तवीर्यार्जुनं सुधीः ॥
विशेषतः समाराध्य यथोक्तं फलमाप्नुयात् ॥ ७५-१0६ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दीपविधिनिरूपणं नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥