सनत्कुमार उवाच ॥
अथोच्यन्ते हनुमतो मन्त्राः सर्वेष्टदायकाः ॥
यान्समाराध्य विप्रेन्द्र तत्तुल्याचरणा नराः ॥ ७४-१ ॥
मनुः स्वरेन्दुसंयुक्तं गगनं च भगान्विताः ॥
हसफाग्निनिशाधीशाःद्वितीयं बीजमीरितम् ॥ ७४-२ ॥
स्वफाग्नयो भगेन्द्वाढ्यास्तृतीयं बीजमीरितम् ॥
वियद्भृग्वग्निमन्विन्दुयुक्तं स्याञ्च चतुर्थकम् ॥ ७४-३ ॥
पञ्चमं भगचन्द्राढ्यावियद्भृगुस्वकाग्नयः ॥
मन्विन्द्वाढ्यौ हसौ षष्टं ङेन्तः स्याद्धनुमांस्ततः ॥ ७४-४ ॥
हृदयान्तो महामन्त्रराजोऽयं द्वादशाक्षरः ॥
रामचन्द्रो मुनिश्चास्य जगतीछन्द ईरितम् ॥ ७४-५ ॥
देवता हनुमान्बीजं षष्टं शक्तिर्द्वतीयकम् ॥
षड्बीजैश्च षडङ्गानि शिरोभाले दृशोर्मुखे ॥ ७४-६ ॥
गलबाहुद्वये चैव हृदि कुक्षौ च नाभितः ॥
ध्वजे जानुद्वये पादद्वये वर्णान्क्रमान्न्यसेत् ॥ ७४-७ ॥
षड्बीजानि पदद्वन्द्वं मूर्ध्नि भाले मुखे हृदि ॥
नाभावूर्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ॥ ७४-८ ॥
अञ्जनीगर्भसम्भूतं ततो ध्यायेत्कपीश्वरम् ॥
उद्यत्कोट्यर्कसङ्काशं जगत्प्रक्षोभकारकम् ॥ ७४-९ ॥
श्रीरामाङ्घ्रिध्याननिष्टं सुग्रीवप्रमुखार्चितम् ॥
वित्रासयन्तं नादेन राक्षसान्मारुतिं भजेत् ॥ ७४-१0 ॥
ध्यात्वैवं प्रजपेद्भानुसहस्रं विजितैन्द्रियः ॥
दशांशं जुहुयाद्बीहीन्पयोदध्याज्यमिश्रितान् ॥ ७४-११ ॥
पूर्वोक्ते वैष्णवे पीठे मूर्त्तिं सङ्कल्प्य मूलतः ॥
आवाह्य तत्र सम्पूज्य पाद्यादिभिरुपायनैः ॥ ७४-१२ ॥
केशरेष्वङ्गपूजा स्यात्पत्रेषु च ततोऽर्चयेत् ॥
रामभक्तो महातेजाः कपिराजो महाबलः ॥ ७४-१३ ॥
द्रोणाद्रिहारको मेरुपीठकार्चनकारकः ॥
दक्षिणाशाभास्करश्च सर्वविघ्नविनाशकः ॥ ७४-१४ ॥
इत्थं सम्पूज्य नामानि दलाग्रेषु ततोऽर्चयेत् ॥
सुग्रीवमङ्गद नीलं जाम्बवन्तं नलं तथा ॥ ७४-१५ ॥
सुषेणं द्विविदं मैन्दं लोकपालस्ततोऽर्चयेत् ॥
वज्राद्यानपि सम्पूज्य सिद्धश्चैवं मनुर्भवेत् ॥ ७४-१६ ॥
मन्त्रं नवशतं रात्रौ जपेद्दशदिनावधि ॥
यो नरस्तस्य नश्यन्ति राजशत्रूत्थभीतयः ॥ ७४-१७ ॥
मातुलिङ्गाम्रकदलीफलैर्हुत्वा सहस्रकम् ॥
द्वाविंशतिब्रह्मचारि विप्रान्सम्भोजयेच्छुचीन् ॥ ७४-१८ ॥
एवङ्कृते भूतविषग्रहरोगाद्युपद्रवाः ॥
नश्यन्ति तत्क्षणादेव विद्वेषिग्रहदानवाः ॥ ७४-१९ ॥
अष्टोत्तरशतेनाम्बु मन्त्रितं विषनाशनम् ॥
भूतापस्मारकृत्योत्थज्वरे तन्मन्त्रमन्त्रितैः ॥ ७४-२0 ॥
भस्मभिः सलिलैर्वापि ताडयेज्ज्वरिणं क्रुधा ॥
त्रिदिनाज्ज्वरमुक्तोऽसौ सुखं च लभते नरः ॥ ७४-२१ ॥
औषधं वा जलं वापि भुक्त्वा तन्मन्त्रमन्त्रितम् ॥
सर्वान्रोगान्पराभूय सुखी भवति तत्क्षणात् ॥ ७४-२२ ॥
तज्जप्तभस्मलिप्ताङ्गो भुक्त्वा तन्मन्त्रितं पयः ॥
योद्धुं गच्छेच्च यो मन्त्री शस्त्रसङ्घैंर्न बाध्यते ॥ ७४-२३ ॥
शस्क्षतं व्रणस्फोटो लूतास्फोटोऽपि भस्मना ॥
त्रिर्जप्तेन च संस्पृष्टाः शुष्यन्त्येव न संशयः ॥ ७४-२४ ॥
जपेदर्कास्तमारभ्य यावदर्कोदयो भवेत् ॥
मन्त्रं सप्तदिनं यावञ्चादाय भस्मकीलकौ ॥ ७४-२५ ॥
निखनेदभिमन्त्र्याशुशत्रूणां द्वार्यलक्षितः ॥
विद्वेषं मिथ आपन्नाः पलायन्तेऽरयोऽचिरात् ॥ ७४-२६ ॥
भस्माम्बु चन्दनं मन्त्री मन्त्रेणानेन मन्त्रितम् ॥
भक्ष्यादियोजितं यस्मै ददाति स तु दासवत् ॥ ७४-२७ ॥
क्रूराश्च जन्तवोऽप्येवं भवन्ति वशवर्तिनः ॥
गृहीत्वेशनदिस्कंस्थं करञ्जतरुमूलकम् ॥ ७४-२८ ॥
कृत्वा तेनाङ्गुष्टमात्रां प्रतिमां च हनूमतः ॥
कृत्वा प्राणप्रतिष्टां च सिन्दूराद्यैः प्रपूज्य च ॥ ७४-२९ ॥
गृहस्याभिमुखी द्वारे निखनेन्मन्त्रमुञ्चरन् ॥
ग्रहाभिचाररोगाग्निविषचौरनृपोद्भवाः ॥ ७४-३0 ॥
न जायन्ते गृहे तस्मिन् कदाचिदप्युपद्रवाः ॥
तद्गृहं धनपुत्राद्यैरेधते प्रत्यहं चिरम् ॥ ७४-३१ ॥
निशि यत्र वने भस्म मृत्स्नया वापि यत्नतः ॥
शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत् ॥ ७४-३२ ॥
कृत्वा प्राणप्रतिष्टान्तं भिन्द्याच्छस्त्रैर्मनुं जपन् ॥
मन्त्रान्ते प्रोञ्चरेच्छत्रोर्नाम छिन्धि च भिन्धि च ॥ ७४-३३ ॥
मारयेति च तस्यान्ते दन्तैरोष्टं निपूड्य च ॥
पाण्योस्तले प्रपीड्याथ त्यक्त्वा तं स्वगृहं व्रजेत् ॥ ७४-३४ ॥
कुर्वन्सप्तदिनं चैवं हन्याच्छत्रुं न संशयः ॥
राजिकालवणैर्मुक्तचिकुरः पितृकानने ॥ ७४-३५ ॥
धत्तूरफलपुष्पैश्च नखरोमविषैरपि ॥
द्विक(काक)कौशिकगृध्राणां पक्षैः श्लेष्मान्तकाक्षजैः ॥ ७४-३६ ॥
समिद्धिस्त्रिशतं यामयदिङ्मुखो जुहुयान्निशि ॥
एवं सप्तदिनं कुर्वन्मारयेदुद्धतं रिपुन् ॥ ७४-३७ ॥
वित्रासस्त्रिदिनं रात्रौ श्मशाने षट्शतं जपेत् ॥
ततो वेताल उत्थाय वदेद्भावि शुभाशुभम् ॥ ७४-३८ ॥
किङ्करीभूय वर्त्तेत कुरुते साधकोदितम् ॥
भास्माम्बुमन्त्रितं रात्रौ सहस्रावृत्तिकं पुनः ॥ ७४-३९ ॥
दिनत्रयं च तत्पश्चात्प्रक्षिपेत्प्रतिमासु च ॥
यासु कासु च स्थूलासु लघुष्वपि विशेषतः ॥ ७४-४0 ॥
मन्त्रप्रभावाञ्चलनं भवत्येव न संशयः ॥
अष्टम्यां वा चतुर्दश्यां कुजे वा रविवासरे ॥ ७४-४१ ॥
हनुमत्प्रतिमां पट्टे माषैः स्नेहपरिप्लुतैः ॥
कुर्याद्रम्यां विशुद्धात्मा सर्वलक्षणलक्षिताम् ॥ ७४-४२ ॥
तैलदीपं वामभागे घृतदीपं तु दक्षिणे ॥
संस्थाप्यावाहयेत्पश्चान्मूलमन्त्रेण मन्त्रवित् ॥ ७४-४३ ॥
प्राणप्रतिष्टां कृत्वा च पाद्यादीनि समर्पयेत् ॥
रक्तचन्दनपुष्पैश्च सिन्दूराद्यैः समर्चयेत् ॥ ७४-४४ ॥
धूपं दीपं प्रदायाथ नैवेद्यं च समर्पयेत् ॥
अपूपमोदनं शाकमोदकान्वटकादिकम् ॥ ७४-४५ ॥
साज्यं च तत्समर्प्याथ मूलमन्त्रेण मन्त्रवित् ॥
अखण्डितान्यहिलतादलानि सप्तविंशतिम् ॥ ७४-४६ ॥
त्रिधा कृत्वा सपूगानि मूलेनैव समर्पयेत् ॥
एवं सम्पूज्य मन्त्रज्ञो जपेद्दशशन्त मनुम् ॥ ७४-४७ ॥
कर्पूरारार्तिकं कृत्वा स्तुत्वा च बहुधा सुधीः ॥
निजेप्सितं निवेद्याथ विधिवद्विसृजेत्ततः ॥ ७४-४८ ॥
नैवेद्यान्नेन सम्भोज्य ब्राह्मणान्सप्तसङ्ख्यया ॥
निवेदितानि पर्णानि तेभ्यो दद्याद्विभज्य च ॥ ७४-४९ ॥
दक्षिणां च यथा शक्ति दत्त्वा तान् विसृजेत्सुधीः ॥
तत इष्टगणैः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥ ७४-५0 ॥
तद्दिने भूमिशय्यां च ब्रह्मचर्य्यं समाचरेत् ॥
एवं यः कुरुते मर्त्यः सोऽचिरादेव निश्चितम् ॥ ७४-५१ ॥
प्राप्नुयात्सकलान्कामान्कपीशस्य प्रसादतः ॥
हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनुम् ॥ ७४-५२ ॥
साध्यनाम द्वितीयान्तं विमोचय विमोचय ॥
तत्पूर्वं मार्जयेद्वामपाणिनाथ पुनर्लिखेत् ॥
एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः ॥ ७४-५३ ॥
एवं कृते महाकारागृहाच्छीघ्रं विमुच्यते ॥
एवमन्यानि कर्माणि कुर्य्यान्त्पल्लवमुल्लिखन् ॥ ७४-५४ ॥
सर्षपैर्वश्यकृद्धोमो विद्वेषे हयमारजैः ॥
कुङ्कुमैरिध्मकाष्ठैर्वा मरीचैर्जीरकैरपि ॥ ७४-५५ ॥
ज्वरे दूर्वागुडूचीभिर्दध्ना क्षीरेण वा घृतैः ॥
शूले करञ्जवातारिसमिद्भिस्तैललोलितैः ॥ ७४-५६ ॥
तैलाक्ताभिश्च निर्गुण्डीसमिद्भिर्वा प्रयत्नतः ॥
सौभाग्ये चन्दनैश्चेन्द्रलोचनैर्वा लवङ्गकैः ॥ ७४-५७ ॥
सुगन्धपुष्पैर्वस्त्राप्त्यै तत्तद्धान्यैस्तदाप्तये ॥
रिपुपादरजोभिश्च राजीलवणमिश्रितैः ॥ ७४-५८ ॥
होमयेत्सप्तरात्रं च रिपुर्याति यमालयम् ॥
धान्यैः सम्प्राप्यते धान्यमन्नैरन्नसमुच्छ्रयः ॥ ७४-५९ ॥
तिलाज्यक्षीरमधुभिर्महिषीगोसमृद्धये ॥
किं बहूक्तैर्विषे व्याधौ शान्तौ मोहे च मारणे ॥ ७४-६0 ॥
विवादे स्तम्भने द्यूते भूतभीतौ च सङ्कटे ॥
वश्ये युद्धे क्षते दिव्ये बन्धमोक्षे महावने ॥ ७४-६१ ॥
साधितोऽयं नृणां दद्यान्मन्त्रः श्रेयः सुनिश्चितम् ॥
वक्ष्येऽथ हनुमद्यन्त्रं सर्वसिद्धिप्रदायकम् ॥ ७४-६२ ॥
लाङ्गूलाकारसंयुक्तं वलयत्रितयं लिखेत् ॥
साध्यनाम लिखेन्मध्ये पाशिबीज प्रवेष्टितम् ॥ ७४-६३ ॥
उपर्यष्टच्छदं कृत्वा पत्रेषु कवचं लिखेत् ॥
तद्बहिर्दंहमालिख्य तद्बहिश्चतुरस्रकम् ॥ ७४-६४ ॥
चतुरसस्रस्य रेखाग्रे त्रिशूलानि समालिखेत् ॥
सौं बीजं भूपुरस्याष्टवज्रेषु विलिखेत्ततः ॥ ७४-६५ ॥
कोणेष्वकुंशमालिख्य मालामन्त्रेण वेष्टयेत् ॥
तत्सर्वं वेष्टयेद्यन्त्रवलयत्रितयेन च ॥ ७४-६६ ॥
शिलायां फलके वस्त्रे ताम्रपत्रेऽथ कुड्यके ॥
ताडपत्रेऽथ भूर्जे वा रोचनानाभिकुङ्कुभैः ॥ ७४-६७ ॥
यन्त्रमेतत्समालिख्य निराहारो जितेन्द्रियः ॥
कपेः प्राणान्प्रतिष्टाप्य पूजयेत्तद्यथाविधि ॥ ७४-६८ ॥
अशेषदुःखशान्त्यर्थः यन्त्रं सन्धारयेद् बुधः ॥
मारीज्वराभिचारादिसर्वोपद्रवनाशनम् ॥ ७४-६९ ॥
योषितामपि बालानां धृतं जनमनोहरम् ॥
भूतकृत्यापिशाचानां दर्शनादेव नाशनम् ॥ ७४-७0 ॥
मालामन्त्रमथो वक्ष्ये तारो वाग्विष्णुगेहिनी ॥
दीर्घत्रयान्विता माया प्रागुक्तं कूटपञ्चकम् ॥ ७४-७१ ॥
ध्रुवो हृद्धनुमान्ङेन्तोऽथ प्रकटपराक्रमः ॥
आक्रान्तदिग्मण्डलान्ते यशोवितानसंवदेत् ॥ ७४-७२ ॥
धवलीकृतवर्णान्ते जगत्त्रितयवज्र च ॥
देहज्वलदग्निसूर्य कोट्यन्ते च समप्रभ ॥ ७४-७३ ॥
तनूरुहपदान्ते तु रुद्रावतार संवदेत् ॥
लङ्कापुरी ततः पश्चाद्दहनोदधिलङ्घन ॥ ७४-७४ ॥
दशग्रीवशिरः पश्चात्कृतान्तकपदं वदेत् ॥
सीतान्ते श्वसनपदं वाय्वन्ते सुतमीरयेत् ॥ ७४-७५ ॥
अञ्जनागर्भसम्भूतः श्रीरामलक्ष्मणान्वितः ॥
नन्दन्ति कर वर्णान्ते सैन्यप्राकार ईरयेत् ॥ ७४-७६ ॥
सुग्रीवसख्यकादूर्णाद्रणवालिनिवर्हण ॥
कारणद्रोणशब्दान्ते पर्वतोत्पाटनेति च ॥ ७४-७७ ॥
अशोकवनवीथ्यन्ते दारुणाक्षकुमारक ॥
छेदनान्ते वनरक्षाकरान्ते तु समूह च ॥ ७४-७८ ॥
विभञ्जनान्ते ब्रह्मास्त्रब्रह्मशक्ति ग्रसेति च ॥
लक्ष्मणान्ते शक्तिभेदनिवारणपदं वदेत् ॥ ७४-७९ ॥
विशल्योषधिशब्दान्ते समानयन सम्पठेत् ॥
बालोदित ततो भानुमण्डलग्रसनेति च ॥ ७४-८0 ॥
मेघनादहोमपदाद्विध्वंसनपदं वदेत् ॥
इन्द्रजिदूधकारान्ते णसीतासक्षकेति च ॥ ७४-८१ ॥
राक्षसीसङ्घशब्दान्ते विदारणपदं वदेत् ॥
कुम्भकर्णादिसङ्कीर्त्यवधान्ते च परायण ॥ ७४-८२ ॥
श्रीरामभक्तिवर्णान्ते तत्परेति समुद्र च ॥
व्योमद्रुमलङ्घनेति महासामर्थ्य संवदेत् ॥ ७४-८३ ॥
महातेजःपुञ्जशब्दाद्विराजमानवोञ्चरेत् ॥
स्वामिवचनसम्पादितार्जुनान्ते च संयुग ॥ ७४-८४ ॥
सहायान्ते कुमारेति ब्रह्मचारिन्पदंवदेत् ॥
गम्भीरशब्दोदयान्ते दक्षिणापथ संवदेत् ॥
मार्त्ताण्डमेरु शब्दान्ते वदेत्पर्वतपीटिका ॥ ७४-८५ ॥
अर्चनान्ते तु सकलमन्त्रान्ते मपदं वदेत् ॥
आचार्यमम शब्दान्ते सर्वग्रहविनाशन ॥ ७४-८६ ॥
सर्वज्वरोञ्चाटनान्ते सर्वविषविनाशन ॥
सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण ॥ ७४-८७ ॥
सर्वव्याध्यादि सम्प्रोच्य भयान्ते च निवारण ॥ ७४-८८ ॥
सर्वशत्रुच्छेदनेति ततो मम परस्य च ॥ ७४-८९ ॥
ततस्त्रिभुवनान्ते तु पुंस्त्रीनपुंसकात्मकम् ॥
सर्वजीवपदान्ते तु जातं वशययुग्मकम् ॥ ७४-९0 ॥
ममाज्ञाकारकं पश्चात्सम्पादय युगं पुनः ॥
ततो नानानामधेयान्सर्वान् राज्ञः स सम्पठेत् ॥ ७४-९१ ॥
परिवारान्ममेत्यन्ते सेवकान् कुरु युग्मकम् ॥
सर्वशस्त्रवीत्यन्ते षाणि विध्वंसय द्वयम् ॥ ७४-९२ ॥
लज्जादीर्घत्रयोपेता होत्रयं चैहि युग्मकम् ॥
विलोमं पञ्चकूटानि सर्वशत्रून्हनद्वयम् ॥ ७४-९३ ॥
परबलानि परान्ते सैन्यानि क्षोभयद्वयम् ॥ ७४-९४ ॥
मम सर्वं कार्यजातं साधयेति द्वयं ततः ॥ ७४-९५ ॥
सर्वदुष्टदुर्जनान्ते मुखानि कीलयद्वयम् ॥
धेत्रयं वर्मत्रितयं फट्त्रयं हान्त्रयं ततः ॥ ७४-९६ ॥
वह्निप्रियान्तो मन्त्रोऽयं मालासञ्ज्ञोऽखिलेष्टदः ॥ ७४-९७ ॥
वस्वष्टबाणवर्णोऽयं मन्त्रः सर्वेष्टसाधकः ॥ ७४-९८ ॥
महाभये महोत्पाते स्मृतोऽयं दुःखनाशनः ॥
द्वादशार्णस्य षट्कूटं त्यक्त्वा बीजं तथादिमम् ॥ ७४-९९ ॥
पञ्चकूटात्मको मन्त्रः सर्वकामप्रदायकः ॥
रामचन्द्रो मुनिश्चास्य गायत्री छन्द ईरितम् ॥ ७४-१00 ॥
हनुमान्देवता प्रोक्तो विनियोगोऽखिलाप्तये ॥
पञ्चबीजैः समस्तेन षडङ्गानि समाचरेत् ॥ ७४-१0१ ॥
रामदूतो लक्ष्मणान्ते प्राणदाताञ्जनीसुतः ॥
सीताशोकविनाशोऽयं लङ्काप्रासादभञ्जनः ॥ ७४-१0२ ॥
हनुमदाद्याः पञ्चैते बीजाद्या ङेयुताः पुनः ॥
षडङ्गमनवो ह्येते ध्यानपूजादि पूर्ववत् ॥ ७४-१0३ ॥
प्रणवो वाग्भवं पद्मा माया दीर्घत्रयान्विता ॥
पञ्चकूटानि मन्त्रोऽयं रुद्रार्णः सर्वसिद्धिदः ॥ ७४-१0४ ॥
ध्यानपूजादिकं सर्वमस्यापि पूर्ववन्मतम् ॥
अयमाराधितो मन्त्रः सर्वाभीष्टप्रदायकः ॥ ७४-१0५ ॥
नमो भगवते पश्चादनन्तश्चन्द्रशेखरां ॥
जनेयाय महान्ते तु बलायान्तेऽग्निवल्लभा ॥ ७४-१0६ ॥
अष्टादशार्णो मन्त्रोऽयं सुनिरीश्वरसञ्ज्ञकः ॥
छन्दोऽनुष्टुप्देवता तु हनुमान्पवनात्मजः ॥ ७४-१0७ ॥
हं बीजं वह्निवनिता शक्तिः प्रोक्ता मनीषिभिः ॥
आञ्जनेयाय हृदयं शिरश्च रुद्रमूर्तये ॥ ७४-१0८ ॥
शिखायां वायुपुत्रायाग्निगर्भाय वर्मणि ॥
रामदूताय नेत्रं स्याद्बह्यास्त्रायास्त्रमीरितम् ॥ ७४-१0९ ॥
तप्तचामीकरनिभं भीघ्नसंविहिताञ्जलिम् ॥
चलत्कुण्डलदीप्तास्यं पद्मक्षं मारुतिं स्मरेत् ॥ ७४-११0 ॥
ध्यात्वैवमयुतं जप्त्वा दशांशं जुहुयात्तिलैः ॥
वैष्णवे पूजयेत्पीठे प्रागुद्दिष्टेन वर्त्मना ॥ ७४-१११ ॥
अष्टोत्तरशतं नित्यं नक्तभोजी जितेन्द्रियः ॥
जपित्वा क्षुद्ररोगेभ्यो मुच्यते नात्र संशयः ॥ ७४-११२ ॥
महारोगनिवृत्त्यै तु सहस्रं प्रत्यहं जपेत् ॥
राक्षसौघं विनिघ्नन्तं कपिं ध्यात्वाधनाशनम् ॥ ७४-११३ ॥
अयुतं प्रजपेन्नित्यमचिराज्ज यति द्विषम् ॥
सुग्रीवेण समं रामं सन्दधानं कपिं स्मरन् ॥ ७४-११४ ॥
प्रजपेदयुतं यस्तु सन्धिं कुर्याद्द्विपद्वयोः ॥
ध्यात्वा लङ्कां दहन्तं तमयुतं प्रजपेन्मनुम् ॥ ७४-११५ ॥
अचिरादेव शत्रूणां ग्रामान्सम्प्रदहेत्सुधीः ॥
ध्यात्वा प्रयाणसमये हनुमन्तं जपेन्मनुम् ॥ ७४-११६ ॥
यो याति सोऽचिरात्स्वेष्टं साधयित्वा गृहे व्रजेत् ॥
हनुमन्तं सदा गेहे योऽर्चयेज्जपतत्परः ॥ ७४-११७ ॥
आरोग्यं च श्रियं कान्तिं लभते निरुपद्रवम् ॥
कानने व्याघ्रचौरेभ्यो रक्षेन्मनुरयं स्मृतः ॥ ७४-११८ ॥
प्रस्वापकाले शय्यायां स्मरेन्मन्त्रमनन्यधीः ॥
तस्य दुःस्वप्नचौरादिभयं नैव भवेत्क्वचित् ॥ ७४-११९ ॥
वियत्सेन्दुर्हनुमते ततो रुद्रात्मकाय च ॥
वर्मास्त्रान्तो महामन्त्रो द्वादशार्णोऽष्टसिद्धिकृत् ॥ ७४-१२0 ॥
रामचन्द्रो मुनिश्चास्य जगती छन्द ईरितम् ॥
हनुमान्देवतां बीजमाद्यं शक्तिर्हुमीरिता ॥ ७४-१२१ ॥
षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत् ॥
महाशैलं समुत्पाट्य धावन्तं रावणं प्रति ॥ ७४-१२२ ॥
लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् ॥
ज्वलदग्निसमं जैत्रं सूर्यकोटिसमप्रभम् ॥ ७४-१२३ ॥
अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ॥
तिष्ठ तिष्ठ रणे दुष्ट सृजन्तं घोरनिः स्वनम् ॥ ७४-१२४ ॥
शैवरूपिणमभ्यर्च्य ध्यात्वा लक्ष जपेन्मनुम् ॥
दशांशं जुहुयाद्वीहीन्पयोदध्याज्यमिश्रितान् ॥ ७४-१२५ ॥
पूर्वोक्ते वैष्णवे पीठे विमलादिसमन्विते ॥
मूर्तिं सङ्कल्प्य मूलेन पूजा कार्या हनूमतः ॥ ७४-१२६ ॥
ध्यानैकमात्रोऽपि नृणां सिद्धिरेव न संशयः ॥
अथास्य साधनं वक्ष्ये लोकानां हितकाम्यया ॥ ७४-१२७ ॥
हनुमत्साधनं पुण्यं महापातकनाशनम् ॥
एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम् ॥ ७४-१२८ ॥
मन्त्री यस्य प्रसादेन त्रैलोक्यविजयी भवेत् ॥
प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने ॥ ७४-१२९ ॥
प्राणायामषडङ्गे च मूलेन सकलं चरेत् ॥
पुष्पाञ्जल्यष्टकं दत्वा ध्यात्वा रामं ससीतकम् ॥ ७४-१३0 ॥
ताम्रपात्रे ततः पद्ममष्टपत्रं सकेशरम् ॥
कुचन्दनेन घृष्टेन संलिखेत्तच्छलाकया ॥ ७४-१३१ ॥
कर्मिकायां लिखेन्मन्त्रं तत्रावाह्य कपीश्वरम् ॥
मूर्तिं मूलेन सङ्कल्प्य ध्यात्वा पाद्यादिकं चरेत् ॥ ७४-१३२ ॥
गन्धपुष्पादिकं सर्वं निवेद्य मूलमन्त्रतः ॥
केसरेषु षडङ्गानि दलेषु च ततोऽर्चयेत् ॥ ७४-१३३ ॥
सुग्रीवं लक्ष्मणं चैव ह्यङ्गदं नलनीलकौ ॥
जाम्बवन्तं च कुमुदं केसरीशं दलेऽर्चयेत् ॥ ७४-१३४ ॥
दिक्पालांश्चापि वज्रादीन्पूजयेत्तदनन्तरम् ॥
एवं सिद्धे मनौ मन्त्री साधयेत्स्वेष्टमात्मनि ॥ ७४-१३५ ॥
नदीतीरे कानने वा पर्वते विजनेऽथवा ॥
साधयेत्साधक श्रेष्टो भूमिग्रहणपूर्वकम् ॥ ७४-१३६ ॥
जिताहारो जितश्वासो जितवाक्च जितेन्द्रियः ॥
दिग्बन्ध नादिकं कृत्वा न्यासध्यानादिपूर्वकम् ॥ ७४-१३७ ॥
लक्षं जपेन्मन्त्रराजं पूजयित्वा तु पूर्ववत् ॥
लक्षान्ति दिवसं प्राप्य कुर्य्याञ्च पूजनं महत् ॥ ७४-१३८ ॥
एकाग्रमनसा सम्यग्ध्यात्वा पवननन्दनम् ॥
दिवारात्रौ जपं कुर्याद्यावत्सन्दर्शनं भवेत् ॥ ७४-१३९ ॥
सुदृढं साधकं मत्वा निशीथे पवनात्मजः ॥
सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः ॥ ७४-१४0 ॥
यथेप्सितं वरं दत्वा साधकाय कपीश्वरः ॥
वरं लब्ध्वा साधकन्द्रो विहरेदात्मनः सुखैः ॥ ७४-१४१ ॥
एतद्धि साधनं पुण्यं लोकानां हितकाम्यया ॥
प्रकाशितं रहस्यं वै देवानामपि दुर्लभम् ॥ ७४-१४२ ॥
अन्यानपिप्रयोगांश्च साधयेदात्मनो हितान् ॥
वियदिन्दुयुतं पश्चान्ङेन्तं पवननन्दनम् ॥ ७४-१४३ ॥
वह्निप्रियान्तो मन्त्रोऽयं दशार्णः सर्वकामदः ॥
मुन्यादिकं च पूर्वोक्तं षडङ्गान्यपि पूर्ववत् ॥ ७४-१४४ ॥
ध्यायेद्रणे हनूमन्तं सूर्यकोटिसमप्रभम् ॥
धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ॥ ७४-१४५ ॥
लक्ष्मणं च महावीरं पतितं रणभूतले ॥
गुरुं च क्रोधमुत्पाद्य ग्रहोतुं गुरुपर्वतम् ॥ ७४-१४६ ॥
हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् ॥
आब्रह्माण्डं समाख्याप्य कृत्वा भीमं कलेवरम् ॥ ७४-१४७ ॥
लक्षं जपेद्दशांशेन जुहुयात्पूर्ववत्सुधीः ॥
पूर्ववत्पूजनं प्रोक्तं मन्त्र स्यास्य विधानतः ॥ ७४-१४८ ॥
एवं सिद्धे मनौ मन्त्री साधयेदात्मनो हितम् ॥
अस्यापि मन्त्रवर्यस्य रहस्यं साधनं तु वै ॥ ७४-१४९ ॥
सुगोप्यं सर्वतन्त्रेषु न देयं यस्य कस्यचित् ॥
ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियः शुचिः ॥ ७४-१५0 ॥
गत्वा नदीं तः स्नात्वा तीर्थमावाह्य चाष्टधा ॥
मूलमन्त्रं ततो जप्त्वा सिञ्चेदादित्यसङ्ख्यया ॥ ७४-१५१ ॥
एवं स्नानादिकं कृत्वा गङ्गातीरेऽथवा पुनः ॥
पर्वते वा वने वापि भूमिग्रहणपूर्वकम् ॥ ७४-१५२ ॥
आद्यवर्णैः पूरकं स्यात्पञ्चवर्गैश्च कुम्भकम् ॥
रेचकं च पुनर्याद्यैरेवं प्राणान्नियन्य च ॥ ७४-१५३ ॥
विधाय भूतशुद्ध्यादि पीठन्यासावधि पुनः ॥
ध्यात्वा पूर्वोक्तविधिना सम्पूज्य च कपीश्वरम् ॥ ७४-१५४ ॥
तदग्रे प्रजपेन्नित्यं साधकोऽयुतमादरात् ॥
सप्तमे दिवसे प्राप्ते कुर्याञ्च पूजनं महत् ॥ ७४-१५५ ॥
एकाग्रमनसा मन्त्री दिवारात्रं जपेन्मनुम् ॥
महाभयं प्रदत्वा त्रिभागशेषासु निश्चितम् ॥ ७४-१५६ ॥
यामिनीषु समायाति नियतं पवनात्मजः ॥
यथेप्सितं वरं दद्यात्साधकाय कपीश्वरः ॥ ७४-१५७ ॥
विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्रहम् ॥
तत्क्षणादेव चाप्नोति सत्यं सत्यं न संशयः ॥ ७४-१५८ ॥
इह लोकेऽखिलान्कामान्भुक्त्वान्ते मुक्तिमाप्नुयात् ॥
सद्याचितं वायुयुग्मं हनूमन्तेति चोद्धरेत् ॥ ७४-१५९ ॥
फलान्ते फक्रियानेत्रयुक्ता च कामिका ततः ॥
धग्गन्ते धगितेत्युक्त्वा आयुरास्व पदं ततः ॥ ७४-१६0 ॥
लोहितो गरुडो हेतिबाणनेत्राक्षरो मनुः ॥
मुन्यादिकं तु पूर्वोक्तं प्लीहरोगहरो हरिः ॥ ७४-१६१ ॥
देवता च समुद्दिष्टा प्लीहयुक्तोदरे पुनः ॥
नागवल्लीदलं स्थाप्यमुपर्याच्छादयेत्ततः ॥ ७४-१६२ ॥
वस्त्रं चैवाष्टगुणितं ततः साधकसत्तमः ॥
शकलं वंशजं तस्योपरि मुञ्चेत्कपिं स्मरेत् ॥ ७४-१६३ ॥
आरण्यसाणकोत्पन्ने वह्नौ यष्टिं प्रतापयेत् ॥
बदरीभूरुहोत्थां तां मन्त्रेणानेन सप्तधा ॥ ७४-१६४ ॥
तया सन्ताडयेद्वंशशकलं जठरस्थितम् ॥
सप्तकृत्वः प्लीहरोगो नाशमायाति निश्चितम् ॥ ७४-१६५ ॥
तारो नमो भगवते आञ्जनेयाय चोञ्चरेत् ॥
अमुकस्य श्रृङ्खलां त्रोटयद्वितयमीरयेत् ॥ ७४-१६६ ॥
बन्धमोक्षं कुरुयुगं स्वाहान्तोऽयं मनुर्मतः ॥
ईश्वरोऽस्य मुनिश्छन्दोऽनुष्टुप्च देवता पुनः ॥ ७४-१६७ ॥
श्रृङ्खलामोचरः श्रीमान्हनूमान्पवनात्मजः ॥
हं बीजं ठद्वयं शक्तिर्बन्धमोक्षे नियोगता ॥ ७४-१६८ ॥
षड्दीर्घवह्रियुक्तेन बीजेनाङ्गानि कल्पयेत् ॥
वामे शैलं वैरिभिदं विशुद्धं टङ्कमन्यतः ॥ ७४-१६९ ॥
दधानं स्वर्णवर्णं च ध्यायेत्कुण्डलिनं हरिम् ॥
एवं ध्यात्वा जपेल्लक्षदशांशं चूतपल्लवैः ॥ ७४-१७0 ॥
जुहुयात्पूर्ववत्प्रोक्तं यजनं वास्य सूरिभिः ॥
महाकारागृहे प्राप्तो ह्ययुतं प्रजपेन्नरः ॥ ७४-१७१ ॥
शीघ्रं कारागृहान्मुक्तः सुखी भवति निश्चितम् ॥
यन्त्रं चास्य प्रवक्ष्यामि बन्धमोक्षकरं शुभम् ॥ ७४-१७२ ॥
अष्टच्छदान्तः षट्कोणं साध्यनामसमन्वितम् ॥
षट्कोणेषु ध्रुवं ङेन्तमाञ्जनेयपदं लिखेत् ॥ ७४-१७३ ॥
अष्टच्छदेषु विलिखेत्प्रणवो वातुवात्विति ॥
गोरोचनाकुङ्कुमेन लिखित्वा यन्त्रमुत्तमम् ॥ ७४-१७४ ॥
धृत्वा मूर्ध्नि जपेन्मन्त्रमयुतं बन्धमुक्तये ॥
यन्त्रमेतल्लिखित्वा तु मृत्तिकोपरि मार्जयेत् ॥ ७४-१७५ ॥
दक्षहस्तेन मन्त्रज्ञः प्रत्यहं मण्डला वधि ॥
एवं कृते महाकारागृहान्मन्त्री विमुच्यते ॥ ७४-१७६ ॥
गगनं ज्वलनः साक्षी मर्कटेति द्वयं ततः ॥
तोयं शशेषे मकरे परिमुञ्चति मुञ्चति ॥ ७४-१७७ ॥
ततः श्रृङ्खलिकां चेति वेदनेत्राक्षरो मनुः ॥
इमं मन्त्रं दक्षकरे लिखित्वा वामहस्ततः ॥ ७४-१७८ ॥
दूरिकृत्य जपेन्मन्त्रमष्टोत्तरशतं बुधः ॥
त्रिसप्ताहात्प्रबद्धोऽसौ मुच्यते नात्र संशयः ॥ ७४-१७९ ॥
मुन्याद्यर्चादिकं सर्वमस्य पूर्ववदाचरेत् ॥
लक्षं जपो दशांशेन शुभैर्द्रव्यैश्च होमयेत् ॥ ७४-१८0 ॥
पुच्छाकारे सुवस्त्रे च लेखन्या क्षुरकोत्थया ॥
गन्धाष्टकैर्लिखेद्वूपं कपिराजस्य सुन्दरम् ॥ ७४-१८१ ॥
तन्मध्येऽष्टदशार्णं तु शत्रुनामान्वितं लिखेत् ॥
तेन मन्त्राभिजप्तेन शिरोबद्ध्वेन भूमिपः ॥ ७४-१८२ ॥
जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् ॥
चन्द्रसूर्यो परागादौ पूर्वोक्तं लेखयेद्ध्वजे ॥ ७४-१८३ ॥
ध्वजमादाय मन्त्रज्ञः संस्पर्शान्मोक्षणावधि ॥
मातृकां जापयेत्पश्चाद्दशांशेन च होमयेत् ॥ ७४-१८४ ॥
तिलैः सर्षपसम्मिश्रैः संस्कृते हव्यवाहने ॥
गजे ध्वजं समारोप्य गच्छेद्युद्ध्वाय भूपतिः ॥ ७४-१८५ ॥
गजस्थं तं ध्वजं दृष्ट्वा पलायन्तेऽरयो ध्रुवम् ॥
महारक्षाकरं यन्त्रं वक्ष्ये सम्यग्धनूमतः ॥ ७४-१८६ ॥
लिखेद्वसुदलं पद्मं साध्याख्यायुतकर्णिकम् ॥
दलेऽष्टकोणमालिख्य मालामन्त्रेण वेष्टयेत् ॥ ७४-१८७ ॥
तद्बहिर्माययावेष्ट्य प्राणस्थापनमाचरेत् ॥
लिखितं स्वर्णलेखन्या भूर्जपत्रे सुशोभने ॥ ७४-१८८ ॥
काश्मीररोचनाभ्यां तु त्रिलोहेन च वेष्टितम् ॥
सम्पातसाधितं यन्त्रं भुजे वा मूर्ध्नि धारयेत् ॥ ७४-१८९ ॥
रणे दुरोदरे वादे व्यवहारे जयं लभेत् ॥
ग्रहैर्विघ्नैर्विषैः शस्त्रैश्चौरैर्नैवाभिभूयते ॥ ७४-१९0 ॥
सर्वान्रो गानपाकृत्य चिरं जीवेच्छतं समाः ॥
षड्दीर्घयुक्तं गगन वह्न्याख्यं तारसम्पुटम् ॥ ७४-१९१ ॥
अष्टार्णोऽयं महामन्त्रो मालामन्त्रोऽथ कथ्यते ॥
प्रणवो वज्रकायेति वज्रतुण्डेति सम्पठेत् ॥ ७४-१९२ ॥
कपिलान्ते पिङ्गलेति उर्द्ध्वकेशमहापदम् ॥
बलरक्तमुखान्ते तु तडिज्जिह्व महा ततः ॥ ७४-१९३ ॥
रौद्रदंष्ट्रोत्कटं पश्चात्कहद्वन्द्वं करालिति ॥
महदृढप्रहारेण लङ्केश्वरवधात्ततः ॥ ७४-१९४ ॥
वायुर्महासेतुपदं बन्धान्ते च महा पुनः ॥
शैलप्रवाह गगनेचर एह्येहि संवदेत् ॥ ७४-१९५ ॥
भगवन्महाबलान्ते पराक्रमपदं वदेत् ॥
भैरवाज्ञापयैह्येहि महारौद्रपदं ततः ॥ ७४-१९६ ॥
दीर्घपुच्छेन वर्णान्ते वदेद्वेष्टय वैरिणम् ॥
जम्भयद्वयमाभाष्य वर्मास्त्रान्तो मनुर्मतः ॥ ७४-१९७ ॥
मालाह्वयो द्विजश्रेष्ट शरनेत्रधराक्षरः ॥
मालामन्त्राष्टार्णयोश्च मुन्याद्यर्चा तु पूर्ववत् ॥ ७४-१९८ ॥
जप्तो युद्धे जयं दद्याद्व्याधौ व्याधिविनाशनः ॥
एवं यो भजते मन्त्री वायुपुत्रं कपीश्वरम् ॥ ७४-१९९ ॥
सर्वान्स लभते कामान्दे वैरपि सुदुर्लभान् ॥
धनं धान्यं सुतान्पौत्रान्सौभाग्यमतुलं यशः ॥ ७४-२00 ॥
मेधां विद्यां प्रभां राज्यं विवादे विजयं तथा ॥
वश्याद्यानि च कर्माणि सङ्गरे विजयं तथा ॥ ७४-२0१ ॥
उपासितोंऽजनागर्भसम्भूतः प्रददात्यलम् ॥ ७४-२0२ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे तृतीयपादे हनुमन्मन्त्रकथनन्नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥