०७२

सनत्कुमार उवाच ॥
प्रणवो हृदयं विष्णुर्नेन्तः सुरपतिस्तथा ॥
महाबलाय स्वाहान्तो मन्त्रो वसुधराक्षरः ॥ ७२-१ ॥

मुनिरिन्न्‌दुर्विराट् छन्दो देवता दधिवामनः ॥
तारो बीजं तथा शक्तिर्वह्निजाया प्रकीर्तिता ॥ ७१-२ ॥

चन्द्राक्षिरामबाणेंषु नेत्रसङ्ख्यैर्मनूद्भवैः ॥
वर्णैः षडङ्गं कृत्वा च मूर्ध्नि भाले च नेत्रयोः ॥ ७२-३ ॥

कर्णयोर्घ्राणयोरोष्टतालुकण्ठभुजेषु च ॥
पृष्टे हृद्युदरे नाभौ गुह्ये चोरुस्थले पुनः ॥ ७२-४ ॥

जानुद्वयं जङ्घयोश्च पादयोर्विन्यसेत्क्रमात् ॥
अष्टादशैव मन्त्रोत्थास्ततो देवं विचिन्न्‌तयेत् ॥ ७२-५ ॥

मुक्तागौरं रत्नभूषं चन्द्रस्थं भृङ्गसन्निभैः ॥
अलकैर्विलसद्वक्त्रं कुम्भं शुद्धाम्बुपूरितम् ॥ ७२-६ ॥

दध्यन्नपूर्णचषकं दोर्भ्यां सन्दधतं भजेत् ॥
लक्षत्रयं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ॥ ७२-७ ॥

पायसान्नैः प्रजुहुयाद्दध्यन्नेन यथाविधि ॥
चन्द्रान्ते कल्पिते पीठे पूर्वोक्तें पूजयेच्च तम् ॥ ७२-८ ॥

सङ्कल्पमूर्तिमूलेन सम्पूज्य च विधानतः ॥
केसरेषु षडङ्गानि सम्पूज्य दिग्दलेषु च ॥ ७२-९ ॥

वासुदेवं सङ्कर्षणं प्रद्युम्नमनिरुद्धकम् ॥
कोणपत्रेषु शान्तिं च श्रियं सरस्वतीं रतिम् ॥ ७२-१0 ॥

ध्वजं च वैनतेयं च कौस्तुभं वनमालिकम् ॥
शङ्खं चक्रं गदां शार्ङ्गं दलेष्वष्टसु पूजयेत् ॥ ७२-११ ॥

दलाग्रेषु केशवादीन्दिक्पालांस्तदनन्तरम् ॥
तदस्त्राणि च सम्पूज्य गजानष्टौ समर्चयेत् ॥ ७२-१२ ॥

ऐरावतः पुण्डरीको वामनः कुमुदोंऽजनः ॥
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ ७२-१३ ॥

करिण्योऽभ्रमुकपिलोपिङ्गलानुपमाः क्रमात् ॥
ताम्रकर्णी शुभ्रदन्ती चाङ्गना ह्यञ्जना वती ॥ ७२-१४ ॥

एवमाराधितो मन्त्री दद्यादिष्टानि मन्त्रिणे ॥
श्रीकामः पायसाज्येन सहस्रं जुहुयात्सुधीः ॥ ७२-१५ ॥

महतीं श्रियमाप्नोति धान्याप्तिर्धान्य होमतः ॥
शतपुष्पासमुत्थैश्च बीजैर्हुत्वा सहस्रतः ॥ ७२-१६ ॥

महाभयं नाशयेद्धि नात्र कार्या विचारणा ॥
दद्ध्योदनेन शुद्धेन हुत्वा मुच्यते दुर्गतेः ॥ ७२-१७ ॥

ध्यात्वा त्रैविक्रमं रूपं जपेन्मन्त्रं समाहितः ॥
कारागृहाद्भवन्मुक्तो बद्धो मन्त्रप्रभावतः ॥ ७२-१८ ॥

भित्तौ सम्पाद्य देवेशं फलके वा प्रपूजयेत् ॥
नित्यं सुगन्धकुसुमैर्महतीं श्रियमाप्नुयात् ॥ ७२-१९ ॥

हुत्वा रक्तोत्पलैर्मन्त्री वशयेत्सकलं जगत् ॥
अन्नाज्यैर्जुहुयान्नित्यमष्टाविंशतिसङ्ख्यया ॥ ७२-२0 ॥

सिताज्यान्नं च विधिवत्प्राप्नुयादन्नमक्षयम् ॥
अपूपैः षड्रसोपेतैर्हुनेद्वसुसहस्रकम् ॥ ७२-२१ ॥

अलक्ष्मीं च पराभूय महतीं श्रियमाप्नुयात् ॥
जुहुयादयुतं मन्त्री दध्यन्नं च सितान्वितम् ॥ ७२-२२ ॥

यत्र यत्र वसेत्सोऽपि तत्रान्नगिरिमाप्नुयात् ॥
पद्माक्षरैर्युतं बिल्वान्तिकस्थो जुहुयान्नरः ॥ ७२-२३ ॥

महालक्ष्मीं स लभते तत्र तत्र न संशयः ॥
जुहुयात्पायसैर्लक्षं वाचस्पतिसमो भवेत् ॥ ७२-२४ ॥

लक्षं जप्त्वा तद्दशांशं पुत्रजीवफलैर्हुनेत् ॥
तत्काष्टैरेधिते वह्नौ श्रेष्टं पुत्रमवाप्नुयात् ॥ ७२-२५ ॥

ससाध्यतारं विलसत्कर्णिकं च सुवर्णकैः ॥
विलसत्केसरं मन्त्राक्षरद्वन्द्वाष्टपत्रकम् ॥ ७२-२६ ॥

शेषयुग्मार्णान्त्यपत्रं द्वादशाक्षरवेष्टितम् ॥
तद्बहिर्मातृकावर्णैर्यन्त्रं सम्पत्प्रदं नृणाम् ॥ ७२-२७ ॥

रक्तं त्रिविक्रमं ध्यात्वा प्रसूनै रक्तवर्णकैः ॥
जुहुयादयुतं मन्त्री सर्वत्र विजयी भवेत् ॥ ७२-२८ ॥

ध्यायेञ्चन्द्रासनगतं पद्मानामयुतं हुनेत् ॥
लभेदकण्टकं राज्यं सर्वलक्षणसंयुतम् ॥ ७२-२९ ॥

हुत्वा लवङ्गैर्मध्वाक्तैरपामार्गदलैस्तु वा ॥
अयुतं साध्यनामाढ्यं स वश्यो जायते ध्रुवम् ॥ ७२-३0 ॥

अष्टोत्तरशतं हुत्वा ह्यपामार्गदलैः शुभैः ॥
तावज्जप्त्वा च सप्ताहान्महारोगात्प्रमुच्यते ॥ ७२-३१ ॥

उहिरत्पदमाभाष्य प्रणवोहीय शब्दतः ॥
सर्ववार्गीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथ ॥ ७२-३२ ॥

सर्ववेदमयाचिन्त्यपदान्ते सर्वमीरयेत् ॥
बोधयद्वितवान्तोऽयं मन्त्रस्तारादिरीरितः ॥ ७२-३३ ॥

ऋषिर्ब्रह्मास्य निर्दिष्टश्छन्दोऽनुष्टुबुदाहृतम् ॥
देवता स्याद्धयग्रीवो वागैश्वर्यप्रदो विभुः ॥ ७२-३४ ॥

तारेण पादैर्मन्त्रस्य पञ्चाङ्गानि प्रकल्पयेत् ॥
तुषाराद्रिसमच्छायं तुलसीदामभूषितम् ॥ ७२-३५ ॥

तुरङ्गवदनं वन्दे तुङ्गसारस्वतः पदम् ॥
ध्यात्वैवं प्रजपेन्मन्त्रमयुतं तद्दशांशतः ॥ ७२-३६ ॥

मध्वक्तैः पायसैर्हुत्वा विमलादिसमन्विते ॥
पूजयेद्वेष्णवे पीठे मूर्तिं सङ्कल्प्य मूलतः ॥ ७२-३७ ॥

कर्णिकायां चतुर्दिक्षु यजेत्पूर्वादितः क्रमात् ॥
सनन्दनं च सनकं श्रियं च पृथिवीं तथा ॥ ७२-३८ ॥

तद्वहिर्दिक्षु वेदाश्च षट्कोणेषु ततोऽर्चयेत् ॥
निरुक्तं ज्योतिषं पश्चाद्यजेद्व्याकरणं ततः ॥ ७२-३९ ॥

कल्पं शिक्षां च छन्दांसि वेदाङ्गानि त्विमानि वै ॥
ततोऽष्टदलमूले तु मातरोऽष्टौ समर्चयेत् ॥ ७२-४0 ॥

वक्रतुण्डादिकानष्टो दलमध्ये प्रपूजयेत् ॥
दलाग्रेष्यर्चयेत्पश्चात्साधकश्चाष्टभैरवान् ॥ ७२-४१ ॥

असिताङ्गं रुरुं चैव भीषणं रक्तकनेत्रकम् ॥
बटुकं कालदमनं दन्तुरं विकटं तथा ॥ ७२-४२ ॥

तद्बहिः षोडशदलेष्ववतारान्हरेर्दश ॥
शङ्खं चक्रं गदां पद्मं नन्दकं शार्ङ्गमेव च ॥ ७२-४३ ॥

तद्बहिर्भूगृहे शक्रमुखान्दश दिगीश्वरान् ॥
वज्राद्यांस्तद्बहिश्चेष्ट्वाद्वारेषु च ततः क्रमात् ॥ ७२-४४ ॥

महागणपतिं दुर्गां क्षेत्रेशं बटुकं तथा ॥
समस्तप्रकटाद्याश्च योगिन्यस्तद्बहिर्भवेत् ॥ ७२-४५ ॥

तद्बहिः सप्त नद्यश्च तद्बाह्ये तु ग्रहान्नव ॥
तद्बाह्ये पर्वतानष्टौ नक्षत्राणि च तद्बहिः ॥ ७२-४६ ॥

एवं पञ्चदशावृत्त्या सम्पूज्य तुरगाननम् ॥
वागीश्वरसमो वाचि धनैर्धनपतिर्भवेत् ॥ ७२-४७ ॥

एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ॥
अष्टोत्तरसहस्रं तु शुद्धं वार्यभिमन्त्रितम् ॥ ७२-४८ ॥

बीजेन मासमात्रं यः पिबेद्धीमान् जितेन्द्रियः ॥
जन्ममूकोऽपि स नरो वाक्सिद्धिं लभते ध्रुवम् ॥ ७२-४९ ॥

वियद्भुगुस्थमर्धीराबिन्दुमद्बीजमीरितम् ॥
चन्द्रसूर्योपरागे तु पात्रे रुक्ममये क्षिपेत् ॥ ७२-५0 ॥

दुग्धं वचां ततो मन्त्री कण्ठमात्रोदके स्थितः ॥
स्पर्शाद्विमोक्षपर्यन्तं प्रजपेन्मन्त्रमादरात् ॥ ७२-५१ ॥

पिबेत्तत्सर्वमचिरात्तस्य सारस्वतं भवेत् ॥
ज्योतिष्मतीलताबीजं दिनेष्वेकैकवर्द्धितम् ॥ ७२-५२ ॥

अष्टोत्तरशतं यावद्भक्षयेदभिमन्त्रितम् ॥
सरस्वत्यवतारोऽसौ सत्यं स्याद्भुवि मानवः ॥ ७२-५३ ॥

किं बहूक्तेन विप्रेन्द्र मनोरस्य प्रसादतः ॥
सर्ववेदागमादीनां व्याख्याता ज्ञानवान् भवेत् ॥ ७२-५४ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे तृतीयपादे हयग्रीवोपासनानिरूपणं नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥