सनत्कुमार उवाच ॥
अथ वक्ष्ये महाविष्णोर्मन्त्रान्लोकेषु दुर्लभान् ॥
यान्प्राप्य मानवास्तूर्णं प्राप्नुवन्ति निजेप्सितम् ॥ ७०-१ ॥
येषामुच्चारणेनत३ सङ्घः प०ीयते ॥
ब्रह्मादयोऽपि याञ्ज्ञात्वा समर्थाः स्युर्जगत्कृतौ ॥ ७०-२ ॥
तारहृत्पूर्वकं ङेन्तं नारायणपदं भवेत् ॥
अष्टाक्षरो मनुश्चास्य साध्यो नारायणो मुनिः ॥ ७०-३ ॥
छन्दः प्रोक्तं च गायत्री देवता विष्णुख्ययः ॥
ॐ बीजं यं च तथा शक्तिर्विनियोगोऽखिलाप्तये ॥ ७०-४ ॥
क्रुद्धोल्काय हृदाख्यातं महोल्काय शिरः स्मृतम् ॥
वीरोल्काय शिखा प्रोक्ता द्युल्काय कवचं मतम् ॥ ७०-५ ॥
महोल्कायेति चास्रं स्यादित्थं पञ्चाङ्गकल्पना ॥
पुनः षडङ्गमन्त्रोत्थैः षड्वर्णैश्च समाचरेत् ॥ ७०-६ ॥
अवशिष्टौ न्यसेत्कुक्षिपृष्टयोर्मन्त्रवर्णकौ ॥
सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः ॥ ७०-७ ॥
तारो नमश्चतुर्थ्यन्तं सुदर्शनपदं वदेत् ॥
अस्त्रायफडिति प्रोक्तो मन्त्रो द्वादशवर्णवान् ॥ ७०-८ ॥
दशावृत्तिमय न्यासं वक्ष्ये विभूतिपञ्चरम् ॥
मूलार्णान्स्वतनौ न्यस्येदाधारे हृदये मुखे ॥ ७०-९ ॥
दोःपन्मूलेषु नासायां प्रथमावृत्तिरीरिता ॥
गले नाभौ हृदि कुचपार्श्वपृष्टेषु तत्पराः ॥ ७०-१० ॥
मूर्द्धास्यनेत्रश्रवणघ्राणेषु च तृतीयकाः ॥
दोःपादसन्ध्यङ्गुलिषु वेदावृत्त्या च विन्यसेत् ॥ ७०-११ ॥
धातुप्राणेषु हृदये विन्यसेत्तदनन्तरम् ॥
शिरोनेत्रा स्यहृत्कुक्षिसोरुजङ्घापदद्वये ॥ ७०-१२ ॥
एकैकशो न्यसेद्वर्णान्मन्त्रस्य क्रमतः सुधीः ॥
न्यसेद्धृदंसोरुपदेष्वर्णान्वेदमितान्मनोः ॥ ७०-१३ ॥
चक्रशं खगदाम्भोजपदेषु स्वस्वमुद्रया ॥
शेषांश्च न्यासवर्योऽयं विभूतिपञ्जराभिधः ॥ ७०-१४ ॥
न्यसेन्मूलार्णमेकैकं सचन्द्रं तारसम्पुटम् ॥
अथवा वै नमोन्तेन न्यसेदित्यपरे जगुः ॥ ७०-१५ ॥
तत्त्वन्यासं ततः कुर्याद्धिष्णुभावप्रसिद्धये ॥
अष्टार्णोऽष्टप्रकृत्यात्मा गदितः पूर्वसूरिभिः ॥ ७०-१६ ॥
पृथिव्यादीनि भूतानि ततोऽहङ्कारमेव च ॥
महांश्च प्रकृतिश्चैवेत्यष्टौ प्रकृतयो मताः ॥ ७०-१७ ॥
पादे लिङ्गे हृदि मुखे मूर्ध्नि वक्षसि हृत्स्थले ॥
सर्वाङ्गे व्यापकं कुर्यादेकेन साधकोत्तमः ॥ ७०-१८ ॥
मन्त्रार्णहृत्परायाद्यमात्मने हृदयान्तिमम् ॥
तत्तन्नाम समुञ्चार्य्य न्यसेत्तत्तत्स्थले बुधः ॥ ७०-१९ ॥
अयं तत्त्वाभिधो न्यासः सर्वन्यासोत्तमोत्तमः ॥
मूर्तीन्यंसेद्द्वादश वै द्वादशादित्यसंयुताः ॥ ७०-२० ॥
द्वादशाक्षरवर्णाद्या द्वादशादित्यसंयुताः ॥
अष्टार्णोऽयं मनुश्चाष्टप्रकृत्यात्मा समीरितः ॥ ७०-२१ ॥
तासामात्मचतुष्कस्य योगादर्काक्षरो भवेत् ॥
ललाटकुक्षिहृत्कण्ठदक्षपार्श्वांसकेषु च ॥ ७०-२२ ॥
गले च वामपार्श्वां सगलपृष्टेष्वनन्तरम् ॥
ककुद्यपि न्यसेन्मन्त्री मूर्तीर्द्वादश वै क्रमात् ॥ ७०-२३ ॥
धात्रा तु केशवं न्यस्यार्यम्ण नारायणं पुनः ॥
मित्रेण माधवं न्यस्य गोविन्दं वरुणेन च ॥ ७०-२४ ॥
विष्णुं चैवांशुना युक्तं भगेन मधुसूदनम् ॥
न्यसेद्विवस्वता युक्तं त्रिविक्रममतः परम् ॥ ७०-२५ ॥
वामनं च तथाद्रण पूष्णा श्रीधरमेव च ॥
हृषीकेशं न्यसेत्पश्चात्पर्जन्येन समन्वितम् ॥ ७०-२६ ॥
त्वष्ट्रा युतं पद्मनाभं दामोदरं च विष्णुना ॥
द्वादसार्णं ततो मन्त्रं समस्ते शिरसि न्यसेत् ॥ ७०-२७ ॥
व्यापकं विन्यसेत्पश्चात्किरीटमनुना सुधीः ॥
ध्रुवःकिरीटकेयूरहारान्ते मकरेतिच ॥ ७०-२८ ॥
कुण्डलान्ते चक्रशङ्खगदान्तेंऽभोजहस्ततः ॥
पीताम्बरान्ते श्रीवत्सां कितवक्षः स्थलेति च ॥ ७०-२९ ॥
श्रीभूमिसहितस्वात्मज्योतिर्द्वयमतः परम् ॥
वदेद्दीप्तिकरायान्ति सहस्रादित्यतेजसे ॥ ७०-३० ॥
नमोन्तो बाणषङ्वर्णैः किरीटमनुरीरितः ॥
एवं न्यासविधिं कृत्वा ध्यायेन्नारायणं विभुम् ॥ ७०-३१ ॥
उद्यत्कोट्यर्कसदृशं शङ्खं चक्रं गदाम्बुजम् ॥
दधतं च करैर्भूमिश्रीभ्यां पार्श्वद्वयाञ्चितम् ॥ ७०-३२ ॥
श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥
हारकेयूरवलयाङ्गदं पीताम्बरं स्मरेत् ॥ ७०-३३ ॥
वर्णलक्षं जपेन्मन्त्रं विधिवन्नियतेन्द्रियः ॥
प्रथमेन तु लक्षेण स्वात्मशुद्धिर्भवेद् ध्रुवम् ॥ ७०-३४ ॥
लक्षद्वयजपेनाथ मन्त्रशुद्धिमवाप्नुयात् ॥
लक्षत्रयेण जप्तेन स्वर्लोकमधिगच्छति ॥ ७०-३५ ॥
विष्णोः समीपमाप्नोति वेदलक्षजपान्नरः ॥
तथा च निर्मलं ज्ञानं पञ्चलक्षजपाद्भवेत् ॥ ७०-३६ ॥
लक्षषष्टेन चाप्नोति मन्त्री विष्णौ स्थिरा मतिम् ॥
सप्तलक्षजपान्मन्त्री विष्णोः सारूप्यमाप्नुयात् ॥ ७०-३७ ॥
अष्टलक्षं जपेन्मन्त्री निर्वाणमधिगच्छति ॥
एवं जप्त्वा ततः प्राज्ञो दशांशं सरसीरुहैः ॥ ७०-३८ ॥
मधुराक्तैः प्रजुहुयात्संस्कृते हव्यवाहने ॥
मण्डूकात्परतत्वान्तं पीठे सम्पूज्य यत्नतः ॥ ७०-३९ ॥
विमलोत्कर्षिणी ज्ञाना क्रिया योगा ततः परा ॥
प्रह्वी सत्या तथेशाननुग्रहा नवमी मता ॥ ७०-४० ॥
तारो नमनो भगवते विष्णवे सर्वभू ततः ॥
तात्मने वासुदेवाय सर्वात्मेति पदं वदेत् ॥ ७०-४१ ॥
संयोगयोगपद्मान्ते पीठाय हृदयान्तिमः ॥
षड्विंशदक्षरः पीठमन्त्रोऽनेनासनं दिशेत् ॥ ७०-४२ ॥
मूर्तिं सङ्कल्प्य मूलेन तस्यामावाह्य पूजयेत् ॥
आदौ चाङ्गानि सम्पूज्य मन्त्राणां केशरेषु च ॥ ७०-४३ ॥
प्रागादिदिग्दले वासुदेवं सङ्कर्षणं तथा ॥
प्रद्युम्नमनिरुद्धं च शक्तीः कोणेष्वथार्चयेत् ॥ ७०-४४ ॥
शान्तिं श्रियं सरस्वत्या रतिं सम्पूजयेत्क्रमात् ॥
हेमपीततमालेन्द्रनीलाभाः पीतवाससः ॥ ७०-४५ ॥
चतुर्भुजाः शङ्खचक्रगदाम्भघोजधरा इमे ॥
सितकाञ्चनगोदुग्धदूर्वावर्णाश्च शक्तयः ॥ ७०-४६ ॥
दलाग्रेषु चक्रशङ्खगदापङ्कजकौस्तुभान् ॥
पूजयेन्मुसलं खङ्गं वनमालां यथाक्रमात् ॥ ७०-४७ ॥
रक्ताजपीतकनकश्यामकृष्णासितार्जुनान् ॥
कुङ्कुमाभं समभ्यर्च्येद्वहिरग्रे खगेश्वरम् ॥ ७०-४८ ॥
पार्श्वयोः पूजयेत्पश्चाङ्खपद्मनिधी क्रमात् ॥
मुक्तामाणिक्यसङ्काशौ पश्चिमे ध्वजमपर्चयेत् ॥ ७०-४९ ॥
रक्तं विघ्नं तथाग्नेये श्याममार्यं च राक्षसे ॥
दुर्गां श्यामां वायुकोणे सेनान्यं पीतमैश्वरे ॥ ७०-५० ॥
लोकेशा नायुधैर्युक्तान्बहिः सम्पूजयेत्सुधीः ॥
एवमावरणैर्युक्तं योऽर्चजयेद्विष्णुमव्ययम् ॥ ७०-५१ ॥
भुक्त्वेहसकलान्भोगानन्ते विष्णुपदं व्रजेत् ॥
क्षेत्रधान्यसुवर्णानां प्राप्तये धारणीं स्मरेत् ॥ ७०-५२ ॥
देवीं दूर्वादलश्यामां दधानां शालिमञ्जरीम् ॥
चिन्तयेद्भारतीं देवीं वीणापुस्तकधारिणीम् ॥ ७०-५३ ॥
दक्षिणे देवदेवस्य पूर्णचन्द्रनिभाननाम् ॥
क्षीराब्धिफेनपुञ्जाभे वसानां श्वेतवाससी ॥ ७०-५४ ॥
भारत्या सहितं यो वै ध्यायेद्द्वेवं परात्परम् ॥
वेदवेदार्थतत्त्वज्ञो जायते सर्ववित्तमः ॥ ७०-५५ ॥
नारसिंहमिवात्मानं देवं ध्यात्वातिभैरवम् ॥
शश्त्रं सम्मन्त्र्य मन्त्रेण शब्रून्हत्वा निवर्तते ॥ ७०-५६ ॥
नारसिंहेन बीजेन मन्त्रं संयोज्य साधकः ॥
शतमष्टोत्तरं जपत्वा वामहस्ताभिमन्त्रिताः ॥ ७०-५७ ॥
पुनः पुनरपः सिञ्चेत्सर्पदष्टोऽपि जीवति ॥
गारुडेन च संयोज्य पञ्चार्णेन जपेत्तदा ॥ ७०-५८ ॥
निर्विषीकरणे ध्यायेद्विष्णुं गरुडवाहनम् ॥
अशोकफलके तार्क्ष्यमालिख्याशोकसंहतौ ॥ ७०-५९ ॥
अशोकपुष्पैः सम्पूज्य भगवन्तं तदग्रतः ॥
जुहुयात्तानि पुष्पाणि त्रिसन्ध्यं सप्तपत्रकम् ॥ ७०-६० ॥
प्रत्यक्षो जायते पक्षी वरमिष्टं प्रयच्छति ॥
गाणपत्येन संयोज्य जपेल्लक्षं पयोव्रतः ॥ ७०-६१ ॥
महागणपतिं देवं प्रत्यक्षमिह पश्यति ॥
वाणिबीजेन संयुक्तं षण्मासं योजयेन्नरः ॥ ७०-६२ ॥
महाकविवरो भूत्वा मोहयेत्सकलं जगत् ॥
हुत्वा गुङ्चीशकलान्यर्द्धागुलमितानि च ॥ ७०-६३ ॥
दधिमध्वाज्ययुक्तानि मृत्युं जयति साधकः ॥
शनैश्वर दिने सम्यक् स्पृष्ट्वा श्वत्थं च पाणिना ॥ ७०-६४ ॥
जप्त्वा चाष्टशतं युद्धे ह्यपमृत्युं जयत्यसौ ॥
पञ्चविंशतिधा जप्त्वा नित्यं प्रातः पिबेज्जलम् ॥ ७०-६५ ॥
सर्वपापविनिर्मुक्तो ज्ञानवान् रोगवर्जितः ॥
कुम्भं संस्थाप्य विधिवदापूर्य शुद्धवारिणा ॥ ७०-६६ ॥
जप्त्वायुतं ततस्तेनाभिषेकः सर्वरोगनुत् ॥
चन्द्रसूर्योपरागे तु ह्युपोष्याष्टसहस्रकम् ॥ ७०-६७ ॥
स्पृष्ट्वा ब्राह्मीधृतं जप्त्वा पिबेत्साधकसत्तमः ॥
मेधां कवित्वं वाक्सिद्धिं लभते नात्र संशयः ॥ ७०-६८ ॥
जुहुयादयुतं विल्वैर्महाधनपतिर्भवेत् ॥
नारायणस्य मन्त्रोऽयं सर्वमन्त्रोत्तमोत्तमः ॥ ७०-६९ ॥
आलयः सर्वसिद्धीनां कथितस्तव नारद ॥
नारायणाय शब्दान्ते विद्महे पदमीरयेत् ॥ ७०-७० ॥
वासुदेवपदं ङेन्तं धीमहीति ततो वदेत् ॥
तन्नो विष्णुः प्रचोवर्णान्संवदेञ्चोदयादिति ॥ ७०-७१ ॥
एषोक्ता विष्णुगायत्री सर्वपापप्रणाशिनी ॥
तारो हृद्भगवान् ङेन्तो वासुदेवाय कीर्तितः ॥ ७०-७२ ॥
द्वादशार्णो महामन्त्रो भुक्तिमुक्तिप्रदायकः ॥
स्त्रीशूद्राणां वितारोऽयं सतारस्तु द्विजन्मनाम् ॥ ७०-७३ ॥
प्रजापतिर्मुनिश्चास्य गायत्री छन्द ईरितः ॥
देवता वासुदेवस्तु बीजं शक्तिर्ध्रुवश्च हृत् ॥ ७०-७४ ॥
चन्द्राक्षिवेदपञ्चर्णैः समस्तेनाङ्गकल्पनम् ॥
मूर्ध्नि भाले दृशोरास्ये गले दोर्हृदये पुनः ॥ ७०-७५ ॥
कुक्षौ नाभौ ध्वजे जानुद्वये पादद्वये तथा ॥
न्यासेत्क्रमान् मन्त्रवर्णान्सृष्टिन्यासोऽयमीरितः ॥ ७०-७६ ॥
हृदादिमस्तकान्तं तु स्थितिन्यासं प्रचक्षते ॥
पादादारभ्य मूर्द्धानं न्यासं संहारकं विदुः ॥ ७०-७७ ॥
तत्त्वन्यासं ततः कुर्यात्सर्वतन्त्रेषु गोपितम् ॥
बीवं प्राणं तथा चित्तं हृत्पद्मं सूर्यमण्डलम् ॥ ७०-७८ ॥
चन्द्राग्निमण्डले चैव वासुदेवं ततः परम् ॥
सङ्कर्षणं च प्रद्युम्नमनिरुद्धं ततः परम् ॥ ७०-७९ ॥
नारायणं चक्रमतस्तत्त्वानि द्वादशैव तु ॥
मूलार्णहृत्परायाद्यमात्मने हृदयान्तिमम् ॥ ७०-८० ॥
तत्त्वे नाम समुञ्चर्य्य न्यसेन्मूर्द्धादिषु क्रमात् ॥
पूर्वोक्तं ध्यानमत्रापि भानुलक्षजपो मनोः ॥ ७०-८१ ॥
तदृशांशं तिलैराज्यलोलितैर्हवनं चरेत् ॥
पीठे पूर्वोदिते मन्त्री मूर्ति सङ्कल्प्य मूलतः ॥ ७०-८२ ॥
तस्यामावाह्य देवेशं वासुदेवं प्रपूजयेत् ॥
अङ्गानि पूर्वमभ्यर्च्य वासुदेवादिकास्ततः ॥ ७०-८३ ॥
शान्त्यादिशक्तयः पूज्याः प्राग्वद्दिक्षु विदिक्षु च ॥
तृतीयावरणे पूज्याः प्रोक्ता द्वादश मूर्तयः ॥ ७०-८४ ॥
इन्द्राद्यानायुधैर्युक्तान् पूजयेद्धरणीगृहे ॥
एवमावरणैरिष्ट्वा पञ्चभिर्विष्णुमव्ययम् ॥ ७०-८५ ॥
प्राप्नुयात्सकलानर्थानन्ते विष्णुपदे व्रजेत् ॥
पुरुषोत्तमसञ्ज्ञस्य विष्णोर्भेदचतुष्टयम् ॥ ७०-८६ ॥
त्रैलोक्यमोहनस्तेषां प्रथमः परिकीर्तितः ॥
श्रीकरश्च हृषीकेशः कृषअणश्चात्र चतुर्थकः ॥ ७०-८७ ॥
तारः कामो रमा पश्चान् ङेन्तः स्यात्पुरुषोत्तमः ॥
वर्मास्त्राण्यग्निप्रियान्तो मन्त्रो वह्नीन्दुवर्णवान् ॥ ७०-८८ ॥
ब्रह्मा मुनिः स्याद्गायत्री छन्दः प्रोक्तोऽथ देवता ॥
पुरुषोत्तमसञ्ज्ञोऽत्र बीजशक्तीस्मरन्दिरे ॥ ७०-८९ ॥
भूचन्द्रैकरसाक्ष्यक्षिमन्त्रवर्णोर्विभागतः ॥
कृत्वाङ्गानि ततो ध्यायेद्विधिवत्पुरुषोत्तमम् ॥ ७०-९० ॥
समुद्यदादित्यनिभं शङ्खचक्रगदाम्बुजैः ॥
लसत्करं पीतवस्रं स्मरेच्छ्रीपुरुषोत्तमम् ॥ ७०-९१ ॥
महारत्नौघखचितस्फुरत्तोरणमण्डपे ॥
मौक्तिकौघशमदमविराजितवितानके ॥ ७०-९२ ॥
नृत्यद्देवाङ्गनावृन्दक्वणात्किङ्किणिनूपुरे ॥
लसन्माणिक्यवेद्यां तु दीत्पार्कायुततेजसि ॥ ७०-९३ ॥
वृन्दारकव्रातकिरीटाग्ररत्नाभिचर्चिते ॥
नवलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥ ७०-९४ ॥
उत्फुल्लैः कमलैः पीठे पूर्वोक्ते वैष्णवेऽर्चयेत् ॥
एवमाराध्य देवेशं प्राप्नोति महतीं श्रियम् ॥ ७०-९५ ॥
पुत्रान्पौत्रान्यशः कान्तिं भुक्तिं मुक्तिं च विन्दति ॥
उत्तिष्टेति पदं पश्चाच्छ्रीकराग्निप्रियान्तिमः ॥ ७०-९६ ॥
अष्टार्णोऽस्य मुनिर्व्यासः पङ्क्तिश्छन्द उदाहृतम् ॥
श्रीकाराख्यो हरिः प्रोक्तो देवता सकलेष्टदः ॥ ७०-९७ ॥
भीषयद्वितयं हृत्स्यात् त्रासयद्वितयं शिरः ॥
शिखा प्रमर्द्दयद्वन्द्वं वर्म प्रध्वंसयद्वयम् ॥ ७०-९८ ॥
अस्रं रक्षद्वयं सर्वे हुमन्ताः समुदीरिताः ॥
मस्तके नेत्रयोः कण्ठहृदये नाभिदेशके ॥ ७०-९९ ॥
ऊरूजङ्घांयुग्मेषु मन्त्रवर्णान्क्रमान्न्यतसेत् ॥
ततः पुरुषसूक्तोक्तमन्त्रैर्न्यासं समाचरेत् ॥ ७०-१०० ॥
मुखे न्यसेद्ब्राह्मणोऽस्य मुखमासीदिमं मनुम् ॥
बाहुयुग्मे तथा बाहूंराजन्य इति विन्यसेत् ॥ ७०-१०१ ॥
ऊरू तदस्य यद्वैश्य इममूरुद्वये न्यसेत् ॥
न्यसेत्पादद्वये मन्त्री पद्भ्यां शूद्रो अजायत ॥ ७०-१०२ ॥
चक्रं शङ्खं गदां पद्मं कराग्रेष्वथ विन्यसेत् ॥
एवं न्यासविधिं कृत्वा ध्यायेत्पूर्वोक्तमण्डपे ॥ ७०-१०३ ॥
अरुणाब्जासनस्थस्य तार्क्ष्यस्योपरि संस्थितम् ॥
पूर्वोक्तरूपिणं देवं श्रीकरं लोकमोहनम् ॥ ७०-१०४ ॥
ध्यात्वैवं पूजयेदष्टलक्षं मन्त्री दशांशतः ॥
रक्ताम्बुजैः समिद्भिश्च विल्वक्षीरिद्रुमोद्भवैः ॥ ७०-१०५ ॥
पयोऽन्नैः सर्पिषा हुत्वा प्रत्येकं सुसमाहितः ॥
अश्वत्थोदुम्बरप्लक्षवटाः क्षीरिद्रुमाः स्मृता ॥ ७०-१०६ ॥
पूजयेद्वैष्णवे पीठे मूर्तिं सङ्कल्प्य मूलतः ॥
अङ्गावरणदिक्पालहेतिभिः सहितं विभुम् ॥ ७०-१०७ ॥
इत्थं सिद्धे मनौ मत्री प्रयोगान्पूर्ववञ्चरेत् ॥
तारो हृद्भगवान् ङेन्तो वराहेति ततः परम् ॥ ७०-१०८ ॥
रूपाय भूर्भुवः स्वः स्याल्लोहितकामिका च ये ॥
भूपतित्वं च मे देहि ददापय शुचिप्रिया ॥ ७०-१०९ ॥
रामाग्निवर्णो मन्त्रोऽयं भार्गवोऽस्य मुनिर्मतः ॥
छन्दोऽनुष्टुब्देवतादिवराहः समुदीरितः ॥ ७०-११० ॥
एकदंष्ट्राय हृदयं व्योमोल्कायग शिरः स्मृतम् ॥
शिखा तेजोऽधिपतये विश्वरूपाय वर्म च ॥ ७०-१११ ॥
महादंष्ट्राय चास्त्रं स्यात्पञ्चाङ्गमिति कल्पयेत् ॥
अथवा गिरिषट्सप्तबाणैर्वसुभिरक्षरैः ॥ ७०-११२ ॥
विभक्तैर्मन्त्रवर्यस्य पञ्चागान्नि प्रकल्पयेत् ॥
ततौ ध्यायेदनेकार्कनिभमादिवराहकम् ॥ ७०-११३ ॥
आं ह्रीं स्वर्णनिभं जान्वोरधो नाभेः सितप्रभम् ॥
इष्टाभीतिगदाशङ्खचक्रशक्त्यसिखेटकान् ॥ ७०-११४ ॥
दधतं च करैर्दंष्ट्राग्रलसद्धरणिं स्मरेत् ॥
एवं ध्यात्वा जपेल्लक्षं दशांशं सरसीरुहैः ॥ ७०-११५ ॥
मध्वक्तैर्जुहयात्पीठे पूर्वोक्ते वैष्णवे यजेत् ॥
मूलेन मूर्तिं सङ्कल्प्य तस्यां सम्पूजयेद्विभुम् ॥ ७०-११६ ॥
अङ्गावरणदिक्पालहेतियन्त्रप्रसिद्धये ॥
जपादेवावर्नि दद्याद्धनं धान्यं महीं श्रियम् ॥ ७०-११७ ॥
सिंहार्के सितपक्षस्याष्टम्यां गव्येषु पञ्चसु ॥
शिलां शुद्धां विनिक्षिप्य स्पृष्ट्वा तामयुतं जपेत् ॥ ७०-११८ ॥
उदङ्मुखस्वतो मन्त्री तां शिलां लिखनेद्भुवि ॥
भूतप्रेताहिचौरादिकृतां बाधां निवारयेत् ॥ ७०-११९ ॥
प्रातर्भृगुदिने साध्यभूतलान्मृदमाहरेत् ॥
मन्त्रितां मूलमन्त्रेण विभजेत्तां त्रिधा पुनः ॥ ७०-१२० ॥
चुल्ल्यामेकं समालिप्याप्यपरं पाकभाजने ॥
गोदुग्धे परमालोड्य शोधितांस्तन्दुलान् क्षिपेत् ॥ ७०-१२१ ॥
सम्यक् शुद्धे शुचिः केशे जपन्मन्त्रं पचेञ्चरुम् ॥
अवतार्य चरुं पश्चाद्वह्नौ देयं यथाविधि ॥ ७०-१२२ ॥
सम्पूज्य धूपदीपाद्यैः पश्चादाज्यप्लुतं चरुम् ॥
जुहुयात्संस्कृते वह्नौ अष्टोत्तरशतं सुधीः ॥ ७०-१२३ ॥
एवं प्रजुहुयान्मन्त्री कविवारेषु सप्तसु ॥
विरोधो नश्यति क्षेत्रे शत्रुचौराद्युपद्रवाः ॥ ७०-१२४ ॥
भानूदयेप्यारवारे साध्यक्षेत्रान्मृदं पुनः ॥
आदाय पूर्वविधिना हविरापाद्य पूर्ववत् ॥ ७०-१२५ ॥
जुहुयादेधिते वह्नौ पूर्वसङ्ख्याकमादरात् ॥
एवं स सप्तारवारेषु जुहुयात्क्षेत्रसिद्धये ॥ ७०-१२६ ॥
जुहुयाल्लक्षसङ्ख्याकं गव्यै श्चैव सपायसैः ॥
अभीष्टभूम्याधिपत्यं लभते नात्र संशयः ॥ ७०-१२७ ॥
उद्यद्दोः परिधं दिव्यं सितदंष्ट्राग्रभूधरम् ॥
स्वर्णाभं पार्थिवे पीते मण्डले सुसमाहितः ॥ ७०-१२८ ॥
ध्यात्वाप्नोति महीं रम्यां वराहस्य प्रसादतः ॥
वारुणे मण्डले ध्यायेद्वाराहं हिमसन्निभघम् ॥ ७०-१२९ ॥
महोपद्रवशान्तिः स्यात्साधकस्य न संशयः ॥
वश्यार्थं च सदा ध्यायेद्वह्र्याभं वह्निमण्डे ॥ ७०-१३० ॥
ध्यायेदेवं रिपूञ्चाटे कृष्णाभं वायुमण्डले ॥
ह्यमण्डलगतं स्वच्छं वाराहं सर्वसिद्धिदम् ॥ ७०-१३१ ॥
शत्रुभूतग्रहक्ष्वेडामयपीडादिशान्तये ॥
भग्वर्धीशयुतं व्योमबिन्दुभूषितमस्तकम् ॥ ७०-१३२ ॥
एकाक्षरो वराहस्य मन्त्रः कल्पद्रुमोऽपरः ॥
पूजाद्यार्ध्यादिकं सर्वमस्यां पूर्वोक्तवञ्चरेत् ॥ ७०-१३३ ॥
सवामकर्णानिद्रास्याद्वराहाय हृदन्तिमः ॥
ताराद्यो वसुवर्णोऽयं सर्वैश्वर्यप्रदायकः ॥ ७०-१३४ ॥
ब्रह्मा मुनिः स्याद्गायत्री छन्दो वाराहसञ्ज्ञकः ॥
देवश्चन्द्रेन्द्वब्धिनेत्रैः सवेणाङ्गक्रिया मता ॥ ७०-१३५ ॥
ध्यानपूजाप्रयोगादि प्राग्वदस्यापि कल्पयेत् ॥
प्रणवादौ च ङेन्तं च भगवतीति पदं ततः ॥
धरणिद्वितयं पश्चाद्धरेर्द्वयमुदीरयेत् ॥ ७०-१३६ ॥
एकोनविंशत्यर्णाढ्यो मन्त्रो वह्निप्रियान्तिमः ॥
वराहोऽस्य मुनिश्छन्दो गायत्री निवृदादिका ॥ ७०-१३७ ॥
देवता धरणी बीजं तारःशक्तिर्वसुप्रिया ॥
रामवेदाग्निबाणाक्षिनेत्रार्णैरङ्गरकल्पनम् ॥ ७०-१३८ ॥
श्यामां चित्रविभूषाढ्यां पद्मस्थां तुङ्गसुस्तनीम् ॥
नीलाम्बुजद्वयं शालिमञ्जरीं च शुक्रं करैः ॥ ७०-१३९ ॥
दधतीं चित्रवसनां धरां भगवतीं स्मरेत् ॥
एवं ध्यात्वा जपेल्लक्षं दशांशं पायसेन तु ॥ ७०-१४० ॥
साज्येन जुहुयान्मन्त्री विष्णोः पीठे समर्चयेत् ॥
मूर्तिं सङ्कल्प्य मूलेन तस्यां वसुमतीं यजेत् ॥ ७०-१४१ ॥
अङ्गानि पूर्वमाराध्य भूवह्निजलमारुतान् ॥
दिक्पात्रेषु च सम्पूज्य कोणपत्रेषु तत्कलाः ॥ ७०-१४२ ॥
निवृत्तिश्च प्रतिष्टा च विद्यानां तैश्च तत्कलाः ॥
इन्द्राद्यानपि वञ्चादीन्पूजयेत्तदनन्तरम् ॥ ७०-१४३ ॥
एवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः ॥
धरणी प्रभजन्नेवं पशुरत्नाम्बरादिभिः ॥ ७०-१४४ ॥
धरम्या वल्लभः स स्यात्सुखी जीवेच्छतं समा ॥
त्रैलोक्यमोहनो मन्त्रो जगन्नाथस्य कीर्त्यते ॥ ७०-१४५ ॥
तारः कामो रमा बीजं हृदन्ते पुरुषोत्तमः ॥
श्रीकण्ठः प्रतिरूपान्ते लक्ष्मीति च निवासि च ॥ ७०-१४६ ॥
सकलान्ते जगत्पश्चात्क्षोभणेति पदं वदेत् ॥
सर्वस्त्रीहृदयान्ते तु विदारणपदं वदेत् ॥ ७०-१४७ ॥
ततस्त्रिभुवनान्तं तु मदोन्मादकरेति च ॥
सुरासुरान्ते मनुजसुन्दरीजनवर्णतः ॥ ७०-१४८ ॥
मनांसि तापयद्वन्द्वं दीपयद्वितयं ततः ॥
शोषयद्वितयं पश्चान्मारयद्वितयं ततः ॥ ७०-१४९ ॥
स्तम्भयद्वितयं भूयो मोहयद्वितय ततः ॥
द्रावयद्वितयं तावदाकर्षययुगं ततः ॥ ७०-१५० ॥
समस्तपरमो येन सुभगेन च संयुतम् ॥
सर्वसौभाग्यशब्दान्ते करसर्वपदं वदेत् ॥ ७0-१५१ ॥
कामप्रदादमुन्ब्रह्मासेन्दुर्हनुयुगं ततः ॥
चक्रेण गदया पश्चात्खङ्गेन तदनन्तरम् ॥ ७0-१५२ ॥
सर्वबाणैर्भेदियुगं पाशेनान्ते कटद्वयम् ॥
अङ्कुशेनेति सम्प्रोच्य ताडयद्वितयं पुनः ॥ ७0-१५३ ॥
कुरुशब्दद्वयमथो किं तिष्टसि पदं वदेत् ॥
तावद्यावत्पदस्यान्ते समाहितमनन्तरम् ॥
ततो मे सिद्धिराभास्य भवमन्ते च वर्म फट् ॥ ७0-१५४ ॥
हृदन्तोऽयं महामन्त्रो द्विशतार्णः समीरितः ॥
जैमिनिर्मुनिरस्योक्तश्छन्दश्चामितमीरितम् ॥ ७0-१५५ ॥
देवता जगतां मोहे जगन्नाथः प्रकीर्तितः ॥
कामो बीजं रमा शक्तिर्विनियोगो।खिलाप्तये ॥ ७0-१५६ ॥
पुरुषोत्तमत्रिभुवनोन्मादकान्तेऽग्निवर्म च ॥
हृदयं कीर्तितं पश्चाज्जगत्क्षोभणशब्दतः ॥ ७0-१५७ ॥
लक्ष्मीदयितवर्मान्तः शिरः प्रोक्तं शिखा पुनः ॥
मन्मथो तमशब्दान्ते मङ्गजे पदमीरयेत् ॥ ७0-१५८ ॥
कामदायेति हुं प्रोच्य न्यसेद्वम ततः परम् ॥
परमान्ते भृगुकर्णाभ्यां च सर्वपदं ततः ॥ ७0-१५९ ॥
सौभाग्यकरवर्मान्ते कवचं पारिकीर्तितम् ॥
सुरासुरान्ते मनुजसुन्दरीति पदं वदेत् ॥ ७0-१६0 ॥
हृदयान्ते विदा पश्चाद्रणसर्वपदं वदेत् ॥
ततः प्रहरणधरसर्वकामुकतत्पदम् ॥ ७0-१६१ ॥
हनयुग्मं च हृदयं बन्धनानि ततो वदेत् ॥
आकर्षयद्वयं पश्चान्महाबलपदं ततः ॥ ७0-१६२ ॥
वर्म चास्त्रं समाख्यातं नेत्रं स्यात्तदनन्तरम् ॥
वदेत्रिभुवनं पश्चाच्चर सर्वजनेति च ॥ ७0-१६३ ॥
मनांसि हरयुग्मान्ते दारयद्वितयं च मे ॥
वशमानय वर्मान्ते नेत्रमन्त्रः समीरितः ॥ ७0-१६४ ॥
षडङ्गमन्त्रास्ताराद्याः फट्नमोन्ताः प्रकीर्तिताः ॥
तारस्त्रैलोक्यशब्दान्ते मोहनेति पदं वदेत् ॥ ७0-१६५ ॥
हृषीकेशेति सम्प्रोच्याप्रतिरूपादिशब्दतः ॥
मम्नथानन्तरं सर्वस्त्रीणां हृदयमीरयेत् ॥ ७0-१६६ ॥
आकर्षणपदा गच्छदागच्छहृदयान्तिमः ॥
अनेन व्यापकं कृत्वा जगन्नाथं स्मरेत् सुधीः ॥ ७0-१६७ ॥
क्षीराब्धेस्तु तटे रम्यं सुरद्रुमलताञ्चितम् ॥
उद्यदर्काभुजालाभं स्वधाम्नोज्वालदिङ्मुखम् ॥ ७0-१६८ ॥
प्रसूनावलिसौरभ्यमाद्यन्मधुकरारवम् ॥
दिव्यवातोञ्चलत्कञ्जपरागोद्धूलिताम्बरम् ॥ ७0-१६९ ॥
स्वर्वधूगीतमाधुर्याभिराम चिन्तयेद्वनम् ॥
तदन्तर्मणिसम्पत्तिस्फुरत्तोरणमण्डपे ॥ ७0-१७0 ॥
विलसन्मौक्तिकोद्दामदामराजद्वितानके ॥
मणिवेद्यादि वियत्किरीटाग्रसमर्चिते ॥ ७0-१७१ ॥
दिव्यसिंहासने विप्र समासीनं स्मरेद्विभुम् ॥
शङ्खपाशेषु चापानि मुसलं नन्दकं गदाम् ॥ ७0-१७२ ॥
अङ्कुशं दधतं दोर्भिः श्लिष्टे कमलयोरसि ॥
पश्यत्यङ्कस्थयाम्भोजश्रिया रागोल्लसदृशा ॥ ७0-१७३ ॥
ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ॥
कुण्डेऽर्द्धचन्द्रे पद्मैर्वा जातीपुष्पैश्च होमयेत् ॥ ७0-१७४ ॥
यागभूमिं तथात्मानं यागोपकरणं तथा ॥
पूजयिष्यन् जगन्नाथं गायत्र्या प्रोक्षयेद्वुधः ॥ ७0-१७५ ॥
त्रैलोक्यमोहनायान्ते विद्महे पदमीरयेत् ॥
स्मराय धीमहीत्युक्त्वा तन्नो विष्णुः प्रचोदयात् ॥ ७0-१७६ ॥
गायत्र्येषा समाख्याता सर्वशुद्धिकरी परा ॥
कल्पयेदासनं पीठे पूर्वोक्ते वैष्णवे सुधीः ॥ ७0-१७७ ॥
पक्षिराजाय ठद्वन्द्वं पीठमन्त्रोऽयमीरितः ॥
मूर्तिं सङ्कल्पमूलेन तस्यामावाहयेदतः ॥ ७0-१७८ ॥
व्यापकन्यासमन्त्रेण ततः सम्पूज्य भक्तितः ॥
श्रीवत्सहृदयं तेन श्रीवत्सं स्तनयोर्यजेत् ॥ ७0-१७९ ॥
कौस्तुभाय हृदन्तेन यजेद्वक्षसि कौस्तुभम् ॥
पूजयेद्वनमालायै हृदन्तेन गले च ताम् ॥ ७0-१८0 ॥
कर्णिकायां ततोऽभ्यर्चयेद्विधिवञ्चाङ्गदेवताः ॥
दलेषु पूजयेत्पश्चाल्लक्ष्म्याद्यावृत्तचामराः ॥ ७0-१८१ ॥
बन्धूककुसुमाभासाःमुक्ताहारलसत्कुचाः ॥
उत्फुल्लाम्भघोजनयना मदविभ्रममन्थराः ॥ ७0-१८२ ॥
लक्ष्मी सरस्वती चैव धृतिः प्रीतिस्ततः परम् ॥
कान्तिः शान्तिस्तुष्टिपुष्टिबीजाद्या ङेनमोन्तिकाः ॥ ७0-१८३ ॥
भृगुः खड्राशचन्द्राढ्यो देव्या बीजमुदाहृतम् ॥
ह्रस्वत्रयक्लीबसर्वरहितस्वरसंयुतम् ॥ ७0-१८४ ॥
देव्या बीजं क्रमादासामादौ च विनियोजयेत् ॥
दलाग्रेषु यजेच्छङ्खं शार्ङ्गं चक्रमसिं गदाम् ॥ ७0-१८५ ॥
अङ्कुशं मुसलं पाशं स्वमुद्रामनुभिः पृथक् ॥
महाजलचरा यान्ते वर्मास्त्रं वह्निवल्लभा ॥ ७0-१८६ ॥
पाञ्चजन्या प्रताराद्यो नमोन्तः शङ्खपूजने ॥
शार्ङ्गाय सशयान्ते च वर्मास्त्रं वह्निवल्लभा ॥ ७0-१८७ ॥
शार्ङ्गाय हृदयं मन्त्रो महाद्यः शार्ङ्गपूजने ॥
सुदर्शनमहान्ते तु चक्रराजपदं वदेत् ॥ ७0-१८८ ॥
हययुग्मं सर्वदुष्टभयमन्ते कुरुद्वयम् ॥
छिन्धिद्वयं ततः पश्चाद्विदारययुगं ततः ॥ ७0-१८९ ॥
परमन्त्रान् ग्रसद्वन्द्वं भक्षयद्वितयं पुनः ॥
भूकानि त्रासयद्वन्द्वं वर्मफड्वह्निसुन्दरी ॥ ७0-१९0 ॥
सुदर्शनाय हृदयं प्रोक्तश्चक्रर्चने मनुः ॥
महाखङ्गतीक्ष्णपदाच्छिवियुग्मं समीरयेत् ॥ ७0-१९१ ॥
हुं फट् स्वाहा च खङ्गाय नमः खङ्गार्चने मनुः ॥
महाकौमोदकीत्यन्ते वदेञ्चैव महाबले ॥ ७0-१९२ ॥
सर्वासुरान्तके पश्चात्प्रसीदयुगलेति च ॥
वर्मास्त्रवह्निजायान्तकौमोदकि हृक्षतिमः ॥ ७0-१९३ ॥
कौमोदक्यर्चने प्रोक्तो मन्त्रः सर्वार्थसाधकः ॥
महाङ्कुशपदात्कुट्चयुग्मं हुम्फट्वसुप्रिया ॥ ७0-१९४ ॥
अङ्कुशाय नमः प्रोक्तो मन्त्रग्रौवाकुशर्चने ॥
संवर्तकमहान्ते तु मुसलेति पदं वदेत् ॥ ७0-१९५ ॥
योधयद्वितयं वर्म फडन्ते वह्निसुन्दरी ॥
मुसलाय नमः प्रोक्तो मन्त्रो सुसलपूजने ॥ ७0-१९६ ॥
महापाश हदादघटयमाकर्षयद्वयम् ॥
हुं फटे स्वाहा च पाशाय नमः पाशार्चने मनुः ॥ ७0-१९७ ॥
ताराद्या मनवो ह्येते ततः शक्रादिकान्यजेत् ॥ ७0-१९८ ॥
वज्राद्यानपि सम्पूज्य सर्वसिद्धीश्वरो भवेत् ॥
मासमात्रं तु कुसुमैः पूजयित्वा हयारिजैः ॥ ७0-१९९ ॥
कुमुदैर्वा प्रजुहुयादष्टोत्तरसहस्रकम् ॥
मासमात्रेण वश्यास्स्युस्तस्य सर्वे नृपोत्तमाः ॥ ७0-२00 ॥
यस्य नाम युतं मन्त्रं जपेदयुतसङ्ख्यया ॥
स भवेद्दासवत्सद्यो मन्त्रस्यास्य प्रभावतः । ७0-२0१ ॥
बहुना किमिहोक्तेन मनुनानेन साधकः ॥
साधयेत्सकलान्कामान्विष्णुतुल्यो न संशयः ॥ ७0-२0२ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सप्ततितमोऽध्यायः ॥