श्रीसनत्कुमार उवाच ॥
अथ वक्ष्ये गणेशस्य मन्त्रान्सर्वेष्टदायकान् ॥
यान्समाराध्य विप्रेन्द्र साधको भुक्तिमुक्तिमान् ॥ ६८-१ ॥
अव्ययो विष्णुवनिता शम्भुस्त्री मीनकेतनः ॥
स्मृतिर्मांसेन्दुमन्वाढ्या सा पुनश्चन्द्रशेखरा ॥ ६८-२ ॥
ङेतो गणपतिस्तोयं भुजङ्गो वरदेति च ॥
सर्वान्ते जनमुञ्चार्य ततो मे वशमानय ॥ ६८-३ ॥
वह्निः प्रियान्तो मन्त्रोऽयष्टाविंशतिवर्णवान् ॥
गणकोऽस्य मुनिश्छन्दो गायत्री वियुदादिका ॥ ६८-४ ॥
गणेशो देवता बीजं षष्टशक्तिस्तदादिका ॥
श्रीमन्महागणपतिप्रीतये विनियोगकः ॥ ६८-५ ॥
ऋषिं शिरसि वक्रे तु छन्दश्च हृदि देवताम् ॥
गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः ॥ ६८-६ ॥
षड्दीर्घाढ्येन बीजेन यं च बीजादिना पुनः ॥
षङङ्गानि न्यसेदस्य जातियुक्तानि मन्त्रवित् ॥ ६८-७ ॥
शैवी षडङ्गमुद्राय न्यस्तव्या हि षडङ्गके ॥
गामाद्यं चैव भूर्लोकं नाभ्यन्तं पादयोर्न्यसेत् ॥ ६८-८ ॥
गीमाद्यं च भुवर्लोकं कण्ठान्तं नाभितो न्यसेत् ॥
स्वर्लोकं चैव गूमाद्यं कण्ठदिमस्तकावधि ॥ ६८-९ ॥
व्यापकं मूलमन्त्रेण न्यासोऽयं भुवनाभिधः ॥
मूलमन्त्रं समुञ्चार्य मातृकावर्णमीरयेत् ॥ ६८-१० ॥
तदन्तेऽपि च मूलं स्यान्नमोंऽतं मातृकास्थले ॥
क्षान्तं विन्यस्य मूलेन व्यापकं रचयेत्सुधीः ॥ ६८-११ ॥
वर्णन्या सोऽयमाख्यातः पदन्यासस्तथोच्यते ॥
पञ्चत्रिबाणवह्नीन्दुचन्द्राक्षिनिगमैः क्रमात् ॥ ६८-१२ ॥
विभक्तैर्मूलगायत्र्या हृदन्तैरष्टभिः पदैः ॥
भालदेशे मुखे कण्ठे हृदि नाभ्यूरुजानुषु ॥ ६८-१३ ॥
पादयोश्चैव विन्यस्य मूलने व्यापकं चरेत् ॥
वदेत्तत्पुरुषायान्ते विद्महेति पदं ततः ॥ ६८-१४ ॥
वक्रतुण्डाय शब्दान्ते धीमहीति समीरयेत् ॥
तन्नो दन्तिः प्रचोवर्णा दयादिति वदेत्पुनः ॥ ६८-१५ ॥
एषोक्ता मूलगायत्री सर्वसिद्धिप्रदायिनी ॥
एवं न्यासविधिं कृत्वा ध्यायेदेवं हृदम्बुजे ॥ ६८-१६ ॥
उद्यन्मार्तण्डसदृशं लोकस्थित्यन्तकारणम् ॥
सशक्तिकं भूषिताङ्गं दन्त चक्राद्युदायुधम् ॥ ६८-१७ ॥
एवं ध्यात्वा चतुश्चत्वारिंशत्साहस्रसंयुतम् ॥
चतुर्लक्षं जपेन्मन्त्रं अष्टद्रव्यैर्दशांशतः ॥ ६८-१८ ॥
जुहुयाद्विधिवन्मन्त्री संस्कृते हव्यवाहने ॥
इक्षवः सक्तवो मोचाफलानि चिपिटास्तिलाः ॥ ६८-१९ ॥
मोदका नारिकेलानि लाजा द्रव्याष्टकं स्मृतम् ॥
पीठमाधारशक्त्यादिपरतत्वान्तमर्चयेत् ॥ ६८-२० ॥
षट्कोणान्तस्त्रिकोणं च बहिरष्टदलं लिखेत् ॥
भूपुरं तद्बहिः कृत्वा गमेशं तत्र पूजयेत् ॥ ६८-२१ ॥
तीव्राख्या ज्वालिनी नन्दा भोगदा कामरूपाणी ॥
अग्रा तेजोवती सत्या नवमी विध्ननाशिनी ॥ ६८-२२ ॥
सर्वादिशक्तिकमलासनाय हृदयान्तिकः ॥
पीठमन्त्रोऽयमेतेन दद्यादासनमुत्तमम् ॥ ६८-२३ ॥
तत्रावाह्य गणाधीशं मध्ये सम्पूज्य यत्नतः ॥
विकोणबाह्ये पूर्वादिचतुर्दिक्ष्वर्चयेत्क्रमात् ॥ ६८-२४ ॥
श्रियं श्रियः पतिं चैव गौरीं गौरी पतिं तथा ॥
रतिं रतिपतिं पाश्चान्महीपूर्व च पोत्रिणम् ॥ ६८-२५ ॥
क्रमादिल्ववटाश्वत्थप्रियगूनामधोऽर्चयेत् ॥
रमा पद्मद्वयकरा शङ्खचक्रधरो हरिः ॥ ६८-२६ ॥
गौरी पाशाङ्कुशधरा टङ्कशूलधरो हरः ॥
रतिः पद्मकरा पुष्पबाणचापधरः स्मरः ॥ ६८-२७ ॥
शूकव्रीह्यग्रहस्ता भूः पोत्री चक्रगदाधरः ॥
देवाग्रे पूजयेल्लक्ष्मीसहितं तु विनायकम् ॥ ६८-२८ ॥
पूजयेत्षट्सु कोणेषु ह्यामोदाद्यान्प्रियायुतान् ॥
आमोदं सिद्धिसंयुक्तमग्रतः परिपूजयेत् ॥ ६८-२९ ॥
प्रमोदं चाग्निकोणे तु समृद्धिसहितं यजेत् ॥
ईशकोणे यजेत्कीर्तिसंयुतं सुमुखं तथा ॥ ६८-३० ॥
वारुणे मदनावत्या संयुतं दुर्मुखं यजेत् ॥
यजेन्नैर्ऋत्यकोणे तु विघ्नं मदद्रवायुतम् ॥ ६८-३१ ॥
द्राविण्या विघ्नकर्तारं वायुकोणे समर्चयेत् ॥
पाशाङ्कुशाभयकरांस्तरुणार्कसमप्रभान् ॥ ६८-३२ ॥
कपोलविगलद्दानगन्धलुब्धा लिशोभितान् ॥
षट्कोणोभयपार्श्वे तु शङ्खपद्मनिभौ क्रमात् ॥ ६८-३३ ॥
सहितौ निजशक्तिभ्यां ध्यात्वा पूर्ववदर्चयेत् ॥
केशरेषु षडङ्गानि पत्रेष्वष्टौ तु मातरः ॥ ६८-३४ ॥
इन्द्राद्यानपि वज्ज्रादीन्पूजयेद्धरणीगृहे ॥
एवमाराध्य विघ्नेशं साधयेत्स्वमनोरथान् ॥ ६८-३५ ॥
चतुश्चत्वारिंशताढ्यं चतुः शतमतन्द्रितः ॥
तर्पयेदम्बुभिः शुद्धैर्गजास्यं दिनशः सुधीः ॥ ६८-३६ ॥
पद्मैस्तु वशयेद्भूपांस्तत्पत्नीश्चोत्पलैस्तथा ॥
कुमुदैर्मन्त्रिणोऽश्वत्थसमिद्भिर्वाडवाञ्शुभैः ॥। ६८-३७ ॥
उदुम्म्बरोत्थैर्नृपतीन्वैश्यान्प्लक्षसमुद्भवैः ॥
वटोद्भवैः समिद्भिश्च वशयेदन्तिमान्बुधः ॥ ६८-३८ ॥
आज्येन श्रियमाप्नोति स्वर्णाप्तिर्मधुना भवेत् ॥
गोदुग्धेन गवां लाभो दध्ना सर्वसमृद्धिमान् ॥ ६८-३९ ॥
अन्नाप्तिरन्नहोमेन समिद्भिर्वेतसां जलम् ॥
वासांसि लभते हुत्वा कुसुम्भकुसुमैः शुभैः ॥ ६८-४० ॥
अथ सर्वेष्टदं वक्ष्ये चतुरावृत्तितर्पणम् ॥
मूलेनादौ चतुर्वारं प्रत्येकं च प्रतर्पयेत् ॥ ६८-४१ ॥
पूर्वमन्त्राक्षरैर्मन्त्रैः स्वाहान्तैश्च चतुश्चतुः ॥
मूलमन्त्रैश्चतुर्वारपूर्वकं सम्प्रतर्प्य च ॥ ६८-४२ ॥
मिथुनादींस्ततः पश्चात्पूर्ववत्सम्प्रतर्पयेत् ॥
देवेन सहितां शक्तिं शक्त्या च सहितं तु तम् ॥ ६८-४३ ॥
एवञ्च षड्विंशतिधा मिथुनानि भवन्ति हि ॥
स्वनामाद्यर्णबीजानि तानि सन्तर्पयेत्क्रमात् ॥ ६८-४४ ॥
भवेत्सम्भूय सचतुश्चत्वारिंशञ्चतुः शतम् ॥
एवं सन्तप्य तत्पश्चात्पूर्ववत्सोपचारकैः ॥ ६८-४५ ॥
सर्वाभीष्टं च सम्प्रार्थ्य प्रणम्योद्वासयेत्सुधीः ॥
भाद्रकृष्णचतुर्थ्यादिप्रतिमासमतन्द्रितः ॥ ६८-४६ ॥
आरभ्यार्कोदयं मन्त्री यावच्चन्द्रोदयो भवेत् ॥
तावन्नोपविशेद्भूमौ जितवाविस्थरमानसः ॥ ६८-४७ ॥
ततश्चन्द्रोदये मन्त्री पूजयेद्गणनायकम् ॥
पूर्वोक्तविधिना सम्यङ्नानापुष्पोपहारकैः ॥ ६८-४८ ॥
एकविंशतिसङ्ख्याकान्मोदकांश्च निवेदयेत् ॥
तदग्रे प्रजपेन्मन्त्रमष्टोत्तरसहस्रकम् ॥। ६९-४९ ॥
ततः कर्पूरकाश्मीररक्तपुष्पैः सचन्दनैः ॥
अर्ध्यं दद्यात्तु मूलान्ते ङेते गणपतिं ततः ॥ ६८-५० ॥
इदमर्ध्यं कल्पयामि हृदन्तोऽर्ध्यमनुर्मतः ॥
स्तुत्वा नत्वा विसृज्याथ यजेच्चन्द्रमसं पुनः ॥ ६८-५१ ॥
अर्ध्यं दद्याञ्चतुर्वारं पूजयित्वा गुरुं ततः ॥
निवेदितेषु विप्राय दद्यादर्धांश्च मोदकान् ॥ ६८-५२ ॥
स्वयमर्द्धान्प्रभुञ्जीत ब्रह्मचारी जितेन्द्रियः ॥
एवं व्रतं यः कुरुते सम्यक्संवत्सरावधि ॥ ६८-५३ ॥
पुत्रान्पौत्रान्सुखं वित्तमारोग्यं लभते नरः ॥
सूर्योदयादशक्तश्चेदस्तमारभ्य मन्त्रवित् ॥ ६८-५४ ॥
चन्द्रोदयान्तं पूर्वोक्तविधिना व्रतमाचरेत् ॥
एवं कृतेऽपि पूर्वोक्तं फलमाप्नोति निश्चितम् ॥ ६८-५५ ॥
गणिशप्रतिमां दन्तिदन्तेन कपिनापि वा ॥
गजभग्रेन निम्बेन सितार्केण्णाथवा पुनः ॥ ६८-५६ ॥
कृत्वा तस्यां समावाह्य प्राणस्थापनपूर्वकम् ॥
अभ्यर्च्य विधिवन्मन्त्री राहुग्रस्ते निशाकरे ॥ ६८-५७ ॥
स्पृष्ट्रा चैव निरहारस्तां शिखायां समुद्वहन् ॥
द्यूते विवादे समरे व्यवहारे जयं लभेत् ॥ ६८-५८ ॥
बीजं वराहो बिन्द्धाढ्यौ मन्विन्द्वान्नौ कलौ ततः ॥
स्मृतिर्मांसेन्दुमन्वाग्रा कर्णोच्छिष्टगणे वदेत् ॥ ६८-५९ ॥
बकः सदीर्घपवनो महायक्षाय यं बलिः ॥
बलिमन्त्रोऽयमाख्यातो न चेद्वर्णोऽखिलेष्टदः ॥ ६८-६० ॥
प्रणवो भुवनेशानीस्वबीजान्ते नवार्णकः ॥
हस्तीति च पिशाचीति लिखेञ्चैवाग्रिंसुन्दरी ॥ ६८-६१ ॥
नवार्णोऽयं समुद्दिष्टो भजतां सर्वसिद्धिदः ॥
पदैः सर्वेण मन्त्रेण पञ्चाङ्गानि प्रकल्पयेत् ॥ ६८-६२ ॥
अन्यत्सर्वं समानं स्यात्पूर्वमन्त्रेण नारद ॥
अथाभिधास्ये विधिवद्वक्रतुण्डमनुत्तमम् ॥ ६८-६३ ॥
तोयं विधिर्वह्नियुक्तकर्णेन्द्वाढ्यो हरिस्तथा ॥
सदीर्घो दारको वायुर्वर्मान्तोऽयं रसार्णकः ॥ ६८-६४ ॥
भार्गवोऽस्य मुनिश्छन्दोऽनुष्टुब्देवो गणाधिपः ॥
वक्रतुण्डाभिधो बीजं वं शक्तिः कवचं पुनः ॥ ६८-६५ ॥
तारदृन्मध्यगैर्मन्त्रवर्णैश्चन्द्रविभूषितैः ॥
कृत्वा षडङ्गमन्त्रार्णान्भ्रूमध्ये च गले हृदि ॥ ६८-६६ ॥
नामौ लिङ्गे पदे न्यस्याखिलेन व्यापकं चरेत् ॥
उद्यदर्कद्युतिं हस्तैः पाशाङ्कुशवराभयान् ॥ ६८-६७ ॥
दधतं गजवक्त्रं च रक्तभूषाम्बरं भजेत् ॥
ध्यात्वैवं प्रजपेत्तर्कलक्षं द्रव्यैर्दशांशतः ॥ ६८-६८ ॥
अष्टभिर्जुहुयात्पीठे तीव्रादिसहितेऽर्चयेत् ॥
मूर्तिं मूर्तेन सङ्कल्प्य तस्यामावाह्य पूजयेत् ॥ ६८-६९ ॥
षट्कोणेषु षडङ्गानि पत्रेष्वष्टौ तु शक्तयः ॥
यजेद्विद्यां विधात्रीं च भोगदां विप्रघातिनीम् ॥ ६८-७० ॥
निधिप्रदीपां पापघ्नीं पुण्यां पश्चाच्छशिप्रभाम् ॥
दलाग्रेषु वक्रतुण्ड एकदंष्ट्रमहोदरौ ॥ ६८-७१ ॥
गजास्यलम्बोदरकौ विकटौ विध्नराट् तथा ॥
धूम्रवर्णस्ततो बाह्ये लोकेशान्हेतिसंयुतान् ॥ ६८-७२ ॥
एवमावरणैरिष्ट्वा पञ्चभिर्गणनायकम् ॥
साधंयेदखिलान्कामान्वक्रतुण्ड प्रंसादतः ॥ ६८-७३ ॥
लब्ध्वा गुरुमुखान्मन्त्रं दीक्षासंस्कारपूर्वकम् ॥
ब्रह्मचारी हविष्याशी सत्यवाक् च जितेन्द्रियः ॥ ६८-७४ ॥
जपेदर्कसहस्रं तु षण्मासं होमसंयुतम् ॥
दारिद्य्रं तु पराभूय जायते धनदोपमः ॥ ६८-७५ ॥
चतुर्थ्यादि चतुर्थ्यन्तं जपेदयुतमादरात् ॥
अष्टोत्तरशतं नित्यं हुत्वा प्राग्वत्फलं लभेत् ॥ ६८-७६ ।
पक्षयोरुभयोर्मन्त्री चतुर्थ्यां जुहुयाच्छतम् ॥
अपूपैर्वत्सरे स स्यात्समृद्धेः परमं पदम् ॥ ६८-७७ ॥
अङ्गारकचतुर्थ्यां तु देवमिष्ट्वा विधानतः ॥
हविषा पा यसान्नेन नैवेद्यं परिकल्पयेत् ॥ ६८-७८ ॥
ततो गुरुं समभ्यंर्त्य भोजयेद्विधिवत्सुधीः ॥
निवेदितेन जुहुयात्सहरस्रं विधिवद्वसौ ॥ ६८-७९ ॥
एवं संवत्सरं कृत्वा महतीं श्रियमाप्नुयात् ॥
अथान्यत्साधनं वक्ष्ये लोकानां हितकाम्यया ॥ ६८-८० ॥
इष्ट्वा गणेशं पृथुकैः पायसापूपमोदकः ॥
नानाफलैस्ततोमन्त्री हरिद्रामथ सैन्धवम् ॥ ६८-८१ ॥
वचां निष्कार्द्धभागं च तदर्द्धं वा मनुं जपेत् ॥
विशोध्य चूर्णं प्रसृतौ गवां मूत्रे विनिक्षिपेत् ॥ ६८-८२ ॥
सहस्रकृत्वो मनुना मन्त्रयित्वा प्रयत्नतः ॥
स्नातामृतुदिने शुद्धां शुक्लाम्बरधरां शुभाम् ॥ ६८-८३ ॥
देवस्य पुरतः स्थाप्य पाययेदौषधं सुधीः ॥
सर्वलक्षणसम्पन्नं वन्ध्यापि लभते सुतम् ॥ ६८-८४ ॥
अथान्यत्सम्प्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥
गोचर्ममात्रां धरणीमुपलिप्य प्रयत्नतः ॥ ६८-८५ ॥
विकीर्य धान्यप्रकरैस्तत्र संस्थापयेद्धटम् ॥
शुद्धोदकेन सम्पूर्य तस्योपरि निधापयेत् ॥ ६८-८६ ॥
कपिलाज्येन सम्पूर्णं शरावं नूतनं शुभम् ॥
षडष्टाक्षरमन्त्राभ्यां दीपमारोपयेच्छुभम् ॥ ६८-८७ ॥
दीपे देवं समावाह्य गन्धपुष्पादिभिर्यजेत् ॥
स्नातां कुमारीमथवा कुमारं पूजयेत्सुधीः ॥ ६८-८८ ॥
दीपस्य पुरतः स्थाप्यध्यात्वा देवं जपेन्मनुम् ॥
प्रदीपे स्थापिते पश्येद्द्विजरूपं गणेश्वरम् ॥ ६८-८९ ॥
पृष्टस्ततः सम्पदि वा नष्टं चैवाप्यनागतम् ॥
सकलं प्रवदेदेवं कुमारी वा कुमारकः ॥ ६८-९० ॥
षडक्षरो हृदन्तश्चेद्भवेदष्टाक्षरो मनुः ॥
अन्येऽपि मन्त्रा देवर्षे सन्ति तन्त्रे गणेशितुः ॥ ६८-९१ ॥
किन्त्वत्र यन्न साध्यं स्यात्र्रिषु लोकेषु साधकैः ॥
अष्टविंशरसार्णाभ्यां तन्न पश्येदपि क्वचित् ॥ ६८-९२ ॥
एतद्गणेशमन्त्राणां विधानं ते मयोदितम् ॥
शठेभ्यः परशिष्येभ्यो वञ्चकेभ्योऽपि मा वद ॥ ६८-९३ ॥
एवं यो भजते देवं गणेशंसर्वसिद्धिदम् ॥
प्राप्येह सकलान्भोगनिन्ते मुक्तिपदं व्रजेत् ॥ ६८-९४ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे गणेशमन्त्रविधाननिरूपणं नामाष्टषष्टितमोऽध्यायः ॥