०६७

सनत्कुमार उवाच ॥
अथ वक्ष्ये देवपूजां साधकाभीष्टसिद्धिदाम् ॥
त्रिकोणं चतुरस्रं वा वामभागे प्रकल्प्य च ॥ ६७-१ ॥

सम्पूज्या स्रेण सङ्क्षाल्य हृदाधारं निधाय च ॥
तत्राग्निमण्डलं चेद्वा पात्रं सङ्क्षाल्य चास्रतः ॥ ६७-२ ॥

आधारे नामसं स्थाप्य तत्र चेद्रविमण्डलम् ॥
क्लिममातृका पूलमुञ्चरन्पूरपेज्जलैः ॥ ६७-३ ॥

चत्रेञ्जुमण्डलं प्रार्च्य तीर्थान्यावाह्य पूर्ववत् ॥
गोमुद्रयामृतीकृत्य कवचेनावगुण्ठयेत् ॥ ६७-४ ॥

सङ्क्षाल्यास्रेण प्रणवं तदुपर्यष्टधा जपेत् ॥
सामान्यार्घमिदं प्रोक्तं सर्वसिद्धिकरं नृणाम् ॥ ६७-५ ॥

तज्जलं र्किचिदुदूधृत्य प्रोक्षिण्या साधकोत्तमः ॥
आत्मानं यागवस्तूनि तेन सम्प्रोक्षयेत्पुथक् ॥ ६७-६ ॥

आत्मवामाग्रतः कुर्यात्षट्ट्कोणान्तस्रिकोणकम् ॥
चतुरस्रेण संवेष्ट्य सङ्क्षाल्यार्घोदकेन च ॥ ६७-७ ॥

ततस्तु साधकश्रेष्टः स्तम्भयेच्छङ्खमुद्रया ॥
आग्नेयादिषु कोणेषु हृदाद्यङ्गचतुष्टयम् ॥ ६७-८ ॥

नेत्रं मध्ये दिक्षु चास्रं त्रिकोणे पूजयेत्ततः ॥
मूलखण्डत्रयेनाथाधारशक्तिं तु मध्यगाम् ॥ ६७-९ ॥

एवं सम्पूज्य विधिवदस्रंसङ्क्षालितं हृदा ॥
प्रतिष्टाप्य त्रिपदिकां पूजयेन्मनुनामुना ॥ ६७-१० ॥

मं वह्निमण्डला येति ततो देशकलात्मने ॥
अमुकार्ध्येति पात्रान्ते सनापहृदयोंऽतिमे ॥ ६७-११ ॥

चतुर्विंशतिवर्णोऽयमाधारस्यार्चने मनुः ॥
स्वमन्त्रक्षालितं शरंवं संस्याप्याय समर्चयेत् ॥ ६७-१२ ॥

तारः कार्म्ममहांस्ते तु ततो जलचराय च ॥
वर्म फट् हृदयं पाञ्चजन्याय हृदयं मनेः ॥ ६७-१३ ॥

तत्रार्कमण्डलायेति द्वादशान्ते कलारमने ॥
अमुकार्ध्येति पात्रान्ते नमोन्तस्त्र्यक्षिवर्णवान् ॥ ६७-१४ ॥

सम्पूज्य तेन तत्रार्चेद्द्वादशार्ककलाः क्रमात् ॥
ततः शुद्धजलैर्मूलं विलोममातृकां पठन् ॥ ६७-१५ ॥

शङ्खमापूरयेत्तस्मिन्पूजयेन्मनुनामुना ॥
ॐ सोममण्डलायेति षोडशान्ते कलात्मने ॥ ६७-१६ ॥

अमुकार्ध्यामृतायेति हृन्मनुश्चार्ध्यपूजने ॥
तत्र षोडशसङ्ख्याका यजेञ्चन्द्रमसः कलाः ॥ ६७-१७ ॥

ततस्तु तीर्थान्यावाह्य गङ्गे चेत्यादिपूर्ववत् ॥
गोमुद्रयामृतीकृत्याच्छादयेन्मत्स्ममुद्रया ॥ ६७-१८ ॥

कवचेनावगुण्ठ्याथ रक्षेदस्त्रेण तत्पुनः ॥
चिन्तयित्वेष्टदेवं च ततो मुद्राः प्रदर्शयेत् ॥ ६७-१९ ॥

शङ्खमौशलचकाख्याः परमीकरणं ततः ॥
महामुद्रां योनिमुद्रां दर्शयेत्क्रमतः सुधीः ॥ ६७-२० ॥

गारुडी गालिनी चैव मुख्ये मुद्रे प्रकीर्तिते ॥
गन्धपुष्पादिभिस्तत्र पूजयेद्देवतां स्मरन् ॥ ६७-२१ ॥

अष्टकृत्वो जपेन्मूलं प्रणवं चाष्टधा तथा ॥
शङ्खाद्दक्षिणदिग्भागे प्रोक्षणीपात्रमादिशेत् ॥ ६७-२२ ॥

प्रोक्षण्यां तज्जलं किञ्चित्कृत्वात्मानं त्रिधा ततः ॥
आत्मतत्त्वात्मने हृञ्च विद्यातत्त्वात्मने नमः ॥ ६७-२३ ॥

शिवतत्त्वात्मने हृञ्च इत्येतैर्मनुभिस्त्रिभिः ॥
प्रोक्षेत्पुष्पाक्षतैश्चापि मण्डलं विधिवत्सुधीः ॥ ६७-२४ ॥

अथवा मूलगायत्र्या पूजाद्रव्याणि प्रोक्षयेत् ॥
पाद्यार्ध्याचमनूयार्थं मधुपर्कार्थमप्युत ॥ ६७-२५ ॥

पात्राण्याधारयुक्तानि स्थापयेद्विधिना पुरः ॥
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्तजलैः स्मृतम् ॥ ६७-२६ ॥

अर्ध्यं पुष्पाक्षतयवैः कुशाग्रतिलसर्षपैः ॥
गन्धदूर्वादलैः प्रोक्तं ततश्चाचमनीयकम् ॥ ६७-२७ ॥

जातीफलं च कङ्कोलं लवङ्गं च जलान्वितम् ॥
क्षौद्राज्यदधिसम्मिश्रं मधुपर्कसमीरितम् ॥ ६७-२८ ॥

एकस्मिन्नथवा पात्रे पाद्यादीनि प्रकल्पयेत् ॥
शङ्करार्कार्चने शङ्खमयेनैव प्रशस्यते ॥ ६७-२९ ॥

श्वेताकृष्णारुणापीताश्यामारक्तासितासिताः ॥
रक्ताम्बराभयकराध्येयास्स्पुः पीठशक्तयः ॥ ६७-३० ॥

स्वर्णादिलिखिते यन्त्रे शालग्रामे मणौ तथा ॥
विधिना स्थापितायां वा प्रतिमायां प्रपूजयेत् ॥ ६७-३१ ॥

अङ्गुष्टादिवितस्त्यन्तमाना स्वर्णादिधातुभिः ॥
निर्मिता शुभदा गेहे पूजनाय दिने दिने ॥ ६७-३२ ॥

वक्रां दग्धां खण्डितां च भिन्नमूर्द्धदृशं पुनः ॥
स्पष्टां वाप्यन्त्यजाद्यैश्च प्रतिमां नैव पूजयेत् ॥ ६७-३३ ॥

बाणादिलिङ्गे वाभ्यर्चेत्सर्वलक्षणलक्षिते ॥
मूलेन मूर्तिं सङ्कल्प्य ध्यात्वा देवं यथोदितम् ॥ ६७-३४ ॥

आवाहा पूजयेतस्यां परिवारगणैः सह ॥
शालग्रामे स्थापितायां नावाहनविसर्जने ॥ ६७-३५ ॥

पुष्पाञ्जलिं समादाय ध्यात्वा मन्त्रमुदीरयेत् ॥ ६७-३६ ॥
आत्मसंस्थमजं शुद्धं त्वामहं परमेश्वर ॥

अरण्यामिव हव्याशं मूर्तावावाहयाम्यहम् ॥ ६७-३७ ॥
तवेयं हि महामूर्तिस्तस्यां त्वां सर्वगं प्रभो ॥

॥ भक्तिरेवहसमाकृष्टं दीपवत्स्थापयाम्यहम् ॥ ६७-३८ ॥

सर्वान्तर्यामिणे देवं सर्वबीजमय शुभम् ॥
रवात्मस्थाय परं शुद्धमासनं कल्पयाव्यहम् ॥ ६७-३९ ॥

अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो ॥
सान्निध्यं कुरु तस्यां त्वं भक्तानुग्राहकारक ॥ ६७-४० ॥

अज्ञानाजुच मत्तत्त्वाद्वैकल्यात्साधनस्य च ॥
यद्यपूर्णं भवेत्कल्पं कतथाप्यभिमुखो भव ॥ ६७-४१ ॥

दृशा पूयूषवर्षिण्या पूरयन्यज्ञविष्टरे ॥
मूर्तौ वा यज्ञसम्पूर्त्यै स्थितो भव महेश्वर ॥ ६७-४२ ॥

अभक्तवाङ्मनश्चक्षुः श्रोत्रदूरायितद्युते ॥
स्वतेजः पञ्जरेणाशु वेष्टितो भव सर्वतः ॥ ६७-४३ ॥

यस्य दर्शनामिच्छन्ति देवाः स्वाभीष्टसिद्धये ॥
तस्मै ते परमेशाय स्वागतं स्वागतं च मे ॥ ६७-४४ ॥

कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं मम ॥
आगतो देवदेवेशः सुखागतमिदं पुनः ॥ ६७-४५ ॥

यद्भक्तिलेप्तसम्पर्कात्परमानन्दसम्भवः ॥
तस्मै मे परणाब्जाय पाद्यं शुद्धाय कल्प्यते ॥ ६७-४६ ॥

वेदानामपि वेदाय देवानां देवतात्मने ॥
आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ॥ ६७-४७ ॥

तापत्रयहर दिव्यं परमानन्दलक्षणम् ॥
तापत्रयविनिर्मुक्त्यै तवार्घ्यं कल्पयाम्यहम् ॥ ६७-४८ ॥

सर्वकालुष्यहीनाय परिपूर्णसुखात्मने ॥
मधुपर्कमिदं देव कल्पयामि प्रसीद मे ॥ ६७-४९ ॥

अवच्छिष्टोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः ॥
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ॥ ६७-५० ॥

स्नेहं गृहाण स्नेहेन लोकनाथ महाशय ॥
सर्वलोकेषु शुद्धात्मन्ददामि स्नेहमुत्तमम् ॥ ६७-५१ ॥

परमानन्दबोधाब्धिनिमग्ननिजमूर्तये ॥
साङ्गोपाङ्गमिदं स्नानं कल्पयाम्यहमीश ते ॥

सहस्रं वा शतं वापि यथाशक्त्यादरेण च ॥ ६७-५२ ॥
गन्धपुष्पादिकैरीश मनुनां चाभिषिञ्चेत् ॥ ६७-५३ ॥

मायाचि त्रपटच्छन्ननिजगुह्योरुतेजसे ॥
निरावरणविज्ञान वासस्ते कल्पयाम्यहम् ॥ ६७-५४ ॥

यमाश्रित्य म हामाया जगत्सम्मोहिनी सदा ॥
तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ॥ ६७-५५ ॥

रक्तं शक्त्यर्कविघ्नेषु पीतंविष्णौ सितं शिवे ॥
तैलादिदूषितं जीर्णं सच्छिद्रं मलिनं त्यजेत् ॥ ६७-५६ ॥

यस्य शक्तित्रयेणदं सम्प्रीतमखिलं जगत् ॥
यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये ॥ ६७-५७ ॥

स्वभावसुन्दराङ्गाय नानाशक्त्याश्रयाय ते ॥
भूषणानि विचित्राणि कल्पयाम्यमरार्चित ॥ ६७-५८ ॥

परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् ॥
गृहाण परम गन्ध कृपया परमेश्वर ॥ ६७-५९ ॥

तुरीयवनसम्भूतं नानागुणमनोहरम् ॥
अमन्दसौरभपुष्पं गृह्यतामिदमुत्तमम् ॥
जपाक्षतार्कधत्तूरान्विष्णौ नैवार्पयेत्क्वचित् ॥ ६७-६० ॥

केतकीं कुटजं कुन्दं बन्धूकं केसरं जपाम् ॥
मालतीपुष्पक चैव नार्पयेत्तु महेश्वरे ॥ ६७-६१ ॥

मातुलिङ्गं च तगरं रवौ नैवार्पयेत्क्वचित् ॥
शक्तौ दूर्वार्कमन्दारान् गणेशे तुलसीं त्यजेत् ॥ ६७-६२ ॥

सरोजिनीदमनकौ तथा मरुबकः कुशः ॥
विष्णुक्रान्ता नागवल्ली दूर्वापामार्गदाडिमौ ॥ ६७-६३ ॥

धात्री मुनियुतानां च पत्रैर्देवार्चनं चरेत् ॥
कदली बदरी धात्री तिन्तिणी बीजपूरकम् ॥ ६७-६४ ॥

आम्रदाडिमजम्बीरजम्बूपनसभूरुहाः ॥
एतेषां तु फलैः कुर्याद्देवतापूजनं बुधः ॥ ६७-६५ ॥

शुष्कैस्तु नार्चयेद्देवं पत्रैः पुष्पैः फलैरपि ॥ ६७-६६ ॥

धात्री खदिरबित्वानां तमालस्य दलानि च ॥
छिन्नभिन्नान्यपि मुने न दूष्याणि जगुर्बुधाः ॥ ६७-६७ ॥

पद्ममामलकं तिष्टेच्छुद्धं चैव दिनत्रयम् ॥
सर्वदा तुलसी शुद्धा बिल्वपत्राणि वै तथा ॥ ६७-६८ ॥

पलाशकाशकुसुमैस्तमालतुलसीदलैः ॥
छात्रीदलैश्च दूर्वाभिर्नार्चयेज्जगदम्बिकाम् ॥ ६७-६९ ॥

नार्पयेत्कुसुमं पत्रं फलं देवे ह्यधोमुखम् ॥
पुष्पपत्रादिकं विप्र यथोत्पन्नं तथार्पयेत् ॥ ६७-७० ॥

वनस्पतिरसं दिव्यं गन्धाढ्यं सुमनोहरम् ॥
आघ्रेयं देवदेवेश धूपं भक्त्या गृहाम मे ॥ ६७-७१ ॥

सुप्रकाशं महादीपं सर्वदा तिमिरापहम् ॥
घृतवर्तिसमायुक्तं गृहाण मम सत्कृतम् ॥ ६७-७२ ॥

अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ॥
भक्त्या गृहाण मे देव नैवेद्यन्तुष्टिदंसदा ॥ ६७-७३ ॥

नागवल्लीदलं श्रेष्टं पूगखदिरचूर्णयुक् ॥
कर्पूरादिसुगन्धाढ्यं यद्दत्तं तद्गृहाण मे ॥ ६७-७४ ॥

दद्यात्पुष्पाञ्जलिं पश्चात्कुर्यादावरणार्चनम् ॥ ६७-७५ ॥

यदाशाभिमुखो भूत्वा पूजनं तु समाचरेत् ॥
सैव प्राची तु विज्ञेया ततोऽन्या विदिशो दश ॥ ६७-७६ ॥

केशरेष्वग्निकोणादि हृदयादीनि पूजयेत् ॥
नेत्रमग्रे दिक्षु चास्त्रं अङ्गमन्त्रैर्यथाक्रमम् ॥ ६७-७७ ॥

शुक्लश्वेतसितश्यामकृष्णरक्तार्चिषः क्रमात् ॥
वराभयकरा ध्येयाः स्वस्वदिक्ष्वं गशक्तयः ॥ ६७-७८ ॥

अमुकावरणान्ते तु देवता इति संवदेत् ॥
सालङ्कारास्ततः पश्चात्साङ्गाः सपरिचारिकाः ॥ ६७-७९ ॥

सवाहनाः सायुधाश्च ततः सर्वो पचारकैः ॥
सम्पूजितास्तर्पिताश्च वरदाः सन्त्विदं पठेत् ॥ ६७-८० ॥

मूलान्ते च समुञ्चार्य दिवतायै निवेदयेत् ॥
अभीष्टसिद्धिं मे देहि शरणागतवत्सल ॥ ६७-८१ ॥

भक्तया समर्पये तुभ्यममुकावरणार्चनम् ॥
इत्युञ्चार्य क्षिपेत्पुष्पाञ्जलिं देवस्य मस्तके ॥ ६७-८२ ॥

ततस्त्वभ्यर्च्यनीयाः स्युः कल्पोक्ताश्चावृतीः क्रमात् ॥
सायुधांस्तत इन्द्राद्यान्स्वस्वदिक्षु प्रपूजयेत् ॥ ६७-८३ ॥

इद्रो वह्निर्यमो रक्षो वरुणः पवनो विधुः ॥
ईशानोऽथ विधिश्चैवमधस्तात्पन्न गाधिपः ॥ ६७-८४ ॥

ऐरावतस्तथा मेषो महिषः प्रेतस्तिमिर्मृगः ॥
वाजी वृषो हंसकूर्मौ वाहनानि विदुर्बुधाः ॥ ६७-८५ ॥

वज्रं शक्तिं दण्डखङ्गौ पाशां कुशगदा अपि ॥
त्रिशूलं पद्मचक्रे च क्रमादिन्द्रादिहेतयः ॥ ६७-८६ ॥

समाप्यावरणार्चां तु देवतारार्तिकं चरेत् ॥
शङ्खतोयं परिक्षिप्योद्वाहुर्नृत्यन् पतेत्क्षितौ ॥ ६७-८७ ॥

दण्डवञ्चाप्यथोत्थाय प्रार्थयित्वा निजेश्वरम् ॥
दक्षिणे स्थण्डिलं कृत्वा तत्र संस्कारमाचरेत् ॥ ६७-८८ ॥

मूलेनेक्षणमस्त्रेण प्रोक्षणं ताडनं पुनः ॥
कुशैस्तद्वर्मणाभ्युक्ष्य पूज्य तत्र न्यसेद्वसुम् ॥ ६७-८९ ॥

प्रदाप्य तत्र जुहुयाद्ध्यात्वा चैवेष्टदेवताम् ॥
महाव्याहृतिभिर्यस्तु समस्ताभिश्चतुष्टयम् ॥ ६७-९० ॥

जुहुयात्सर्पिषा भक्तैस्तिलैर्वा पायसेन वा ॥
सघृतैः साधकश्रेष्टः पञ्चविंशतिसङ्ख्यया ॥ ६७-९१ ॥

पुनर्व्याहृतिभिघिर्हुत्वा गन्धाद्यैः पुनरर्चयेत् ॥
देवं संयोजयेन्मूर्तौ ततो वह्निं विसर्जयेत् ॥ ६७-९२ ॥

भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक ॥
कर्मान्तरेऽपि सम्प्राप्ते सान्निध्यं कुरु सादरम् ॥ ६७-९३ ॥

विसृज्याग्निदेवतायै दद्यादाचमनीयकम् ॥
अवशिष्टेन हविषा गन्धपुष्पाक्षतान्वितम् ॥ ६७-९४ ॥

देवतापार्षदेभ्योऽपि पूर्वोक्तेभ्यो बलिं ददेत् ॥
ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ॥ ६७-९५ ॥

योगिन्यो ह्युग्ररूपाश्च गणानामधिपास्च ये ॥
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताःग ॥ ६७-९६ ॥

सर्वे ते प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥
इत्यष्टदिक्षु दत्वा च पुनर्भूतबलिं चरेत् ॥ ६७-९७ ॥

पानीयममृतीकृत्य मुद्रया धेनुसञ्ज्ञया ॥
देवतायाः करे दद्यात्पुनश्चाचमनीयकम् ॥ ६७-९८ ॥

देवमुद्वास्य मूर्तिस्थं पुनस्तत्रैव योजयेत् ॥
नैवेद्यं च ततो दद्यात्तत्तदुच्छिष्टभोजिने ॥ ६७-९९ ॥

महेश्वरस्य चण्डेशो विष्वक्सेनस्तथा हरेः ॥
चण्डांशुस्तरणेर्वक्ततुण्डश्चापि गणेशितुः ॥
शक्तेरुच्छिष्टचाण्डाली प्रोक्ता उच्छिष्टभोजिनः ॥ ६७-१०० ॥

ततो ऋष्यादिकं स्मृत्वा कृत्वा मूलषडङ्गकम् ॥
जप्त्वा मन्त्रं यथाशक्ति देवतायै निवेदयेत् ॥ ६७-१०१ ॥

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिता ॥ ६७-१०२ ॥

ततः पराङ्मुखं चार्घं कृत्वा पुष्पैः प्रपूजयेत् ॥
दोर्भ्यां पभ्द्यां च जानुभ्यामुरसा शिरसादृशा ॥
मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ ६७-१०३ ॥

बाहुभ्यां च सजानुभ्यां शिरसा वचसापि वा ॥
पञ्चाङ्गकः प्रणामः स्यात्पूजायां प्रवरावुभौ ॥ ६७-१०४ ॥

नत्वा च दण्डवन्मन्त्री ततः कुर्यात्प्रदक्षिणाः ॥
विष्णुसोमार्कविघ्नानां वेदार्धेन्द्वद्रिवह्नयः ॥ ६७-१०५ ॥

ततः स्तोत्रादिकं मन्त्री प्रपठेद्भक्तिपूर्वकम् ॥
इतः पूर्णं प्राणबुद्धिदेहधर्माधिकारतः ॥ ६७-१०६ ॥

जाग्रत्स्वप्नसुषुप्त्यन्तेऽवस्थासु मनसा वदेत् ॥
वाचा हस्ताभ्यां च पद्भ्यामुदरेण ततः परम् ॥ ६७-१०७ ॥

शिष्णान्ते यत्स्मृतं पश्चाद्यदुक्तं यत्कृतं ततः ॥
तत्सर्वं च ततो ब्रह्मर्पणं भवतु ठद्वयम् ॥ ६७-१०८ ॥

मां मदीयं च सकलं विष्णवे च समर्पये ॥
तारं तत्सदतो ब्रह्मर्पणमस्तु मनुर्मतः ॥ ६७-१०९ ॥

प्रणवाद्योऽष्टवस्वर्णो ह्यनेनात्मानमर्पयेत् ॥
अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य च ॥ ६७-११० ॥

यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि ॥
द्रव्यहीनं क्रियाहीनं मन्त्रहीनं मयान्यथा ॥ ६७-१११ ॥

कृतं यत्तत्क्षमस्वेश कृपया त्वं दयानिधे ॥
यन्मया क्रियते कर्म जाग्रत्स्वप्रसुषुप्तिषु ॥ ६७-११२ ॥

तत्सर्वं तावकी पूजा भूयाद्‌भूत्यै च मे प्रभो ॥
भूमौ स्खलितपादानां भूमिरेवावलम्बनम् ॥ ६७-११३ ॥

त्वयि जातापराधानां त्वमेव शरणं प्रभो ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ ६७-११४ ॥

तस्मात्कारुण्यभावेन क्षमस्व परमेश्वर ॥
अपराधसहस्राणि क्रियन्तेऽहर्न्निशं मया ॥ ६७-११५ ॥

दासोऽयमिति मां मत्वा क्षमस्व जगतां पते ॥
आवाहनं न जानामि न जानामि विसर्जनम् ॥ ६७-११६ ॥

पूजां चैव न जानामि त्वं गतिः परमेश्वर ॥
सम्प्रार्थ्यैवं ततो मन्त्री मूलान्ते श्लोकमुञ्चरेत् ॥ ६७-११७ ॥

गच्छ गच्छ परं स्थानं जगदीश जगन्मय ॥
यन्न ब्रह्मादयो देवा जानन्ति च सदाशिवः ॥ ६७-११८ ॥

इति पुष्पाञ्जलिं दत्वा ततः संहारमुद्रया ॥
निधाय देवं साङ्गं च स्वीयदृत्सरसीरुहे ॥ ६७-११९ ॥

सुषुम्णावर्त्मना पुष्पमाघ्रायोद्वासयेद् बुधः ॥
शङ्खचक्रशिलालिङ्गविघ्नसूर्यद्वयं तथा ॥ ६७-१२० ॥

शक्तित्रयं न चैकत्र पूजयेद्दुःखकारणम् ॥
अकालमृत्युहरणं सर्वव्याधिविनाशन् ॥ ६७-१२१ ॥

सर्वपापक्षयकरं विष्णुपादोदकं शुभम् ॥ ६७-१२२ ॥

तत्तद्भक्तैर्गृही तव्यं तन्नैवेद्यनिवेदितम् ॥
अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ॥ ६७-१२३ ॥

शालग्रामशिलास्पर्शात्सर्वं याति पवित्रताम् ॥
पूजा पञ्चविधा तत्र कथिता नारदाखिलैः ॥ ६७-१२४ ॥

आतुरी सौतिकी त्रासी साधना भाविनी तथा ॥
दौर्बोधी च क्रमादासां लक्षणानि श्रृणुष्व मे ॥ ६७-१२५ ॥

रोगादियुक्तो न स्रायान्न जपेन्न च पूजयेत् ॥
विलोक्य पूजां देवस्य मूर्तिं वा सूर्य्यमण्डलम् ॥ ६७-१२६ ॥

प्रणम्याथ स्मरन्मन्त्रमर्पयेत्कुमाञ्जलिम् ॥
रोगे निवृत्ते स्नात्वाथ नत्वा सम्पूञ्चेद्गुरुम् ॥ ६७-१२७ ॥

त्वत्प्रसादाज्जगन्नाथ जगत्पूज्य दयानिधे ॥
पूजाविच्छेददोषो मे मास्त्विति प्रार्थयेच्च तम् ॥ ६७-१२८ ॥

द्विजानपि च सम्पूज्य यथाशक्त्या प्रतोष्य च ॥
तेभ्यश्चाशिषमादाय देवं प्राग्वत्ततोऽर्चयेत् ॥ ६७-१२९ ॥

आतुरी कथिता ह्येषा सोतिक्यथ निगद्यते ॥
सूतकं द्विविधं प्रोक्तं जाताख्यं मृतसञ्ज्ञकम् ॥ ६७-१३० ॥

तत्र स्नात्वा मानसीं तु कृत्वा सन्ध्यां समाहितः ॥
मनसैव यजेद्देवं मनसैव जपेन्मनुम् ॥ ६७-१३१ ॥

निवृत्ते सूतके प्राग्वत्सम्पूज्य च गुरुं द्विजान् ॥
तेभ्यश्चाशिषमादाय ततो नित्यक्रमं चरेत् ॥ ६७-१३२ ॥

एषा तु सौतिकी प्रोक्ता त्रासी चाथ निगद्यते ॥
दुष्टेभ्यस्त्रासमापन्नो यथालब्धोपचारङ्कैः ॥ ६७-१३३ ॥

मानसैर्वै यजेद्देवं त्रासी सा परिकीर्तिता ॥
पूजासाधनवस्तूनाम सामर्थ्ये तु सर्वतः ॥ ६७-१३४ ॥

पुष्पैः पत्रैः फलैर्वापि मनसा वा यजेद्विभुम् ॥
साधनाभाविनी ह्येषा दौर्बोधीं श्रृणु नारद ॥ ६७-१३५ ॥

स्त्रियो वृद्धास्तथा बाला मूर्खास्तैस्तु यथाक्रमम् ॥
यथाज्ञानकृता सा तु दौर्बोधीति प्रकीर्तिता ॥ ६७-१३६ ॥

एवं यथाकथञ्चित्तु पूजां कुर्याद्धि साधकः ॥
देवपूजाविहीनो यः स गच्छेन्नरकं ध्रुवम् ॥ ६७-१३७ ॥

वैश्वदेवादिकं कृत्वा भोजयेद्द्विजसत्तमान् ॥
देवे निवेदितं पश्चाद्भुम्मजीत स्वगणैः स्वयम् ॥ ६७-१३८ ॥

आचम्याननशुद्धिं च कृत्वा तिष्टेत् कियत्क्षणम् ॥
पुराणमितिहासं च श्रृणुयात्स्वजनैः सह ॥ ६७-१३९ ॥

समर्थः सर्वकल्पेषु योऽनुकल्पं समाचरेत् ॥
न साङ्गशयिकं तस्य दुर्मतेर्जायते फलम् ॥ ६७-१४० ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवपूजानिरूपणं नाम सप्तषष्टित्तमोऽध्यायः ॥