०६५

सनत्कुमार उवाच ॥
परीक्ष्य शिष्यं तु गुरुर्मन्त्रशोधनमाचरेत् ॥
प्राक्प्रत्यग्दक्षिणोदक्चपञ्चसूत्राणि पातयेत् ॥ ६५-१ ॥

चतुष्टयं चतुष्कानां स्यादेवं नृपकोष्टके ॥
तत्राद्यप्रथमे त्वाद्यं द्वितीयाद्ये द्वितीयकम् ॥ ६५-२ ॥

तृतीयाद्ये तृतीयं स्याञ्चतुर्थाद्ये तुरीयकम् ॥
तत्तदाग्नेयकोष्टेषु तत्तत्पञ्चममक्षरम् ॥ ६५-३ ॥

विलिख्य क्रमतो धीमान्मनुं संशोधयेत्ततः ॥
नामाद्यक्षरमारभ्य यावन्मन्त्रादि वर्णकम् ॥ ६५-४ ॥

चतुष्के यत्र नामार्णस्तत्स्यात्सिद्धिचतुष्ककम् ॥
प्रादक्षिण्यात्तद्द्वितीयं साध्याख्यं परिकीर्तितम् ॥ ६५-५ ॥

तृतीयं पुंसि सिद्धाख्यं तुरीयमरिसञ्ज्ञकम् ॥
द्वयोर्वर्णावेककोष्टे सिद्धसिद्धेति तन्मतम् ॥ ६५-६ ॥

तद्द्वितीये तु मन्त्रार्णे सिद्धसाध्यः प्रकीर्तितः ॥
तृतीये तत्सुसिद्धः स्यात्सिद्धारिस्तञ्चतुर्थके ॥ ६५-७ ॥

नामार्णान्यचतुष्कात्तु द्वितीये मन्त्रवर्णके ॥
चतुष्के चेत्तदा पूर्वं यत्र नामाक्षरं स्थितम् ॥ ६५-८ ॥

तत्र तत्कोष्टमारभ्य गणयेत्पूर्ववत्क्रमात् ॥
साध्यसिद्धः साध्यसाध्यस्तत्सुसिद्धश्च तद्रिप्रुः ॥ ६५-९ ॥

तृतीये चेञ्चतुष्के तु यदि स्यान्मन्त्रवर्णकः ॥
तदा पूर्वोक्तरीत्या तु क्रमाद्द्वेयं मनीषिभिः ॥ ६५-१० ॥

सुसिद्धसिद्धस्तत्साध्यस्तत्सुसिद्धश्च तदृषिः ॥
तुरीये चेञ्चतुष्के तु तदैवं गणयेत्सुधीः ॥ ६५-११ ॥

अरिसिद्धोऽरिसाध्यश्च तत्सुसिद्धश्च तद्रिपुः ॥
रिद्धसिद्धो यथोक्तेन द्विगुणात्सिद्धिसाध्यकः ॥ ६५-१२ ॥

सिद्धः सुसिद्धोर्द्धतयात्सिद्धारिर्हति गोत्रजान् ॥
द्विगुणात्साध्यसिद्धस्तु साध्यसाध्यो विलम्बतः ॥ ६५-१३ ॥

साध्यः सुसिद्धो द्विगुणात्साध्यारिर्हन्ति बान्धवान् ॥
सुसिद्धसिद्धोर्द्धतया तत्साध्यो द्विगुणाज्जपात् ॥ ६५-१४ ॥

तत्सुसिद्धप्राप्तिमात्रात्सुसिद्धारिः कुटुम्बहृत् ॥
अरिसिद्धस्तु पुत्रध्नोऽरिशाध्यः कन्यकापहः ॥ ६५-१५ ॥

तत्सुसिद्धः कलत्रध्नः साधकध्नोरेऽप्यरिः स्मृतः ॥
अन्येऽप्यत्र प्रकारा हि सन्ति वै बहवों मुने ॥ ६५-१६ ॥

सर्वेषु मुख्योऽयं तेऽत्र कथितो कथहाभिधः ॥
एवं संशोध्य मन्त्रं तु शुद्धे काले स्थले तथा ॥ ६५-१७ ॥

दीक्षयेञ्च गुरुः शिष्यं तद्विधानमुदीर्यते ॥
नित्यकृत्यं विधायाथ प्रणम्यगुरुपादुकाम् ॥ ६५-१८ ॥

प्रार्थयेत्सद्गुरुं भक्त्याभीष्टार्थमादृतः ॥
सम्पूज्य वस्त्रालङ्कारगोहिरण्यधरादिभिः ॥ ६५-१९ ॥

कृत्वा स्वस्ति विधानं तु मण्डलादि च तुष्टिमान् ॥
गुरुः शिष्येण सहितः शुचिर्यागगृहं विशेत् ॥ ६५-२० ॥

सामान्यार्घोदकेनाथ सम्प्रोक्ष्य द्वारमस्त्रतः ॥
दिव्यानुत्सारयेद्विघ्नान्नभस्थानर्च्य वारिणा ॥ ६५-२१ ॥

पार्ष्णिघातैस्त्रिभिर्भौमांस्ततः कर्म समाचरेत् ॥
वर्णकैः सर्वतोभद्रे यथोक्तपरिकल्पिते ॥ ६५-२२ ॥

वह्निमण्डलमभ्यर्च्य तत्कलाः परिपूज्य च ॥
अस्त्रप्रक्षालितं कुम्भं यथाशक्ति विनिर्मितम् ॥ ६५-२३ ॥

तत्र संस्थाप्य विधिवत्तत्र भानोः कलां यजेत् ॥
विलोममातृकामूलमुञ्चरन् शुद्धवारिणा ॥ ६५-२४ ॥

आपूर्य कुम्भं तत्रार्चेत्सोमस्य विधिवत्कलाः ॥
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ॥ ६५-२५ ॥

सुश्रीः सुरूपा कपिला हव्यकव्यवहा तथा ॥
वह्नेर्दश कलाः प्रोक्ताः प्रोच्यन्तेऽथ रवेः कलाः ॥ ६५-२६ ॥

तपिनी तापिनी धूम्रा मरीचिज्वालिनी रुचिः ॥
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ ६५-२७ ॥

अथेन्द्रोश्च कला ज्ञेया ह्यमृता मानदा पुनः ॥
पूषा तुष्टिश्च पुष्टिश्च रतिश्च धृतिसञ्ज्ञिकाः ॥ ६५-२८ ॥

शशिनी चन्द्रिका कातिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥
पूर्णापूर्णामृता चेति प्रोक्ताश्चन्द्रमसः कलाः ॥ ६५-२९ ॥

वस्रयुग्मेन संवेष्ट्य तस्मिन्सर्वैषधीः क्षिपेत् ॥
नवरत्नानि निक्षिप्य विन्यसेत्पञ्चपल्लवान् ॥ ६५-३० ॥

पनसाम्रवटाश्वत्थवकुलेति च तान् विदुः ॥
मुक्तामाणिक्यवैडूर्यगोमेदान्वज्रविद्रुमौ ॥ ६५-३१ ॥

पद्मरागं मरकतं नीलं चेति यथाक्रम् ॥
एवं रत्नानि निक्षिप्य तत्रावाह्येष्टदेवताम् ॥ ६५-३२ ॥

सम्पूज्य विधिवन्मन्त्री ततः शिष्यं स्वलङ्कृतम् ॥
वेद्यां संवेश्य सम्प्रोक्ष्य प्रोक्षणीस्थेन वारिणा ॥ ६५-३३ ॥

भूतशुद्ध्यादिकं कत्वा तच्छरीरे विधानतः ॥
न्यासजालेन संशोध्य मूर्ध्नि विन्यस्य पल्लवान् ॥ ६५-३४ ॥

अष्टोत्तरशतेनाथ मूलमन्त्रेण मन्त्रितैः ॥
अभिषिञ्चेत्प्रियं शिष्यं जपन्मूलमनुं हृदि ॥ ६५-३५ ॥

शिष्टोदकेन वाचम्य परिधायाम्बरं शिशुः ॥
गुरुं प्रणम्य विधिवत्संविशेत्पुरतः शुचिः ॥ ६५-३६ ॥

अथ शिष्यस्य शिरसि हस्तं दत्वा गुरुस्ततः ॥
जपेदष्टोत्तरशतं देयमन्त्रं विधानतः ॥ ६५-३७ ॥

समोऽस्त्वित्यक्षरान्दद्यात्ततऋ शिष्योऽर्चयेद्गुरुम् ॥
ततः सचन्दनं हस्तं दत्वा शिष्यस्य मस्तके ॥ ६५-३८ ॥

तत्कर्णे प्रवदेद्विद्यामष्टवारं समाहितः ॥
सम्प्राप्तविद्यः शिष्योऽपि निपतेद्गुरुपादयोः ॥ ६५-३९ ॥

उत्तिष्ठ वत्स मुक्तेऽसि सम्यगाचारवान्भव ॥
कीर्तिश्रीकान्तिपुत्रायुर्बलारोग्य सदास्तु ते ॥ ६५-४० ॥

ततः शिष्यः समुत्थाय गन्धाद्यैर्गुरुमर्चयेत् ॥
दद्याञ्च दक्षिणां तस्मै वित्तशाठ्यविवर्जितः ॥ ६५-४१ ॥

सम्प्राप्यैवं गुरोर्मन्त्रं तदारभ्य धनादिभिः ॥
देहपुत्रकलत्रैश्च गुरुसेवापरो भवेत् ॥ ६५-४२ ॥

स्वष्टदेवं यजेन्मध्ये दत्वा पुष्पाञ्जलिं ततः ॥
अग्निनैर्ऋतिवागीशान् क्रमेण परिपीजयेत् ॥ ६५-४३ ॥

यदा मध्ये यजेद्विष्णुं बाह्यादिषु विनायकम् ॥
रविं शिवां शिवं चैव यदा मध्ये तु शङ्करम् ॥ ६५-४४ ॥

रविं गणेशमम्बां च हरिं चाथ यदा शिवाम् ॥
ईशं विघ्नार्कगोविन्दान्मध्ये चेद्गणनायकम् ॥ ६५-४५ ॥

शिवं शिवां रविं विष्णुं रवौ मध्यगते पुनः ॥
गणेषं विष्णुमम्बां च शिवं चेति यथाक्रमम् ॥ ६५-४६ ॥

एवं नित्य समभ्यर्च्य देवपञ्चकमादृतः ॥
ब्राह्मे मुहूर्त्ते ह्युत्थाय कृत्वाचा वश्यकं बुधः ॥ ६५-४७ ॥

अशङ्कितो वा शय्यायां स्वकीयशिरसि स्मरेत् ॥
सहस्रदलशुक्लाब्जकांर्णकास्थदुमण्डले ॥ ६५-४८ ॥

अकथादित्रिकोणस्थं वराभयकरं गुरुम् ॥
द्विनेत्रं द्विभुजं शुक्लगन्धमाल्यानुंलेपनम् ॥ ६५-४९ ॥

वामे शक्त्या युतं ध्यात्वा मानसैरुपचारकैः ॥
आराध्य पादुकामन्त्रं दशधाप्रजपेत्सुधीः ॥ ६५-५० ॥

वा माया श्रीर्भगेन्द्वाढ्या वियद्धंसखकाग्नयः ॥
हसक्षमलवार्यग्निवामकर्णैदुयुग्मरुत् ॥ ६५-५१ ॥

ततो भृग्वाकाशरवाग्निभगेन्द्वाढ्याः परन्तिमः ॥
सहक्षमलतोयाग्निचन्द्रशान्तियुतो मरुत् ॥ ६५-५२ ॥

ततः श्रीश्चामुकान्ते तु नन्दनाथामुकी पुनः ॥
देव्यम्बान्ते श्रीपान्दुकां पूजयामि हृदन्तिमे ॥ ६५-५३ ॥

अयं श्रीपादुकामन्त्रः सर्वसिद्धिप्रदो नृणाम् ॥
गुह्येति च समर्प्याथ मन्त्रैरेतैर्नमेत्सुधीः ॥ ६५-५४ ॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ॥
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६५-५५ ॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ॥
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ६५-५६ ॥

नमोऽस्तु गुरवे तस्मा इष्टदेवस्वरूपिणे ॥
यस्य वागमृतं हन्ति विषं संसारसञ्ज्ञकम् ॥ ६५-५७ ॥

इति नत्वा पठेत्स्तोत्रं सद्यः प्रत्ययकारकम् ॥
ॐ नमस्ते नाथ भगवान् शिवाय गुरुरूपिणे ॥ ६५-५८ ॥

विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥
नवाय तनरूपाय परमार्थैकरूपिणे ॥ ६५-५९ ॥

सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ॥
स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने ॥ ६५-६० ॥

परत्र त्राय भक्तानां भव्यानां भावरूपिणे ॥
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ॥ ६५-६१ ॥

प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥
पुरस्तात्पार्श्वयोः पृष्टे नमस्तुभ्यमुपर्यधः ॥ ६५-६२ ॥

सदा सञ्चित्स्वरूपेण विधेहि भवदासनम् ॥
त्वत्प्रसादादहं देव कृताकृत्योऽस्मि सर्वतः ॥ ६५-६३ ॥

मायामृत्युमहापाशाद्विमुक्तोऽस्मि शिवोऽस्मि वः ॥
इति स्तुत्वा ततः सर्व गुरवे विनिवेदयेत् ॥ ६५-६४ ॥

प्रातः प्रभृति सायान्तं सांयादिप्रातरन्ततः ॥
यत्करोमि जगन्नाथ तदस्तु तव पूजनम् ॥ ६५-६५ ॥

ततश्च गुरुपादाब्जगलितामृतधारया ॥
क्षालितं निजमात्मानं निर्मलं भावयेत्सुधीः ॥ ६५-६६ ॥

मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् ॥
मूलाधारादधो भागे वर्तुलं वायुमण्डलम् ॥ ६५-६७ ॥

तत्रस्थवायुबीजोत्थवायुना च तद्रूर्द्ध्वकम् ॥
त्रिकोणं मण्डलं वह्नेस्तत्रस्थवह्निबीजतः ॥ ६५-६८ ॥

उत्पन्नेनाग्निना मूलाधारावस्थितविग्रहाम् ॥
प्रसुप्तभुजगाकारां स्वयम्भूलिङ्गवेष्टिनीम् ॥ ६५-६९ ॥

विसतन्तुनिभां कोटिविद्युदाभां तनीयसीम् ॥
कुलकुण्डलिनीं ध्यात्वा कूर्चेनोत्थापयेञ्च ताम् ॥ ६५-७० ॥

सुषुम्णावर्त्मनातां च षट्चक्रक्रमभेदिनीम् ॥
गुरुपदिष्टविधिना ब्रह्मरन्ध्रं नयेत्सुधीः ॥ ६५-७१ ॥

तत्रस्थामृतसम्मग्नीकृत्यात्मानं विभावयेत् ॥
तत्प्रभापटलव्याप्तैविमलं चिन्मयं परम् ॥ ६५-७२ ॥

पुनस्तां स्वस्थलं नीत्वा हृदिदेवं विचिन्तयन् ॥
दृष्ट्वा च मानसैर्द्रव्यैः प्रार्थयेन्मनुनामुना ॥ ६५-७३ ॥

त्रैलोक्यचैत न्यमयादिदेव श्रीनाथ विष्णो भवदाज्ञयैव ॥
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रां त्वनुवर्तयिष्ये ॥ ६५-७४ ॥
विष्णोरिति स्थले विप्र कार्य ऊहोऽन्यदैवते ॥
ततः कुर्यात्सर्वसिद्ध्यै त्वजपाया निवेदनम् ॥ ६५-७५ ॥

षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः ॥
अजपाख्यां तु गायत्रीं जीवोजपति सर्वदा ॥ ६५-७६ ॥

ऋषिर्हंसस्तथाव्यक्तगात्रीछन्द ईरितम् ॥
देवता परमोहंसश्चाद्यन्ते बीजशक्तिकम् ॥ ६५-७७ ॥

ततः षडङ्गं कुर्वीत सूर्यः सोमोनिरञ्जनः ॥
निराभासश्च धर्मश्च ज्ञानं चेति तथा पुनः ॥ ६५-७८ ॥

क्रमादेतान्हंसपूर्वानात्मनेपदपश्चिमान् ॥
जातयुक्तान्साधकेन्द्र षडङ्गेषु नियोजयेत् ॥ ६५-७९ ॥

हकारः सूर्यसङ्काशतेजाः सङ्गच्छते बहिः ॥
सकारस्तादृशश्चैव प्रवेशे ध्यानमीरितम् ॥ ६५-८० ॥

एवं ध्यात्वार्पयेद्धीमान्वह्न्यर्केषु विभागशः ॥
मूलाधारे वादिसान्तबीजयुक्ते चतुर्दले ॥ ६५-८१ ॥

बन्धूकाभे स्वशक्त्या तु सहितापास्वगाय च ॥
पाशाङ्कुशसुधापात्रमोदकोल्लासपाणये ॥ ६५-८२ ॥

षट्शतं तु गणेशाय वागधीशाय चार्पयेत् ॥
स्वाधिष्टाने विद्रुमाभे वादिलान्तार्णसंयुते ॥ ६५-८३ ॥

वामाङ्गशक्तियुक्ताय विद्याधिपतये तथा ॥
स्रुवाक्षमालालसितबाहवे पद्मजन्मने ॥ ६५-८४ ॥

ब्रह्मणे षट्सहस्रं तु हंसारूढाय चार्पयेत् ॥
विद्युल्लसितमेघाभे डादिफान्तार्णपत्रके ॥ ६५-८५ ॥

मणिपूरे शङ्खचक्रगदापङ्कधारिणे ॥
सश्रिये षट्सहस्रं च विष्णवे विनिवेदयेत् ॥ ६५-८६ ॥

अनाहतेऽर्कपत्रे च कादिठान्तार्णसंयुते ॥
शुक्ले शूलाभयवरसधाकलशधारिणे ॥ ६५-८७ ॥

वामाङ्गे शक्तियुक्ताय विद्याधिपतये सुधीः ॥
वृषारूढाय रुद्राय षट्सहस्रं निवेदयेत् ॥ ६५-८८ ॥

विशुद्दे षोडशदले स्वराढ्ये शुक्नत्रणके ॥
महाज्योतिप्रकाशायेन्द्रियाधिपतये ततः ॥ ६५-८९ ॥

सहस्रमर्पयेत्प्राणशक्त्या युक्तेश्चराय च ॥
आज्ञाचक्रे हक्षयुक्ते द्विदिलेऽब्जे सहस्रकम् ॥ ६५-९० ॥

सदाशिवाय गुरवे पराशक्तियुताय वै ॥
सहस्रारे महापद्मे नादबिन्दुद्वयान्विते ॥ ६५-९१ ॥

विलसन्मातृकावर्णे वरामयकराय च ॥
प्रेरमाद्ये च गुरवे सहस्रं विनिवेदयेत् ॥ ६५-९२ ॥

चुलुकेंऽबु पुनर्द्धृत्वा स्वभावादेव सिध्यतः ॥
एकविंशतिसाहस्रप्रमितस्य जपस्य च ॥ ६५-९३ ॥

षट्शताधिकसङ्ख्यास्या दजपाया विभागशः ॥
सङ्कल्पेन मोक्षदाता विष्णुर्मे प्रीयतामिति ॥ ६५-९४ ॥

अस्याः सङ्कल्पमात्रेण महापापैः प्रमुच्यते ॥
ब्रह्मैवाहं न संसारी नित्यमुक्तो न शोकभाक् ॥ ६५-९५ ॥

सञ्चिदानन्दरूपोऽहमात्मानमिति भावयेत् ॥
ततः समाचरेद्देहकृत्यं देवार्चनं तथा ॥ ६५-९६ ॥

तद्धिधानं प्रवक्ष्यामि सदाचारस्य लक्षणम् ॥ ६५-९७ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चषष्टिमोऽध्यायः ॥