०६३

शौनक उवाच ॥
सूत साधो चिरं जीव सर्वशास्त्रविशारदः ॥
यत्त्वया पायिता विद्वन्वयं कृष्णकथामृतम् ॥ १ ॥
श्रुत्वा तु मोक्षधर्मान्वै नारदो भगवत्प्रियः ॥
सनन्दनमुखोद्गीतान्किं पप्रच्छं ततः परम् ॥ २ ॥
मानसा ब्रह्मणः पुत्राः सनकाद्या मुनीश्वराः ॥
चरन्ति लोकानन्तसिद्धा लोकोद्धरणतत्पराः ॥ ३ ॥
नारदोऽपि महाभाग नित्यं कृष्णपरायणः ॥
तेषां समागमे भद्रा का कथा लोकपावनी ॥ ४ ॥
सूत उवाच ॥
साधु पृष्टं महाभाग त्वया लोकोपकारिणा ॥
कथयिष्यामि तत्सर्वं यत्पृष्ट नारदर्षिणा ॥ ५ ॥
श्रुत्वा सनन्दनप्रोक्तान्मोक्षधर्मान्सनातनान् ॥
नारदो भार्गवश्रेष्ठ पुनः पप्रच्छ तान्मुनीन् ॥ ६ ॥
नारद उवाच ॥
सर्वदेवेश्वरो विष्णुर्वेदे तन्त्रे च कीर्तितः ॥
समाराध्यः स एवात्र सर्वैः सर्वार्थकाङ्क्षिभिः ॥ ७ ॥
कैर्मन्त्रैर्भगवान्विष्णुः समाराध्यो मुनीश्वराः ॥
के देवाः पूजनीयाश्च विष्णुपादपरायणैः ॥ ८ ॥
तन्त्रं भागवतं विप्रा गुरुशिष्यप्रयोजकम् ॥
दीक्षणं प्रातराद्यं च कृत्यं स्याद्यत्तदुच्यताम् ॥ ९ ॥
यैर्मासैः कर्मभिर्यैर्वा जप्यैर्होमादिभिस्तथा ॥
प्रीयेत परमात्मा वै तद्ब्रूत मम मानदाः ॥ १० ॥
सूत उवाच ॥
एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः ॥
सनत्कुमारो भगवानुवाचार्कसमद्युतिः ॥ ११ ॥
सनत्कुमार उवाच ॥
श्रृणु नारद वक्ष्यामि तन्त्रं भागवतं तव ॥
यज्ज्ञात्वाऽमलया भक्त्या साधयेद्विष्णुमव्ययम् ॥ १२ ॥
त्रिपदार्थं चतुष्पादं महातन्त्रं प्रचक्षते ॥
भोगमोक्षक्रियाचर्याह्वया पादाः प्रकीर्तिताः ॥ १३ ॥
पादार्थास्तु पशुपतिः पशुपाशास्त्रय एव हि ॥
पतिस्तत्र शिवोह्येको जीवास्तु पशवः स्मृताः ॥ १४ ॥
यावन्मोहादिसंयोगाः स्वरूपाबोधलक्षणाः ॥
तावत्पशुत्वमेतेषां द्वैतवत्पश्य नारद ॥ १५ ॥
पाशाः पञ्चविधास्त्वेषां प्रत्येकं तेषु लक्षणम् ॥
पशवस्त्रिविधाश्चापि विज्ञाताः कलसञ्ज्ञिकाः ॥ १६ ॥
तलपाकलसञ्ज्ञश्च सकलश्चेति नामतः ॥
तत्राद्यो मलसंयुक्तो मलकर्मयुतः परः ॥ १७ ॥
मलमायाकर्मयुतस्तृतीयः पार्रकीर्तितः ॥
आद्यस्तु द्विविधस्तत्र समासकलुषस्तथा ॥ १८ ॥
असमासमलश्चेति द्वितीयोऽपि पुनस्तथा ॥
पक्वापक्वमलेनैव द्विविधः परिकीर्तितः ॥ १९ ॥
शुद्धेऽध्वनि गतावेतौ विज्ञानप्रलयाकलौ ॥
कलादितत्त्वनियतः सकलः पर्यटत्ययम् ॥ २० ॥
कर्मानुगशरीरेषु तत्तद्भुवनगेषु च ॥
पाशाः पञ्च तथा तत्र प्रथमौ मलकर्मजौ ॥ २१ ॥
मायेयश्च तिरोधानशक्तिजो बिन्दुजः परः ॥
एकोऽप्यनेकशक्तिर्दृक्क्रियाच्छादनकोमलः ॥ २२ ॥
तुषकञ्चुकवद्देहनिमित्तं चात्मनामिह ॥
धर्माधर्मात्मकं कर्म विचित्रफलभोगदम् ॥ २३ ॥
प्रवाहनित्यं तद्बीजाङ्कुरन्यायेन संस्थितम् ॥
इत्येतौ प्रथमौ चाथ मायेयाद्यान् श्रृणुद्विज ॥ २४ ॥
सञ्चिदानन्दविभवः परमात्मा सनातनः ॥
पतिर्जयति सर्वेषामेको बीजं विभुः परम् ॥ २५ ॥
मनस्यति न चोदेति निवृत्तिं च प्रयच्छति ॥
वर्वर्ति दृक्क्रियारूपं तत्तेजः शाम्भवं परम् ॥ २६ ॥
शक्तो मया हरौ भुक्तो पशुगणस्य हि ॥
तच्छक्तिमाद्यामेकान्तां विद्रूपाख्यां वदन्ति हि ॥ २७ ॥
तया चोज्जृम्भितो बिन्दुर्दिक्क्रियात्मा शिवाभिधः ॥
अशेषतत्त्वजातस्य कारणं विभुरव्ययम् ॥ २८ ॥
अस्मिन्निलीना निखिला इच्छायाः शक्तयः स्वकम् ॥
कृत्यं कुर्वन्ति तेनेदं सर्वानुग्राहकं मुने ॥ २९ ॥
चिज्जडानुग्रहार्थाय यस्य विश्वं सिसृक्षतः ॥
आद्योन्मेषोऽस्य नादात्मा शान्त्यादिभुवनात्मकः ॥ ३० ॥
तच्छक्तितत्त्वं विप्रेन्द्र प्रोक्तं सावयवं परम् ॥
ततो ज्ञानक्रियाशक्त्योस्तथोत्कर्षापकर्षयोः ॥ ३१ ॥
प्रसरश्चाप्यभावेन तत्त्वं चैतत्सदाशिवम् ॥
दृक्शक्तिर्यत्र न्यग्भूता क्रियाशक्तिर्विशिष्यते ॥ ३२ ॥
ईश्वराख्यं तु तत्तत्त्वं प्रोक्तं सर्वार्थकर्तृकम् ॥
यत्र क्रिया हि न्यग्भूता ज्ञानाख्योद्रेकमश्नुते ॥ ३३ ॥
तत्तत्त्वं चैव विद्याख्यं ज्ञानरूपं प्रकाशकम् ॥
नादो बिन्दुश्च सकलः सदाख्यं तत्त्वमाश्रितौ ॥ ३४ ॥
विद्येशाः पुनरैशं तु मन्त्रा विद्याभिधं पुनः ॥
इमानि चैव तत्त्वानि शुद्धाध्वेति प्रकीर्तितम् ॥ ३५ ॥
साक्षान्निमित्तमीशोऽत्रेत्युपादानसबिन्दुराट् ॥
पञ्चानां कालराहित्याक्रमो नास्तीति निश्चितम् ॥ ३६ ॥
व्यापारवसतो ह्येषां विहिता खलु कल्पना ॥
तत्त्वं वस्तुत एकं तु शिवाख्यं चित्रशक्तिकम् ॥ ३७ ॥
शक्तं यां वृत्तिभेदात्तुविहिताः खलु कल्पनाः ॥
चिज्जडानुग्रहार्थाय कृत्वा रूपाणि वै प्रभुः ॥ ३८ ॥
अनादिमलरुद्धानां कुरुतेऽनुग्रहं चिताम् ॥
मुक्तिं च विश्वेषां स्वव्यापारे समर्थेताम् ॥ ३९ ॥
विधत्ते जडवर्गस्य सर्वानुग्राहकः शिवः ॥
शिवसामान्यरूपो हि मोक्षस्तु चिदनुग्रहः ॥ ४० ॥
सोऽनादित्वात्कर्मणो हि तत्तद्भोगं विना भवेत् ॥
तेनानुग्राहकः शम्भुस्तद्भुक्त्यै प्रभुर्व्ययः ॥ ४१ ॥
कुरुते सूक्ष्मकरणभुवनोत्पत्तिमञ्जसा ॥
कर्त्तोपादानकरणैर्विना कार्ये न दृश्यते ॥ ४२ ॥
शक्तयः करणं चात्र मायोपादानमिष्यते ॥
नित्यैका च शिवा शक्त्या ह्यनादिनिधना सती ॥ ४३ ॥
साधारणी नराणां वै भुवनानां च कारणम् ॥
स्वभावान्मोहजननी स्वचिताजनकर्मभिः ॥ ४४ ॥
विश्वी सूक्ष्मा परा माया विकृतैः परत्तु सा ॥
कर्माण्यावेक्ष्य विद्येशो मायां विक्षोभ्य शक्तिभिः ॥ ४५ ॥
विधत्ते जीवभोगार्थं वपूंषि करणानि च ॥
सृजत्यादो कालतत्त्वं नानाशक्तिमयी च सा ॥ ४६ ॥
भावि भूतं मवञ्चेदं जगत्कलयते लयम् ॥
सूते ह्यनन्तरं माया शक्तिं नियमनात्मिकाम् ॥ ४७ ॥
सर्वं नियमयत्येषा तेनेयं नियतिः स्मृता ॥
अनन्तरं च सा माया नित्या विश्वविमोहिनी ॥ ४८ ॥
अनादिनिधना तत्त्वं कलाख्यं जनयत्यपि ॥
एकतस्तु नृणां येन कलयित्वा मलं ततः ॥ ४९ ॥
कर्तृशक्तिं व्यञ्जयति तेनेदं तु कलाभिधम् ॥
कालेन च नियत्योपसर्गतां समुपेतया ॥ ५० ॥
व्यापारं विदधात्येषा भूपर्यन्तं स्वकीयकम् ॥
प्रदर्शनाथ वै पुंसो विषयाणां च सा पुनः ॥ ५१ ॥
प्रकाशरूपं विद्याख्यं तत्त्वं सूते कलैव हि ॥
विद्या त्वावरणं भित्वा ज्ञानशक्तेः स्वकर्मणा ॥ ५२ ॥
विषयान्दर्शयत्येषात्मनांशाकारणं ह्यतः ॥
करोति भोग्यं यानासौ करणेन परेण वै ॥ ५३ ॥
उद्बुद्धशक्तिः पुरुषः प्रचोद्य महदादिकान् ॥
भोग्ये भोगं च भोक्तारं तत्परं करणं तु सा ॥ ५४ ॥
भोग्येस्य भोग्यतिर्मासाञ्चिद्व्यक्तिर्भोग उच्यते ॥
सुखादिरूपो विषयाकारा बुद्धिः समासतः ॥ ५५ ॥
भोग्यं भोक्तुश्च स्वेनैव विद्याख्यं करणं तु तत् ॥
यद्यर्कवत्प्रकाशा धीः कर्मत्वाञ्च तथापि हि ॥ ५६ ॥
करणान्तरसापेक्षा शक्ता ग्राहयितुं च तम् ॥
सम्बन्धात्कारणाद्यैस्तद्भोगौत्सुक्येन चोदनात् ॥ ५७ ॥
तञ्चष्टाफलयोगाञ्च संसिद्धा कर्तृतास्य तु ॥
अकर्तृत्वाभ्युपगमे भोक्तृत्वाख्या वृथास्य तु ॥ ५८ ॥
किं च प्रधानचरितं व्यर्थं सर्वं भवेत्ततः ॥
कर्तृत्वरहिते पुंसि करणाद्यप्रयोजके ॥ ५९ ॥
भोगस्यासम्भवस्तस्मात्स एवात्र प्रवर्तकः ॥
करणादिप्रयोक्तॄत्वं विद्ययैवास्य सम्मतम् ॥ ६० ॥
अनन्तरं कलारागं सूते भिद्यङ्गरूपकम् ॥
येन भोग्याय जनिता भिद्यङ्गे पुरुषे पुनः ॥ ६१ ॥
क्रियाप्रवृत्तिर्भवति तेनेदं रागसञ्ज्ञिकम् ॥
एभिस्तत्त्वैश्च भोक्तृत्वदशायां कलितो यदा ॥ ६२ ॥
नित्यस्तदायमात्मा तु लभते पुरुषाभिधाम् ॥
कलैव प्रश्चादव्यक्तं सूते भोग्याय चास्य तु ॥ ६३ ॥
सप्तग्रन्थिविधानस्य यत्तद्गौणस्यकारणम् ॥
गुणानामविभागोऽत्र ह्याधारे क्ष्मादिभागवत् ॥ ६४ ॥
आधारोऽपि च यस्तेषां तदव्यक्तं च गीयते ॥
त्रय एव गुणा ह्यषामव्यक्तादेव सम्भवः ॥ ६५ ॥
सत्त्वं रजस्तमःप्रख्या व्यापारनियमात्मिका ॥
गुणतो धीश्च विषयाध्यवसायस्वरूपिणी ॥ ६६ ॥
गुणतस्त्रिविधा सापि प्रोक्ता कर्मानुसारतः ॥
महत्तत्तवादहङ्कारो जातः संरम्भवृत्तिमान् ॥ ६७ ॥
सम्भोदादस्य विषयः प्राप्नोति व्यवहार्यताम् ॥
सत्त्वा द्विगुणभेदेन स पुनस्त्रिविधो भवेत् ॥ ६८ ॥
तैजसो राजसश्चैव तामसश्चेति नामतः ॥
तत्र तैजसतो ज्ञानेन्द्रियाणि मनसा सह ॥ ६९ ॥
प्रकाशान्व यतस्तस्माद्वोधकानि भवन्ति हि ॥
राजसाञ्च क्रियाहेतोस्तथा कर्मेन्द्रियाणि तु ॥ ७० ॥
तामसाञ्चैव जायन्ते तन्मात्रा भूतयोनयः ॥
इच्छारूपं च सङ्कल्पव्यापारं तत्र वै मनः ॥ ७१ ॥
द्विधाधिकारि तञ्चित्तं भोक्तृभोगोपपादकम् ॥
बहिः करणभावेन स्वोचितेन यतः सदा ॥ ७२ ॥
इन्द्रियाणाञ्च सामर्थ्यं सङ्कल्पेनात्मवृत्तिना ॥
करोत्यन्तःस्थितं भूयस्ततोऽन्तः करणं मनः ॥ ७३ ॥
मनोऽहङ्कारबुद्ध्याख्यमस्त्यन्तः कारणं त्रिधा ॥
इच्छासंरम्भबोधाख्या वृत्तयः क्रमतोऽस्य तु ॥ ७४ ॥
ज्ञानेन्द्रियाणि श्रोत्रं त्वक् चक्षुर्जिह्वा च नासिका ॥
ग्राह्याश्च विषया ह्येषां ज्ञेयाः शब्दादयो मुने ॥ ७५ ॥
शब्दस्पर्शरूपरसगन्धाः शब्दादयो मताः ॥
वाक्पाणिपादपायूपस्थास्तु कर्मेन्द्रियाण्यपि ॥ ७६ ॥
वचनादानगमनोत्सर्गानन्देषु कर्मसु ॥
करणानि च सिद्धिना न कृतिः करणैर्विना ॥ ७७ ॥
दशधा करणैश्चेष्टां कार्यमाविश्य कार्यते ॥
चेष्टन्ते कार्यमालम्ब्य विभुत्वात्करणानि तु ॥ ७८ ॥
तन्मात्राणि तु खवायुस्तेजोऽम्भः क्ष्मेति पञ्च वै ॥
तेभ्यो भूतान्येकगुणान्याख्यातानि भवन्ति हि ॥ ७९ ॥
इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये ॥
रूपं त्रिषु रसश्चैव द्वयोर्गन्धः क्षितौ तथा ॥ ८० ॥
कार्याण्येषां क्रमेणैवावकाशो व्यूहकल्पनम् ॥
पाकश्च सङ्ग्रहश्चैव धारणं चेति कथ्यते ॥ ८१ ॥
आशीतोष्णौ महा वाद्यौ शीतोष्णौ वारितेजसोः ॥
भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा ॥ ८२ ॥
रूपं त्रिषु रसोंऽभः सु मधुरः षड्विधः क्षितौ ॥
गन्धः क्षितावसुरभिः सुरभिश्च प्रकीर्तितः ॥ ८३ ॥
तन्मात्रं तद्भूतगुणं करणं पोषणं तथा ॥
भूतस्य तु विशेषोऽयं विशेषरहितं तु तत् ॥ ८४ ॥
इमानि पञ्चभूतानि सन्निविष्टानि सर्वतः ॥
पञ्चभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥ ८५ ॥
शरीरसन्निविष्टत्वमेषां तावन्निरूप्यते ॥
देहेऽस्थिमांसकेशत्वङ्नखदन्ताश्च पार्थिवाः ॥ ८६ ॥
मूत्ररक्तकफस्वेदशुक्रादिषु जलस्थितिः ॥
हृदि पङ्क्तौ दृशोः पित्ते तेजस्तद्धर्मदर्शनात् ॥ ८७ ॥
प्राणादिवृत्तिभेदेन वायुश्चैवात्र संस्थितः ॥
वियत्सर्वासु नाडीषु गर्भवृत्यनुषङ्गतः ॥ ८८ ॥
प्रयोक्त्यादिमहीप्रान्तमेतदण्डार्थसाधनम् ॥
प्रत्यात्मनियतं भोगभेदतो व्यवसीयते ॥ ८९ ॥
तत्त्वान्येवं कलाद्यानि प्रतिपुन्नियतानि हि ॥
देहेषु कर्मवशतः सर्वेषु विचरन्ति हि ॥ ९० ॥
मायेयश्चैव पाशोऽयं येनावृतमिदं जगत् ॥
अशुद्धाध्वामतो ह्येष धरण्यादिकलावधिः ॥ ९१ ॥
तत्र भूमण्डलस्थोऽसौ स्थावरो जङ्गमात्मकः ॥
स्थावरा गिरिवृक्षाद्या जङ्गमस्त्रिविधः पुनः ॥ ९२ ॥
स्वेदजाश्चाण्डजाश्चैव तथैव च जरायुजाः ॥
चराचरेषु लक्षाणां चतुराशीतियोनयः ॥ ९३ ॥
भ्रममाणस्तेषु जीवः कदाचिन्मानुषं वपुः ॥
प्राप्नोति कर्मवशतः परं सर्वार्थसाधकम् ॥ ९४ ॥
तत्रापि भारते खण्डे ब्राह्मणादिकुलेषु च ॥
महापुण्यवशेनैव जनिर्भवति दुर्लभा ॥ ९५ ॥
जनिश्च पुंस्‌त्रियोर्योगः शुक्रशोणितयोगतः ॥
बिन्दुरेकः प्रविशति यदा गर्भे द्वयात्मकः ॥ ९६ ॥
तदा रजोऽधिके नारी भवेद्रेतोऽधिके पुमान् ॥
मलकर्मादिपाशेन कश्चिदात्मा नियन्त्रितः ॥ ९७ ॥
जीवभावं तदा तस्मिन्सकलः प्रतिपद्यते ॥
अथ तत्राहृतैर्मात्रा पानान्नाद्यैश्च पोषितः ॥ ९८ ॥
पक्षमासादिकालेन वर्धते वपुरत्र हि ॥
दुःखाद्यः पीडितश्चैवाच्छन्नदेहो जरायुणा ॥ ९९ ॥
एवं तत्र स्थितो गर्भे प्राग्जन्‌मोत्थं शुभाशुभम् ॥
स्मरंस्तिष्टति दुःखात्मापीड्यमानो मुहुर्मुहुः ॥ १०० ॥
कालक्रमेण बालोऽसौ मातरं पीडयन्नपि ॥
सम्पीडितो निःसरति योनियन्त्रादवाङ्मुखः ॥ १०१ ॥
क्षणं तिष्टति निश्चेष्टस्ततो रोदितुमिच्छति ॥
ततः क्रमेण स शिशुर्वर्धमानो दिनेदिने ॥ १०२ ॥
बालपौगण्डभेदेन युवत्वं प्रतिपद्यते ॥
एवं क्रमेण लोकेऽस्मिन्देहिनां देहसम्भवः ॥ १०३ ॥
मानुषं दुर्लभं प्राप्य सर्वलोकोपकारकम् ॥
यस्तारयति नात्मानं तस्मात्पापतरोऽत्र कः ॥ १०४ ॥
आहारश्चैव निद्रा च भयं मैथुनमेव च ॥
पश्वादीनां च सर्वेषां च सर्वेषां साधारणमितीरितम् ॥ १०५ ॥
चतुर्ष्वेवानुरक्तो यः स मूर्खो ह्यात्मधातकः ॥
मनुष्याणामयं धर्मः रवबन्धच्छेदनात्मकः ॥ १०६ ॥
पाशबन्धनविच्छेदो दीक्षयैव प्रजायते ॥
अतो बन्धनविच्छित्त्यै मन्त्रदीक्षां समाचरेत् ॥ १०७ ॥
दीक्षाज्ञानाख्यया शक्त्या ह्यपध्वंसितबन्धनः ॥
शुद्धात्मतत्त्वनामासौ निर्वाणपदमश्नुते ॥ १०८ ॥
स्वशक्त्यात्मिकया दृष्ट्या शिवं ध्यायति पश्यति ॥
यजते शिवं मन्त्रैश्च रवपरेषां हिताय सः ॥ १०९ ॥
शिवार्कशक्तिदीधित्या समर्थीकृतचिदृशा ॥
शिवशक्त्यादिभिः सार्द्धं पश्यत्यात्मगतावृत्तिः ॥ ११० ॥
अन्तःकरणवृत्तिर्या बोधाख्या सा महेश्वरम् ॥
न प्रकाशयितुं शक्ता पाशत्वान्निगडादिवत् ॥ १११ ॥
दीक्षैव परमो हेतुः पाशविच्छेदने पुनः ॥
अतः शास्त्रोक्तविधिना मन्त्रदीक्षां समाचरेत् ॥ ११२ ॥
दीक्षितस्तन्त्रविधिना स्ववर्णाचारतत्परः ॥
अनुष्टानं प्रकुर्वीत नित्यनमित्तिकात्मकम् ॥ ११३ ॥
निजवर्णाश्रमाचारान्मनसापि न लङ्घयेत् ॥
यो यस्मिन्नाश्रमे तिष्टन्दीक्षां प्राप्नोति मानवः ॥ ११४ ॥
स तस्मिन्नाश्रमे तिष्ठेत्तद्धर्माननुपालयेत् ॥
कृतान्यपि न कर्माणि बन्धनाय भवन्ति हि ॥ ११५ ॥
एकं तु फलदं कर्म मन्त्रानुष्ठानसम्भवम् ॥
दीक्षितोऽभिलषेद्भोगान्यद्यल्लोकगतानसौ ॥ ११६ ॥
मन्त्राराधनसामर्थ्यात्तद्भुक्त्वा मोक्षमश्नुते ॥
नित्यं नैमित्तिकं दीक्षां प्राप्य यो नाचरेन्नरः ॥ ११७ ॥
कञ्चित्कालं पिशाचत्वं प्राप्यान्ते मोक्षमश्नुते ॥
तस्मात्तु दीक्षितः कुर्य्यान्नित्यनैमित्तिकादिकम् ॥ ११८ ॥
अनुष्ठानं च तेनास्य दीक्षां प्राप्याऽनुमीयते ॥
नित्यनैमित्तिकाचार पालकस्य नरस्य तु ॥ ११९ ॥
दीक्षावैकल्यविरहात्सद्यो मुक्तिस्तु जायते ॥
तत्रापि गुरुभक्तस्य गतिर्भवति नान्यथा ॥ १२० ॥
दीक्षया गुरुमूर्तिस्थः सर्वानुग्राहकः शिवः ॥
दृष्टाद्यर्थतया यस्य गुरुभक्तिस्तु कृत्रिमा ॥ १२१ ॥
कृतेऽपि विफलं तस्य प्रायश्चित्तं पदे पदे ॥
कायेन मनसा वाचा गुरुभक्तिपरस्य च ॥ १२२ ॥
प्रायश्चित्तं भवेन्नैव सिद्धिस्तस्य पदे पदे ॥
गुरुभक्तियुते शिष्ये सर्वस्वविनिवेदके ॥ १२३ ॥
मिथ्याप्रयुक्तमन्त्रस्तु प्रायाश्चित्ती भवेद्गुरुः ॥ १२४ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे त्रिषष्टितमोऽध्यायः ॥