सूत उवाच ॥
एतच्छ्रृत्वा तु वचनं नारदो भगवानृषिः ॥
पुनः पप्रच्छ तं विप्र शुकाभिपतनं मुनिम् ॥ ६२-१ ॥
नारद उवाच ॥
भगवन्सर्वमाख्यातं त्वयाऽतिकरुणात्मना ॥
यच्छ्रृत्वा मानसं मेऽद्य शान्तिमग्र्यामुपागतम् ॥ ६२-२ ॥
पुनश्च मोक्षशास्त्रं मे त्वमादिश महामुने ॥
नहि सम्पूर्णतामेति तृष्णा कृष्णगुणार्णवे ॥ ६२-३ ॥
ये तु संसारनिर्मुक्ता मोक्ष शास्त्रपरायणाः ॥
कुत्र ते निवसन्तीह संशयो मे महानयम् ॥ ६२-४ ॥
तं छिन्धि सुमहाभागत्वत्तो नान्यो विदांवरः ॥
सनं.उ.॥
धारयामास चात्मानं यथाशास्त्रं महामुनिः ॥ ६२-५ ॥
पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित् ॥
ततः स प्राङ्मुखो विद्वानादित्येन विरोचिते ॥ ६२-६ ॥
पाणिपादं समाधाय विनीतवदुपाविशत् ॥
न तत्र पक्षिसङ्घातो न शब्दो न च दर्शनम् ॥ ६२-७ ॥
यत्र वैयासकिर्द्धाम्नि योक्तुं समुपचक्रमे ॥
स ददर्श तदात्मानं सर्वसङ्गविनिःसृतः ॥ ६२-८ ॥
प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम् ॥
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ॥ ६२-९ ॥
महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ॥
अन्तरीक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ॥ ६२-१० ॥
तमुन्द्यन्तं द्विजश्रेष्टं वैनतेयसमद्युतिम् ॥
ददृशुः सर्वभूतानि मनोमारुतरंहसम् ॥ ६२-११ ॥
यथाशक्ति यथान्यायं पूजयाञ्चक्रिरे तथा ॥
पुष्प वर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः ॥ ६२-१२ ॥
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः ॥
ऋषयश्चैव संसिद्धाः कोऽयं सिद्धिमुपागतः ॥ ६२-१३ ॥
ततोऽसौ स्वाह्रयं तेभ्यः कथयामास नारद ॥
उवाच च महातेजास्तानृषीन्सम्प्रहर्षितः ॥ ६२-१४ ॥
पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ॥
तस्मै प्रतिवचोदेयं भवद्भिस्तु समाहितैः ॥ ६२-१५ ॥
बाढमुक्तस्ततस्तैस्तु लोकान्हित्वा चतुर्विधान् ॥
तमो ह्यष्टविधं त्यक्त्वा जहौ पञ्चविधं रजः ॥ ६२-१६ ॥
ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत् ॥
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गपूजिते ॥ ६२-१७ ॥
ततः स श्रृङ्गेऽप्रतिमे हिमवन्मेरुसन्निभे ॥
संश्लिष्टे श्वेतपीते च रुक्मरूप्यमये शुभे ॥ ६२-१८ ॥
शतयोजनविस्तारे तिर्यागूर्द्ध्च नारद ॥
सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः ॥ ६२-१९ ॥
ते श्रृङ्गेऽत्यन्तसंश्लिष्टे सहसैव द्विधाकृते ॥
अदृश्येतां द्विजश्रेष्ट तदद्भुतमिवाभवत् ॥ ६२-२० ॥
ततः पर्वतश्रृङ्गाभ्यां सहसैव विनिःसृतः ॥
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥ ६२-२१ ॥
ततो मन्दाकिनीं दिव्या मुपरिष्टादभिव्रजन् ॥
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननम् ॥ ६२-२२॥
तस्यां क्रीडासु निरताः स्नान्ति चैवाप्सरोगणाः ॥
निराकारं तु साकाराददृशुस्तं विवाससः ॥ ६२-२३ ॥
तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः ॥
उत्तमां गतिमास्थाय पृष्टतोऽनुससार ह ॥ ६२-२४ ॥
शुकस्तु मारुतादूर्द्ध्वं गतिं कृत्वां तरिक्षगाम् ॥
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥ ६२-२५ ॥
अथ योगगतिं व्यासः समास्थाय महातपाः ॥
निमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥ ६२-२६ ॥
स ददर्श द्विधा कृत्वा पर्वताग्रं गतं शुकम् ॥
शशंसुर्मुनयः सिद्धा गतिं तस्मै सुतस्य ताम् ॥ ६२-२७ ॥
ततः शुकेतिशब्देन दीर्घेण क्रन्दितं तदाः ॥
स्वयं पित्रा स्वरेणोञ्चैस्त्रींल्लोकाननुनाद्य वै ॥ ६२-२८ ॥
शुकः सर्वगतिर्भूत्वा सर्वात्मा सर्वतोमुखः ॥
प्रत्यभाषत धर्मात्मा भोः शब्देनानुनादयन् ॥ ६२-२९ ॥
तत एकाक्षरं नादं भोरित्येवमुदीरयन् ॥
प्रत्याहरज्जगत्सर्वमुञ्चैः स्थावरजङ्गमम् ॥ ६२-३० ॥
ततः प्रभृति वाऽद्यापि शब्दानुञ्चारितान्पृथक् ॥
गिरिगह्वरपृष्टेषु व्याजहार शुकं प्रति ॥ ६२-३१ ॥
अन्तर्हितप्रभावं तं दर्शयित्वा शुकस्तदा ॥
गुणान्सन्त्यज्य सत्त्वादीन्पदमध्यगमत्परम् ॥ ६२-३२ ॥
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः ॥
सोऽनुनीतो भगवता व्यासो रुद्रेण नारद ॥ ६२-३३ ॥
किमु त्वं ताम्यसि मुने पुत्रं प्रति समाकुलः ॥
पश्यसि विप्र नायान्तं ब्रह्यभूतं निजान्तिरे ॥ ६२-३४ ॥
इत्येवमनुनीतोऽसौ व्यासः पुनरुप्राव्रजत् ॥
श्वाश्रमं स शुको ब्रह्मभूतो लोकांश्चचार ह ॥ ६२-३५ ॥
तत कालान्तरे ब्रह्मन्व्यासः सत्यवतीसुतः ॥
नरनारायणौ द्रष्टुं ययौ बदरिकाश्रमम् ॥ ६२-३६ ॥
तत्र दृष्ट्वा तु तौ देवौ तप्यमानो महत्तपः ॥
स्वयं च तत्र तपसि स्थितः शुकमनुस्मरन् ॥ ६२-३७ ॥
यावत्तत्र स्थितो व्यासः शुकः परमयोगवित् ॥
श्वेतद्वीपं गतस्तात यत्र त्वमगमः पुरा ॥ ६२-३८ ॥
तत्र दृष्टप्रभावस्तु श्रीमान्नारायणः प्रभुः ॥
दृष्टः श्रुतिविमृग्यो हि देवदेवो जनार्दनः ॥ ६२-३९ ॥
स्तुतश्च शुकदेवेन प्रसन्नः प्राह नारद ॥
श्रीभगवानुवाच ॥
त्वया दृष्टोऽस्मि योगीन्द्र सर्वदेवरहःस्थितः ॥ ६२-४० ॥
सनत्कुमारादिष्टेन सिद्धो योगेन वाडव ॥
त्वं सदागतिमार्गस्थो लोकान्पश्य यथेच्छया ॥ ६२-४१ ॥
इत्युक्तो वासुदेवेन तं नत्वारणिसम्भवः ॥
वैकुण्ठं प्रययौ विप्र सर्वलोकनमस्कृतम् ॥ ६२-४२ ॥
वैमानिकैः सुरैर्जुष्टं विरजापरिचेष्टितम् ॥
यं भान्तमनुभान्त्येते लोकाः सर्वेऽपि नारद ॥ ६२-४३ ॥
यत्र विदुमसोपानाः स्वर्णरत्नविचित्रिताः ॥
वाप्य उत्पलंसञ्छन्नाः सुरस्त्रीक्रीडनाकुलाः ॥ ६२-४४ ॥
दिव्यैर्हंसकुलैर्घुष्टाः स्वच्छाम्बुनिभृताः सदा ॥
तत्र द्वाःस्थैश्चतुर्हस्तेनार्नाभरणभूषितैः ॥ ६२-४५ ॥
विष्वक्सेनानुगैः सिद्धैः कुमुदाद्यैरवा रितः ॥
प्रविश्याभ्यान्तरं तत्र देवदेवं चतुर्भुजम् ॥ ६२-४६ ॥
शान्तं प्रसन्नवदनं पीतकौशेयवाससम् ॥
शङ्खचक्रगदापद्मैर्मूर्तिमद्भिरुपासितम् ॥ ६२-४७ ॥
वक्षस्थलस्थया लक्ष्म्या कौस्तुभेन विराजितम् ॥
कटीसूत्रब्रह्मसूत्रकटकाङ्गदभूषितम् ॥ ६२-४८ ॥
भ्राजत्किरीटवलयं मणिनूपुरशोभितम् ॥
ददर्श सिद्धनि करैः सेव्यमानमहर्निशम् ॥ ६२-४९ ॥
तं दृष्ट्वा भक्तिभावेन तुष्टाव मधुसूदनम् ॥
शुक उवाच ॥
नमस्ते वासुदेवाय सर्वलोकैकसाक्षिणे ॥ ६२-५० ॥
जगद्बीजस्वरूपाय पूर्णाय निभृतात्मने ॥
हरये वासुकिस्थाय श्वेतद्वीपनिवासिने ॥ ६२-५१ ॥
हंसाय मत्स्यरूपाय वाराहतनुधारिणे ॥
नृसिंहाय ध्रुवेज्याय साङ्ख्ययोगेश्वराय च ॥ ६२-५२ ॥
चतुःसनाय कूर्माय पृथवे स्वसुरवात्मने ॥
नाभेयाय जगद्धात्रे विधात्रेंऽतकारय च ॥ ६२-५३ ॥
भार्गवेन्द्राय रामाय राघवाय पराय च ॥
कृष्णाय वेदकर्त्रे च बुद्धकल्किस्वरूपिणे ॥ ६२-५४ ॥
चतुर्व्युहाय वेद्याय ध्येयाय परमात्मने ॥
नरनारायणाख्याय शिषिविष्टाय विष्णवे ॥ ६२-५५ ॥
ऋतधाम्ने विधाम्ने च सुपर्णाय स्वरोचिषे ॥
ऋभवे सुव्रताख्याय सुधाम्ने चाजिताय च ॥ ६२-५६ ॥
विश्वरूपाय विश्वाय सृष्टिस्थित्यन्तकारिणे ॥
यज्ञाय यज्ञभोक्ते च स्थविष्ठायाणवेऽर्थिने ॥ ६२-५७ ॥
आदित्यसोमनेत्राय सहओजोबलाय च ॥
ईज्याय साक्षिणेऽजायबहुशीर्षाङ्घ्रिबाहवे ॥ ६२-५८ ॥
श्रीशाय श्रीनिवासाय भक्तवश्याय शार्ङ्गिणे ॥
अष्टप्रकृत्यधीशाय ब्रह्मणेऽनन्तसक्तये ॥ ६२-५९ ॥
बृहदारण्यवेद्याय हृषीकेशाय वेधसे ॥
पुण्डरीकनिभाक्षाय क्षेत्रज्ञाय विभासिने ॥ ६२-६० ॥
गोविन्दाय जगत्कर्त्रे जगन्नाथाय योगिने ॥
सत्याय सत्यसन्धाय वैकुण्ठायाच्युताय च ॥ ६२-६१ ॥
अधोक्षजाय धर्माय वामनाय त्रिधातवे ॥
घृतार्चिषे विष्णवे तेऽनन्ताय कपिलायय च ॥ ६२-६२ ॥
विरिञ्चये त्रिककुदे ऋग्यजुःसामरूपिणे ॥
एकश्रृङ्गाय च शुचिश्रवसे शास्त्रयोनये ॥ ६२-६३ ॥
वृषाकपय ऋद्धाय प्रभवे विश्वकर्मणे ॥
भूर्भुवुःस्वःस्वरूपाय दैत्यघ्ने निर्गुणाय च ॥ ६२-६४ ॥
निरञ्जनाय नित्याय ह्यव्ययायाक्षराय च ॥
नमस्ते पाहि मामीश शरणागतवत्सल ॥ ६२-६५ ॥
इति स्तुतः स भगवाञ्च्छङ्खचक्रगदाधरः ॥
आरणेयमुवाचेदं भृशं प्रणतवत्सलः ॥ ६२-६६ ॥
श्रीभगवानुवाच ॥
व्यासपुत्र महाभाग प्रीतोऽस्मि तव सुव्रत ॥
विद्यामाप्नुहि भक्तिं च ज्ञानी त्वं मम रूपधृक् ॥ ६२-६७ ॥
यद्रूपं मम दृष्टं प्राक् श्वेतद्वीपे त्वया द्विज ॥
सोऽहमेवावतारार्थं स्थितो विश्वम्भरात्मकः ॥ ६२-६८ ॥
सिद्धोऽसि त्वं महाभाग मोक्षधर्मानुनुचिन्तया ॥
वरलोकान्यथा वायुर्यथा रवं सविता तथा ॥ ६२-६९ ॥
नित्यमुक्तस्वरूपस्त्वं पूज्यमानः सुरैर्नरैः ॥
भक्तिर्हि दुर्लभा लोके मयि सर्वपरायणे ॥ ६२-७० ॥
तां लब्ध्वा नापरं किञ्चिल्लब्धव्यमवशिष्यते ॥
आकल्पान्तः तपः संस्थौ नरनारायणावृषी ॥ ६२-७१ ॥
तयोर्निदेशतो व्यासो जनक स्तव सुव्रतः ॥
कर्ता भागवतं शास्त्रं तदधीष्व भुवं व्रज ॥ ६२-७२ ॥
स तप्यति तपस्त्वद्य पर्वते गन्धमादने ॥
त्वद्वियोगेन खिन्नात्मा तं प्रसादय मत्प्रियम् ॥ ६२-७३ ॥
एवमुक्तः शुको विप्र नमस्कृत्य चतुर्भुजम् ॥
यथागतं निवृत्तोऽसौ पितुरन्तिकमागमत् ॥ ६२-७४ ॥
अथ तं स्वन्तिके दृष्ट्वा पाराशर्य्यः प्रतापवान् ॥
पुत्रं प्राप्य प्रहृष्टात्मा तपसो निववर्त ह ॥ ६२-७५ ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
आरणेयसमायुक्तः स्वाश्रमं समुपागमत् ॥ ६२-७६ ॥
नारायणनियोगात्तु त्वन्मुखेन मुनीश्वर ॥
चकार संहितां दिव्यां नानाख्यानसमन्विताम् ॥ ६२-७७ ॥
वेदतुल्यां भागवतीं हरिभक्तिविवर्द्धिनीम् ॥
निवृत्तिनिरतं पुत्रं शुकमध्यापयञ्च ताम् ॥ ६२-७८ ॥
आत्मारामोऽपि भगवान्पाराशर्यात्मजः शुकः ॥
अधीतवान्संहितां वै नित्यं विष्णुजनप्रियाम् ॥ ६२-७९ ॥
एवमेते समाख्याता मोक्षधर्मास्तवानध ॥
पठतां श्रृण्वतां चापि हरिभक्तिविवर्द्धनाः ॥ ६२-८० ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने मोक्षधर्म्मनिरूपणं नाम द्विषष्टितमोऽध्यायः ॥
समाप्तश्चायं द्वितीयः पादः ॥