सनन्दन उवाच ॥
अवतीर्णेषु विप्रेषु यासः पुत्रसहायवान् ॥
तूर्ष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् ॥ ६०-१ ॥
तमुवाचाशरीरी वाक् व्यासं पुत्रसमन्वितम् ॥
भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते ॥ ६०-२ ॥
एको ध्यानपरस्तूष्णी किमास्से चिन्तयन्निव ॥
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते ॥ ६०-३ ॥
तस्मादधीष्व भगवन्सार्द्ध पुत्रेण धीमता ॥
वेदान्वेदविदा चैव सुप्रसन्नमनाः सदा ॥ ६०-४ ॥
तच्छुत्वा वचनं व्यासो नभोवाणीसमीरितम् ॥
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् ॥ ६०-५ ॥
तयोरभ्यसतोरेवं बहुकालं द्विजोत्तम ॥
वातोऽतिमात्रं प्रववौ समुद्रानिलवीजितः ॥ ६०-६ ॥
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् ॥
शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥ ६०-७ ॥
अपृच्छत्पितरं तत्र कुतो वायुरभूदयम् ॥
आख्यातुमर्हति भवान्सर्वं वायोर्विचैष्टितम् ॥ ६०-८ ॥
शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः ॥
अनध्यायनिमित्तऽस्मिन्निदं वचनं मब्रवीत् ॥ ६०-९ ॥
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः ॥
तमसा रजसा चापि त्यक्तः सत्ये व्यवस्थितः ॥ ६०-१० ॥
तस्यात्मनि स्वयं वेदान्बुद्ध्वा समनुचिन्तय ॥
देवयानचरो विष्णोः पितृयानश्च तामसः ॥ ६०-११ ॥
द्वावेतौ प्रत्ययं यातौ दिवं चाधश्च गच्छतः ॥
पिथिव्यामन्तरिक्षे च यतः संयान्ति वायवः ॥ ६०-१२ ॥
सप्त ते वायुमार्गा वै तान्निबोधानुपूर्वशः ॥
तत्र देवगणाः साध्याः समभूवन्महाबलाः ॥ ६०-१३ ॥
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ॥
उदानस्तस्य पुत्रोऽभूव्द्यानस्तस्याभवत्सुतः ॥ ६०-१४ ॥
अपानश्च ततो जज्ञे प्राणश्चापि ततः परम् ॥
अनपत्योऽभवत्प्राणो दुर्द्धर्षः शत्रुमर्दनः ॥ ६०-१५ ॥
पृथक्क्र्म्माणि तेषां तु प्रवक्ष्यामि यथा तथा ॥
प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् ॥ ६०-१६ ॥
प्रीणनाञ्चैव सर्वेषां प्राण इत्यभिधीयते ॥
प्रेषयत्यभ्रसङ्घातान्धूमजांश्चोष्मजांस्तथा ॥ ६०-१७ ॥
प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः ॥
अम्बरे स्नेहमात्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः ॥ ६०-१८ ॥
आवहो नाम सोऽभ्येति द्वितीयः श्वसनो नदन् ॥
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः ॥ ६०-१९ ॥
अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः ॥
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्द्धारयते जलम् ॥ ६०-२० ॥
उद्धृत्य ददते चापो जीमूतेभ्यो वनेऽनिलः ॥
योऽद्धिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छती ॥ ६०-२१ ॥
उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः ॥
सन्नीयमाना बहुधा येन नीला महाघनाः ॥ ६०-२२ ॥
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः ॥
योऽसौ वहति देवानां विमानानि विहायसा ॥ ६०-२३ ॥
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ॥
येन वेगवता रुग्णाः क्रियन्ते तरुजा रसाः ॥ ६०-२४ ॥
पञ्चमः स महावेगो विवहो नाम मारुतः ॥
यस्मिन्परिप्लवे दिव्या वहन्त्यापो विहायसा ॥ ६०-२५ ॥
पुण्यं चाकाशगङ्गायास्तोयं तिष्टति तिष्टति ॥
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ॥ ६०-२६ ॥
योनिरंशुसहस्रस्य येन याति वसुन्धराम् ॥
यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च ॥ ६०-२७ ॥
षष्ठः परिवहो नाम स वायुर्जीवतां वरः ॥
सर्वप्राणभृतां प्राणार्न्योऽतकाले निरस्यति ॥ ६०-२८ ॥
यस्य धर्मेऽनुवर्तेते मृत्युवेवस्वतावुभौ ॥
सम्यगन्वीक्षता बुद्ध्या शान्तयाऽध्यात्मनित्यया ॥ ६०-२९ ॥
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ॥
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे ॥ ६०-३० ॥
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ॥
येन वृष्ट्या पराभूतस्तोयान्येन निवर्तते ॥ ६०-३१ ॥
परीवहो नाम वरो वायुः स दुरतिक्रमः ॥
एवमेते दितेः पुत्रा मरुतः परमाद्भुताः ॥ ६०-३२ ॥
अनारमन्तः सर्वाङ्गाः सर्वचारिणः ॥
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः ॥ ६०-३३ ॥
कम्पितः सहसा तेन पवमानेन वायुना ॥
विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः ॥ ६०-३४ ॥
सहसोदीर्यते तात जगत्प्रव्यथते तदा ॥
तस्माद्ब्रह्मविदो ब्रह्म न पठन्त्यतिवायुतः ॥ ६०-३५ ॥
वायोर्वायुभयं ह्युक्तं ब्रह्य तत्पीडितं भवेत् ॥
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः ॥ ६०-३६ ॥
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात्तदा ॥
ततो व्यासे गते स्नातुं शुको ब्रह्मविदां वरः ॥ ६०-३७ ॥
स्वाध्यायमकरोद्ब्रह्मन्वेदवेदाङ्गपारगः ॥
तत्र स्वाध्यायसंसक्तं शुकं व्याससुतं मुने ॥ ६०-३८ ॥
सनत्कुमारो भगवानेकान्ते समुपागतः ॥
उत्थाय सत्कृतस्तेन ब्रह्मपुत्रो हि कार्ष्णिना ॥ ६०-३९ ॥
ततः प्रोवाच विप्रेन्द्र शुकं विदां वरः ॥
किं करोषि महाभाग व्यासपुत्र महाद्युते ॥ ६०-४० ॥
शुक उवाच ॥
स्वाध्याये सम्प्रवृत्तोऽहं ब्रह्मपुत्राधुना स्थितः ॥
त्वद्दर्शनमनुप्राप्तः केनापि सुकृतेन च ॥ ६०-४१ ॥
किञ्चित्त्वां प्रष्टुमिच्छामि तत्त्वं मोक्षार्थसाधनम् ॥
तद्वदस्व महाभाग यथा तज्ज्ञानमाप्नुयाम् ॥ ६०-४२ ॥
सनत्कुमार उवाच ॥
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः ॥
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥ ६०-४३ ॥
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ॥
सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम् ॥ ६०-४४ ॥
मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति ॥
नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणः ॥ ६०-४५ ॥
सक्तस्य बुद्धर्भवति मोहजालविवर्द्धिनी ॥
मोहजालावृतो दुःखमिहामुत्र तथाश्नुते ॥ ६०-४६ ॥
सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः ॥
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥ ६०-४७ ॥
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेञ्च मत्सरात् ॥
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥ ६०-४८ ॥
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ॥
आत्मज्ञानं परं ज्ञानं सत्यं हि परमं हितम् ॥ ६०-४९ ॥
येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः ॥
इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह ॥ ६०-५० ॥
असज्जमानः शान्तात्मा निर्विकारः समाहितः ॥
आत्मभूतैरतद्भूतः सह चैव विनैव च ॥ ६०-५१ ॥
स विमुक्तः परं श्रेयो न चिरेणाधिगच्छति ॥
अदर्शनमसंस्पर्शस्तथैवाभाषाणं सदा ॥ ६०-५२ ॥
यस्य भूतैः सह मुने स श्रेयो विन्दते महत् ॥
न हिंस्यात्सर्वभूतानि भूतैर्मैत्रायणश्चरेत् ॥ ६०-५३ ॥
नेदं जन्म समासाद्य वैरं कुर्वीत केन चित् ॥
आकिञ्चन्यं सुसन्तोषो निराशिष्ट्वमचापलम् ॥ ६०-५४ ॥
एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥
परिग्रहं परित्यज्य भव तातजितेन्द्रियः ॥ ६०-५५ ॥
अशोकं स्थानमातिष्ट इह चामुत्र चाभयम् ॥
निराशिषो न शोचन्ति त्यजेदाशिषमात्मनः ॥ ६०-५६ ॥
परित्यज्याशिषं सौम्य दुःखग्रामाद्विमोक्ष्यसे ॥
तपरोनित्येन दान्तेन मुनिना संयतात्मना ॥ ६०-५७ ॥
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥
गुणसङ्गेष्वेष्वनासक्त एकचर्या रतः सदा ॥ ६०-५८ ॥
ब्राह्मणो न चिरादेव सुखमायात्यनुत्तमम् ॥
द्वन्द्वारामेषु भूतेषु वराको रमते मुनिः ॥ ६०-५९ ॥
किञ्चिन्प्रज्ञानतृप्तोऽसौ ज्ञानतृप्तो न शोचति ॥
शुभैर्लभेत देवत्वं व्यामिश्रैर्जन्म मानुषम् ॥ ६०-६० ॥
अशुभैश्चाप्यधो जन्म कर्मभिर्लभतेऽवशः ॥
तत्र मृत्युजरादुःखैः सततं समभिद्रुतम् ॥ ६०-६१ ॥
संसारं पश्यते जन्तुस्तत्कथं नावबुध्से ॥
अहिते हितसञ्ज्ञस्त्वमध्रुवे ध्रुवसञ्ज्ञकः ॥ ६०-६२ ॥
अनर्थे वार्थसञ्ज्ञस्त्वं किमर्थं नावबुध्यसे ॥
संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः ॥ ६०-६३ ॥
कोशकारवदात्मानं वेष्टितो नावबुध्यसे ॥
अलं परिग्रहेणेह दोषवान् हि परिग्रहः ॥ ६०-६४ ॥
कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ॥
पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः ॥ ६०-६५ ॥
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥
मोहजालसमाकृष्टान्पश्यजन्तून्सुदुःखितान् ॥ ६०-६६ ॥
कुटुम्बं पुत्रदारं च शरीरं द्रव्यसञ्चयम् ॥
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृते ॥ ६०-६७ ॥
यदा सर्वं परित्यज्य गन्तव्यमवशेन वै ॥
अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्टसि ॥ ६०-६८ ॥
अविश्रान्तमनालम्बमपाथेयमदैशिकम् ॥
तमः कर्त्तारमध्वानं कथमेको गमिष्यसि ॥ ६०-६९ ॥
नहि त्वां प्रस्थितं कश्चित्पृष्टतोऽनुगमिष्यति ॥
सुकृतं दुष्कृतं च त्वां गच्छन्तमनुयास्यतः ॥ ६०-७० ॥
विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् ॥
अर्थार्थमनुशीर्यन्ते सिद्धार्थस्तु विमुच्यते ॥ ६०-७१ ॥
निबन्धिनी रज्जुरेषा या ग्रामे वसतो रतिः ॥
छित्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ ६०-७२ ॥
तुल्यजातिवयोरूपान् हृतान्पस्यसि मृत्युना ॥
न च नामास्ति निर्वेदो लोहं हि हृदयं तव ॥ ६०-७३ ॥
रूपकूलां मनः स्रोतां स्पर्शद्वीपां रसावहाम् ॥
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरारुहाम् ॥ ६०-७४ ॥
क्षमारित्रां सत्यमयीं धर्मस्थैर्यकराकराम् ॥
त्यागवाताध्वगां शीघ्रां बुद्धिनावं नदीं तरेत् ॥ ६०-७५ ॥
त्यक्त्वा धर्ममधर्मं च ह्युभे सत्यानृते त्यज ॥
त्यज धर्ममसङ्कल्पादधर्मं चाप्यहिंसया ॥ ६०-७६ ॥
उभे सत्यानृते बुद्धिं परमनिश्चयात् ॥
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ॥ ६०-७७ ॥
धर्मावनद्धं दुर्गन्धिं पूर्णं मूत्रपुरीषयोः ॥
जराशोकसमाविष्टं रोगायतनमस्थिरम् ॥ ६०-७८ ॥
रजस्वलमनित्यं च भूतावासं समुत्सृज ॥
इदं विश्वं जगत्सर्वमजगञ्चापि यद्भवेत् ॥ ६०-७९ ॥
महाभूतात्मकं सर्वमस्माद्यत्परमाणुमत् ॥
इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा ॥ ६०-८० ॥
इत्येष सप्तदशको राशिख्यक्तसञ्ज्ञकः ॥
सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि हितम् ॥ ६०-८१ ॥
पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गणः ॥
एतैः सर्वैः समायुक्तमनित्यमभिधीयते ॥ ६०-८२ ॥
त्रिवर्गोऽत्र सुखं दुःख जीवितं मरणं तथा ॥
य इदं वेद तत्त्वेन सस वेद प्रभवाप्ययौ ॥ ६०-८३ ॥
इन्द्रियैर्गृह्यते यद्यत्तद्व्यक्तमभिधीयते ॥
अव्यक्तमथ तज्ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ ६०-८४ ॥
इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते ॥
लोके विहितमात्मानं लोकं चात्मनि पश्यति ॥ ६०-८५ ॥
परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति ॥
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥ ६०-८६ ॥
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ॥
ज्ञानेन विविधात्क्लेशान्न निवृत्तिश्च देहजात् ॥ ६०-८७ ॥
लोकबुद्धिप्रकाशेन लोकमार्गो न रिष्यति ॥
अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम् ॥ ६०-८८ ॥
अकर्तारममूढं च भगवानाह तीर्तवित् ॥
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ॥ ६०-८९ ॥
स्वदुःखप्रतिघातार्थं हन्ति जन्तुरनेकधा ॥
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ॥ ६०-९० ॥
तप्यतेऽथ पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः ॥
अजस्रमेव मोहान्तो दुःखेषु सुखसञ्ज्ञितः ॥ ६०-९१ ॥
वध्यते तप्यते चैव भयवत्यर्मभिः सदा ॥
ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह ॥ ६०-९२ ॥
परिभ्रमति संसारे चक्रवद्बाहुवर्जितः ॥
संयमेन च सम्बन्धान्निवृत्त्या तपसो बलात् ॥ ६०-९३ ॥
सम्प्राप्ता बहवः सिद्धिं अव्याबाधां सुखोदयाम् ॥ ६०-९४ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने षष्टितमोऽध्यायः ॥