सनन्दन उवाच ॥
ततः स राजा सहितो मन्त्रिभिर्द्विजसत्तम ॥
पुरः पुरोहितं कृत्वा सर्वाण्यन्तः पुराणि च ॥ ५९-१ ॥
शिरसा चार्ध्यमादाय गुरुपुत्रं समभ्यगात् ॥
महदासनमादाय सर्वरत्न–तम् ॥ ५९-२ ॥
प्रददौ गुरुपुत्राय शुकाय परमोचितम् ॥
तत्रोपविष्टं तं कार्ष्णिशास्त्रदृष्टेन कर्मणा ॥ ५९-३ ॥
पाद्यं निवेद्य प्रथमं सार्ध्यं गां च न्यद्दे—॥
स च ताम्मन्त्रतः पूजां प्रतिगृह्य द्विजोत्तमः ॥ ५९-४ ॥
पर्यपृच्छन्महातेजाराज्ञः कुशलमव्ययम् ॥
उदारसत्त्वाभिजनो राजापि गुरुसूनवे ॥ ५९-५ ॥
आवेद्य कुशलं भूमौ निषसाद तदाज्ञया ॥
सोऽपि वैयासकिं भूयः पृष्ट्वा कुशलमव्ययम् ॥
किमागमनिमित्येव पर्यपृच्छद्विधानवित् ॥ ५९-६ ॥
शुक उवाच ॥
पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः ॥
विदेहराजोह्याद्योमे जनको नाम विश्रुतः ॥ ५९-७ ॥
तत्र त्वं गच्छ तूर्णं वै स ते हृदयसंशयम् ॥
प्रवृत्तौ च निवृत्तौ च सर्वं छेत्स्यत्यसंशयम् ॥ ५९-८ ॥
सोऽहं पितुर्नियोगात्त्वा मुपप्रष्टुमिहागतः ॥
तन्मे धर्मभृतां श्रेष्ट यथावद्वक्तुमर्हसि ॥ ५९-९ ॥
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः ॥
कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ॥ ५९-१० ॥
जनक उवाच ॥
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छुणु ॥
कृतोपनयनस्तात भवेद्वेदपरायणः ॥ ५९-११ ॥
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चान्वितः ॥
देवतानां पितॄणां च ह्यतृष्णश्चानसूयकः ॥ ५९-१२ ॥
वेदानधीत्य नियतो दक्षिणामपवर्त्य च ॥
अभ्यनुज्ञामनुप्राप्य समावर्तेत वै द्विजः ॥ ५९-१३ ॥
समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् ॥
अनसूयुर्यथान्यायमाहिताग्निरनादृते ॥ ५९-१४ ॥
उत्पाद्य पुत्रपौत्रांश्च वन्याश्रमपदे वसेत् ॥
तानेवाग्नीन्यथान्यायं पूजयन्नतिथिप्रियः ॥ ५९-१५ ॥
सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् ॥
निर्द्वन्द्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् ॥ ५९-१६ ॥
शुक उवाच ॥
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शश्वते ॥
न विना गुरुसंवासाज्ज्ञानस्याधिगमः स्मृतः ॥ ५९-१७ ॥
किमवश्यं तु वस्तव्यमाश्रमेषु न वा नृप ॥
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति ॥ ५९-१८ ॥
जनक उवाच ॥
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् ।.
न विना गुरुसम्बधाज्ज्ञानस्याधिगमस्तथा ॥ ५९-१९ ॥
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते ॥
विज्ञाय कृतकृत्यस्तु तीर्णस्तत्रोभयं त्यजेत् ॥ ५९-२० ॥
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् ॥
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥ ५९-२१ ॥
भावितैः कारणैश्चार्यं बहुसंसारयोनिषु ॥
आसादयति शुद्धात्मा मोक्षं हि प्रथमाश्रमे ॥ ५९-२२ ॥
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ॥
त्रिधाश्रमेषु कोन्वर्थो भवेत्परमभीप्सतः ॥ ५९-२३ ॥
राजसांस्तामसांश्चैव नित्यं दोषान्विसर्जयेत ॥
सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना ॥ ५९-२४ ॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥
सम्पश्यन्नैव लिप्येत जले वारिचरगो यथा ॥ ५९-२५ ॥
पक्षीवत्पवनाद्वर्ध्वममुत्रानुन्त्यश्नुते ॥
विहाय देहं निर्मुक्तो निर्द्वन्द्वः शुभसङ्गतः ॥ ५९-२६ ॥
अत्र गाथाः पुरा गीताः श्रृणु राज्ञा ययातिना ॥
धार्यते या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥ ५९-२७ ॥
ज्योतिश्चात्मनि नान्यत्र रत्नं तत्रैव चैव तत् ॥
स्वयं च शक्यं तद्द्रष्टुं सुसमाहितर्चतसा ॥ ५९-२८ ॥
न बिभेति परो यस्मान्न बिभेति पराच्च यः ॥
यश्च नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते स तु ॥ ५९-२९ ॥
यदा भावं न कुरुते सर्वभूतेषु पापकम् ॥
पूर्वैराचरितो धर्मश्चतुराश्रमसञ्ज्ञकः ॥ ५९-३० ॥
अनेन क्रमयोगेन बहुजातिसुकर्मणाम् ॥
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ ५९-३१ ॥
संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् ॥
त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते ॥ ५९-३२ ॥
यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाव्ययम् ॥
समो भवति निर्द्वुद्वो ब्रह्म सम्पद्यते तदा ॥ ५९-३३ ॥
यदा स्तुति च र्निदां च समत्वेन च पश्यति ॥
काञ्चनं चाऽयसं चैव सुखदुःखे तथैव च ॥ ५९-३४ ॥
शीतमुष्णं तथैवार्थमनंर्थं प्रियमप्रियम् ॥
जीवितं मरणं चैव ब्रह्म सम्पद्यते तदा ॥ ५९-३५ ॥
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः ॥
तर्थेद्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥ ५९-३६ ॥
तमः परिगतं वेश्य यथा दीपेन दृश्यते ॥
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥ ५९-३७ ॥
एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतांवर ॥
यञ्चान्यदपि वेत्तव्यं तत्त्वतो वेत्ति तद्भवान् ॥ ५९-३८ ॥
ब्रह्मर्षे विदितश्वासि विषयान्तमुपागतः ॥
गुरोश्चैव प्रसादेन तव चैवोपशिक्षया ॥ ५९-३९ ॥
तस्य चैव प्रसादेन प्रादुर्भूतं महामुनेः ॥
ज्ञानं दिव्यं समादीप्तं तेनासि विदितो विदितो मम ॥ ५९-४० ॥
अर्धिकं तव विज्ञानमधि कावगतिस्तव ॥
अधिकं च तवैश्वर्यं तञ्च त्वं नावबुध्यसे ॥ ५९-४१ ॥
बाल्याद्वा संशयाद्वापि भयाद्वापि विमेषजात् ॥
उत्पन्ने चापि विज्ञा ने नाधिगच्छन्ति ताङ्गतिम् ॥ ५९-४२ ॥
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयाः ॥
विमुच्य हृदयग्रन्थीनार्तिमासादयन्ति ताम् ॥ ५९-४३ ॥
मवांश्चोत्पन्नविज्ञानः स्थिरबगुद्धिरलोलुपः ॥
व्यवसायादृते ब्रह्यन्नासादयति तत्पदम् ॥ ५९-४४ ॥
नास्ति ते सुखदुःखेषु विशेषो नास्ति वस्तुषु ॥
नौत्सुक्यं नृत्यगीतेषु न राग उपजायते ॥ ५९-४५ ॥
न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् ॥
पश्यामित्वां महाभाग तुल्यनिन्दात्मसंस्तुतिम् ॥ ५९-४६ ॥
अहं च त्वानुपश्यामि ये चान्येऽपि मनीषिणः ॥
आस्थितं परमं मार्गे अक्षयं चाप्यनामयम् ॥ ५९-४७ ॥
यत्फलं ब्राह्मणस्येह मोक्षार्थश्चापदात्मकः ॥
तस्मिन्वै वर्तसे विप्रकिमन्यत्परिपृच्छसि ॥ ५९-४८ ॥
सनन्दन उवाच ॥
एतच्छ्रुत्वा तु वचनं कतात्मा कृतनिश्चयः ॥
आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना ॥ ५९-४९ ॥
कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः ॥
शैशिरं गिरिमासाद्य पाराशर्यं ददर्श च ॥ ५९-५० ॥
शिष्यानध्यापयन्तं च पैलादीन्वेदसंहिताः ॥
आरर्णेयो विशुद्धात्मा दिवाकरसमप्रभः ॥ ५९-५१ ॥
पितुर्जग्राह पादौ चज सादरं हृष्टमानसः ॥
ततो निवेदयामास पितुः सर्वमुदारधीः ॥ ५९-५२ ॥
शुको जनकराजेन संवादं मोक्षसाधनम् ॥
तच्छ्रत्वा वेदकर्तासौ प्रहृष्टेनान्तरात्मना ॥ ५९-५३ ॥
समालिङ्ग्य सुतं व्यासः स्वपार्श्वस्थं चकार च ॥ ५९-५४ ॥
ततः पैलादयो विप्रा वेदान् व्यासादधीत्य च ॥
शैलश्रृङ्गाद्भुवं प्राप्ता याजनाध्यापने रताः ॥ ५९-५५ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने एकोनषष्टितमोऽध्यायः ॥