०५७

सनन्दन उवाच ॥
वैदिकं लौकिकं चापि छन्दो द्विविधमुच्यते ॥
मात्रावर्णविभेदेन तच्चापि द्विविधं पुनः ॥ ५७-१ ॥

मयौ रसौ तजौ भनौ गुरुर्लघुरपिद्विज ॥
कारणं छन्दसि प्रोक्ताश्छन्दःशास्त्रविशारदैः ॥ ५७-२ ॥

सर्वगो मगणः प्रोक्तो मुखलो यगणः स्मृतः ॥
मध्यलो रगणश्वैव प्रान्त्यगः सगणो मतः ॥ ५७-३ ॥

तगणोंऽतलघुः ख्यातो मध्यगो जो भआदिगः ॥
त्रिलघुर्नगणः प्रोक्तस्त्रिका वर्णगणा मुने ॥ ५७-४ ॥

चतुर्लास्तु गणाः पञ्च प्रोक्ता आर्यादिसम्मताः ॥
संयोगश्च विसर्गश्चानुस्वारो लघुतः परः ॥ ५७-५ ॥

लघोर्दीर्घत्वमाख्याति दीर्घो गो लो लघुर्मतः ॥
पादश्चतुर्थभागः स्याद्विच्छेदोयतिरुच्यते ॥ ५७-६ ॥

सममर्द्धसमं वृत्तं विषमं चापि नारद ॥
तुल्यलक्षणतः पादचतुष्के सममुच्यते ॥ ५७-७ ॥

आदित्रिके द्विचतुर्थे सममर्द्धसमं ततम् ॥
लक्ष्म भिन्नं यस्य पादचतुष्के विषमं हि तत् ॥ ५७-८ ॥

एकाक्षरात्समारभ्य वर्णैकैकस्य वृद्धितः ॥
षड्विंशत्यक्षरं यावत्पादस्तावत्पृथक् पृथक् ॥ ५७-९ ॥

तत्परं चण्डवृष्ट्यादिदण्डकाः परिकल्पिताः ॥
त्रिभिः षड्भिः पदैर्गाथाः श्रृणु सञ्ज्ञा यथोत्तरम् ॥ ५७-१० ॥

उक्तात्युक्ता तथा मध्या प्रतिष्टान्या सुपूर्विका ॥
गायत्र्युष्णिगनुष्टष्टप्च बृहती पङ्क्तिरेव च ॥ ५७-११ ॥

त्रिष्टुप्च जगती चैव तथातिजगती मता ॥
शक्करी सातिपूर्वा च अष्ट्यत्यष्टी ततः स्मृते ॥ ५७-१२ ॥

धृतिश्च विधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥
विकृतिः सङ्कृतिश्चैव तथातिकृतिरुत्कृतिः ॥ ५७-१३ ॥

इत्येताश्छन्दसां सञ्ज्ञाः प्रस्ताराद्भेदभागिकाः ॥
पादे सर्वगुरौ पूर्वील्लघुं स्थाप्य गुरोरधः ॥ ५७-१४ ॥

यथोपरि तथा शेषमग्रे प्रारवन्न्यसेदपि ॥
एष प्रस्तार उदितो यावत्सर्वलघुर्भवेत् ॥ ५७-१५ ॥

नष्टाङ्कार्द्धे समे लः स्याद्विपम् सैव सोर्द्धगः ॥
उद्दिष्टे द्विगुणानाद्यादङ्गान्सम्मोल्य लस्थितान् ॥ ५७-१६ ॥

कृत्वा सेकान्वदैत्सङ्ख्यामिति प्राहुः पुराविदः ॥
वर्णान्सेकान्वृत्तभवानुत्तराधरतः स्थितान् ॥ ५७-१७ ॥

एकादिक्रमतश्चैकानुपर्य्युपरि विन्यसेत् ॥
उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्द्धतः ॥ ५७-१८ ॥

उपर्याद्याद्गुरोरेवमेकद्व्यादिलगक्रिया ॥
लगक्रियाङ्कसन्दोहे भवेत्सङ्ख्याविमिश्रिते ॥ ५७-१९ ॥

उद्दिष्टाङ्कसमाहारः सैको वा जनयेदिमाम् ॥
सङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ॥ ५७-२० ॥

इत्येतत्किञ्चिदाख्यातं लक्षणं छन्दसां नुने ॥
प्रस्तारोक्तप्रभेदानां नामानांस्त्यं प्रगाहते ॥ ५७-२१ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे सङ्क्षिप्तच्छन्दोवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥