सनन्दन उवाच ॥
क्रमाञ्चैत्रादिमासेषु मेषाद्याः सङ्क्रमा मताः ॥
चैत्रशुक्लप्रतिपदि यो वारः स नृपः स्मृतः ॥ ५६-१ ॥
मेषप्रवेशे सेनानीः कर्कटे सस्ययो भवेत् ॥
समोद्यधीश्वरः सूर्यो मध्यमश्चोत्तमोविधुः ॥ ५६-२ ॥
नेष्टः कुजो बुधो जीवो भृगुस्त्वतिशुभङ्करः ॥
अधमो रविजो वाच्यो ज्ञात्वा चैषां बलाबलम् ॥ ५६-३ ॥
दण्डाकारे कबन्धे वा ध्वाङ्क्षाकारेऽथ कीलके ॥
दृष्टेऽर्कमण्डले व्याधिर्भ्रान्तिश्चोरार्थनाशनम् ॥ ५६-४ ॥
छत्रध्वजपताकाद्यसन्निभस्तिमितैर्ध्वनैः ॥
वरिमण्डलगैर्धूम्रैः सस्फुलिङ्गैर्जगत्क्षयः ॥ ५६-५ ॥
सितरक्तैः पीतकृष्णैर्वणैर्विप्रादिपीडनम् ॥
घ्नन्ति द्वित्रिचतुर्वर्णैर्भुवि राजजनान्मुने ॥ ५६-६ ॥
ऊर्द्धैर्भानुकरैस्ताम्रैर्नाश याति चमूपतिः ॥
पीतैर्नृपसुतः श्वेतैः पुरोधाश्चित्रितैर्जनाः ॥ ५६-७ ॥
धूम्रैर्नृपपिशङ्गैस्तु जलदाधोमुखैर्जगत् ॥
शुभोऽर्कः शिशिरे ताम्रः कुङ्कुमाभा वसन्तिके ॥ ५६-८ ॥
ग्रीष्मश्चापाण्डुरश्चैव विचित्रो जलदागमे ॥
पद्मोदराभः शरदि हेमन्ते लोहितच्छविः ॥ ५६-९ ॥
पीतः शीते वृष्टौ ग्रीष्मे लोहितभारविः ॥
रोगानावृष्टिभयकृत् क्रमादुक्तो मुनीश्वर ॥ ५६-१० ॥
इन्द्रचापार्द्धमूर्तिस्तु भानुर्भूपविरोधकृत् ॥
शशरक्तनिभे भानौ सङ्ग्रामो न चिराद्भुवि ॥ ५६-११ ॥
मयूरपत्र सङ्काशो द्वादशाब्दं न वर्षति ॥
चन्द्रमासदृशो भानुः कुर्याद्भूपान्तरं क्षितौ ॥ ५६-१२ ॥
अर्के श्यामे कीटभयं भस्माभे राष्ट्रजं तथा ॥
छिद्रेऽर्कमण्डले दृष्टं महाराजविनाशनम् ॥ ५६-१३ ॥
घटाकृतिः क्षुद्भयकृत्पुरहा तोरणाकृतिः ॥
छत्राकृते देशहतिः खण्डभानुनृपान्तकृत् ॥ ५६-१४ ॥
उदयास्तमये काले विद्युदुल्काशनिर्यदि ॥
तदा नृपवधो ज्ञेयस्त्वथवा राजविग्रहः ॥ ५६-१५ ॥
पक्षं पक्षार्द्धमर्केन्दुपरिविष्टावहर्निशम् ॥
राजानमन्यं कुरुतो लोहिताम्बुदयास्तगौ ॥ ५६-१६ ॥
उदयास्तमये भानुराच्छिन्नः शस्त्रसन्निभेः ॥
घनैर्युद्धं खरोष्ट्राद्यैः पापरूपैर्भयप्रदम् ॥ ५६-१७ ॥
याम्यश्रृङ्गोन्नत्तश्चन्द्रः शुभदी मीनमेषयोः ॥
सौम्यश्रृङ्गोन्नतः श्रेष्टो नृयुङ्मकरयोस्तथा ॥ ५६-१८ ॥
घटोक्ष्णस्तु समः कर्कचापयोः शरसन्निभः ॥
चापवत्कौर्महंर्योश्च शूलबत्तुलकर्कयोः ॥ ५६-१९ ॥
विपरीतोदितश्चन्द्रो दुर्भिक्षकलहप्रदः ॥
आषाढद्वयमूलेन्द्रधिष्ण्यानां याम्यगः शशी ॥ ५६-२० ॥
अग्निप्रदस्तेयचरवनसर्पविनाशकृत् ॥
विशाखा मित्रयोर्याम्यपार्श्वगः पापगः शशी ॥ ५६-२१ ॥
मध्यमः पितृदैवत्ये द्विदैवे सैम्यगः शशी ॥
अप्राप्यपौष्णभाद्रामदुक्षाविशशी शुभः ॥ ५६-२२ ॥
मध्यगोद्वारदक्षाणि अतीत्य नववासवात् ॥
यमेन्द्राहीशनोयेशमरुतश्चार्द्धतारकाः ॥ ५६-२३ ॥
ध्रुवादितिद्विदैवाः स्युरध्यर्द्धांश्चापराः समाः ॥
याम्यश्रृङ्गोन्नतो नेष्टः शुभः शुक्ले पिपीलिका ॥ ५६-२४ ॥
कार्यहानिः कार्यवृद्धिर्हानिर्वृद्धिर्यथाक्रमम् ॥
सुभिक्षकृद्विशालेन्दुरविशालोघनाशनः ॥ ५६-२५ ॥
अधोमुखे शस्त्रभयङ्कलहोदण्डसन्निभे ॥
कुजाद्यैर्निहते श्रृङ्गे मण्डले वा यथाक्रमम् ॥ ५६-२६ ॥
क्षेमाद्यं वृष्टिभूपालजननाशः प्रजायते ॥
सत्याष्टनवमर्क्षेषु सोदयाद्विक्रिमे कुजे ॥ ५६-२७ ॥
तद्वक्रमुष्णंसञ्ज्ञं स्यात्प्रजापीडाग्निसम्भवः ॥
दशमैकादशे ऋक्षे द्वादशर्वाग्रतीपयः ॥ ५६-२८ ॥
कूक्रं वक्रमुखं ज्ञेयं सस्यवृष्टिविनाशकृत् ॥
कुजे त्रयोदशे ऋक्षे वक्रिते वा चतुर्दशे ॥ ५६-२९ ॥
बालास्यचक्रं तत्तस्मिन्सस्यवृष्टिविनाशनम् ॥
पञ्चदशे षोडशर्क्षे वक्रे स्याद्रुधिराननम् ॥ ५६-३० ॥
दुर्भिक्षं क्षुद्भयं रोगान्करोति क्षितिनन्दनः ॥
अष्टादशे सप्तदशे तद्वक्रं मुशलाह्वयम् ॥ ५६-३१ ॥
दुर्भिक्षं धनधान्यादिनाशने भयकृत्सदा ॥
फाल्गुन्योरुदितो भौमो वैश्वदेवे प्रतीपगः ॥ ५६-३२ ॥
अस्तगश्चतुरास्यार्क्षे लोकत्रयविनाशकृत् ॥
उदितः श्रवणे पुष्ये वक्तृगोश्वनहानिदः ॥ ५६-३३ ॥
यद्दिग्गोऽभ्युदितो भौमस्तद्दिग्भूपभयप्रदः ॥
मधामध्यगतो भौमस्तत्र चैव प्रतीपगः ॥ ५६-३४ ॥
अवृष्टिशस्त्रभयदः पीड्यं देवा नृपन्तकृत् ॥
पितृद्विदैवधातॄणां भिद्यन्ते गण्डतारकाः ॥ ५६-३५ ॥
दुर्भिक्षं मरणं रोगं करोति क्षितिजस्तदा ॥
त्रिषूत्तरासु रोहिण्यां नैर्ऋते श्रवणे मृगे ॥ ५६-३६ ॥
अवृषअटिदश्चरन्भौमो दक्षिणेरोहिणीस्थितः ॥
भूमिजः सर्वधिष्ण्यानामुदगामी शुभघप्रदः ॥ ५६-३७ ॥
याम्यगोऽनिष्टफलदो भवेद्भेदकरो नृणाम् ॥
विनोत्पातेन शशिनः कदाचिन्नोदयं व्रजेत् ॥ ५६-३८ ॥
अनावृष्टाग्निभयकृदनर्थनृपविग्रहऋ ॥
वसुवैष्णवविश्वेन्दुधातृभेषु चरन्बुधः ॥ ५६-३९ ॥
भिनत्ति यदि तत्तारां बाधावृष्टिभयङ्करः ॥
आर्द्रादिपितृभान्तेषु दृश्यते यदि चन्द्रजः ॥ ५६-४० ॥
तदा दुर्भिक्षकलहरोगानावृष्टिभीतिकृत् ॥
हस्तादिषट्सु तारासु विचरन्निन्दुनन्दनः ॥ ५६-४१ ॥
क्षेमं सुभिक्षमारोग्यं कुरुते रोगनाशनम् ॥
अहिर्बुध्न्यार्यमाग्नेययाम्यभेषु चरन्बुधः ॥ ५६-४२ ॥
भिषक्तरङ्गवाणिज्यवृत्तीनां नाशकृत्तादा ॥
पूर्वात्रयेचरन्सौम्यो योगतारां भिनत्ति चेत् ॥ ५६-४३ ॥
क्षुच्छस्त्रानलचौरेभ्यो भयदः प्राणिनां तदा ॥
याम्याग्निधातृवायव्यधिष्णयेषु प्राकृता गतिः ॥ ५६-४४ ॥
रौद्रेन्दुसार्पपित्र्येषु ज्ञेया मिश्राह्वया गतिः ॥
भाग्यार्यमेज्यादितिषु सङ्क्षिप्ता गतिरुच्यते ॥ ५६-४५ ॥
गतितीक्ष्णाजचरणाहिर्बुध्यभाश्रिभेषुया ॥
योमातिकातिविश्वाबुमूलमत्स्यैन्यजस्य च ॥ ५६-४६ ॥
घोरा गतिर्हरित्वाष्ट्रवसुवारुणभेषु च ॥
इन्द्राग्निमित्रमार्तण्डभेषु पापाह्वयागतिः ॥ ५६-४७ ॥
प्राकृताद्यासु गति ह्युदितोऽस्तमितोपिवा ॥
यावन्त्येव दिनान्येष दृश्यस्तावत्यदृश्यगः ॥ ५६-४८ ॥
चत्वारिंशत्क्रमात्रिंशद्रवीन्द्र भूसुतो नव ॥
पञ्चदशैकादशभिर्दिवसैः शशिनन्दनः ॥ ५६-४९ ॥
प्राकृतायां गतः सौम्यः क्षेमारोग्यसुभिक्षकृत् ॥
मिश्रसक्षिप्तयोर्मध्ये फलदोऽन्यासु वृष्टिदः ॥ ५६-५० ॥
वैशाख श्रावणे पौषे आषाढेऽभ्युदितो बुधः ॥
जगतां पापफलदस्त्वितरेषु शुभप्रदः ॥ ५६-५१ ॥
इषोर्जमासयोः शस्त्रदुर्भिक्षाग्निभयप्रदः ॥
उदितश्चन्द्रजः श्रेष्टो रजतस्फटिकोपयः ॥ ५६-५२ ॥
द्विभाटजोदिमास्तस्य पञ्चमैकादशास्त्रिमाधवः शुभदो ज्येष्टो नृणां मध्यफलप्रदः ॥
शुचिर्मध्यो नभः श्रेष्ठो भाद्रः श्रेष्टः क्वचिन्नरः ॥ ५६-५३ ॥
कार्तिको मार्गशीर्षश्च नृणां दुष्टफलप्रदः ॥
शुभप्रदौ पौषमाधौ मध्यमौ फाल्गुनो मधुः ॥ ५६-५४ ॥
माधवः शुभदो ज्येष्टो नृणां मध्यफलप्रदः ॥
शुचिर्मध्यो नभः श्रेष्ठो भाद्रः श्रेष्ठः क्वचिन्नर ॥ ५६-५५ ॥
अतिश्रेष्ट इषः प्रोक्तो मासानां फलमीदृशम् ॥
सौम्ये भागे चरन्भानां क्षेमारोग्यसुभिक्षकृत् ॥ ५६-५६ ॥
विपरीतो गुरुर्याम्ये मध्ये चरति मध्यमम् ॥
पीताग्निश्यामहरितरक्तवर्णोगिराः क्रमात् ॥ ५६-५७ ॥
व्याध्यग्निचौरशस्त्रास्त्रभयदः प्राणिनां भवेत् ॥
अनावृष्टिं भूम्ननिभः करोति सुरपूजितः ॥ ५६-५८ ॥
दिवादृष्टो नृपवध्यामयंवाराष्ट्रनाशनम् ॥
संवत्सरशरीरं स्यात्कृत्तिका रोहिणी तथा ॥ ५६-५९ ॥
नाभिस्त्वापाठयुगलमाद्री हृत्कुसुमं मघा ॥
दुर्भिक्षाग्निमरुद्भीतिः शरीरं क्रूरपीडिते ॥ ५६-६० ॥
नाभ्यां क्षुत्तृङ्भयं पुष्ये सम्यङ्मूलफलक्षयः ॥
हृदयेशस्य निधनं शुभं स्यात्संयुतैः शुभैः ॥ ५६-६१ ॥
शस्यवृद्धिः प्रजारोग्यं युद्धं जीवात्यवर्षणम् ॥
इति द्विजातिमध्यां तु गोनृपस्त्रीसुखं महत् ॥ ५६-६२ ॥
निःस्वनावृष्टिफणि भिर्वृष्टिः स्वास्थ्यं महोत्सवः ॥
महार्घमपि सम्पत्तिर्देशनाशोऽतिवर्षणम् ॥ ५६-६३ ॥
अवैरं रोगमभयं रोगभीः सस्यवर्षणे ॥
रोगो धान्यं नभोऽदृष्टिमघाद्यृक्षगते गुरौ ॥ ५६-६४ ॥
सौम्यमध्यमयाम्येषु मार्गेषु वीथिकात्रयम् ॥
शुक्रस्य दस्त्रभाज्ज्ञेयं पर्यायैश्च त्रिभिस्त्रिभिः ॥ ५६-६५ ॥
नागेभैरावताश्चैव वृषभोष्ट्रखराह्वयाः ॥
मृगाञ्जदहनाख्याः स्युर्यामयान्ता वीथयो नव ॥ ५६-६६ ॥
सौम्य मार्गे च तिसृषु चरन्वीथिषु भार्गवः ॥
धान्यार्थवृष्टिसस्यानां परिपूर्ति करोति हि ॥ ५६-६७ ॥
मध्यमार्गे च तिसृषु सर्वमप्यधमं फलम् ॥
पूर्वस्यां दिशि मेघस्तु शुभदः पितृपञ्चके ॥ ५६-६८ ॥
स्वातित्रये पश्चिमायां तस्यां शुक्रस्तथाविधः ॥
विपरीते त्वनावृष्टिदृद्बुधसंयुतः ॥ ५६-६९ ॥
कृष्णाष्टम्यां चतुर्दश्याममायां च यदा सितः ॥
उन्दयास्तमनं याति तदा जलमयी मही ॥ ५६-७० ॥
मिथः सप्तमराशिस्थौ पश्चात्प्राग्वीथिसंस्थितौ ॥
गुरुशुक्रावनावृष्टिदुर्भिक्षसमरप्रदौ ॥ ५६-७१ ॥
कुजज्ञजीवरविजाः शुक्रस्याग्रेसरा यदि ॥
युद्धान्तिवायुर्दुर्भिक्षजलनाशकरा मताः ॥ ५६-७२ ॥
जलमित्रार्यमाहीन्द्रनक्षत्रेषु सुभिक्षकृत् ॥
सच्छस्त्रावृष्टिदो मूलेऽहिर्बुध्न्यभयोर्भयम् ॥ ५६-७३ ॥
श्रवणानिलह्तार्द्राभरणीभाग्यमेषु च ॥
चरत्र्छैश्चरो नॄणां सुभिक्षारोग्यस्यकृत् ॥ ५६-७४ ॥
मुखे चैकं गुदे द्वे च त्रीणि के नयने द्वयम् ॥
हृदये पञ्च ऋक्षाणि वामहस्ते चतुष्टयम् ॥ ५६-७५ ॥
वामपादे तथा त्रीणि दक्षिणे त्रीणे भानि च ॥
चत्वारि दक्षिणे हस्ते जन्मभाद्रविजस्थितिः ॥ ५६-७६ ॥
रोगो लाभस्तथा हानिर्लाभः सौख्यं च बन्धनम् ॥
आयासः श्रेष्टयात्रा च धनलाभः क्रमात्फलम् ॥ ५६-७७ ॥
बहुधारविजस्त्वेतद्वक्रगः फलमीदृशम् ॥
करोत्येव समः साम्यं शीघ्रगेषूत्क्रमात्फलम् ॥ ५६-७८ ॥
विष्णुचक्रोत्कृत्तशिराः हङ्गुः पूयूषपानतः ॥
अमृत्युतां गतस्तत्र खेटस्तत्र खेटत्वे परिकल्पितः ॥ ५६-७९ ॥
वरणधातुरर्केन्दू तुदतेः सर्वपर्वणि ॥
विक्षेपावनतेर्वङ्गाद्गाहुर्दूरगतस्तयोः ॥ ५६-८० ॥
षण्मासवृद्ध्या ग्रहणं शोधयेन्द्रविचन्द्रयोः ॥
पर्वेशास्तु तथा सत्यदेवा ख्यादितः क्रमात् ॥ ५६-८१ ॥
ब्रह्मेन्द्र्विन्द्रधनाधीशवरुणाग्नियमाह्वयोः ॥
पशुसस्यद्विजातीनां वृद्धिर्ब्रह्मे तु पर्वणि ॥ ५६-८२ ॥
तद्वदेव फलं सौम्ये श्लेष्मपीडा च पर्वणि ॥
विरोधो भूभुजां दुःखमैन्द्रे सस्यविनाशनम् ॥ ५६-८३ ॥
धनिनां धनहानिः स्यात्कौबेरं धान्यवर्धनम् ॥
नृपाणामशिवं क्षेममितरेषां च वारुणे ॥ ५६-८४ ॥
प्रवर्षणं सस्यवृद्धिः क्षेमं हौताशपर्वणि ॥
अनावृष्टिः सस्यहानिर्दुर्भिक्षं याम्यपर्वणि ॥ ५६-८५ ॥
वेलाहीने स्यहानिर्नृपाणां दारुणं रणम् ॥
अतिवेले पुष्पहानिर्भयं सस्यविनाशनम् ॥ ५६-८६ ॥
एकस्मिन्नेव मासे तु चन्द्रार्कग्रहणं यदा ॥
विरोधो धरणीशानामर्थवृष्टिविनाशनम् ॥ ५६-८७ ॥
ग्रस्तोदितावस्तमितौ नृपधान्यविनाशदौ ॥
सर्वग्रस्ताविनेन्दूतु क्षुद्व्याध्यग्निभयप्रदौ ॥ ५६-८८ ॥
सौम्यायने क्षत्रविप्रानितरांहन्ति दक्षिणे ॥
द्विजातींश्चक्रमाद्धन्ति राहुदृष्टोरगादितः ॥ ५६-८९ ॥
तथैव ग्रामभेदाः स्युर्मोक्षभे दास्तथा दश ॥
नो शक्ता लक्षितुं देवाः किं पुनः प्राकृता जनाः ॥ ५६-९० ॥
आनीय खेटान्गणितांस्तेषां वारं विचिन्तयेत् ॥
शुभाशुभान्यैः कालस्य ग्राहयामो हि लक्षणम् ॥ ५६-९१ ॥
तस्मादन्वेषणीयं तत्कालज्ञानाय धीमता ॥
उत्पातरूपाः केतूनामुदयास्तमया नृणाम् ॥ ५६-९२ ॥
दिव्यान्तरिक्षा भौमास्ते शुभाशुभफलप्रदाः ॥
यज्ञध्वजास्त्रभवनरक्षवृद्धिङ्गजोपमाः ॥ ५६-९३ ॥
स्तम्भशूलाङ्कुशाकारा आन्तरिक्षाः प्रकीर्तिताः ॥
नक्षत्रसंस्थिता दिव्या भौमा ये भूमिसंस्थिताः ॥ ५६-९४ ॥
एकोऽपि भिन्नरूपः स्याज्जन्तुर्नाम शुभाय वै ॥
यावन्तो दिवसान्केतुर्दृश्यते विविधात्मकः ॥ ५६-९५ ॥
तावन्मासैः फलं यच्छत्यष्टौ सारव्यवत्सरैः ॥
ये दिव्याः केतवस्तेऽपि शश्वज्जीवफलप्रदाः ॥ ५६-९६ ॥
ह्रस्वः स्निग्धः सुप्रसन्नः श्वेतकेतुः सुवृष्टिकृत् ॥
क्षिप्रादस्तमयं याति दीर्घकेतुरवृष्टिकृत् ॥ ५६-९७ ॥
अनिष्टदो धूमकेतुः शक्रचापसमप्रभः ॥
द्वित्रिचतुःशूलरूपः स च राज्यान्तकृन्मतः ॥ ५६-९८ ॥
मणिहारस्तुवर्णाभा दीप्तिमन्तोऽर्कसूनवः ।
केतवश्चोदिताः पूर्वापरयोर्नृपहानिदाः ॥ ५६-९९ ॥
वंसुकबिम्बक्षितिजच्छुकतुण्डादिसन्निभाः ॥
हुताशनोदितास्तेऽपि केतवः फलदाः स्मृताः ॥ ५६-१०० ॥
भूसुता जलतैलाभा वर्तुलाः क्षुद्भयप्रदाः ॥
सुभिक्षक्षेमदाः श्वेतकेतवः सोमसूनवः ॥ ५६-१०१ ॥
पितामहात्मजः केतुस्त्रिवर्णस्त्रिदशान्वितः ॥
ब्रह्मदण्डाद्धूमकेतुः प्रजानामन्तकृन्मतः ॥ ५६-१०२ ॥
ऐशान्यां भार्गवसुताः श्वेतरूपास्त्वनिष्टदाः ॥
अनिष्टदाः पङ्गुसुता विशिखाः कमकाह्वयाः ॥ ५६-१०३ ॥
विकचाख्या गुरुसुता वेष्टा याम्ये स्थिता अपि ॥
सूक्ष्माः शुक्ला बुधसुताश्चौररोगभयप्रदाः ॥ ५६-१०४ ॥
कुजात्मजाः कुङ्कुमाख्या रक्ताः शूलास्त्वनिष्टदाः ॥
अग्निजा विश्वरूपाख्या अग्निवर्णाः सुखप्रदाः ॥ ५६-१०५ ॥
अरुणाः श्यामलाकारा अर्कपुत्राश्च पापदाः ॥
शुक्रजा ऋक्षसदृशाः के तवः शुभदायकाः ॥ ५६-१०६ ॥
कृत्तिकासु भवो धूमकेतुर्नूनं प्रजाक्षयः ॥
प्रासादवृक्षशैलेषु जातो राज्ञां विनाशकृत् ॥ ५६-१०७ ॥
सुभिक्षकृत्कौमुदाख्यः केतुः कुमुदसन्निभः ॥
आवर्तकेतुसन्ध्यायां शशिरो नेष्टदायकः ॥ ५६-१०८ ॥
ब्रह्मदेवमनोर्मान पित्र्यं सौरं च सावनम् ॥
चान्द्रमार्क्षं गुरोर्मानमिति मानानि वै नवः ॥ ५६-१०९ ॥
एतेषां नवमानानां व्यवहारोऽत्र पञ्चभिः ॥
तेषां पृथक्पृथक्कार्यं वक्ष्यते व्यवहारतः ॥ ५६-११० ॥
ग्रहाणां निखिलश्चारो गृह्यते सौर मानतः ॥
वृष्टेर्विधानं स्त्रीगर्भः सावनेनैव गृह्यते ॥ ५६-१११ ॥
प्रवर्षणां समे गर्भौ नाक्षत्रेण प्रगृह्यते ॥
यात्रोद्वाहव्रतक्षौरे तिथिवर्षेशनिर्णयः ॥ ५६-११२ ॥
पर्ववास्तूपवासादि कृत्स्नं चान्द्रेण गृह्यते ॥
गृह्यते गुरुमानेन प्रभवाद्यब्दलक्षणम् ॥ ५६-११३ ॥
तत्तन्मासैर्द्वादशभिस्तत्तदष्टौ भवेत्ततः ॥
गुरुमध्यमचारेणषष्ट्यब्दाः प्रभावादयः ॥ ५६-११४ ॥
प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः ॥
अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च ॥ ५६-११५ ॥
ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः ॥
चित्रभानुस्सुभानुश्च तारणः पार्थिवोऽव्ययः ॥ ५६-११६ ॥
सर्वजित्सर्वधारी च विरोधी विकृतः खरः ॥
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ ॥ ५६-११७ ॥
हेमलम्बो विलम्बश्च विकारी शार्वरी लवः ॥
शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ॥ ५६-११८ ॥
प्लवङ्गः कीलकः सौम्यः सामाप्तश्च विरोधकृत् ॥
परिभावी प्रमादी च आनन्दो राक्षसोऽनलः ॥ ५६-११९ ॥
पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मतीः ॥
दुन्दुभीरुधिरोद्गरी रक्ताक्षः क्रोधनः क्षयः ॥ ५६-१२० ॥
नामतुल्यफलाः सर्वे विज्ञेयाः षष्टिवत्सराः ॥
युगं स्यात्पञ्चभिर्वर्षैर्युगान्येवं तु द्वादश ॥ ५६-१२१ ॥
तेषामीशाः क्रमाज्ज्ञेया विष्णुर्देवपुरोहितः ॥
पुरन्दरो लोहितश्च त्वष्टाहिर्बुध्न्यसञ्ज्ञकः ॥ ५६-१२२ ॥
पितरश्च ततो विश्वे शशीन्द्राद्ग्नयशिनो भगः ॥
तथा युगस्य वर्षे शास्त्वग्निनेन्दुविधीश्वराः ॥ ५६-१२३ ॥
अथाद्वेशचमूनाथसस्यपानां बलाबलम् ॥
तत्कालं ग्रहचारं च सम्यक् ज्ञात्वा फलं पदेत् ॥ ५६-१२४ ॥
सौम्या यनं मासषट्कं मृगाद्यं भानुभुक्तितः ॥
अहः सुराणां तद्रात्रिः कर्काद्यं दक्षिणायनम् ॥ ५६-१२५ ॥
गृहप्रवेशवैवाहप्रतिष्टामौञ्जिबन्धनम् ॥
मधादौ मङ्गलं कर्म विधेयं चोत्तरायणे ॥ ५६-१२६ ॥
याम्यायने गर्हितं च कर्म यत्नात्प्रशस्यते ॥
माधादि मासौ द्वौ द्वौ च ऋतवः शिशिरादयः ॥ ५६-१२७ ॥
मृगाच्छिशिरवसन्तश्च ग्रीष्माः स्युश्चोत्तरायणे ॥
वर्षा शरश्च हेमन्तः कर्काद्वै दक्षिणायने ॥ ५६-१२८ ॥
चान्द्रो दर्शीवधिः सौरः सङ्क्रात्या सावनो दिनेः ॥
त्रिंशद्भिश्चन्द्रभगणो मासो नाक्षत्रसञ्ज्ञकः ॥ ५६-१२९ ॥
मधुश्च माधवः शुक्रः शुचिश्चाथ नभस्ततः ॥
नभस्य इष ऊर्जश्च सहाश्चैव सहस्यकः ॥ ५६-१३० ॥
तपास्तपस्य क्रमशश्चैत्रादीनां समाह्वया ॥
यस्मिन्मासे पौर्णमासी येन धिष्णेन संयुता ॥ ५६-१३१ ॥
तन्नक्षत्राह्वयो मासः पौर्णमासी तदाह्वया ॥
तत्पक्षौ दैव पित्राख्यौ शुक्लकृष्णौ तथापरे ॥ ५६-१३२ ॥
शुभाशुभे कर्मणि च प्रशस्तौ भवतः सदा ॥
क्रमात्तिथीनां ब्रह्माग्नी विरिञ्चिविष्णुशैलजाः ॥ ५६-१३३ ॥
विनायकयमौ नागचन्द्रौ स्कन्दोऽर्कवासवौ ॥
महेन्द्रवासवौ नागदुर्गादण्डधराह्वयः ॥ ५६-१३४ ॥
शिवविष्णूहरिरवीकामः सर्वः कलीततः ॥
चन्द्रविश्वेदर्शसञ्ज्ञतिथीशाः पितरः स्मृताः ॥ ५६-१३५ ॥
नन्दाभद्राजयारिक्ता पूर्णाः स्युतिथयः पुनः ॥
त्रिरावृत्त्या क्रमाज्ज्ञेया नेष्टमध्येष्टदाः सिते ॥ ५६-१३६ ॥
कृष्णपक्षे त्विष्टमध्यानिष्टदाः क्रमशस्तदा ॥
अष्टमी द्वादशी षष्टी चतुर्थी च चतुर्दशी ॥ ५६-१३७ ॥
तिथयः पक्षरन्ध्राख्या ह्यतिरूक्षा प्रकीर्तिताः ॥
समुद्रमनुरन्ध्राङ्कतत्त्वसङ्ख्यास्तु नाडिकाः ॥ ५६-१३८ ॥
त्याज्याः स्युस्तासु तिथिषु क्रमात्पञ्च च सर्वदा ॥
अमावास्या च नवमी हित्वा विषमसञ्ज्ञिका ॥ ५६-१३९ ॥
तिथयस्तुप्रशस्तास्युर्मध्यमा प्रतिपत्सिता ॥
षष्ट्यां तैलं तथाष्टम्यां मासं क्षौरं कलेस्तिथौ ॥ ५६-१४० ॥
पूर्णिमादर्शयोर्नारीसेवनं परिवर्जयेत् ॥
देर्शे षष्ट्यां प्रतिपदि द्वादश्यां प्रतिपर्वसु ॥ ५६-१४१ ॥
नवम्यां च न कुर्वीत कदाचिद्दन्तधावनम् ॥
व्यतीपाते च सङ्क्रान्तावेकादश्यां च पर्वसु ॥ ५६-१४२ ॥
अर्कभौमदिने षष्ट्यां नाभ्यङ्गो वैधृतौ तथा ॥
यः करोति दशम्यां च स्नानमामलकैर्नरः ॥ ५६-१४३ ॥
पुत्रहानिर्भवेत्तस्य त्रंयोदश्यां धनक्षयः ॥
अर्थपुत्रक्षयस्तस्य द्वितीयायां न संशयः ॥ ५६-१४४ ॥
अमायां च नवम्यां च सप्तम्यां च कुलक्षयः ॥
या पौर्णिमा दिवा चन्द्रमती सानुमती स्मृता ॥ ५६-१४५ ॥
रात्रौ चन्द्रवती राकाप्यमावास्या तथा द्विधा ॥
सिनीवाली चेन्दुमती कुहूर्नेन्दुमती मता ॥ ५६-१४६ ॥
कार्तिके शुक्लनवमी त्वादिः कृतयुगस्य च ॥
त्रेतादिर्माधवे शुक्ले तृतीया पुण्यसञ्ज्ञिता ॥ ५६-१४७ ॥
कृष्णा पञ्चदशी माघे द्वापरादिमुदीरिता ॥
कल्पादिः स्यात्कृष्णपक्षे नभस्तस्य त्रयोदशी ॥ ५६-१४८ ॥
द्वादश्यूर्जे शुक्लपक्षे नवम्यच्छेश्वयुज्यपि ॥
चैत्रे भाद्रपदे चैव तृतीया शुक्लसञ्ज्ञिता ॥ ५६-१४९ ॥
एकादशी सिता पौषे ह्याषाढेर्देशमीसिता ॥
माघे च सप्तमी शुक्ला नभस्ये त्वसिताष्टमी ॥ ५६-१५० ॥
श्रावणे मास्यमावास्या फाल्गुने मासि पौर्णिमा ॥
आषाढे कार्तिके मासि ज्यष्टे चैत्रे च पौर्णिमा ॥ ५६-१५१ ॥
मन्वादयो मानवानां श्राद्धेष्वत्यन्तपुण्यदा ॥
भाद्रे कृष्णत्रयोदश्यां मघामिन्दुः करे रविः ॥ ५६-१५२ ॥
गजच्छाया तदा ज्ञेया श्राद्धे ह्यत्यन्तपुण्यदा ॥
एकस्मिन्वासरे तिस्रस्तिथयः स्यात्तिथिक्षयः ॥ ५६-१५३ ॥
तिथिर्वारत्रये त्वेका ह्यधिका द्वे च निन्दिते ॥
सूर्यास्तमनपर्यन्तं यस्मिन्वारे तु या तिथिः ॥ ५६-१५४ ॥
विद्यते सा त्वखण्डा स्यान्न्यूना चेत्खञ्जसञ्ज्ञिता ॥
तिथेः पञ्चदशो भागः क्रमात्प्रतिपदादयः ॥ ५६-१५५ ॥
क्षणसञ्ज्ञास्तदर्द्धानि तासामर्द्धप्रमाणतः ॥
रविः स्थिरश्चरश्चन्द्रः क्रूरो वक्रोखिलो बुधः ॥ ५६-१५६ ॥
लघुरीज्यो मृदुः शुक्रस्त्रीक्ष्णो दिनकरात्मजः ॥
अभ्यक्तो भानुवारे यः स नरः क्लेशवान्भवेत् ॥ ५६-१५७ ॥
ऋक्षेशे कान्तिभाग्भौमे व्याधि सौभाग्यमिन्दुजे ॥
जीवे नैवं सिते हानिर्मन्दे सर्वसमृद्धयः ॥ ५६-१५८ ॥
लङ्कोदयात्स्याद्वारादिस्त स्मादूर्ध्वमधोऽपिवा ॥
देशान्तरस्वचरार्द्धनाडीभिरपरे भवेत् ॥ ५६-१५९ ॥
बलप्रदस्य खेटस्य कर्म सिद्ध्यति यत्कृतम् ॥
तत्कर्म बलहीनस्य दुःखेनापि न सिद्ध्यति ॥ ५६-१६० ॥
इन्दुज्ञजीवशुक्राणां वासराः सर्वकर्मसु ॥
फलदास्त्वितरे क्रूरे कर्मस्वभिमतप्रदाः ॥ ५६-१६१ ॥
रक्तवर्णौ रविश्चन्द्रौ गौरो भौमस्तुलोहितः ॥
दूर्वावर्णो वुधो जीवः पीतश्वेतस्तु भार्गवः ॥ ५६-१६२ ॥
कृष्णः सौरिः स्ववारेषु स्वस्ववर्णक्रिया हिताः ॥
अद्रिवाणाश्च यस्तर्कपातालवसुधाधराः ॥ ५६-१६३ ॥
बाणाग्निलोचनानिह्यवेदबाहुशिलीमुखाः ॥
त्र्येकाहयो नेत्रगोत्ररामाश्वद्ररसर्तवः ॥ ५६-१६४ ॥
कुलिकाश्चोपकुलिका वारवेला स्तथा क्रमात् ॥
प्रहरार्द्धप्रमाणास्ते विज्ञेयाः सूर्यवासरात् ॥ ५६-१६५ ॥
यस्मिन्वारे क्षणो वारदृष्टस्तद्वासराधिपः ॥
आद्यः षष्टो द्वितीयोऽस्मत्तत्षष्ठस्तुतृतीयकः ॥ ५६-१६६ ॥
षष्टः षष्टश्चेतरेषां कालहोराधिपाः स्मृताः ॥
सार्द्धनाडीद्वयेनैव दिवा रात्रौ यथाक्रमात् ॥ ५६-१६७ ॥
वारप्रोक्ते कर्मकार्ये तद्ग्रहस्य क्षणेऽपि सन् ॥
नक्षत्रेशाः क्रमाद्दस्रयमवह्निपितामहाः ॥ ५६-१६८ ॥
चन्द्रेशादितिजीवाहिपितरो भगसञ्ज्ञकः ॥
अर्यमार्कत्वष्टृमरुच्छक्राग्निमित्रवासवः ॥ ५६-१६९ ॥
नैर्ऋत्युदकविश्वेजगोविन्दवसुतोयपाः ॥
अजैकपादहिर्बुध्न्या पूषा चेति प्रकीर्तिताः ॥ ५६द-१७० ॥
पूर्वात्रयं मधाह्यग्निविशाखायममूलभम् ॥
अधोमुखं तु नवकं भानौ तत्र विधीयते ॥ ५६-१७१ ॥
बिलप्रवेशगणितभूतसाधनलेखनम् ॥
शिल्पकर्मकलाकूपनिक्षेपोद्धरणादि यत् ॥ ५६-१७२ ॥
मित्रेन्दुत्वाष्ट्रहस्तेन्द्रादितिभान्त्याश्विवायुभम् ॥
तिर्यङ्मुखाख्यं नवकं भानौ तत्र विधीयते ॥ ५६-१७३ ॥
हलप्रवाहगमनं गन्त्रीपत्रगजोष्ट्रकम् ॥
खरगोरथनौयानलुलायहयकर्म च ॥ ५६-१७४ ॥
ब्रह्मविष्णुमहेशार्यशततारावसूत्तराः ॥
ऊर्द्धास्यं नवकं भानां प्रोक्तमत्र विधीयते ॥ ५६-१७५ ॥
नृपाभिषेकमाङ्गल्यवारणध्वजकर्मच ॥
प्रासादतोरणारामप्राकाराद्यं च सिद्ध्यति ॥ ५६-१७६ ॥
स्थिरं रोहिण्युत्तराख्यं क्षिप्रं सूरयाश्विपुष्यभम् ॥
साधारणं द्विदैवत्यं वह्निभं च प्रकीर्तितम् ॥ ५६-१७७ ॥
वस्वदित्यंवुपुष्याणि विष्णुभं चरसञ्ज्ञितम् ॥
मृद्विन्दुमित्रचित्रान्त्यमुग्रं पूर्वामघात्रिकम् ॥ ५६-१७८ ॥
मूलार्द्राहीन्द्रभं तीक्ष्णं स्वनामसदृशं फलम् ॥
चित्रादित्यम्बुविष्ण्वम्बान्त्याधिमित्रवसूडुषु ॥ ५६-१७९ ॥
समृगेज्येषु बालानां कर्णवेधङ्क्रिया हिता ॥
दस्रेन्द्वदितितिष्येषु करादित्रितये तथा ॥ ५६-१८० ॥
गजकर्माखिलं यत्तद्विधेयं स्थिरभेषु च ॥
वाजिकर्माखिलं कार्यं सूर्यवारे विशेषतः ॥ ५६-१८१ ॥
चित्रावरुणवैरिञ्चत्र्युत्तरासु गमागमम् ॥
दर्शाष्टभ्यां चतुर्दश्यां पशूनां न कदाचन ॥ ५६-१८२ ॥
मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च ॥
हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः ॥ ५६-१८३ ॥
हलादौ वृषानाशाय भत्रयं सूर्यमुक्तभात् ॥
अग्रे वृद्ध्यै त्रयं लक्ष्म्ये सौम्यपार्श्वे च पञ्चकम् ॥ ५६-१८४ ॥
शूलत्रयेपि नवकं मरणाय च पञ्चकम् ॥
श्रियै पुष्ट्यै त्रयं श्रेष्टं स्याच्चक्रे लाङ्गलाह्वये ॥ ५६-१८५ ॥
मृदुध्रुवक्षिप्रभेषु पितृवायुवसूङ्षु ॥
समूलभेषु बीजोप्तिरत्युन्त्कृष्टं फलप्रदा ॥ ५६-१८६ ॥
भवेद्भत्रितयं मूर्घ्नि धान्यनाशाय राहुभात् ॥
गले त्रयं कज्जलाय वृद्ध्यै च द्वादशोदरे ॥ ५६-१८७ ॥
निस्तंहुलत्वं लाङ्गूले भचतुष्टयभीतिदम् ॥
नाभौ वह्निः पञ्चकं यद्वीजोप्ताविति चिन्तयेत् ॥ ५६-१८८ ॥
स्थिरेष्वदितिसार्पान्त्यपितृमारुतभेषु च ॥
न कुर्याद्रोगमुक्तस्य स्नानमाहीं दुशुक्रयोः ॥ ५६-१८९ ॥
उत्तरात्रयमैत्रेन्द्रवसुवारुणभेषु च ॥
पुष्यार्कपौष्णधिष्ण्येषु नृत्यारम्भः प्रशस्यते ॥ ५६-१९० ॥
पूर्वार्द्धयुञ्जि षङ्भनि पौष्णभादुदभात्ततः ॥
मध्ययुञ्जि द्वादशर्क्षाणीन्द्रभान्नवभानि च ॥ ५६-१९१ ॥
परार्द्धयुञ्जि क्रमशः सम्प्रीतिर्दम्पतेर्मथः ॥
जघन्यास्तोयपार्द्राहिपवनान्तकनाकपाः ॥ ५६-१९२ ॥
क्रमादितिद्विदैवत्या बृहत्ताराः पराः समाः ॥
तासां प्रमाणघटिकास्त्रिंशन्नवतिद्यष्टयः ॥ ५६-१९३ ॥
क्रमादभ्युदिते चन्द्रे नयत्यर्घसमानि च ॥
अश्वग्रीन्द्वीज्यनैर्ऋत्यत्वाष्ट्रजत्त्युत्तराभवाः ॥ ५६-१९४ ॥
पितृद्विदैववस्वाख्यास्ताराः स्युः कुलसञ्ज्ञिकाः ॥
धातृज्येष्टादितिस्वातीपौष्णार्कहरिदेवताः ॥ ५६-१९५ ॥
अजाह्यन्त्यकभौजङ्गताराश्चैवाकुलाह्वयाः ॥
शेषाः कुलाकुलास्तारास्तासां मध्ये कुलोडुषु ॥ ५६-१९६ ॥
प्रयाति यदि भूपालस्तदाप्नोति पराजयम् ॥
भेषूपकुलसञ्ज्ञेषु जयमाप्नोति निश्चितम् ॥ ५६-१९७ ॥
सन्धिर्वापि तयोः साम्यं कुलाकुलगणोडुषु ॥
अर्कार्किभौमवारे चेद्भद्राया विषमाङ्घ्रिभम् ॥ ५६-१९८ ॥
त्रिपुष्करं त्रिगुणदं द्विगुणं यमलाहिभम् ॥
तद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा ॥ ५६-१९९ ॥
द्विपुष्करे द्वयं दद्यान्न दोषस्त्वृक्षभोऽपि वा ॥
क्रूरविद्धो युतो वापिपुष्यो यदि बलान्वितः ॥ ५६-२०० ॥
विना पाणिग्रहं सर्वमङ्गलेष्विष्टदः सदा ॥
रामाग्निऋतुबाणाग्निभूवेदाग्निशरेषु च ॥ ५६-२०१ ॥
नेत्रबाहुशरेन्द्विन्दुबाहुवेदाग्निसङ्कराः ॥
वेदनेत्राब्ध्यग्निशतबाहुनेत्ररदाः क्रमात् ॥ ५६-२०२ ॥
तारासङ्ख्याश्च विज्ञेया दस्रादीनां पृथक् पृथक् ॥
या दृश्यन्ते दीप्तताराः स्वगणे योगतारकाः ॥ ५६-२०३ ॥
वृषो वृक्षोश्चभायाम्यधिष्ण्येयमकरस्तरुः ॥
उडुम्बरश्चाग्निधिष्ण्ये रोहिण्यां जम्बुकस्तरुः ॥ ५६-२०४ ॥