०५३

सनन्दन उवाच ॥
निरुक्तं ते प्रवक्ष्यामि वेदं श्रोत्राङ्गमुत्तमम् ॥
तत्पञ्चविधमाख्यातं वैदिकं धातुरूपकम् ॥ ५३-१ ॥

क्वचिदूर्णागमस्तत्र क्वचिद्वर्णविपर्ययः ॥
विकारः क्वापि वर्णानां वर्णनाशः क्वचिन्मतः ॥ ५३-२ ॥

तथा विकारनाशाभ्यां वर्णानां यत्र नारद ॥
धातोर्योगातिशयी च संयोगः परिकीर्तितः ॥ ५३-३ ॥

सिद्धेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् ॥
गूढोत्मा वर्णविकृतेर्वर्णनांशात्पृषोदरः ॥ ५३-४ ॥

भ्रमरादुषु शब्देषु ज्ञेयो योगो हि पञ्चमः ॥
बहुलं छन्दसीत्युक्तमत्र वाच्यं पुनर्वसू ॥ ५३-५ ॥

नभस्वद्वृषणश्चैवापरस्मैपदि चापि हि ॥
परं व्यवहिताश्चापि गतिसञ्ज्ञास्तथा हि आ ॥ ५३-६ ॥

विभक्तीनां विपर्यासो यथा दधना जुहोति हि ॥
अभ्युत्सादयामकेतुर्ध्वनयीत्प्रमुखास्तथा ॥
निष्टर्क्यान्द्यास्तथोक्ताश्च गृभायेत्यादिकास्तथा ॥ ५३-७ ॥

सुप्तिङुपग्रहलिङ्गनराणां कालहलूचूस्वरकर्तृयडां च ॥
व्यत्ययमिच्छति शास्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन ॥ ५३-८ ॥

रात्री विम्बी च कद्रूश्चाविष्ट्वौ वाजसनेयिनः ॥ ५३-९ ॥

कर्णेभिश्च यशोभाग्य इत्याद्याश्चतुरक्षरम् ॥
देवासोऽथो सर्वदेवतातित्वावत इत्यपि ॥ ५३-१० ॥

उभयाविन माद्याश्च प्रलयाद्याश्च स्तृचं तथा ॥
अपस्पृधेथां नो अव्यादायो अस्मान्मुखास्तथा ॥ ५३-११ ॥

सगर्भ्योस्थापदी ऋत्व्योरजिष्टं त्रिपञ्चकम् ॥
हिरण्ययेन नरं च परमे व्योमनित्यपि ॥ ५३-१२ ॥

उर्विया स्वप्रया वारवध्वाददुहवैवधी ॥
यजध्वैनमेमसि च स्नात्वी गत्वा पचास्थभौः ॥ ५३-१३ ॥

गोनाञ्चापरिह्रवृत्ताश्चातुरिर्ग्रसितादिका ॥
पश्येदधद्ब्रभूथापि प्रमिणान्तित्यवीवृधत् ॥ ५३-१४ ॥

मित्रयुश्च दुरस्वा वा हात्वा सुधितमित्यपि ॥
दधर्त्याद्या स्ववद्भिश्च ससूवेति च धिष्व च ॥ ५३-१५ ॥

प्रप्रायं च हरिवतेक्षण्वतः सुपर्थितरः ॥
रथीतरी नसताद्या अम्नर्भुवरथो इति ॥ ५३-१६ ॥

ब्रूह्याद्यादेः परस्याप्यौ श्रावयेत्यादिके प्लुतः ॥
दाश्वांश्व स्वतवान्यापौत्रिभिष्ट्वं च नृभिष्टुतः ॥ ५३-१७ ॥

अभीषुण ऋतावाहं न्यषीदन्नृमणा अपि ॥
चतुर्विधाद्बाहुलकात्प्रवृत्तेरप्रवृत्तितः ॥ ५३-१८ ॥

विभाषयान्यथाभावात्सर्वं सिद्ध्येञ्च वैदिकम् ॥
भूवाद्या धातवो ज्ञेयाः परस्मैपदिनस्स्मृताः ॥ ५३-१९ ॥

एधाद्या आत्मनेभाषा उदात्ताः षट्त्रिंशसङ्ख्यकाः ॥
अतादयोऽष्टत्रिंशञ्च परस्मैपदिनो मुने ॥ ५३-२० ॥

लोकृपूर्वा द्विचत्वारिंशदुक्ता च ह्यात्मने पदे ॥
उदात्तेतरतु पञ्चाशत्फक्काद्याः परिकीर्तिताः ॥ ५३-२१ ॥

वर्चाद्या अनुदात्तेत एकविंशतिरीरीताः ॥
गुपादयो द्विचत्वारिंशदुदात्तेताः समीरिताः ॥ ५३-२२ ॥

धिण्यादयोऽनुदात्तेतो दश प्रोक्ता हि शाब्दिकैः ॥
अणादयोप्युदात्तेतः सप्तविंशतिधातवः ॥ ५३-२३ ॥

अमादयः समुद्दिष्टाश्चतुर्स्रिंशद्धिशाब्दिकैः ॥
द्विसप्ततिमिता मव्यमुखाश्चोदात्तबन्धना ॥ ५३-२४ ॥

स्वारितेद्धावुधातुस्तु एक एव प्रकीर्तितः ॥
क्षुधादयोऽनुदात्तेतो द्विषपञ्चाशदुदाहृताः ॥ ५३-२५ ॥

घुषिराद्या उदात्ततोऽष्टाशीतिर्धातवो मताः ॥
द्युताद्या अनुदात्तेतो द्वाविंशतिरतो मताः ॥ ५३-२६ ॥

षितस्रयोदश घटादिष्वेनुदत्तेत ईरितः ॥
ततो ज्वलदुदात्तेतो द्विपञ्चाशन्मितास्तथा ॥ ५३-२७ ॥

स्वरितेद्राजृसम्प्रोक्त स्तनहेभ्राजृतस्रयः ॥
अनुदात्तेत अख्याता भाद्युतात्ता इतः स्यमात् ॥ ५३-२८ ॥

सहोऽनुदात्तेदेकस्तु रमैकोऽप्यात्मनैपदी ॥
सदस्रय उदात्तेतः कुचाद्वेदा उदात्त इत् ॥ ५३-२९ ॥

स्वरितेतः पञ्चत्रिंशद्धिक्काद्याश्च ततः परम् ॥
स्वरितेच्छिञ्भृञाद्याश्चत्वार स्वरितेत्ततः ॥ ५३-३० ॥

धेटः परस्मैपदिनः षट्चत्वारिंशदुदीरिताः ॥
अष्टादश स्मिङाद्यास्तु आमनेपदिनो मताः ॥ ५३-३१ ॥

ततस्रयोऽनुदात्तेतः पूङाद्याः परिकीर्तिताः ॥
हृपरस्मैपदी चात्मनेभाषास्तु गुपात्रयः ॥ ५३-३२ ॥

रभद्यब्दयनुदात्तेतो ञिक्ष्विदोतात्त इन्मतः ॥
परस्मैपदिनः पञ्च दश स्कम्म्भ्वादयस्तथा ॥ ५३-३३ ॥

कितधातुरुदात्तेञ्च दानशानोभयात्मकौ ॥
स्वरितेतः पचाद्यङ्काः परस्मैपदिनो मताः ॥ ५३-३४ ॥

स्वरितेतस्त्रयश्चैतौ वदवची परिभाषिणौ ॥
भ्वाद्या एते षडधिकं सहस्रं धातवो मताः ॥ ५३-३५ ॥

परस्मैपदिनः प्रोक्ता वदाश्चापि हनेति च ॥
स्वरितेतो द्विषाद्यास्तु चत्वारो धातवो मताः ॥ ५३-३६ ॥

चक्षिङेकः समाख्यातो धातुरत्रात्मनेपदी ॥
इरादयोऽनुदात्तेतो धातवस्तु त्रयोदश ॥ ५३-३७ ॥

आत्मनेपदिनौ प्रोक्तौ षूङ्शीङ्द्वौ शाब्दिकैर्मुने ॥
परस्मैपदिनः प्रोक्ता षुमुखाः सप्त धातवः ॥ ५३-३८ ॥

स्वरितेदुर्णुञाख्यातो धातुरेको मुनीश्वर ॥
घुमुखास्त्रय उद्दिष्टाः परस्मैपदिनस्तथा ॥ ५३-३९ ॥

ष्टुञेकस्तु समा ख्यातः स्मृते नारद शाब्दिकैः ॥५३-४० ॥

अष्टादश राप्रभृतयः परस्मैपदिनः स्मृताः ॥
इङ्ङात्मनेपदी प्रोक्तो धातुर्नारद केवलः । ५३-४१ ॥

विदाद यस्तु चत्वारः परस्मैपदिनो मताः ॥
ञिष्वप्शये समुद्दिष्टः परस्मैपदिकस्तथा ॥ ५३-४२ ॥

परस्मैपदिनश्चैव ते मयोक्ताः स्यमादयः ॥
दीधीङ्वेङ्स्मृतौ धातू आत्मनेपदिनौ मुने ॥ ५३-४३ ॥

प्रथादयस्रयश्चापि उदात्तेतः प्रकीर्तिताः ॥
चर्करीतं च ह्नुङ् प्रोक्तोऽनुदात्तेन्मुनिसत्तम ॥ ५३-४४ ॥

त्रिसप्तति समाख्याता धातवोऽदादिके गणे ॥
दादयो धातवो वेदाः परस्मैपदिनो मताः ॥ ५३-४५ ॥

स्वरितेद्वै भृञाख्यात उदात्तेद्धाक् प्रकीर्तितः ॥
माङ्हाङ्द्वावनुदात्तेतौ स्वरितेद्दानधातुषु ॥ ५३-४६ ॥

वाणितिराद्यास्रयश्वापि स्वरितेत उदाहृताः ॥
घृमुखा द्वादश तथा परस्मैपतिनो मताः ॥ ५३-४७ ॥

द्वाविँशतिरिहोद्दिष्टा धातवो ह्वादिके गणे ॥
परस्मैपदिनः प्रोक्ता दिवाद्याः पञ्चविंशतिः ॥ ५३-४८ ॥

आत्मनेपदिनौ धातू षूङ्दूङ्द्वावपि नारद ॥
ओदितः पूङ्मुखाः सप्त आत्मनेदपिनो मताः ॥ ५३-४९ ॥

आत्मनेपदिनो विप्र दीङ्मुखास्त्विह कीर्तिताः ॥
स्यतिप्रभृतयो वेदाः परस्मैपदिनो मताः ॥ ५३-५० ॥

जन्यादयः पञ्चदश आत्मनेपदिनो मुने ॥
मृषाद्याः स्वरितेतस्तु धातवः पञ्च कीर्तिताः ॥ ५३-५१ ॥

एकादश पदाद्यास्तु ह्यात्मनेपदिनो मताः ॥
राधोः कर्मक एवात्र वृद्धौ स्वादिचुरादिके ॥ ५३-५२ ॥

उदात्तेतस्तुदाद्यास्तु त्रयोदश समीरिताः ॥
परस्मैपदिनोऽष्टात्र रधाद्याः परिकीर्तिताः ॥ ५३-५३ ॥

समाद्याश्चाप्युदात्तेतः षट्चत्वारिंशदुदीरिताः ॥
चत्वारिशच्छतं चापि दिवादौ धातवो मताः ॥ ५३-५४ ॥

स्वादयः स्वरितेत्तोङ्का धातवः परिकीर्तिताः ॥
सप्ताख्यातो दुनोतिस्तु परस्मैपदिनो मुने ॥ ५३-५५ ॥

अष्टिघावनुदात्तेतौ धातू द्वौ परिकीर्तितौ ॥
परस्मैपदिनस्त्वत्र तिकाद्यास्तु चतुर्दश ॥ ५३-५६ ॥

द्वात्रिंशद्धातवः प्रोक्ता विप्रेन्द्र स्वादिके गणे ॥
स्वरितेतः षङाख्यातास्तुदाद्या मुनिसत्तम ॥ ५३-५७ ॥

ऋष्युदात्तेज्जुषीपूर्वा अत्मनेपदिनोर्णवाः ॥
व्रश्चादय उदात्तेतः प्रोक्ताः पञ्चाधिकं शतम् ॥ ५३-५८ ॥

गूर्युदात्तेदिहोद्दिष्टो धातुरेको मुनीश्वर ॥
णूमुखाश्चैव चत्वारः परस्मैपदिनो मताः ॥ ५३-५९ ॥

कुङाख्यातोनुदात्तेञ्च कुटाद्याः पूर्तिमागताः ॥
पृङ् मृङ् चात्मनेभाषौ षट् परस्मैपदे रिपेः ॥ ५३-६० ॥

आत्मनेपदिनो धातू दृङ्धृङ्द्वौ चाप्युदाहृतौ ॥
प्रच्छादिषोडशाख्याताः परस्मैपदिनो मुने ॥ ५३-६१ ॥

स्वरितेतः षट् ततश्च प्रोक्ता मिलमुखा मुने ॥
कृतीप्रभृतय श्चापि परस्मैपदिनस्रयः ॥ ५३-६२ ॥

सप्त पञ्चाशदधिकास्तुदादौ धातवः शतम् ॥
स्वरितेतो रुधोनन्दा परस्मैभाषितः कृती ॥ ५३-६३ ॥

ञिइन्धीतोऽनुदातेतस्रयो धातव ईरिताः ॥
उदात्तेतः शिषपिषरुधाद्याः पञ्चविंशतिः ॥ ५३-६४ ॥

स्वरितेतस्तनोः सप्त धातवः परिकीर्तिताः ॥
मनुवन्वात्मनेभाषौ स्वरितेत्त्कृञुदाहृतः ॥ ५३-६५ ॥

ततो द्वौ कीर्तितौ विप्र धातवो दश शाब्दिकैः ॥
क्याद्याः सप्तोभयेभाषाः सौत्राः स्तम्भ्वादिकास्तथा ॥ ५३-६६ ॥

परस्मैपदिनः प्रोक्ताश्चत्वारोऽपि मुनीश्वर ॥
द्वाविंशतिरुदात्तेतः कुधाद्या धातवो मताः ॥ ५३-६७ ॥

वृङ्ङात्मनेपदी धातुः र्श्रथाद्याश्चैकविंशतिः ॥
परस्मैपदिनश्चाथ स्वरितेद्ग्रह एव च ॥ ५३-६८ ॥

क्र्यादिकेषु द्विपञ्चाशद्धातवः कीर्तिता बुधैः ॥
चुराद्या धातवो ञ्यन्ता षट्र्त्रिंशदधिकः शतम् ॥ ५३-६९ ॥

चित्याद्यष्टादशाख्याता आत्मनेपदिनो मुने ॥
चर्चाद्या आधृषीयास्तु प्यन्ता वा परिकीर्तिताः ॥ ५३-७० ॥

अदन्ता धातवश्चैव चत्वारिंशत्तथाष्टं च ॥
पदाद्यास्तु दश प्रोक्ता धातवो ह्यात्मनेपदे ॥ ५३-७१ ॥

सूत्राद्या अष्ट चाप्यत्र ञ्यन्ता प्रोक्ता मनीषिभिः ॥
धात्वर्थे प्रातिपदिकाद्वहुलं चेष्टवन्मतम् ॥ ५३-७२ ॥

तत्करोति तदाचष्टे हेतुमत्यपि णिर्मतः ॥
धात्वर्थे कर्तृकरणाञ्चित्राद्याश्चापि धातवः ॥ ५३-७३ ॥

अष्ट सङ्ग्राम आख्यातोऽनुदात्तेच्छब्दिकैर्बुधैः ॥
स्तोमाद्याः षोडश तथा अन्दतस्यं निदर्शनम् ॥ ५३-७४ ॥

तथा बाहुलकादन्ये सौत्रलौकिकवैदिकाः ॥
सर्वे सर्वगणीयाश्च तथानेकार्थवाचिनः ॥ ५३-७५ ॥

सनाद्यन्ता धातवश्च तथा वै नामधातवः ॥
एवमानन्त्यमुद्भाव्यं धातूनामिह नारद ॥
सङ्क्षेपोऽयं समुद्दिष्टो विस्तरस्तत्र तत्र च ॥ ५३-७६ ॥

ऊदृदन्तैर्यौति रुक्ष्णुशूङ्स्नुनुक्षुश्चिडीङ्श्रिभिः ॥
वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ ५३-७७ ॥

शक्लपचूमुचार्रच्वच्विच्सिच्प्रच्छित्यज्निजिर् भजः ॥
भञ्ज्भुज्भ्रस्ज्मत्जियज्युज्रुज्रञ्जविजिर्स्वञ्जिसञ्ज्सृजः ॥ ५३-७८ ॥

अदक्षुद्खिद्छिद्तुदिनुदः पद्यभिद्विद्यतिर्विनद् ॥
शद्सदी स्विद्यतिस्स्कन्दिर्हदी क्रुध्क्षुधिबुध्यती ॥ ५३-७९ ॥

बन्धिर्युधिरुधीराधिव्यध्शुधः साधिसिध्यती ॥
मन्यहन्नाप्क्षिप्छुपितप्तिपस्तृप्यतिदृप्यती ॥ ५३-८० ॥

लिब्लुव्वपूशप्स्वपूसृपियभरभगम्नम्यमो रभिः ॥
क्रुशिर्दंशिदिशी दृश्मृश्रिरुश्लिश्विश्स्पृशः कृषिः ॥ ५३-८१ ॥

त्विष्तुष्दुष्पुष्यपिष्विष्शिष्शुष्श्लिष्यतयो घसिः ॥
वसतिर्दहदिहिदुहो नह्मिह्रुह्लिह्वहिस्तथा ॥ ५३-८२ ॥

अनुदात्ता हलन्तेषु धातवो द्व्यधिकं शतम् ॥
चाद्या निपाता गवयः प्राद्या दिग्देशकालजाः ॥ ५३-८३ ॥

शब्दाः प्रोक्ता ह्यनेकार्थाः सर्वलिङ्गा अपि द्विज ॥
गणपाठः सूत्रपाठो धातुपाठस्तथैव च ॥ ५३-८४ ॥

पाठोनुनासिकानां च परायणमिहोच्यते ॥
शब्दाः सिद्धा वैदिकास्तु लौकिकाश्चापि नारद ॥ ५३-८५ ॥

शब्दपारायणं तस्मात्कारणं शब्दसङ्ग्रहे ॥
लघुमार्गेण शब्दानां साधूनां सन्निरूपणम् ॥ ५३-८६ ॥

प्रकृतिप्रत्ययादेशलोपागममुखैः कृतम् ॥ ५३-८७ ॥

इत्थमेतत्समाख्यातं निरुक्तं किञ्चिदेवते ॥
कात्स्न्येर्न वक्तुमानन्त्यात्कोऽपिशक्तो न नारद ॥ ५३-८८ ॥

इति श्रीबृहन्नारदीयपुराण पूर्वभागे बृहदुपाख्याने द्वितीयपादे निरुक्तलक्षणनिरूपणं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥