०५१

अथातः सम्प्रवक्ष्यामि कल्पग्रन्थं मुनीश्वर
यस्य विज्ञानमात्रेण स्यात् कर्मकुशलो नरः 1.51.१
नक्षत्रकल्पो वेदानां संहितानां तथैव च
चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः २
नक्षत्राधीश्वराख्यानं विस्तरेण यथातथम्
नक्षत्रकल्पे निर्दिष्टं ज्ञातव्यं तदिहापि च ३
वेदकल्पे विधानं तु ऋगादीनां मुनीश्वर
धर्मार्थकाममोक्षाणां सिद्ध्यै प्रोक्तं सविस्तरम् ४
मन्त्राणामृषयश्चैव छन्दांस्यथ च देवताः
निर्दिष्टाः संहिताकल्पे मुनिभिस्तत्त्वदर्शिभिः ५
तथैवाङ्गिरसे कल्पे षट्कर्माणि सविस्तरम्
अभिचारविधानेन निर्दिष्टानि स्वयम्भुवा ६
शान्तिकल्पे तु दिव्यानां भौमानां मुनिसत्तम
तथान्तरिक्षोत्पातानां शान्तयो ह्युदिताः पृथक् ७
सङ्क्षेपेणैतदुद्दिष्टं लक्षणं कल्पलक्षणे
विशेषः पृथगेतेषां स्थितः शाखान्तरेषु च ८
गृह्यकल्पे तु सर्वेषामुपयोगितयाऽधुना
वक्ष्यामि ते द्विजश्रेष्ठ सावधानतया शृणु ९
ॐकारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा
कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गल्यकाविमौ १०
कृत्वा प्रोक्तानि कर्माणि तदूर्द्ध्वानि करोति यः
सोऽथ शब्दं प्रयुञ्जीत तदानन्त्यार्थमिष्यते ११
कुशाः परिसमूहाय व्यस्तशाखाः प्रकीर्तिताः
न्यूनाधिका निष्फलाय कर्मणोऽभिमतस्य च १२
कृमिकीटपतङ्गाद्या भ्रमति वसुधातले
तेषां संरक्षणार्थाय प्रोक्तं परिसमूहनम् १३
रेखाः प्रोक्ताश्च यास्तिस्रः कर्तव्यास्ताः समा द्विज
न्यूनाधिका न कर्तव्या इत्येव परिभाषितम् १४
मेदिनी मेदसा व्याप्ता मधुकैटभदैत्ययोः
गोमयेनोपलेप्येयं तदर्थमिति नारद १५
वन्ध्या दुष्टा च दीनाङ्गी मृतवत्सा स च या भवेत्
यज्ञार्थं गोमयं तस्या नाहरेदिति भाषितम् १६
ये भ्रमन्ति सदाकाशे पतङ्गाद्या भयङ्कराः
तेषां प्रहरणार्थाय मतं प्रोद्धरणं द्विज १७
स्रुवेण च कुशेनापि कुर्यादुल्लेखनं भुवः
अस्थिकण्टकसिर्द्ध्य्थं ब्रह्मणा परिभाषितम् १८
आपो देवगणाः सर्वे तथा पितृगणा द्विज
तेनाद्भिरुक्षणं प्रोक्तं मुनिभिर्विधिकोविदैः १९
अग्नेरानयनं प्रोक्तं सौभाग्यस्त्रीभिरेव च
शुभदे मृण्मये पात्रे प्रोक्ष्याद्भिस्तं निधापयेत् २०
अमृतस्य क्षयं दृष्ट्वा ब्रह्माद्यैः सर्वदैवतैः
वेद्यां निधापितस्तस्मात्समिद्गर्भो हुताशनः २१
दक्षिणस्यां दानवाद्याः स्थिता यज्ञस्य नारद
तेभ्यः संरक्षणार्थाय ब्रह्माणं तद्दिशि न्यसेत् २२
उत्तरे सर्वपात्राणि प्रणीताद्यानि पश्चिमे
यजमानः पूर्वतः स्युर्द्विजाः सर्वेऽपि नारद २३
द्यूते च व्यवहारे च यज्ञकर्मणि चेद्भवेत्
कर्त्तोदासीनचित्तस्तत्कर्म नश्येदिति स्थितिः २४
ब्रह्माचार्यौ स्वशाखौ हि कर्तव्यौ यज्ञकर्मणि
ऋत्विजां नियमो नास्ति यथालाभं समर्चयेत् २५
द्वे पवित्रे त्र्यङ्गुलेस्तः प्रोक्षिणी चतुरङ्गुला
आज्यस्थाली त्र्यङ्गुलाथ चरुस्थाली षडङ्गुला २६
द्व्यङ्गुलं तूपयमनमेकं सम्मार्जनाङ्गुलम्
स्रुवं षडङ्गुलं प्रोक्तं स्रुचं सार्द्धत्रयाङ्गुलम् २७
प्रादेशमात्रा समिधः पूर्णपात्रं षडङ्गुलम्
प्रोक्षिण्या उत्तरे भागे प्रणीतापात्रमष्टभिः २८
यानि कानि च तीर्थानि समुद्रा ः! सरितस्तथा
प्रणीतायां समासन्नात्तस्मात्तां पूरयेज्जलैः २९
वैदिका वस्त्रहीना च नग्ना सम्प्रोच्यते द्विज
परिस्तीर्य्य ततो दर्भैः परिदध्यादिमां बुधः ३०
इन्द्र वज्रं विष्णुचक्रं वामदेवत्रिशूलकम्
दर्भरूपतया त्रीणि पवित्रच्छेदनानि च ३१
प्रोक्षणी च प्रकर्तव्या प्रणीतोदकसंयुता
तेनातिपुण्यदं कर्म पवित्रमिति कीर्तितम् ३२
आज्यस्थाली प्रकर्तव्या पलमात्रप्रमाणिका
कुलालचक्रघटितं आसुरं मृण्मयं स्मृतम् ३३
तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत्
स्रुवे च सर्वकर्माणि शुभान्यप्यशुभानि च ३४
तस्य चैव पवित्रार्थं वह्नौ तापनमीरितम्
अग्रे धृतेन वैधव्यं मध्ये चैव प्रजाक्षयः ३५
मूले च म्रियते होता तस्माद्धार्यं विचार्य तत्
अग्निः सूर्यश्च सोमश्च विरञ्चिरनिलो यमः ३६
स्रुवे षडेते दैवास्तु प्रत्यङ्गुलमुपाश्रिताः
अग्निर्भोगार्थनाशाय सूर्यो व्याधिकरो भवेत् ३७
निष्फलस्तु स्मृतः सोमो विरञ्चिः सर्वकामदः
अनिलो वृद्धिदः प्रोक्तो यमो मृत्युप्रदो मतः ३८
सम्मार्जनोपयमनं कर्तव्यं च कुशद्वयम्
पूर्वं तु सर्वशाखं स्यात्पञ्चशाखं तथा परम् ३९
श्रीपर्णी च शमी तद्वत्खदिरश्च विकङ्कतः
पलाशश्चैव विज्ञेयाः स्रुवे चैव तथा स्रुचि ४०
हस्तोन्मितं स्रुवं शस्तं त्रिदशाङ्गुलिकं स्रुचम्
विप्राणां चैतदाख्यातं ह्यन्येषामङ्गुलोनकम् ४१
शूद्रा णां पतितानां च खरादीनां च नारद
दृष्टिदोषविनाशार्थं पात्राणां प्रोक्षणं स्मृतम् ४२
अकृते पूर्णपात्रे तु यज्ञच्छिद्रं समुद्भवेत्
तस्मिन् पूर्णीकृते विप्र यज्ञसम्पूर्णता भवेत् ४३
अष्टमुष्टिर्भवेत् किञ्चित् पुष्कलं तच्चतुष्टयम्
पुष्कलानि तु चत्वारि पूर्णपात्रं विदुर्बुधाः ४४
होमकाले तु सम्प्राप्ते न दद्यादासनं क्वचित्
दत्ते तृप्तो भवेद् वह्निः शापं दद्याच्च दारुणम् ४५
आघारौ नासिके प्रौक्तौ आज्यभागौ च चक्षुषी
प्राजापत्यं मुखं प्रोक्तं कटिर्व्याहृतिभिः स्मृता ४६
शीर्षं हस्तौ च पादौ च पञ्चवारुणमीरितम्
तथास्विष्टकृतं विप्र श्रोत्रे पूर्णाहुतिस्तथा ४७