नारद उवाच ॥
श्रुतं मया महामाग तापत्रयचिकित्सितम् ॥
तथापि मे मनो भ्रान्तं न स्थितिं लभतेंऽजसा ॥ ४८-१ ॥
आत्मव्यतिक्रमं ब्रह्मन्दुर्जनाचरितं कथम् ॥
सोढुं शक्येत मनुजैस्तन्ममाख्याहि मानद ॥ ४८-२ ॥
सूत उवाच ॥
तच्छ्रृत्वा नारदेनोक्तं ब्रह्मपुत्रः सनन्दनः ॥
उवाच हर्षसंयुक्तः स्मरन्भरतचेष्टितम् ॥ ४८-३ ॥
सनन्दन उवाच ॥
अत्र ते कथयिष्यामि इतिहासं पुरातनम् ॥
यं श्रुत्वा त्वन्मनो भ्रान्तमास्थानं लभते भृशम् ॥ ४८-४ ॥
आसीत्पुरा मुनिश्रेष्ट भरतो नाम भूपतिः ॥
आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते ॥ ४८-५ ॥
स राजा प्राप्तराज्यस्तु पितृपैतामहं क्रमात् ॥
पालयामास धर्मेण पितृवद्रञ्जयन् प्रजाः ॥ ४८-६ ॥
ईजे च विविधैर्यज्ञैर्भगवन्तमधोक्षजम् ॥
सर्वदेवात्मकं ध्यायन्नानाकर्मसु तन्मतिः ॥ ४८-७ ॥
ततः समुत्पाद्य सुतान्विरक्तो विषयेषु सः ॥
मुक्त्वा राज्यं ययौ विद्वान्पुलस्त्यपुहाश्रमम् ॥ ४८-८ ॥
शालग्रामं महाक्षेत्रं मुमुक्षुजनसेवितम् ॥
तत्रासौ तापसो तापसो भूत्वा विष्णोराराधनं मुने ॥ ४८-९ ॥
चकार भक्तिभावेन यथालब्धसपर्यया ॥
नित्यं प्रातः समाप्लुत्य निर्मलेऽभलि नारद ॥ ४८-१० ॥
उपतिष्टेद्रविं भक्त्या गृणन्ब्रह्माक्षरं परम् ॥
अथाश्रमे समागत्य वासुदेवं जगत्पतिम् ॥ ४८-११ ॥
समाहृतैः स्वयं द्रव्यैः समित्कुशमृदादिभिः ॥
फलैः पुष्पैंस्तथा पत्रैस्तुलस्याः स्वच्छवारिभिः ॥ ४८-१२ ॥
पूजयन्प्रयतो भूत्वा भक्तिप्रसरसम्प्लुतः ॥
सचैकदा महाभागः स्नात्वा प्रातः समाहितः ॥ ४८-१३ ॥
चक्रनद्यां जपंस्तस्थौ मुहुर्तत्रयमम्बुनि ॥
अथाजगाम तत्तीरं जलं पातुं पिपासिता ॥ ४८-१४ ॥
आसन्नप्रसवा ब्रह्मन्नैकैव हिणी वनात् ॥
ततः समभवत्तत्र पीतप्राये जले तया ॥ ४८-१५ ॥
सिंहस्य नादः सुमहान् सर्वप्राणिभयङ्करः ॥
ततः सा सिंहसन्नादादुत्प्लुता निम्नगातटम् ॥ ४८-१६ ॥
अत्युञ्चारोहणेनास्या नद्यां गर्भः पपात ह ॥
तमुह्यमानं वेगेन वीचिमालापरिप्लुतम् ॥ ४८-१७ ॥
जग्राह भरतो गर्भात्पतितं मृगपोतकम् ॥
गर्भप्रच्युतिदुःखेन प्रोत्तुङ्गाक्रणेन च ॥ ४८-१८ ॥
मुनीन्द्र सा तु हरिणी निपपात ममार च ॥
हरिणीं तां विलोक्याथ विपन्नां नृपतापसः ॥ ४८-१९ ॥
मृगपोतं समागृह्य स्वमाश्रममुपागतः ॥
चकारानुदिनं चासौ मृगपोतस्य वै नृपः ॥ ४८-२० ॥
पोषणं पुष्यमाणश्च स तेन ववृधे मुने ॥
चचाराश्रमपर्यन्तं तृणानि गहनेषु सः ॥ ४८-२१ ॥
दूरं गत्वा च शार्दूलत्रासादभ्याययौ पुनः ॥
प्रातर्गत्वादिदूरं च सायमायात्यथाश्रमम् ॥ ४८-२२ ॥
पुनश्च भरतस्याभूदाश्रमस्योटजान्तरे ॥
तस्यतस्मिन्मृगे दूरसमीपपरिवर्तिनि ॥ ४८-२३ ॥
आसीञ्चेतः समासक्तं न तथा ह्यच्युते मुने ॥
विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः ॥. ४८-२४ ॥
ममत्व स चकारोञ्चैस्तस्मिन्हरिणपोतके ॥
किं वृकैभक्षितो व्याघ्नैः किं सिंहेन निपातितः ॥ ४८-२५ ॥
चिरायमाणे निष्कान्ते तस्यासीदिति मानसम् ॥
प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ॥ ४८-२६ ॥
समाधिभङ्गस्तस्यासीन्ममत्वाकृष्टमानसः ॥
कालेन गच्छता सोऽथ कालं चक्रे महीपतिः ॥ ४८-२७ ॥
पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः ॥
मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि ॥ ४८-२८ ॥
मृगो बभूव स मुने तादृशीं भावनां गतः ॥
जाति स्मरत्वादुद्विग्नः संसारस्य द्विजोत्तम ॥ ४८-२९ ॥
विहाय मातरं भूयः शालग्राममुपाययौ ॥
शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम् ॥ ४८-३० ॥
मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ ॥
तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः ॥ ४८-३१ ॥
सदाचारवतां शुद्धे यागिनां प्रवरे कुले ॥
सर्वविज्ञान सम्पन्नः सर्वशास्त्रार्थतत्त्ववित् ॥ ४८-३२ ॥
अपश्यत्स मुनिश्रेष्टः स्वात्मानं प्रकृतेः परम् ॥
आत्मनोधिगतज्ञानाद्द्वेवादीनि महामुने ॥ ४८-३३ ॥
सर्वभूतान्यभे देन ददर्श स महामतिः ॥
न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतम् ॥ ४८-३४ ॥
न ददर्श च कर्माणि शास्त्राणि जगृहे न च ॥
उक्तोऽपि बहुशः किञ्चिज्जण्ड वाक्यमभाषत ॥ ४८-३५ ॥
तदप्यसंस्कारगुणं ग्रामभाषोक्तिसंयुतम् ॥
अपद्धस्तवपुः सोऽपि मलिनाम्बरधृङ् मुने ॥ ४८-३६ ॥
क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः ॥
सम्मानेन परां हानिं योगर्द्धेः कुरुते यतः ॥ ४८-३७ ॥
जनेनावमतो योगी योगसिद्धिं च विन्दति ॥
तस्माञ्चरेत वै योगी सतां धर्ममदूषयन् ॥ ४८-३८ ॥
जना यथावमन्येयुर्गच्छेयुर्नैव सङ्गतिम् ॥
हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः ॥ ४८-३९ ॥
आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने ॥
भुङ्क्ते कुल्माषवटकान् शाकं त्रन्यफलं कणान् ॥ ४८-४० ॥
यद्यदाप्नोति स बहूनत्ति वै कालसम्भवम् ॥
पितर्युपरते सोऽथ भ्रातृभ्रातृव्यबान्धवैः ॥ ४८-४१ ॥
कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः ॥
सरूक्षपीनावयवो जडकारी च कर्मणि ॥ ४८-४२ ॥
सर्वलोकोपकरणं बभूवाहारवेतनः ॥
तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् ॥ ४८-४३ ॥
क्षत्ता सौवीरराज्यस्य विष्टियोग्यममन्यत ॥
स राजा शिबिकारूढो गन्तुं कृतमतिर्द्विज ॥ ४८-४४ ॥
बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ॥
श्रेयः किमत्र संसारे दुःखप्राये नृणामिति ॥ ४८-४५ ॥
प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ॥
उवाह शिबिकामस्य क्षत्तुर्वचनचोदितः ॥ ४८-४६ ॥
नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः ॥
गृहीतो विष्टिना विप्र सर्वज्ञानैकभाजनम् ॥ ४८-४७ ॥
जातिस्मरोऽसौ पापस्य क्षयकाम उवाह ताम् ॥
ययौ जडगतिस्तत्र युगमात्रावलोकनम् ॥ ४८-४८ ॥
कुर्वन्मतिमतां श्रेष्टस्ते त्वन्ये त्वरितं ययुः ॥
विलोक्य नृपतिः सोऽथ विषमं शिबिकागतम् ॥ ४८-४९ ॥
किमेतदित्याह समं गम्यतां शिबिकावहाः ॥
पुनस्तथैव शिबिकां विलोक्य विषमां हसन् ॥ ४८-५० ॥
नृपः किमेऽतदित्याह भवद्भिर्गम्यतेऽन्यथा ॥
भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः ॥
शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम् ॥ ४८-५१ ॥
राजोवाच ॥
किं श्रान्तोऽस्यल्पमध्वानं त्वयोढा शिबिका मम ॥
किमायाससहो न त्वं पीवा नासि निरीक्ष्यसे ॥ ४८-५२ ॥
ब्राह्मण उवाच ॥
नाहं पीवा न चैवोढा शिबिका भवतो मया ॥
न श्रान्तोऽस्मि न चायासो वोढान्योऽस्ति महीपते ॥ ४८-५३ ॥
राजोवाच ॥
प्रत्यक्षं दृश्यते पीवात्वद्यापि शिबिका त्वयि ॥
श्रमश्च भारो द्वहने भवत्येव हि देहिनाम् ॥ ४८-५४ ॥
ब्राह्मण उवाच ॥
प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद ॥
बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम् ॥ ४८-५५ ॥
त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता ॥
मिथ्या तदप्यत्र भवान् श्रृणोतु वचनं मम ॥ ४८-५६ ॥
भूमौ पादयुगं चाथ जङ्घे पादद्वये स्थिते ॥
ऊरु जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥ ४८-५७ ॥
वक्षस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ ॥
स्कन्धाश्रितयें शिबिका ममाधारोऽत्र किङ्कृतः ॥ ४८-५८ ॥
शिबिकायां स्थितं चेदं देहं त्वदुपलक्षितम् ॥
तत्र त्वमहमप्यत्रेत्युच्यते चेदमन्यथा ॥ ४८-५९ ॥
अहं त्वं च तथान्ये च भूतैरुह्याश्च पार्थिव ॥
गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ॥ ४८-६० ॥
कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते ॥
अविद्यासञ्चितं कर्मतश्चाशेषेषु जन्तुषु ॥ ४८-६१ ॥
आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृते परः ॥
प्रवृद्ध्यपचयौ न स्त एकस्याखिलजन्तुषु ॥ ४८-६२ ॥
यदा नोपचयस्तस्य नचैवापचयो नृप ॥
तदापि बालिशोऽसि त्वं कया युक्त्या त्वयेरितम् ॥ ४८-६३ ।
भूपादजङ्घाकट्यूरुजठरादिषु संस्थिता ॥
शिबिकेयं यदा स्कन्धे तदा भारः समस्त्वया ॥ ४८-६४ ॥
तथान्यजन्तुभिर्भूप शिबिकोढान केवलम् ॥
शैलद्रुमगृहोत्थोऽपि पृथिवीसम्भवोऽपि च ॥ ४८-६५ ॥
यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप ॥
सोढव्यः सुमहान्भारः कतमो नृप ते मया ॥ ४८-६६ ॥
यद्द्रव्यो शिबिका चेयं तद्द्रव्यो भूतसङ्ग्रहः ॥
भवतो मेऽखिलस्यास्य समत्वेनोपबृंहितः ॥ ४८-६७ ॥
सनन्दन उवाच ॥
एवमुक्त्वाऽभवन्न्मौनी स वहञ्शिबिकां द्विजः ॥
सोऽपि राजाऽवतीर्योर्व्यां तत्पादौ जगृहे त्वरन् ॥ ४८-६८ ॥
राजोवाच ॥
भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज ॥
कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः ॥ ४८-६९ ॥
यो भवान्यदपत्यं वा यदागमनकारणम् ॥
तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया ॥ ४८-७० ॥
ब्राह्मण उवाच ॥
श्रूयतां कोऽहमित्येतद्वक्तुं भूप न शक्यते ॥
उपयोगनिमित्तं च सर्वत्रागमनक्रिया ॥ ४८-७१ ॥
सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ ॥
धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति ॥ ४८-७२ ॥
सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् ॥
धर्माधर्मौ यतस्तस्मात्कारणं पृच्छ्यते कुतः ॥ ४८-७३ ॥
राजोवाच ॥
धर्माधर्मौ न सन्देहः सर्वकार्येषु कारणम् ॥
उपभोगनिमित्तं च देहाद्देहान्तरागमः ॥ ४८-७४ ॥
यत्त्वेतद्भवता प्रोक्तं कोऽहमित्येतदात्मनः ॥
वक्तुं न शक्यते श्रोतुं तन्ममेच्चा प्रवर्तते ॥ ४८-७५ ॥
योऽस्ति योऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते ॥
आत्मन्येव न दोषाय शब्दोऽहमिति यो द्विजा ॥ ४८-७६ ॥
ब्राह्मण उवाच ॥
शब्दोऽहमिति दोषाय नात्मन्येवं तथैव तत् ॥
अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः ॥ ४८-७७ ॥
जिह्वा ब्रवीत्यहमिति दन्तौष्टतालुक नृप ॥
एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः ॥ ४८-७८ ॥
किं हेतुभिर्वदूत्येषा वागेवाहमिति स्वयम् ॥
तथापि वागहमेद्वक्तुमित्थं न युज्यते ॥ ४८-७९ ॥
पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः ॥
ततोऽहमिति कुत्रैनां सञ्ज्ञां राजन्करोम्यहम् ॥ ४८-८० ॥
यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम् ॥
न देहोऽहमयं चान्ये वक्तुमेवमपीष्यते ॥ ४८-८१ ॥
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ॥
तददा हि को भवान्कोऽहमित्येतद्विफलं वचः ॥ ४८-८२ ॥
त्वं राजा शिबिका चेयं वयं वाहाः पुरः सराः ॥
अयं च भवतो लोको न सदेतन्नृपोच्यते ॥ ४८-८३ ॥
वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्टिता ॥
क्व वृक्षसञ्ज्ञा वै तस्या दारुसञ्ज्ञाथवा नृप ॥ ४८-८४ ॥
वृक्षारूढो महाराजो नायं वदति ते जनः ॥
न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम् ॥ ४८-८५ ॥
शिबिकादारुसङ्घातो स्वनामस्थितिसंस्थितः ॥
अन्विष्यतां नृपश्रेष्टानन्ददाशिबिका त्वया ॥ ४८-८६ ॥
एवं छत्रं शलाकाभ्यः पृथग्भावो विमृश्यताम् ॥
क्व जातं छत्रमित्येष न्यायस्त्वयि तथा मयि ॥ ४८-८७ ॥
पुमान्स्त्री गौरजा बाजी कुञ्जरो विहगस्तरुः ॥
देहेषु लोकसञ्ज्ञेयं विज्ञेया कर्महेतुषु ॥ ४८-८८ ॥
पुमान्न देवो न नरो न पशुर्न च पादपः ॥
शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥ ४८-८९ ॥
वस्तु राजेति यल्लेके यञ्च राजभटात्मकम् ॥
॥ तथान्यश्च नृपेत्थं तन्न सत्यं कल्पनामयम् ॥ ४८-९० ॥
यस्तु कालान्तरेणापि नाशसञ्ज्ञामुपैति वै ॥
परिणामादिसम्भूतं तद्वस्तु नृप तञ्च किम् ॥ ४८-९१ ॥
त्वं राजा सर्वसोकस्य पितुः पुत्रो रिपो रिपुः ॥
पत्न्याः पतिः पिता सूनोः कस्त्वं भूप वदाम्यहम् ॥ ४८-९२ ॥
त्वं किमेतच्चिरः किं तु शिरस्तव तथो दरम् ॥
किमु पादादिकं त्वेतन्नैव किं ते महीपते ॥ ४८-९३ ॥
समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ॥
कोऽहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव ॥ ४८-९४ ॥
एवं व्यवस्थिते तत्त्वे मयाहमिति भावितुम् ॥
पृथकूचरणनिष्पाद्यं शक्यं तु नृपते कथम् ॥ ४८-९५ ॥
इति श्रृबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.ष्टचत्वारिंशोऽध्यायः ॥