सनन्दन उवाच ॥
एतदध्यात्ममानाढ्यं वचः केशिध्वजस्य सः ॥
खाण्डिक्योऽमृतवच्छ्रत्वा पुनराह तमीरयन् ॥ ४७-१ ॥
खाण्डिक्य उवाच ॥
तद् ब्रूहि त्वं महाभाग योगं योगविदुत्तम ॥
विज्ञातयो गशास्त्रार्थस्त्वमस्यां निमिसन्ततौ ॥ ४७-२ ॥
केशिध्वज उवाच ॥
योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम ॥
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ ४७-३ ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥
बन्धस्य विषयासङ्गि मुक्तेर्निर्विषयं तथा ॥ ४७-४ ॥
विषयेभ्यः समाहृत्य विज्ञानात्मा बुधो मनः ॥
चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ ४७-५ ॥
आत्मभावं नयेत्तेन तद्ब्रीह्यध्यापनं मनः ॥
विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ॥ ४७-६ ॥
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ॥
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ ४७-७ ॥
एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणम् ॥
यस्य योगः स वै योगी मुमुक्षुरमिधीयते ॥ ४७-८ ॥
योगयुक् प्रथमं योगी युञ्जमानोऽभिधीयते ॥
विनिष्यन्नसमाधिस्तु परब्रह्मोपलब्धिमान् ॥ ४७-९ ॥
यद्यन्तरायदोषेण दूष्यते नास्य मानसम् ॥
जन्मान्तरैरभ्यसनान्मुक्तिः पूर्वस्य जायते ॥ ४७-१० ॥
विनिष्पन्नसमाधिस्तु मुक्तिस्तत्रैव जन्मनि ॥
प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ ४७-११ ॥
ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् ॥
सेवेत योगी निष्कामो यिगितां स्वमनो नयन् ॥ ४७-१२ ॥
स्वाध्यायशौचसन्तोषतपांसि नियमान्यमान् ॥
कुर्व्वीत ब्रह्मणि तथा परिस्मिन्प्रवणं मनः ॥ ४७-१३ ॥
एते यमाश्च नियमाः पञ्च पञ्चप्रकीर्तिताः ॥
विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥ ४७-१४ ॥
एवं भद्रासनादीनां समास्थाय गुणैर्युतः ॥
यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ ४७-१५ ॥
प्राणाख्यमवलम्बस्थमभ्यासात्कुरुते तु यत् ॥
प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥ ४७-१६ ॥
परस्परेणाभिभवं प्राणापानौ यदा निलौ ॥
कुरुतः सद्विधानेन तृतीयः संयमात्तयोः ॥ ४७-१७ ॥
तस्य चांलबनवत्स्थूलं रूपं द्विषत्पते ॥
आलम्बनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥ ४७-१८ ॥
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ॥
कुर्य्याञ्चित्तानुकारीणि प्रत्याहारपरायणः ॥ ४७-१९ ॥
वश्यता परमा तेन जायते निश्चला त्मनाम् ॥
इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ ४७-२० ॥
प्राणायामेन पवनैः प्रत्याहरेण चेन्द्रियैः ॥
वशीकृतैस्ततः कुर्यात्स्थिरं चेतः शुभाश्रये ॥ ४७-२१ ॥
खाण्डिक्य उवाच ॥
कथ्यतां मे महाभाग चेतसो यः शुभाश्रयः ॥
यदाधारमशेषं तु हन्ति दोषसमुद्भवम् ॥ ४७-२२ ॥
केशिध्वज उवाच ॥
आश्रयश्चेतसो ज्ञानिन् द्विधा तञ्च स्वरूपतः ॥
रूपं मूर्तममूर्तं च परं चापरमेव च ॥ ४७-२३ ॥
त्रिविधा भावना रूपं विश्वमेतत्त्रिधोच्यते ॥
ब्रह्माख्या कर्मसञ्ज्ञा च तथा चैवोभयात्मिका ॥ ४७-२४ ॥
कर्मभावात्मिका ह्येका ब्रह्मभावात्मिकापरा ॥
उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ ४७-२५ ॥
सनकाद्या सदा ज्ञानिन् ब्रह्मभावनया युताः ॥
कर्मभावनया चान्ये देवाद्याः स्थावराश्चराः ॥ ४७-२६ ॥
हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा ॥
अधिकारबोधयुक्तेषु विद्यते भावभावना ॥ ४७-२७ ॥
अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ॥
विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृप ॥ ४७-२८ ॥
प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ॥
वचसामात्मसन्तोद्यं तज्ज्ञानं ब्रह्मसञ्ज्ञितम् ॥ ४७-२९ ॥
तच्च विष्णोः परं रूपमरूपस्याजनस्य च ॥
विश्वस्वरूपं वैरूप्यलक्षणं परमात्मनः ॥ ४७-३० ॥
न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः ॥
ततः स्थूलं हरे रूपं चिन्त्यं यञ्चक्षुगोचरम् ॥ ४७-३१ ॥
हिरण्यगर्भो भगवान्वासवोऽथ प्रजापतिः ॥
मरुतो वसवो रुद्रा भास्कारास्तारका ग्रहाः ॥ ४७-३२ ॥
गन्धर्वा यक्षदैत्याश्च सकला देवयोतयः ॥
मनुष्याः पशवः शैलासमुद्राः सरितो द्रुमाः ॥ ४७-३३ ॥
भूप भूतान्यशेषाणि भूतानां ये च हेतवः ॥
प्रधानादिविशेषान्ताश्चेतनाञ्चेतनात्मकम् ॥ ४७-३४ ॥
एकपादं द्विपादं च बहुपादमपादकम् ॥
मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ ४७-३५ ॥
एतत्सर्वमिदं विंश्वं जगदेतञ्चराचरम् ॥
परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥ ४७-३६ ॥
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ॥
अविद्याकर्मसञ्ज्ञान्या तृतीया शक्तिरिष्यते ॥ ४७-३७ ॥
येयं क्षेत्रज्ञशक्तिः सा चेष्टिता नृप कर्मजा ॥
असारभूते संसारे प्रोक्ता तत्र महामते ॥ ४७-३८ ॥
संसारतापानखिलानवाप्नोत्यनुसञ्ज्ञितान् ॥
तया तिरोहितत्वात्तु शक्तिः क्षेत्रज्ञ सञ्ज्ञिता ॥ ४७-३९ ॥
सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ॥
अप्राणवत्सु खल्वल्पा स्थावरेषु ततोऽधिका ॥ ४७-४० ॥
सरीसृपेषु तेभ्योऽन्याप्यतिशक्त्या पतत्रिशु ॥
पतत्र्रिभ्यो मृगास्तेभ्यः स्वशक्त्या पशवोऽधिकाः ॥ ४७-४१ ॥
पशुभ्यो मनुजाश्चातिशक्त्या पुंसःप्रभाविताः ॥
तेभ्योऽपि नागगन्धर्वयक्षाद्या देवता नृप ॥ ४७-४२ ॥
शक्रः समस्तदेवेभ्यस्ततश्चातिप्रजापतिः ॥
हिरण्यगर्भोऽपि ततः पुंसः शक्त्युपलक्षितः ॥ ४७-४३ ॥
एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव ॥
यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥ ४७-४४ ॥
द्वितीयं विष्णुसञ्ज्ञस्य योगिध्येयं महामते ॥
अमृर्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ॥ ४७-४५ ॥
समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्टिताः ॥
नहि स्वरूपरूपं वै रूपमन्यद्धरेर्महत् ॥ ४७-४६ ॥
समस्तशक्तिरूपाणि तत्करोति जनेश्वर ॥
देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ॥ ४७-४७ ॥
जगतामुपकाराय तस्य कर्मनिमित्तजा ॥
चेष्टा तस्याप्रमेयस्य व्यापिन्यविहितात्मिका॥ ४७-४८ ॥
तद्रूपं विश्वरूपरय चिन्त्यं योग युजा नृप ॥
तस्य ह्यात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥ ४७-४९ ॥
यथाग्निरूद्धतशिखः कक्षं दहति सानिलः ॥
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ ४७-५० ॥
तस्मात्समस्तशक्तीनामान्द्यान्ते तत्र चेतसः ॥
कुर्वीत संस्थितं साधु विज्ञेया शुद्धलक्षणा ॥ ४७-५१ ॥
शुभांश्रयः सचित्तस्य सर्वगस्य तथात्मनः ॥
त्रिभावभावनातीतो मुक्तये योगिनां नृप ॥ ४७-५२ ॥
अन्ये तु पुरुषव्याघ्र चेतसो ये व्यापाश्रयाः ॥
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ ४७-५३ ॥
मूर्त्तं भगवतो रूपं सर्वापाश्रयनिस्पृहः ॥
एषा वै धारणा ज्ञेया यञ्चितं तत्र धार्यते ॥ ४७-५४ ॥
तत्र मूर्त्तं हरे रूपं यादृक् चिन्त्यं नराधिप ॥
तच्छ्रूयता मनाधारे धारणा नोपपद्यते ॥ ४७-५५ ॥
प्रसन्नचारुवदनं पद्मपत्रायतेक्षणम् ॥
सुकपोलं सुविस्तीर्णं ललाटफलकोज्ज्वम् ॥ ४७-५६ ॥
समकर्णांसविन्य स्तचारुकर्णोपभूषणम् ॥
कम्बुग्रीवं सुविस्तीर्णश्रीवत्साङ्कितवक्षसम् ॥ ४७-५७ ॥
बलित्रिम्भागिना भुग्ननाभिना चोदरेण वै ॥
प्रलम्बाष्टभुजं विष्णुमथ वापि चतुर्भुजम् ॥ ४७-५८ ॥
समस्थितोरुजघनं सुस्थिराङ्घ्रिकराम्बुजम्म् ॥
चिन्तयेद्बूह्यभूतं तं पीतनिर्मलवाससम् ॥ ४७-५९ ॥
किरीटचारुकेयूरकटकादिविभूषितम् ॥
शार्ङ्गशङ्खगदाखङ्गप्रकाशवलयाञ्चितम् ॥ ४७-६० ॥
चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् ॥
तावद्यावद् दृढीभूता तत्रैव नृप धारणा ॥ ४७-६१ ॥
वदतस्तिष्टतो यद्वा स्वेच्छया कर्म कुर्वतः ॥
नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ॥ ४७-६२ ॥
ततः शङ्खगदाचक्रशार्ङ्गादि रहितं बुधः ॥
चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ ४७-६३ ॥
सा यदा धारणा तद्वदवस्थानवती ततः ॥
किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ ४७-६४ ॥
तदेकावयवं चैवं चेतसा हि पुनर्बुधः ॥
कुर्यात्ततोऽवयविनि प्राणिधानपरो भवेत् ॥ ४७-६५ ॥
तद्रूपप्रत्यये चैकसन्नतिश्चान्यनिःस्पृहा ॥
तद्ध्यानं प्रथमैरङ्गैः षङ्भिर्निष्पाद्यते नृप ॥ ४७-६६ ॥
तस्यैवं कल्पनाहीनं स्वरूपग्रहणं हि यत् ॥
मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥ ४७-६७ ॥
विज्ञानं प्रापकं प्राप्ये परं ब्रह्मणि पार्थिव ॥
प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ ४७-६८ ॥
क्षेत्रज्ञकरणीज्ञानं करणं तेन तस्य तत् ॥
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यो निवर्तते ॥ ४७-६९ ॥
तद्भावभावनापन्नस्ततोऽसौ परमात्मनः ॥
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ ४७-७० ॥
विभेदजनके ज्ञाने नाशमात्यन्तिकं गते ॥
आत्मनो ब्रह्मणाभेदं सम्मतं कः करिष्यति ॥ ४७-७१ ॥
इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः ॥
सङ्क्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥ ४७-७२ ॥
खाण्डिक्य उवाच ॥
कथितो योगसद्भावः सर्वमेव कृतं मम ॥
तवोपदेशात्सकलो नष्टश्चित्तमलो मम ॥ ४७-७३ ॥
ममेति यन्मया प्रोक्तमसदेतन्न चान्यथा ॥
नरेद्रं गदितुं शक्यमपि विज्ञेयवेदभिः ॥ ४७-७४ ॥
अहं ममेत्यविद्येयं व्यवहारस्तथानयोः ॥
परमार्थस्त्व संलाप्यो वचसां गोचरो न यः ॥ ४७-७५ ॥
तद्गुच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् ॥
यद्विमुक्तिपरो योगः प्रोक्तः केशिद्वजाव्ययः ॥ ४७-७६ ॥
सनन्दन उवाच ॥
यथार्हपूजया तेन खाण्डिक्येन स पूजितः ॥
आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ॥ ४७-७७ ॥
खाण्डिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये ॥
विशालामगमत्कृष्णे समावेशितमानसः ॥ ४७-७८ ॥
स तत्रैकान्तिको भूत्वा यमादिगुणसंयुतः ॥
विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥ ४७-७९ ॥
केशिध्वजोऽपि मुक्तयर्थं स्वकर्मक्षपणोन्मुखः ॥
बुभुजे विषयान्कर्म चक्रे चानभिसन्धितम् ॥ ४७-८० ॥
स कल्याणोपभोगैश्च क्षीणपापोऽमलस्ततः ॥
अवाप सिद्धिमत्यन्तत्रितापक्षपणीं मुने ॥ ४७-८१ ॥
एतत्ते कथितं सर्वं यन्मां त्वं परिपृष्टवान् ॥
तापत्रयचिकित्सार्थं किमन्यत्कथयामि ते ॥ ४७-८२ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे सप्तचत्वारिंशत्तमोऽध्यायः ॥