०४६

सूत उवाच ॥
तच्छृत्वा नारदो विप्रा मैथिलाध्यात्ममुत्तमम् ॥
पुनः पप्रच्छ तं प्रीत्या सनन्दनमुदारधीः ॥ ४६-१ ॥
नारद उवाच ॥
आध्यात्मिकादित्रिविधं तापं नानुभवेद्यथा ॥
प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिधे ॥ ४६-२ ॥
सनन्दन उवाच ॥
तदस्य त्रिविधं दुःखमिह जातस्य पण्डित ॥
गर्भे जन्मजराद्येषुस्थानेषु प्रभविष्यतः ॥ ४६-३ ॥
निरस्तातिशयाह्लादसुखभावैकलक्षणा ॥
भेषजं भगवत्प्राप्तिरैका चात्यन्तिकी मता ॥ ४६-४ ॥
तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ॥
तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने ॥ ४६-५ ॥
आगमोत्थं विवेकाञ्च द्विधा ज्ञानं तथोच्यते ॥
शब्दब्रह्मागममयं परं ब्रह्मविवेकजम् ॥ ४६-६ ॥
मनुरप्याह वेदार्थं स्मृत्वायं मुनिसत्तमः ॥
तदेतच्छ्रूयतामत्र सुबोधं गदतो मम ॥ ४६-७ ॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ४६-८ ॥
द्वे विद्ये वेदितव्ये चेत्याह चाथर्वणी श्रुतिः ॥
परमा त्वक्षरप्राप्तिर्ऋग्वेदादिमया परा ॥ ४६-९ ॥
यत्तदव्यक्तमजरमनीहमजमव्ययम् ॥
अनिर्देश्यमरूपं च पाणिपादादिसंयुतम् ॥ ४६-१० ॥
विभुं सर्वगतं नित्यं भूतयोनिमकारणम् ॥
व्याप्यं व्याप्तं यतः सर्वं तं वै पश्यन्ति सूरयः ॥ ४६-११ ॥
तद्बूह्य तत्परं धाम तद्ध्येयं मोक्षकाङ्क्षिभिः ॥
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ ४६-१२ ॥
तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ॥
वाचको भगवच्छब्दस्तस्योद्दिष्टोऽक्षयात्मनः ॥ ४६-१३ ॥
एवं निगदितार्थस्य यत्तत्वं तस्य तत्त्वतः ॥
ज्ञायते येन तज्ज्ञानं परमन्यत्रयीमयम् ॥ ४६-१४ ॥
अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विजा ॥
पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ॥ ४६-१५ ॥
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते ॥
भगवन्भगवच्छब्दः सर्वकारणकारणे ॥ ४६-१६ ॥
ज्ञेयं ज्ञातेति तथा भकारोऽर्थद्वयात्मकः ॥
तेनागमपिता स्रष्टा गकारोऽयं तथा मुने ॥ ४६-१६ ॥
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ॥
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ४६-१७ ॥
वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि ॥
सर्वभूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ ४६-१८ ॥
एवमेव महाशब्दो भगवानिति सत्तम ॥
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ ४६-१९ ॥
तत्र पूज्यपदार्थोक्तिः परिभाषासमन्वितः ॥
शब्दोऽयं नोपचारेण चान्यत्र ह्युपचारतः ॥ ४६-२० ॥
उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ॥
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ ४६-२१ ॥
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ॥
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ ४६-२२ ॥
सर्वाणि तत्र भूतानि वसन्ति परमात्मनि ॥
भूतेषु वसनादेव वासुदेवस्ततः स्मृतः ॥ ४६-२३ ॥
खाण्डिक्यं जनकं प्राह पृष्टः केशिध्वजः पुरा ॥
नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ ४६-२४ ॥
भूतेषु वसते सोंऽतर्वसन्त्यत्र च तानि यत् ॥
धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ ४६-२५ ॥
स सर्वभूतप्रकृतिं विकारं गुणादिदोषांश्च मुने व्यतीतः ॥
अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनान्तरालम् ॥ ४६-२६ ॥
समस्तकल्याणगुणं गुणात्मको हित्वातिदुःखावृतभूतसर्गः ॥
इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ ॥ ४६-२७ ॥
तेजोबलैश्वर्यमहावबोधं स्ववीर्यशक्त्यादुगुणैकराशिः ॥
परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥ ४६-२८ ॥
स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः ॥
सर्वेश्वरः सर्वनिसर्गवेत्ता समस्तशक्तिः परमेश्वराख्यः ॥ ४६-२९ ॥
स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेव रूपम् ॥
सन्दृश्यते चाप्यवगम्यते च तज्ज्ञानमतोऽन्यदुक्तम् ॥ ४६-३० ।.
स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः ॥
तत्प्राप्तिकारणं ब्रह्म तवेतत्प्रतिपद्यते ॥ ४६-३१ ॥
स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् ॥
स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥ ४६-३२ ॥
तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथापरम् ॥
न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते ॥ ४६-३३ ॥
॥ नारद उवाच ॥
भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद ॥
ज्ञाते यन्नाखिलाधारं पश्येयं परमेश्वरम् ॥ ४६-३४ ॥
सनन्दन उवाच ॥
केशिध्वजो यथा प्राह खाण्डिक्याय महात्मने ॥
जनकाय पुरा योगं तथाहं कथयामि ते ॥ ४६-३५ ॥
नारद उवाच ॥
खाङ्ङिक्यः कोऽभवद्बह्यन्को वा केशिध्वजोऽभवत् ॥
कथं तयोश्च संवादो योगसम्बन्धवानभूत् ॥ ४६-३६ ॥
सनन्दन उवाच ॥
धर्मध्वजो वै जनक तस्य पुशेऽमितध्वजः ॥
कृतध्वजोऽस्य भ्राताभूत्सदाध्यात्मरतिर्नृपः ॥ ४६-३७ ॥
कृतध्वजस्य पुत्रोऽभूद्धन्यः केशिध्वजो द्विजः ॥
पुत्रोऽमितव्वजस्यापि खाण्डिक्यजनकाभिधः ॥ ४६-३८ ॥
कर्ममार्गे हि खाण्डिक्यः स्वराज्यादवरोपितः ॥
पुरोधसा मन्त्रिभिश्च समवेतोऽल्पसाधनः ॥ ४६-३८ ॥
राज्यान्निराकृतः सोऽथ दुर्गारण्यचरोऽभवत् ॥
इयाज सोऽपि सुबहून यज्ञाञ्ज्ञानव्यपाश्रयः ॥ ४६-३९ ॥
ब्रह्मविद्यामधिष्टाय तर्तुं मृत्युमपि स्वयम् ॥
एकदा वर्तमानस्य यागे योगविदां वर ॥ ४६-४० ॥
तस्य धेनुं जघानोग्रः शार्दूलो विजने वने ॥
ततो राजा हतां ज्ञात्वा धेनुं व्याघ्रेण चर्त्विजः ॥ ४६-४१ ॥
प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् ॥
ते चोचुर्नवयंविद्मः कशेरुः पृच्छ्यतामिति ॥ ४६-४२ ॥
कशेरुरपि तेनोक्तस्तथेति प्राह नारद ॥
शुनकं पृच्छ राजेन्द्र वेद स वेत्स्यति ॥ ४६-४३ ॥
स गत्वा तमपृच्छञ्च सोऽप्याह नृपतिं मुने ॥
न कशेरुर्नचैवाहं न चान्यः साम्प्रतं भुवि ॥ ४६-४४ ॥
वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया ॥
स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने ॥ ४६-४५ ॥
प्राप्त एव मया यज्ञे यदि मां स हनिष्यति ॥
प्रायश्चित्तं स चेत्पृष्टो वदिष्यति रिपुर्मम ॥ ४६-४६ ॥
ततश्चाविकलो योगो मुनिश्रेष्ट भविष्यति ॥
इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः ॥ ४६-४७ ॥
वनं जगाम यत्रास्ते खाण्डिक्यः स महीपतिः ॥
तमायान्तं समालोक्य खाञ्जडिक्यो रिपुमात्मनः ॥ ४६-४८ ॥
प्रोवाच क्रोधताम्राक्षः समारोपितकार्मुकः ॥
खाण्डिक्य उवाच ॥
कृष्णाजिनत्वक्कवचभावेनास्मान्हनिष्यसि ॥ ४६-४९ ॥
कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥
मृगानां वद पृष्टेषु मूढ कृष्णाजिनं न किम् ॥ ४६-५० ॥
येषां मत्वा वृथा चोग्राः प्रहिताः शितसायकाः ॥
स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे ॥ ४६-५१ ॥
आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ॥
केशिध्वज उवाच ॥
खाण्डिक्य संशयं प्रष्टुं भवन्तमहमागतः ॥ ४६-५२ ॥
न त्वां हन्तुं विचार्यतैत्कोपं बाणं च मुञ्च वा ॥
ततः स मन्त्रिभिः सार्द्धमेकान्ते सपुरोहितः ॥ ४६-५३ ॥
मन्त्रयामास खाण्डिक्यः सर्वैरेव महामतिः ॥
तमूर्मन्त्रिणो वध्यो रिपुरेष वशङ्गतः ॥ ४६-५४ ॥
हतेऽत्र पृथिवी सर्वा तव वश्या भविष्यति ॥
खाण्डिक्यश्चाह तान्सर्वानेवमेव न संशयः ॥ ४६-५५ ॥
हते तु पृथिवी सर्वा मम वश्या भविष्यति ॥
परलोकजयस्तस्य पृथिवी सकला मम ॥ ४६-५६ ॥
न हन्मि चेल्लोकजयो मम वयत्वस्सुन्धरा ॥
परलोकजयोऽनन्तः स्वल्पकालो महीजयः ॥ ४६-५७ ॥
तस्मान्नैनं हनिष्येऽहं यत्पृच्छति वदामि तत् ॥
ततस्तमभ्युपेत्याह खाण्डिक्यो जनको रिपुम् ॥ ४६-५८ ॥
प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छ त्वं वदाम्यहम् ॥
ततः प्राह यथावृत्तं होमधेनुवधं मुने ॥ ४६-५९ ॥
ततश्च तं स पप्रच्छ प्रायश्चित्तं हि तद्रूतम् ॥
स चाचष्ट यथान्यायं मुने केशिध्वजाय तत् ॥ ४६-६० ॥
प्रायश्चित्तमशेषं हि यद्वै तत्र विधीयते ॥
विदितार्थः स तेनैवमनुज्ञातो महात्मना ॥ ४६-६१ ॥
यागभूमिमुपागत्य चक्रे सर्वां क्रियां क्रमत् ॥
क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः ॥ ४६-६२ ॥
कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः ॥
पूजिता ऋत्विजः सर्वे सदस्या मानिता मया ॥ ४६-६३ ॥
तथैवार्थिजनोऽप्यर्थोजितोऽभिमतैर्मया ॥
यथाहं मर्त्यलोकस्य मया सर्वं विचष्टितम् ॥ ४६-६४ ॥
अनिष्पन्नक्रियं चेतस्तथा न मम किं यथा ॥
इत्थं तु चिन्तयन्नेव सम्मार स महीपतिः ॥ ४६-६५ ॥
खाण्डिक्याय न दत्तेति मया वैगुरुदक्षिणा ॥
स जगाम ततो भूयो रथमारुह्य पार्थिवः ॥ ४६-६६ ॥
स्वायम्भुवः स्थितो यत्र खाण्डिक्योऽरण्यदुर्गमम् ॥
खाण्डिक्योऽपि पुनर्द्दष्ट्वा तमायान्तं धृतायुधः ॥ ४६-६७ ॥
तस्थौ हन्तुं कृतमतिस्ममाह स पुनर्नृपः ॥
अहं तु नापकाराय प्राप्तः खाण्डिक्य मा क्रुधः ॥ ४६-६८ ॥
गुरोर्निष्कृतिदानाय मामवेहि सेमागतम् ॥
निष्पादितो मया यागः सम्यक् त्वदुपदेशतः ॥ ४६-६९ ॥
सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ॥
इत्युक्तो मन्त्रयामास स भूयो मन्त्रिभिः सह ॥ ४६-७० ॥
गुरोर्निष्कृतिकामोऽय किमयं प्रार्थ्यतां मया ॥
तमूचुर्मन्त्रिणो राज्यमशेषं याच्यतामयम् ॥ ४६-७१ ॥
कृताभिः प्रार्थ्यते राज्यमनायासितसैनिकैः ॥
प्राहस्य तानाह नृपः स खाण्डिक्यो महापतिः ॥ ४६-७२ ॥
स्वल्पकालं महीराज्यं मादृशैः प्रार्थ्यते कथम् ॥
एतमेतद्भंवतोऽत्र स्वार्थ साधनमन्त्रिणः ॥ ४६-७३ ॥
परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ॥
इत्युक्त्वा समुपेत्यैन्नं स तु केशिध्वजं नृपम् ॥ ४६-७४ ॥
उवाच किमवश्यं त्वं दास्यसि गुरुदक्षिणाम् ॥
बाढमित्येव तेनोक्तः खाण्डिक्यस्तमथाब्रवीत् ॥ ४६-७५ ॥
भवानध्यात्मविज्ञानपरमार्थविचक्षणः ॥
यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः ॥ ४६-७६ ॥
तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ॥
केशिध्वज उवाच ॥
न प्रार्थितं त्वया कस्मान्मम राज्यमकण्टकम् ॥ ४६-७७ ॥
राज्यलाभाः द्धि नास्त्यन्यत्क्षत्रियाणामतिप्रियम् ॥
खाण्डिक्य उवाच ॥
केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ॥ ४६-७८ ॥
राज्यमेतदशेषेण यन्न गृघ्रन्ति पण्डिताः ॥
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ॥ ४६-७९ ॥
वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् ॥
यत्राशक्तस्य मे दोषो नैवास्त्यपकृते त्वया ॥ ४६-८० ॥
बन्धायैव भवत्येषा ह्यविद्या चाक्रमोज्झिता ॥
जन्मोपभोगलिप्सार्थमियं राज्यस्पृहा मम ॥ ४६-८१ ॥
अन्येषां दोपजानेव धर्ममेवानुरुध्यते ॥
न याच्ञा क्षत्रबन्धूनां धर्मायैतत्सतां मतम् ॥ ४६-८२ ॥
अतो न याचित राज्यमविद्यान्तर्गतं तव ॥
राज्यं गृध्नन्ति विद्वांसो ममत्वाकृष्टचेतसः ॥ ४६-८३ ॥
अहम्मानमह्य पानमदमत्ता न मादृशाः ॥
केशिध्वज उवाच ॥
अहं च विद्यया मृत्युं तर्तुकामः करोमि वै ॥ ४६-८४ ॥
राज्यं यज्ञांश्च विविधान्भोगे पुण्यक्षयं तथा ॥
तदिदं ते मनो दिष्ट्या विवेकैश्चर्यतां गतम् ॥ ४६-८५ ॥
श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन ॥
अनात्मन्यात्मबुद्धिर्या ह्यस्वे स्वविषया मतिः ॥ ४६-८६ ॥
अविद्यातरुसन्न्भूतं बीजमेतद्द्विधा स्थितम् ॥
पञ्चभूतात्मके देहे देही मोहतमोवृत्तः ॥ ४६-८७ ॥
अहमेतदितीत्युञ्चैः कुरुते कुमतिर्मतिम् ॥
आकाशवाय्वग्रिजलपृथिवीभिः पृथक् स्थिते ॥ ४६-८८ ॥
आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥
कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च यत् ॥ ४६-८९ ॥
अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते ॥
इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु च ॥ ४६-९० ॥
करोति पण्डितः स्वाम्यमनात्मनि कलेवरे ॥
सर्वदेहोपभोगाय कुरुते कर्म मानवः ॥ ४६-९१ ॥
देहं चान्यद्यदा पुंसस्सदा बन्धाय तत्परम् ॥
मृण्मयं हि यथा गेहं लिप्यते वै मृदम्भसा ॥ ४६-९२ ॥
पार्थिवोऽयं तथा देहो मृदम्भोलेपनस्थितिः ॥
पञ्चभोगात्मकैर्भोगैः पञ्चभोगात्मकं वपुः ॥ ४६-९३ ॥
आप्यायते यदि ततः पुंसो गर्वोऽत्र किङ्कृतः ॥
अनेकजन्मसाहस्त्रं ससारपदवीं व्रजन् ॥ ४६-९४ ॥
मोहश्रमं प्रयातोऽसौ वासनारेणुगुण्ठितः ॥
प्रक्षाल्यते यदा सौम्य रेणुर्ज्ञानोष्णवारिणा ॥ ४६-९५ ॥
तदा संसारपान्थस्य याति मोहश्रमः शमम् ॥
मोहश्रमे शमं याते स्वच्छान्तःकरणः पुमान् ॥ ४६-९६ ॥
अनन्यातिशयाधारः परं निर्वाणमृच्छति ॥
निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ॥ ४६-९७ ॥
दुःखाज्ञानमया धर्माः प्रकृतेस्ते तुनात्मनः ॥
जलस्य नाग्निना सङ्गः स्थालीसङ्गात्तथापि हि ॥ ४६-९८ ॥
शब्दोद्रेकादिकान्धर्मान्करोति हि यथा बुधः ॥
तथात्मा प्रकृतेः सङ्गादहम्मानादिदूषितः ॥ ४६-९९ ॥
भजते प्राकृतान्धर्मान्न्यस्तस्तम्भो हि सोऽव्ययः ॥
तदेतत्कथितं बीजमविद्याया मया तव ॥ ४६-१०० ॥
क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ ४६-१०१ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे षट्चत्वारिंशत्तमोऽध्यायः ॥