०४३

भरद्वाज उवाच ॥
यदि प्राणपतिर्वायुर्वायुरेव विचेष्टते ॥
श्वसित्याभाषते चैव ततो जीवो निरर्थकः ॥ ४३-१ ॥

य ऊष्मभाव आग्नेयो वह्निनैवोपलभ्यते ॥
अग्निर्जरयते चैतत्तदा जीवो निरर्थकः ॥ ४३-२ ॥

जन्तोः प्रम्नियमाणस्य जीवो नैवोपलभ्यते ॥
वायुरेव जहात्येनमूष्मभावश्च नश्यति ॥ ४३-३ ॥

यदि वाथुमयो जीवः संश्लेषो यदि वायुना ॥
वायुमञ्जलवत्पश्येद्गच्छेत्सह मरुद्गुणैः ॥ ४३-४ ॥

संश्लेषो यदि वा तेन यदि तस्मात्प्रणश्यति ॥
महार्णवविमुक्तत्वादन्यत्सलिलभाजनम् ॥ ४३-५ ॥

कृपे वा सलिलं दद्यात्प्रदीपं वा हुताशने ॥
क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथा ॥ ४३-६ ॥

पञ्चधारणके ह्यस्मिञ्छरीरे जीवितं कृतम् ॥
येषामन्यतराभावाञ्चतुर्णां नास्ति संशयः ॥ ४३-७ ॥

नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात् ॥
नश्यते कोष्टभेदार्थमग्रिर्नश्यत्यभोजनात् ॥ ४३-८ ॥

व्याधित्रणपरिक्लेशैर्मेदिनी चैव शीर्यते ॥
पीडितेऽन्यतरे ह्येषां सङ्घातो याति पञ्चताम् ॥ ४३-९ ॥

तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति ॥
किं खेदयति वा जीवः किं श्रृणोति ब्रवीति च ॥ ४३-१० ॥

एषा गौः परलोकस्थं तारयिष्यतिमामिति ॥
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति ॥ ४३-११ ॥

गौश्चप्रतिग्रहीता च दाता चैव समं यदा ॥
इहैव विलयं यान्ति कुतस्तेषां समागमः ॥ ४३-१२ ॥

विहगैरुपभुक्तस्य शैलाग्रात्पतितस्य च ॥
अग्निना चोपयुक्तस्य कुतः सञ्जीवनं पुनः ॥ ४३-१३ ॥

छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति ॥
जीवन्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति ॥ ४३-१४ ॥

जीवमात्रं पुरा सृष्टं यदेतत्परिवर्तते ॥
मृताः प्रणश्यन्ति बीजाद्बीजं प्रणश्यति ॥ ४३-१५ ॥

इति मे संशयो ब्रह्मन्हृदये परिधावति ॥
त निवर्तय सर्वज्ञ यतस्त्वामाश्रितो ह्यहम् ॥ ४३-१६ ॥

सनन्दन उवाच ॥
एवं पृष्टस्तदानेन स भृगर्ब्रह्मणः सुतः ॥
पुनराहु मुनिश्रेष्ट तत्सन्देहनिवृत्तये ॥ ४३-१७ ॥

भृगुरुवाच ॥
न प्राणाः सन्ति जीवस्य दत्तस्य च कृतस्य च ॥
याति देहान्तरं प्राणी शरीरं तु विशीर्यते ॥ ४३-१८ ॥

न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति ॥
समिधामग्निदग्धानां यथाग्रिर्द्दश्यते तथा ॥ ४३-१९ ॥

भरद्वाज उवाच ॥
अग्नेर्यथा तस्य नाशात्तद्विनाशो न विद्यते ॥
इन्धनस्योपयोगान्ते स वाग्निर्नोपलभ्यते ॥ ४३-२० ॥

नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् ॥
गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते ॥ ४३-२१ ॥

भृगुरुवाच ॥
समिधामुपयोगान्ते स चाग्निर्नोपलभ्यते ॥
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् ॥ ४३-२२ ॥

गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते ॥
समिधामुपयोगान्ते यथाग्निर्नोपलभ्यते ॥ ४३-२३ ॥

आकाशानुगतत्वाद्धि दुर्ग्राह्यो हि निराश्रयः ॥
तथा शरीरसन्त्यागे जीवो ह्याकाशवत्स्थितः ॥ ४३-२४ ॥

न नश्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः ॥
प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् ॥ ४३-२५ ॥

वायुसन्धारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् ॥
तस्मिन्नष्टे शरीराग्नौ ततो देहमचेतनम् ॥ ४३-२६ ॥

पतितं याति भूमित्वमयनं तस्य हि क्षितिः ॥
जगमानां हि सर्वेषां स्थावराणां तथैव च ॥ ४३-२७ ॥

आकाशं पवनोऽन्वेति ज्योतिस्तमनुगच्छति ॥
तेषां त्रयाणामेकत्वाद्वयं भूमौ प्रतिष्टितम् ॥ ४३-२८ ॥

यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः ॥
अमूर्तयस्ते विज्ञेया मूर्तिमन्तः शरीरिणः ॥ ४३-२९ ॥

भरद्वाज उवाच ॥
यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु ॥
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ॥ ४३-३० ॥

पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसञ्ज्ञके ॥
शरीरे प्राणिनां जीवं वेत्तुभिच्छामि यादृशम् ॥ ४३-३१ ॥
मांसशोणितसङ्घाते मेदःस्नाय्वस्थिसञ्चये ॥
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ॥ ४३-३२ ॥

यद्यजीवशरीरं तु पञ्चभूतसमन्वितम् ॥
शरीरे मानसे दुःख कस्तां वेदयते रुजम् ॥ ४३-३३ ॥

श्रृणोति कथितं जीवः कर्णाभ्यान्न श्रृणोति तत् ॥
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ॥ ४३-३४ ॥

सर्वे पश्यन्ति यदृश्यं मनोयुक्तेन चक्षुषा ॥
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ॥ ४३-३५ ॥

न पश्यति न चाघ्राति न श्रृणोति न भाषते ॥
न च स्मर्शमसौ वेत्ति निद्रावशगतः पुनः ॥ ४३-३६ ॥

हृष्यति क्रुद्ध्यते कोऽत्र शोचत्युद्विजते च कः ॥
इच्छति ध्यायति द्वेष्टि वाक्यं वाचयते च कः ॥ ४३-३७ ॥

भृगुरुवाच ॥
तं पञ्चसाधारणमत्र किञ्चिच्छरीरमेको वहतेंऽतरात्मा ॥
स वेत्ति गन्धांश्च रसाञ्छुतीश्च स्पर्शं च रूपं च गुणांश्च येऽल्ये ॥ ४३-३८ ॥

पञ्चात्मके पञ्चगुणप्रदर्शी स सर्वगात्रानुगतोंऽतरात्मा ॥
सवेति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहम् ॥ ४३-३९ ॥

यदा न रूपं न स्पर्शो नोष्यभवश्च पावके ॥
तदा शान्ते शरीराग्नौ देहत्यागेन नश्यति ॥ ४३-४० ॥

आपोमयमिदं सर्वमापोमूर्तिः शरीरिणाम् ॥
तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् ॥ ४३-४१ ॥

आत्मानं तं विजानीहि सर्वलोकहितात्मकम् ॥
तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे ॥ ४३-४२ ॥

क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् ॥
तमोरजश्च सत्त्वं च विद्धि जीवगुणानिमाम् ॥ ४३-४३ ॥

अचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् ॥
अतः परं क्षेत्रविदो वदन्ति प्रावर्तयद्यो भुवनानि सप्त ॥ ४३-४४ ॥

न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्मुन इत्यबुद्धाः ॥
जीवस्तु देहान्तरितः प्रयाति दशार्द्धतस्तस्य शरीरभेदः ॥ ४३-४५ ॥

एवं भूतेषु सर्वेषु गूढश्चरति सर्वदा ॥
दृश्यते त्वग्र्या बुध्यासूक्ष्मया तत्त्वदर्शिभिः ॥ ४३-४६ ॥

तं पूर्वापररात्रेषु युञ्जानः सततं बुधः ॥
लब्धाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ ४३-४७ ॥

चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् ॥
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ॥ ४३-४८ ॥

मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते ॥
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये ॥ ४३-४९ ॥

असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः ॥
आत्मतेजोऽभिनि र्वृत्तान्भास्कराग्निसमप्रभान् ॥ ४३-५० ॥

ततः सत्यं च धर्मं च तथा ब्रह्म च शाश्वतम् ॥
आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः ॥ ४३-५१ ॥

देवदानवगन्धर्वा दैत्यासुरमहोरगाः ॥
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ॥ ४३-५२ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राणामसितस्तथा ॥
भरद्वाज उवाच ॥
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते ॥ ४३-५३ ॥

स्वेदमूत्रपुरीषाणि श्लेष्मा पित्त सशोणितम् ॥
त्वन्तः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ॥ ४३-५४ ॥

जङ्गमानामसङ्ख्येयाः स्थावराणां च जातयः ॥
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥ ४३-५५ ॥

भृगुरुवाच ॥
न विशेषोऽस्ति वर्णानां सर्वं ब्रह्ममयं जगत् ॥
ब्रह्मणा पूर्वसृष्टं हि कर्मणा वर्णतां गतम् ॥ ४३-५६ ॥

कामभोगाः प्रियास्तीक्ष्णाः क्रोधताप्रियसाहसाः ॥
त्यक्तस्वकर्मरक्ताङ्गास्ते द्विजाः क्षत्रतां गताः ॥ ४३-५७ ॥

गोभ्यो वृत्तिं समास्थाय पीताः कृष्युपजीविनः ॥
स्वधर्म्मन्नानुतिष्टन्ति ते द्विजा वैश्यतां गताः ॥ ४३-५८ ॥

र्हिसानृतपरा लुब्धाः सर्वकर्मोपजीविनः ॥
कृष्णाः शौचपारिभ्राष्टास्ते द्विजाः शूद्रतां गताः ॥ ४३-५९ ॥

इत्येतैः कर्मभिर्व्याप्ता द्विजा वर्णान्तरं गताः ॥
ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति ॥ ४३-६० ॥

ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा ॥
ब्रह्म चैव पुरा सृष्टं येन जानन्ति तद्विदः ॥ ४३-६१ ॥

तेषां बहुविधास्त्वन्यास्तत्र तत्र द्विजातयः ॥
पिशाचा राक्षसाः प्रेता विविधा म्लेच्छजातयः ॥
सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा ॥ ४३-६२ ॥

भरद्वाज उवाच ॥
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम ॥
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर ॥ ४३-६३ ॥

भृगुरुवाच ॥
जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः ॥
वेदाध्ययनसम्पन्नो ब्रह्मकर्मस्ववस्थितः ॥ ४३-६४ ॥

शौचाचारस्थितः सम्यग्विद्याभ्यासी गुरुप्रियः ॥
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते ॥ ४३-६५ ॥

सत्यं दानमथोऽद्रोह आनृशंस्यं कृपा घृणा ॥
तपस्यां दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥ ४३-६६ ॥

क्षत्रजं सेवते कर्म वेदाध्ययनसङ्गतः ॥
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते ॥ ४३-६७ ॥

विशत्याशु पशुभ्यश्च कृष्यादानरतिः शुचिः ॥
वेदाध्ययनसम्पन्नः स वैश्य इति सञ्ज्ञितः ॥ ४३-६८ ॥

सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः ॥
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ॥ ४३-६९ ॥

शूद्रे चैतद्भवेल्लक्ष्म द्विजे तच्च न विद्यते ॥
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो ब्राह्मणो न च ॥ ४३-७० ॥

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ॥
एतत्पवित्रं ज्ञानानां तथा चैवात्मसंयमः ॥ ४३-७१ ॥

वर्ज्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुद्यतौ ॥
नित्यक्रोधाच्छ्रियं रक्षेत्तपो रक्षेत्तु मत्सरात् ॥ ४३-७२ ॥

विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥ ४३-७३ ॥
यस्य सर्वे समारम्भा निराशीर्बन्धना द्विज ॥
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ॥ ४३-७४ ॥

अहिंस्त्रः सर्वभूतानां मैत्रायण गतश्चरेत् ॥
परिग्रहात्परित्यज्य भवेद्बद्ध्या जितेन्द्रियः ॥ ४३-७५ ॥

अशोकस्थानमाति वेदिह चामुत्र चाभयम् ॥
तपोनित्येन दान्तेन मुनिना संयतात्ममना ॥ ४३-७६ ॥

अजितं जेतुकामेन व्यासङ्गेषु ह्यसङ्गिना ॥
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ॥ ४३-७७ ॥

अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥
अविश्रम्भेण मन्तव्यं विश्रम्भे धारयेन्मनः ॥ ४३-७८ ॥

मनः प्राणेन गृह्णीयात्प्राणं ब्रह्मणि धारयेत् ॥
निवेदादेव निर्वाणं न च किञ्चिद्विच्चितयेत् ॥ ४३-७९ ॥

सुखं वै ब्रह्मणो ब्रह्मन्निर्वेदेनाधिगच्छति ॥
शौचे तु सततं युक्तः सदाचारसमन्वितः ॥ ४३-८० ॥

स्वनुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् ॥
सत्यंव्रतं तपः शौचं सत्यं विसृजते प्रजा ॥ ४३-८१ ॥

सत्येन धार्यते लोकः स्वः सत्येनैव गच्छति ॥
अनृतं तमसो रूपं तमसा नीयते ह्यधः ॥ ४३-८२ ॥

तमोग्रस्तान पश्यन्ति प्रकाशन्तमसावृताः ॥
सुदुष्प्रकाश इत्याहुर्नरकं तम एव च ॥ ४३-८३ ॥

सत्यानृतं तदुभयं प्राप्यते जगतीचरैः ॥
तत्राप्येवंविधा लोके वृत्तिः सत्यानृते भवेत् ॥ ४३-८४ ॥

धर्माधर्मौ प्रकाशश्च तमो दुःखसुखं तथा ॥
शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः ॥ ४३-८५ ॥

लोकसृष्टं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः ॥
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः ॥ ४३-८६ ॥

सुखं ह्यनित्यं भूतानामिह लोके परत्र च ॥
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते ॥ ४३-८७ ॥

तथा तमोभिभूतानां भूतानां नश्यते सुखम् ॥ ४३-८८ ॥

तत्खलु द्विविधं सुखमुच्यचते शरीरं मानसं च ॥
इह खल्वमुष्मिंश्च लोके वस्तुप्रवृत्तयः सुखार्थमभिधीयन्ते नहीतः परत्रापर्वगफलाद्विशिष्टतरमस्ति ॥
स एव काम्यो गुणविशेषो धर्मार्थगुणारम्भगस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजनार्थमारम्भाः ॥
भरद्वाज उवाच ॥
वदैतद्भवताभिहितं सुखानां परमा स्थितिरिति ॥ ४३-८९ ॥

न तदुपगृह्णीमो न ह्येषामृषीणां महति स्थितानाम् ॥ ४३-९० ॥

अप्राप्य एष काम्य गुणविशेषो न चैनमभिशीलयन्ति ॥
तपसि श्रूयते त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्टति ब्रह्मचारी न कामसुखोष्वात्मानमवदधाति ॥ ४३-९१ ॥

अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन सममनयत् ॥ ४३-९२ ॥

तस्माद्भूमौ न तु महात्मभिरञ्जयति गृहीतो न त्वेष तावद्विशिष्टो गुणविशेष इति ॥ ४३-९३ ॥

नैतद्भगवतः प्रत्येमि भवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादो हि द्विविधः
फलोदयः सुकृतात्सुखमवाप्यतेऽन्यथा दुःखमिति ॥ ४३-९४ ॥

भृगुरुवाच ॥
अत्रोच्यते अनृतात्खलु तमः प्रादुर्भूतं ततस्तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मं
क्रोधलोभमोहहिंसानृतादिभिखच्छन्नाः खल्वस्मिंल्लोके नामुत्र सुखमाप्नुवन्ति
विविधव्याधिरुजोपतापैरवकीर्यन्ते वधबन्धनपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते
वर्षवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शौकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति यस्त्वेतैः ॥ ४३-९५ ॥

शारीरं मानसं नास्ति न जरा न च पातकम् ॥
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् ॥ ४३-९६ ॥

नरके दुःखमेवाहुः सुखं तत्परमं पदम् ॥
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः ॥ ४३-९७ ॥

पुमान्प्रजापतिस्तत्रशुक्रं तेजोमयं विदुः ॥
इत्येतल्लोकनिर्माता धर्मस्य चरितस्य च ॥ ४३-९८ ॥

तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च ॥
हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा ॥ ४३-९९ ॥

दानेन भोगानित्याहुस्त पसा स्वर्गमाप्नुयात् ॥
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च ॥ ४३-१०० ॥

सद्भ्यो यद्दीयते किञ्चित्तत्परत्रोपतिष्टते ॥
असद्भ्यो दीयते यत्तु तद्दानमिह भुज्यते ॥

यादृशं दीयते दानं तादृशं फलमश्नुते ॥ ४३-१०१ ॥

भरद्वाज उवाच ॥
किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् ॥
धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति ॥ ४३-१०२ ॥

भृगुरुवाच ॥
स्वधर्माचरणे युक्ता ये भवन्ति मनीषिणः ॥
तेषां स्वर्गपलावाप्तिर्योऽन्यथा स विमुह्यते ॥ ४३-१०३ ॥

भरद्वाज उवाच ॥
यदेतञ्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा ॥
तेषां स्वे स्वे समाचारास्तन्मे वक्तुमिहार्हसि ॥ ४३-१०४ ॥

भृगुरुवाच ॥
पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्टता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्द्दिष्टाः ॥
४३-१०५ ॥

तत्र गुरुकुलवासमेव प्रथममाश्रममाहरन्ति सम्यगत्र शौचसस्कारनियमव्रतविनियतात्मा उभे सन्ध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तद्ध्यालस्यं गुरोरभिवादनवेदाब्यासश्रवणपवित्रघीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषा
नित्यभिक्षाभैक्ष्यादिसर्वनिवेदितान्तरात्मा गुरुवचननिदेशानुष्टानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् ॥ ४३-१०६ ॥

भवति चात्र श्लोकः ॥
गुरुं यस्तु समाराध्य द्विजो वेदमावान्पुयात् ॥
तस्य स्वर्गफलावाप्तिः सिद्ध्यते चास्य मानसम् ॥
इति गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति ॥ ४३-१०७ ॥

तस्य सदा चारलक्षणं सर्वमनुव्याख्यास्यामः ॥
समावृतानां सदाचाराणां सहधर्मचर्यफलार्थिनां गृहाश्रमो विधीयते ॥ ४३-१०८ ॥

धर्मार्थकामावाप्तिर्ह्य.त्र त्रिवर्गसाधनमपेक्ष्यागर्हितकर्मणा धनान्यादाय स्वाध्यायोपलब्धप्रकर्षेण वा
ब्रह्मर्षिनिर्मितेन वा अद्भिः सागरगतेन वा द्रव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं वर्तयेत् ॥ ४३-१०९ ॥

तद्धि सर्वाश्रमणां मूलमुदाहरन्ति गुरुकुलनिवासिनः परिव्राजका येऽन्ये
सङ्कल्पितव्रतनियमधर्मानुष्टानिनस्तेषामप्यन्तरा च भिक्षाबलिसंविभागाः प्रवर्तन्ते ॥ ४३-११० ॥
वानप्रस्थानां च द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्योदनाः
स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति ॥ ४३-१११ ॥

तेषां प्रत्युत्थानाभिगमनमनसूयावाक्यदानसुखसत्कारासनसुखशयनाभ्यवहारसत्क्रिया चेति ॥ ४३-११२ ॥

भवति चात्र श्लोकः ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ ४३-११३ ॥

अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो
विद्याभ्यासश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापतिरिति ॥ ४३-११४ ॥

लोकौ चात्र भवतः ॥
वात्सल्याः सर्वभूतेभ्यो वायोः श्रोत्रस्तथा गिरा ॥
परितापोदपघातश्च पारुष्यं चात्र गर्हितम् ॥ ४३-११५ ॥

अवज्ञानमहङ्कारो दम्भश्चैव विगर्हितः ॥
अहिंसा सत्यमक्रोदं सर्वाश्रमगतं तपः ॥ ४३-११६ ॥

अपि चात्र माल्याभरणवस्त्राभ्यङ्गनित्योपभोगनृत्यगीतवादित्रश्रुतिसुखनयनस्नेहरामादर्शनानां
प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभ्यवहार्य्याणां विविधानामुपभोगः ॥ ४३-११७ ॥

स्वविहारसन्तोषः कामसुखावाप्तिरिति ॥
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे ॥
स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ॥ ४३-११८ ॥

उञ्छवृत्तिर्गृहस्थो यः स्वधर्म चरणे रतः ॥
त्यक्तकामसुखारम्भः स्वर्गस्तस्य न दुर्लभः ॥ ४३-११९ ॥

वानप्रस्थाः खल्वपि धर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि स्वभक्तेष्वरण्येषु
मृगवराहमहिष शार्दूलवनगजाकीर्णेषु तपस्यन्ते अनुसञ्चरन्ति ॥ ४३-१२० ॥

त्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधिफलमूलपर्णपरिमितविचित्रनियताहाराः
स्थानासनिनोभूपाषाणसिकताशर्करावालुकाभस्मशायिनः काशुकुशचर्मवल्कलसंवृताङ्गाः
केशश्यश्रुनखरोमधारिणो नियतकालोपस्पर्शनाःशुष्कबलिहोमकालानुष्टायिनः ॥
समित्कुशकुसुमापहारसम्मार्जनलब्धविश्रामाः शीतोष्णपवनविष्टं भविभिन्नसर्वत्वचो
विविधनियमयोगचर्यानुष्टानविहितपरिशुष्कमांसशोणितत्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ते ॥ ४३-१२१ ॥

यस्त्वेतां नियतचर्यां ब्रह्मर्षिविहितां चरेत् ॥
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ॥ ४३-१२२ ॥

परिव्राजकानां पुनराचारः तद्यथा ॥
विमुच्याग्निं धनकलत्रपरिबर्हसङ्गेष्वात्मानं स्नेहपाशानवधूय परिव्रजन्ति ॥
समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वसक्तबुद्धयः ॥ ४३-१२३ ॥

अरिमित्रोदासीनां तुल्यदर्शनाः स्थावरजरायुजाण्डजस्वेदजानां भूतानां वाङ्मनृःकर्मभिरनभिरनभिद्रोहिणोऽनिकेताः
पर्वतपुलिनवृक्षमूलदेवायतनान्यनुसञ्चरन्तो वा सार्थमुपेयुर्नगरं ग्रामं वा न क्रोधदर्पलोभमोहकार्पण्यदम्भपरिवादाभिमाननिर्वृत्तहिंसा इति ॥ ४३-१२४ ॥

भवन्ति चात्र श्लोकाः ॥
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ॥
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ ४३-१२५ ॥

कृत्वाग्निहोत्रं स्वशरीरसंस्थं शरीरमग्निं स्वमुखे जुहोति ॥
विप्रस्तु भैक्षोपगतैर्हविर्भिश्चिताग्निना संव्रजते हि सोकान् ॥ ४३-१२६ ॥

मोक्षाश्रमं यश्चरते यथोक्तं शुचिः स्वसङ्कल्पितयुक्तबुद्धिः ॥
अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥ ४३-१२७ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे ब्राह्मणाचारनिरूपणं नाम त्रिचत्वारिंशोऽध्यायः ॥