०४२

श्रीनारद उवाच ॥
कुतः सृष्टमिदं ब्रह्मञ्जगत्स्थावरजङ्गमम् ॥
प्रलये च कमभ्येति तन्मे ब्रूहि सनन्दन ॥ ४२-१ ॥

ससागरः सगगनः सशैलः सबलाहकः ॥
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥ ४२-२ ॥

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ॥
शौचाशौचं कथं तेषां धर्माधर्मविधिः कथम् ॥ ४२-३ ॥

कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः ॥
अस्माल्लोकादमुं लोकं सर्वं शंसतु मे भवान् ॥ ४२-४ ॥

सनन्दन उवाच ॥
श्रृणु नारद वक्ष्यामि चेतिहासं पुरातनम् ॥
भृगुणाभिहितं शास्त्रं भरद्वाजाय पृच्छते ॥ ४२-५ ॥

कैलासशिखरे दृष्ट्वा दीप्यमानं महौजसम् ॥
भृगुमहर्षिमासीनं भरद्वाजोऽन्वपृच्छत ॥ ४२-६ ॥

भरद्वाज उवाच ॥
कथं जीवो विचरति नानायोनिषु सन्ततम् ॥
कथं मुक्तिश्च संसाराज्जायते तस्य मानद ॥ ४२-७ ॥

यश्च नारायणः स्रष्टा स्वयम्भूर्भगवन्स्वयम् ॥
सेव्यसेवकभावेन वर्तेते इति तौ सदा ॥ ४२-८ ॥

प्रविशन्ति लये सर्वे यमीशं सचराचराः ॥
लोकानां रमणः सोऽयं निर्गुणश्च निरञ्जनः ॥ ४२-९ ॥

अनीर्दश्योऽप्रतर्क्यश्च कथं ज्ञायेत कैर्मुने ॥
कथमेनं परात्मानं कालशक्तिदुरन्वयम् ॥ ४२-१० ॥

अतर्क्यचरितं वेदाः स्तुवन्ति कथमादरात् ॥
जीवो जीवत्वमुल्लङ्घ्य कथं ब्रह्म समन्वयात् ॥ ४२-११ ॥

एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि कृपानिधे ॥
एवं स भगवान्पृष्टो भरद्वाजेन संशयम् ॥ ४२-१२ ॥

महर्षिर्ब्रह्मसङ्काशः सर्वं तस्मै ततोऽब्रवीत् ॥
भृगुरुवाच ॥
मानसो नाम यः पूर्वो विश्रुतो वे महर्षिभिः ॥ ४२-१३ ॥

अनादिनिधनो देवस्तथा तेभ्योऽजरामरः ॥
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः ॥ ४२-१४ ॥

यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च ॥
सोऽमृजत्प्रथमं देवो महान्तं नाम नामतः ॥ ४२-१५ ॥

आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ॥
आकाशादभवद्वारि सलिलादग्निमारुतौ ॥ ४२-१६ ॥

अग्निमारुतसंयोगात्ततः समभवन्मही ॥
ततस्तेजो मयं दिव्यं पद्मं सृष्टं स्वयम्भुवा ॥ ४२-१७ ॥

तस्मात्पद्मात्समभवद्व्रह्मा वेदमयो विधिः ॥
अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् ॥ ४२-१८ ॥

ब्रह्मा वै स महातेजा य एते पञ्च धातवः ॥
शैलास्तस्यास्थिसन्धास्तु मेदो मसिं च मेदिनी ॥ ४२-१९ ॥

समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ॥
पवनश्चैव निश्वासस्तेजोऽग्निर्निम्नगाः शिराः ॥ ४२-२० ॥

अग्नीषोमौ च चन्द्रार्कौ नयने तस्य विश्रुते ॥
नभश्चोर्ध्वशिरस्तस्य क्षितिः पदौ भुजौ दिशः ॥ ४२-२१ ॥

दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धैरपि न संशयः ॥
स एष भगवान्विष्णुरनन्त इति विश्रुतः ॥ ४२-२२ ॥

सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः ॥
अहङ्कारस्य यः स्रष्टा सर्वभूतभवायवै ॥
ततः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ॥ ४२-२३ ॥

भग्द्वाज उवाच ॥
गगनस्य दिशां चैव भूतलस्वानिलस्य च ॥
कान्यत्र परिमाणानि संशयं छिन्धि तत्त्वतः ॥ ४२-२४ ॥

भृगुरुवाच ॥
अनन्तमेतदाकाशं सिद्धदैवतसोवितम् ॥
रम्यं नानाश्रयाकीर्णं यस्यां तो नाधिगम्यते ॥ ४२-२५ ॥

ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न पश्यतः ॥
तत्र देवाः स्वयं दीप्ता भास्कराभाग्निवर्चसः ॥ ४२-२६ ॥

ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः ॥
दुर्गमत्वादनन्तत्वादिति मे वद मानद ॥ ४२-२७ ॥

उपरिष्टोपरिष्टात्तु प्ज्वलद्भिः स्वयम्प्रभघैः ॥
निरुद्धमेतदाकाशं ह्यप्रमेयं सुरैरपि ॥ ४२-२८ ॥

प्रथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् ॥
तमसोंऽते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ॥ ४२-२९ ॥

रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः ॥
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ॥ ४२-३० ॥

एवमन्तं भगवतः प्रमाणं सलिलस्य च ॥
अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि ॥ ४२-३१ ॥

अग्निमारुततोयानां वर्णा क्षितितलस्य च ॥
आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदशनात् ॥ ४२-३२ ॥

पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च ॥
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा ॥ ४२-३३ ॥

अदृश्यो यस्त्वगम्यो यः कः प्रमाण मुदीरयेत् ॥
सिद्धानां देवतानां च परिमीता यदा गतिः ॥ ४२-३४ ॥

तदागण्यमनन्तस्य नामानन्तेति विश्रुतम् ॥
नामधेयानुरुपस्य मानसस्य महात्मनः ॥ ४२-३५ ॥

यदा तु दिव्यं यद्रूपं ह्रसते वर्द्धते पुनः ॥
कोऽन्यस्तद्वेदितुं शक्यो योऽपि स्यात्तद्विधोऽपरः ॥ ४२-३६ ॥

ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः ॥
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥ ४२-३७ ॥

भरद्वाज उवाच ॥
पुष्करो यदि सम्भूतो ज्येष्टं भवति पुष्करम् ॥
ब्रह्माणं पूर्वजं चाह भवान्सन्देह एव मे ॥ ४२-३८ ॥

भृगुरुवाच ॥
मानसस्येह या मूर्तिर्ब्रह्यत्वं समुपागता ॥
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥ ४२-३९ ॥

कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः ॥
तस्य मध्ये स्थितो लोकान्सृजत्येष जगद्विधिः ॥ ४२-४० ॥

भरद्वाज उवाच ॥
प्रजाविसर्गं विविधं कथं स सृजति प्रभुः ॥
मेरुमध्ये स्थितो ब्रह्मा तद्वहिर्द्विजसत्तम ॥ ४२-४१ ॥

भृगुरुवाच ॥
प्रजाविसर्गं विविधं मानसो मनसाऽसृजत् ॥
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ॥ ४२-४२ ॥

यत्प्राणाः सर्वभूतानां सृष्टं प्रथमतो जलम् ॥
यत्प्राणाः सर्वभूतानां वर्द्धन्ते येन च प्रजाः ॥ ४२-४३ ॥

परित्यक्ताश्च न श्यन्ति तेनदं सर्वमावृत्तम् ॥
पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे ॥
सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे पुनः ॥ ४२-४४ ॥

भरद्वाज उवाच ॥
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ ॥
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान् ॥ ४२-४५ ॥

भृगुरुवाच ॥
ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे ॥
लोकसम्भवसन्देहः समुत्पन्नो महात्मनाम् ॥ ४२-४६ ॥

तेऽतिष्टन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः ॥
त्यक्ताहाराः स्पर्द्धमाना दिव्यं विर्षशतं द्विजाः ॥ ४२-४७ ॥

तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत् ॥
दिव्या सरस्वती तत्र सम्बभूव नभस्तलात् ॥ ४२-४८ ॥

पुरास्तिमितमाकाशमनन्तमचलोपमम् ॥
नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्बभौ ॥ ४२-४९ ॥

ततः सलिलमुत्पन्नं तमसीव तमः परम् ॥
तस्माञ्च सलिलोत्पीडादुदतिष्टत मारुतः ॥ ४२-५० ॥

यथाभवनमच्छिद्रं निःशब्दमिव लक्ष्यते ॥
तञ्चाभसा पूर्यमाणं सशब्दं कुरुतेऽनिलः ॥ ४२-५१ ॥

तथा सलिलसंरुद्धे नभसोंऽतं निरन्तरे ॥
भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् ॥ ४२-५२ ॥

एषु वा चरते वायुरर्णवोत्पीडसम्भवः ॥
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति ॥ ४२-५३ ॥

तस्मिन्वाय्वम्बुसङ्घर्षे दीप्ततेजा महाबलः ॥
प्रादुरासीदूर्ध्वशिखः कृत्वा निस्तिमिरं तमः ॥ ४२-५४ ॥

अग्निः पवनसंयुक्तः खं समाक्षिपते जलम् ॥
तदग्निवायुसम्पर्काद्धनत्वमुपपद्यते ॥ ४२-५५ ॥

तस्याकाशं निपतितः स्नेहात्तिष्टति योऽपरः ॥
स सङ्घातत्वमापन्नो भूमित्वमनुगच्छति ॥ ४२-५६ ॥

रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा ॥
भूमिर्यो निरियं ज्ञेया यस्याः सर्वं प्रसूयते ॥ ४२-५७ ॥

भरद्वाज उवाच ॥
य एते धातवः पञ्च रक्ष्या यानसृजत्प्रभुः ॥
आवृता यैरिमे लोका महाभूताभिसञ्ज्ञितैः ॥ ४२-५८ ॥

यदाऽसृजत्सहस्त्राणि भूतानां स महामतिः ॥
पश्चात्तेष्वेव भूतत्वं कथं समुपपद्यते ॥ ४२-५९ ॥

भृगुरुवाच ॥
अमितानि महाष्टानि यान्ति भूतानि सम्भवम् ॥
अतस्तेषां महाभूतशब्दोऽयमुपपद्यते ॥ ४२-६० ॥

चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः ॥
पृथिवी चात्र सङ्घातः शरीरं पाञ्चभौतिकम् ॥ ४२-६१ ॥

इत्यतः पञ्चभिर्युक्तैर्युक्तं स्थावरजङ्गमम् ॥
श्रोत्रे घ्राणो रसः स्पर्शो दृष्टिश्चेन्द्रियसञ्ज्ञिताः ॥ ४२-६२ ॥

भरद्वाज उवाच ॥
पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः ॥
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः ॥ ४२-६३ ॥

अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः ॥
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः ॥ ४२-६४ ॥

व श्रृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः ॥
न च स्पर्शं हि जानन्ति ते कथं पञ्च धातवः ॥ ४२-६५ ॥

अद्रवत्वादनिग्नित्वादभूमित्वादवायुतः ॥
आकाशस्याप्रमेयत्वादृक्षाणां नास्ति भौतिकम् ॥ ४२-६६ ॥

भृगुरुवाच ॥
घनानामपि वृक्षणामाकाशोऽस्ति न संशयः ॥
तेषां पुष्पपलव्यक्तिर्नित्यं समुपपद्यते ॥ ४२-६७ ॥

ऊष्मतो म्लायते पर्णं त्वक्फलं पुष्पमेव च ॥
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥ ४२-६८ ॥

वाय्यग्न्यशनिनिर्धोषैः फलं पुष्पं विशीर्यते ॥
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ॥ ४२-६९ ॥

वल्ली वेष्टयते वृक्षान्सर्वतश्चैव गच्छति ॥
नह्यदृष्टश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः ॥ ४२-७० ॥

पुण्यापुण्यैस्तथा गधैर्धूपैश्च विविधैरपि ॥
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥ ४२-७१ ॥

सुखदुःखयोर्ग्रहणाच्छिन्नस्य च विरोहणात् ॥
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥ ४२-७२ ॥

तेन तज्जलमादत्ते जरयत्यग्निमारुतौ ॥
आहारपरिणामाञ्च स्नहो वृद्धिश्च जायते ॥ ४२-७३ ॥

जङ्गमानां च सर्वेषां शरीरे पञ्ञ्च धातवः ॥
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥ ४२-७४ ॥

त्वक् च मांसं तथास्थीनि मज्जा स्नायुश्च पञ्चमः ॥
इत्येतदिह सङ्घातं शरीरे पृथिवीमये ॥ ४२-७५ ॥

तेजो ह्यग्निस्तथा क्रोधश्चक्षुरुष्मा तथैव च ॥
अग्निर्जनयते यञ्च पञ्चाग्नेयाः शरीरिणः ॥ ४२-७६ ॥

श्रोत्रं घ्राणं तथास्यं च हृदयं कोष्टमेव च ॥
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ॥ ४२-७७ ॥

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च ॥
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥ ४२-७८ ॥

प्राणात्प्रीणयते प्राणी व्यानाव्द्यायच्छते तथा ॥ ४२-७९ ॥
गच्छत्यपानोऽधश्चैव समानो ह्यद्यवस्थितः ॥

उदानादुच्छ्वसितीति पञ्च (प्रति) भेदाच्च भाषते ॥
इत्येते वायवः पञ्च वेष्टयन्तीहदेहिनम् ॥ ४२-८० ॥

भूमेर्गन्धगुणान्वेत्ति रसं चादूभ्यः शरीरवान् ॥
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् ॥ ४२-८१ ॥

इष्टश्चानुष्टगन्धश्च मधुरः कटुरेव च ॥
निर्हारी संहतः स्निग्धो रुक्षो विशद एव च ॥ ४२-८२ ॥

एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ॥
ज्योतिः पश्यति चक्षुर्भ्यः स्पर्शं वेत्ति च वायुना ॥ ४२-८३ ॥

शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः ॥
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः श्रृणु ॥ ४२-८४ ॥

रसो बहुविधः प्रोक्त ऋषिभिः प्रथितात्मभिः ॥
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ॥ ४२-८५ ॥

एष षडिधविस्तारो रसो वारिमयः स्मृतः ॥
शब्दः स्पर्शश्च रूपश्च त्रिगुणं ज्योतिरुच्यते ॥ ४२-८६ ॥

ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् ॥
ह्रस्वो दीर्धस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान् ॥ ४२-८७ ॥

शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा ॥
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु दारुणः ॥ ४२-८८ ॥

एवं षोडशविस्तारो ज्योतीरुपगुणः स्मृतः ॥
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् ॥ ४२-८९ ॥

तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ॥
षड्जो ऋषभगान्धारौ मध्यमोधैवतस्तथा ॥ ४२-९० ॥

पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान् ॥
एष सप्तविधः प्रोक्तो गुण आकाशसम्भवः ॥ ४२-९१ ॥

ऐश्वर्य्येण तु सर्वत्र स्थितोऽपि पयहादिषु ॥
मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च ॥ ४२-९२ ॥

एवं बहुविधाकारः शब्द आकाशसम्भवः ॥
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥ ४२-९३ ॥

उष्णः शीतः सुखं दुःखं स्निग्धो विशद एव च ॥
तथा खरो मृदुः श्लक्ष्णो लवुर्गुरुतरोऽपि च ॥ ४२-९४ ॥

शब्दस्पर्शौ तु विज्ञेयौ द्विगुणौ वायुरित्युत ॥
एवमेकादशविधो वायव्यो गुण उच्यते ॥ ४२-९५ ॥

आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ॥
अव्याहतैश्चेतयते नवेति विषमा गतिः ॥ ४२-९६ ॥

आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः ॥
आपोऽग्निर्मारुस्चैव नित्यं जाग्रति देहिषु ॥ ४२-९७ ॥

मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः ॥
पार्थिवं धातुमासाद्य यथा चेष्टयते बली ॥ ४२-९८ ॥

श्रितो मूर्द्धानमग्निस्तु शरीरं परिपालयेत् ॥
प्राणो मूर्द्धनि वाग्नौ च वर्तमानो विचेष्टते ॥ ४२-९९ ॥

स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ॥
मनो बुद्धिरहङ्कारो भूतानि विषयश्च सः ॥ ४२-१०० ॥

एवं त्विह स सर्वत्र प्राणैस्तु परिपाल्यते ॥
पृष्टतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ॥ ४२-१०१ ॥

वस्तिमूलं गुदं चैव पावकं समुपाश्रितः ॥
वहन्मूत्रं पुरीषं वाप्यपानः परिवर्तते ॥ ४२-१०२ ॥

प्रयत्ने कर्मनियमे य एकस्त्रिषु वर्तते ॥
उदान इति तं प्राहुरध्यात्मज्ञानकोविदाः ॥ ४२-१०३ ॥

सन्धिष्वपि च सर्वेषु सन्निविष्टस्तथानिलः ॥
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥ ४२-१०४ ॥

बाहुष्वग्निस्तु विततः समानेन समीरितः ॥
रसान्वारु(?) दोषांश्च वर्तयन्नति चेष्टते ॥ ४२-१०५ ॥

अपानप्राणयोर्मध्ये प्राणापानसमीहितः ॥
समन्वितस्त्वधिष्ठानं सम्यक् पचति पावकः ॥ ४२-१०६ ॥

आस्पंहि(?) पायुपर्यन्तमन्ते स्याद्गुदसञ्ज्ञिते ॥
रेतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम् ॥ ४२-१०७ ॥

प्राणानां सन्निपाताश्च सन्निपातः प्रजायते ॥
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ॥ ४२-१०८ ॥

अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते ॥
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥ ४२-१०९ ॥

पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्मृतः ॥
नाभिमूले शरीरस्य सर्वे प्राणाश्च संस्थिताः ॥ ४२-११० ॥

प्रस्थिता हृदयात्सर्वे तिर्यगूर्ध्दमधस्तथा ॥
वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ॥ ४२-१११ ॥

एष मार्गोऽपि योगानां येन गच्छन्ति तत्पदम् ॥
जितक्लमाः समा धीरा मूर्द्धन्यात्मानमादधन् ॥ ४२-११२ ॥

एवं सर्वेषु विहितप्राणापानेषु देहिनाम् ॥
तस्मिन्समिध्यते नित्यमग्निः स्थाल्यामिवाहितः ॥ ४२-११३ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे जगदुत्पत्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥