०४१

नारद उवाच ॥
आख्यातं भवता सर्वं मुने तत्त्वार्थ कोविद ॥
इदानीं श्रोतुमिच्छामि युगानां स्थितिलक्षणम् ॥ ४१-१ ॥

सनक उवाच ॥
साधु साधु महाप्राज्ञ मुने लोकोपकारक ॥
युगधर्मान्प्रबक्ष्यामि सर्वलोकोपकारकान् ॥ ४१-२ ॥

धर्मो विवृद्धिमायाति काले कस्मिंस्चिदुत्तम ॥
तथा विनासमायाति धर्म्म एव महीतले ॥ ४१-३ ॥

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ॥
दिव्यैर्द्वादशभिर्ज्ञेयं वत्सरैस्तत्र सत्तम ॥ ४१-४ ॥

सन्ध्यासन्ध्यांशयुक्तानि युगानि सदृशानि वै ॥
कालतो वेदितव्यानि इत्युक्तं तत्त्वादर्शिभिः ॥ ४१-५ ॥

आद्ये कृतयुगं प्राहुस्ततस्त्रेताविधानकम् ॥
ततश्च द्वापरं प्राहुः कलिमन्त्यं विदुः क्रमात् ॥ ४१-६ ॥

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥
नासन्कृतयुगे विप्र सर्वे देवसमाः स्मृताः ॥ ४१-७ ॥

सर्वे हृष्टाश्च धर्मिष्टा न तत्र क्रयविक्रयौ ॥
वेदानां च विभागश्च न युगे कृतसञ्ज्ञके ॥ ४१-८ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्वाचारतत्पराः ॥
सदा नारायणपरास्तपोध्यानपरायणाः ॥ ४१-९ ॥

कामादिदोषनिर्मुक्ताः शमादिगुणतत्पराः ॥
धर्मसाधनचित्ताश्च गतासूया अदाम्भिकाः ॥ ४१-१० ॥

सत्यवाक्यरताः सर्वे चतुराश्रमधर्मिणः ॥
वेदाध्ययनसम्पन्नाः सर्वशास्त्रविचक्षणाः ॥ ४१-११ ॥

चतुराश्रमयुक्तेन कर्मणा कालयोनिना ॥
अकामफलसंयोगाः प्रयान्ति परमां गतिम् ॥ ४१-१२ ॥

नारायणः कृतयुगे शुक्लवर्णः सुनिर्मलः ॥
त्रेताधर्मान्प्रवक्ष्यामि श्रृणुष्व सुसमाहितः ॥ ४१-१३ ॥

धर्मः पाण्डुरतां याति त्रेतायां मुनिसत्तम ॥
हरिस्तु रक्तातां याति किञ्चित्क्लेशान्विता जनाः ॥ ४१-१४ ॥

क्रियायोगरताः सर्वे यज्ञकर्मसु निष्टिताः ॥
सत्यव्रता ध्यानपराः सदाध्यानपरायणाः ॥ ४१-१५ ॥

द्विपादो वर्तते धर्मो द्वापरे च मुनीश्वर ॥
हरिः पीतत्वमायाति वेदश्चापि विभज्यते ॥ ४१-१६ ॥

असत्यनिरताश्चापि केचित्तत्र द्विजोत्तमाः ॥
ब्राह्मणाद्याश्च वर्णाः स्युः केचिद्रागादिदुर्गुणाः ॥ ४१-१७ ॥

केचित्स्वर्गापवर्गार्थं विप्रयज्ञान्प्रकुर्वते ॥
केचिद्धनादिकामाश्च केचित्कल्मषचेतसः ॥ ४१-१८ ॥

धर्माधर्मौ समौ स्यातां द्वापरे विप्रसत्तम ॥
अधर्मस्य प्रभावेण क्षीयन्ते च प्रजास्तथा ॥ ४१-१९ ॥

अल्पायुषो भविष्यन्ति केचिञ्चापि मुनीश्वर ॥
केचित्पुण्यरतान् दृष्ट्वा असूयां विप्र कुर्वते ॥ ४१-२० ॥

कलिस्थितिं प्रवक्ष्यामि तच्छृणुष्व समाहितः ॥
धर्मः कलियुगे प्राप्ते पादेनैकेन वर्तते ॥ ४१-२१ ॥

तामसं युगमासाद्य हरिः कृष्णत्वमेति च ॥
यः कश्चिदपि धर्मात्मा यज्ञाचारान्करोति च ॥ ४१-२२ ॥

यः कश्चिदपि पुण्यात्मा क्रियायोगरतो भवेत् ॥
नरं धर्मरतं दृष्ट्वा सर्वेऽसूयां प्रकुर्वते ॥ ४१-२३ ॥

व्रताचाराः प्रणश्यन्ति ज्ञानयज्ञादयस्तथा ॥
उपद्रवा भविष्यन्ति ह्यधर्मस्य प्रवतनात् ॥ ४१-२४ ॥

असूयानिरताः सर्वे दम्भाचारपरायणाः ॥
प्रजाश्चाल्पायुषः सर्वा भविष्यन्ति कलौ युगे ॥ ४१-२५ ॥

नारद उवाच ॥
युगधर्माः समाख्यातास्त्वया सङ्क्षेपतो मुने ॥
कलिं विस्तरतो ब्रूहि त्वं हि धर्मविदां वरः ॥ ४१-२६ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चमुनिसत्तम ॥
किमाहाराः किमाचाराः भविष्यन्ति कलौ युगे ॥ ४१-२७ ॥

सनक उवाच ॥
श्रृणुष्व मुनिशार्दूल सर्वलोकोपकारक ॥
कलिधर्मान्प्रवक्ष्यामि विस्तरेण यथातथम् ॥ ४१-२८ ॥

सर्वे धर्मा विनश्यन्ति कृष्णे कृष्णत्वमागते ॥
तस्मात्कलिर्महाघोरः सर्वपातकसङ्करः ॥ ४१-२९ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मपराङ्मुखाः ॥
घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः ॥ ४१-३० ॥

व्याजधर्मरताः सर्वे असूयानिरतास्तथा ॥
वृथाहङ्कारदुष्टाश्च सत्यहीनाश्च पण्डिताः ४१-३१ ॥

अहमेवाधिक इति सर्वेऽपि विवदन्ति च ॥
अधर्मलोलुपाः सर्वे तथा वैतंहिका नराः ॥ ४१-३२ ॥

अतः स्वल्पायुषः सर्वे भविष्यन्ति कलौ युगे ॥
अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं द्विज ॥ ४१-३३ ॥

विद्याग्रहणशून्यत्वादधर्मो वर्तते पुनः ॥
युत्क्रमेण प्रजाः सर्वा म्रियन्ते पापतत्पराः ॥ ४१-३४ ॥

ब्राह्मणाद्यास्तथा वर्णाः सङ्कीर्यन्ते परस्परम् ॥
कामक्रोधपरा मूढा वृथासन्तापपीडिताः ॥ ४१-३५ ॥

शूद्रतुल्या भविष्यन्ति सर्वे वर्णा कलौ युगे ॥
उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा ॥ ४१-३६ ॥

राजनो द्रव्यनिरतास्तथा ह्यन्यायवर्त्तिनः ॥
पीडयन्ति प्रजाश्चैव करैरत्यर्थयोजितैः ॥ ४१-३७ ॥

शववाहाभविष्यन्ति शूद्राणां च द्विजातयः ॥
धर्मस्त्रीष्वपि गच्छन्ति पतयो जारधर्मिणः ॥ ४१-३८ ॥

द्विषन्ति पितरं पुत्रा भर्तारं च स्त्रियोऽखिलाः ॥
परिस्त्रीनिरतः सर्वे परद्रव्यपरायणाः ॥ ४१-३९ ॥

मत्स्यामिषेण जीवन्ति दुहन्तश्चाप्यजीविकाम् ॥
घोरे कलियुगे विप्र सर्वे पापरता जनाः ॥ ४१-४० ॥

सतामसूयानिरतां उपहासं प्रकुर्वते ॥
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः ॥ ४१-४१ ॥

पृथ्वी निष्फलतां याति बीजं पुष्पं विनश्यति ॥
वेश्यालावंयशीलेषु स्पृहा कुर्वन्ति योषितः ॥ ४१-४२ ॥

धर्मविक्रयिणो विप्राः स्त्रियश्च भगविक्रयाः ॥
वेदविक्रयकाश्चान्ये शूद्राचाररता द्विजाः ॥ ४१-४३ ॥

साधूनां विधवानां च वित्तान्यपहरन्ति च ॥
न व्रतानि चरिष्यन्ति ब्राह्मणा द्रव्यलोलुपाः ॥ ४१-४४ ॥

धर्माचारं परित्यज्य वृथावादैर्विषज्जिताः ॥
द्विजाः कुर्वन्ति दम्भार्थं पितृश्राद्धादिकाः क्रियाः ॥ ४१-४५ ॥

अपात्रेष्वेव दानानि प्रयच्छन्ति नराधमाः ॥
दुग्धलोभनिमित्तेन गोषु प्रीतिं च कुर्वते ॥ ४१-४६ ॥

न कुर्वन्ति तथा विप्राः स्नानशौचादिकाः क्रियाः ॥
अपात्रेष्वेव दानानि प्रयच्छन्ति नराधमाः ॥ ४१-४७ ॥

साधुनिन्दापराश्चैव विप्रनिन्दापरास्तथा ॥
न कस्यापि मनो विप्र विष्णुभक्तिपरं भवेत् ॥ ४१-४८ ॥

यज्विनश्च द्विजानैव धनार्थराजकिङ्कराः ॥
ताडयन्ति द्विजान्दुष्टाः कृष्णे कृष्णत्वमागते ॥ ४१-४९ ॥

दानहीना नराः सर्वे घोरे कलियुगे मुने ॥
प्रतिग्रहं प्रकुर्वन्ति पतितानामपि द्विजाः ॥ ४१-५० ॥

कलेः प्रथमपादेऽपि विन्निन्दन्ति हरिं नराः ॥
युगान्ते च हरेर्नाम नैवकश्चिद्वदिष्यति ॥ ४१-५१ ॥

शूद्रस्त्रीसङ्गनिरता विधवासङ्गलोलुपाः ॥
शूद्रान्नभोगनिरता भविष्यन्ति कलौ द्विजाः ॥ ४१-५२ ॥

विहाय वेदसन्मार्गं कुपथाचारसङ्गताः ॥
पाषण्डाश्चभविशष्यन्तिचतुराश्रमनिन्दकाः ॥ ४१-५३ ॥

न चद्विजा तिशुश्रूषां कुर्वन्ति चरणोद्भवाः ॥
द्विजातिधर्मान्गृह्णन्ति पाखण्डलिङ्गिनोऽधमाः ॥ ४१-५४ ॥
काषायपरिवीताश्च जटिला भस्मधूलिताः ॥
शूद्राधर्मान्प्रवक्ष्यन्ती कूटयुक्तपरायणाः ॥ ४१-५५ ॥

द्विजाःस्वाचारमुत्स्सृज्यचपरपाकान्नभोजिनः ॥
भविष्यन्तिदुरात्मानः शूद्राः प्रव्रजितास्तथा ॥ ४१-५६ ॥

उत्कोचजीविनस्तत्र भविष्यन्ति कलौ मुने ॥
धर्मटीनास्तु पाषण्डा कापाला भिक्षवोऽधमाः ॥ ४१-५७ ॥

धर्मविध्वंसशीलानां द्विजानां द्विजसत्तम ॥
शूद्रा धर्मान्प्रवक्ष्यन्तिह्यधिरुह्योत्तमासनम् ॥ ४१-५८ ॥

एते चान्येच बहवो नग्नरक्तपटादिकाः ॥
पाषण्डाः प्रचारिष्यन्ति प्रायो वेदविदूषकाः ॥ ४१-५९ ॥

गीतवादित्रकुशलाः क्षुद्रधर्मसमाश्रयाः ॥
भविष्यन्तिकलौ प्रायो धर्मविध्वंसका नराः ॥ ४१-६० ॥

अल्पद्रव्या वृथालिङ्गा वृथाहङ्कारदूषिताः ॥
हर्तारं परवित्तानां भवितारो नराधमाः ॥ ४१-६१ ॥

प्रतिग्रहपरा नित्यं जगदुन्मार्गशीलिनः ॥
आत्मस्तुतिपराः सर्वे परनिन्दापरास्तथा ॥ ४१-६२ ॥

विश्वस्तघातिनः क्रूरा दयाधर्मविवर्जिताः ॥
भविष्यन्ति नरा विप्र कलौ चाधर्मबान्धवाः ॥ ४१-६३ ॥

परमायुश्च भविता तदा वर्षाणि षोडश ॥
घोरे कलियुगे विप्र पञ्चवर्षा प्रसूयते ॥ ४१-६४ ॥

सप्तवर्षाष्टवर्षाश्च युवानोऽतः परे जरा ॥
स्वकर्मत्यागिनः सर्वे कृतघ्नाभिन्नवृत्तयः ॥ ४१-६५ ॥

याचकाश्चद्विजा नित्यं भविष्यन्ति कलौ युगे ॥
परावमाननिरताः प्रहृष्टाः परवेश्मनि ॥ ४१-६६ ॥

तत्रैव निन्दानिरता वृथाविश्रम्भिणो जनाः ॥
निदां कुर्वन्ति सततं पितृमातृसुतेषु च ॥ ४१-६७ ॥

वदन्ति वाचा धर्मांश्च चेतसा पापलोलुपाः ॥
धनविद्यावयोमत्ताः सर्वदुःखपरायणाः ॥ ४१-६८ ॥

व्याधितस्करदुर्भिक्षैः पीडिता अतिमांयिनः ॥
प्रपुष्यन्ति वृथैवामी न विचार्य च दुष्कृतम् ॥ ४१-६९ ॥

धर्ममार्गप्रणेतारं तिरस्कुर्वन्ति पापिनः ॥
धर्मकार्ये रतं चैव वृथाविश्रम्भिणो जनाः ॥ ४१-७० ॥

भविष्यन्ति कलौ प्राप्ते राजानो म्लेच्छजातयः ॥
शूद्रा भैक्ष्यरताश्चैव तेषां शुश्रूषणे द्विजाः ॥ ४१-७१ ॥

न शिष्यो न गुरुः कश्चिन्न पुत्रो न पिता तथा ॥
न भार्या न पतिश्चैव भवितारोऽत्र सङ्करे ॥ ४१-७२ ॥

कलौ गते भविष्यन्ति धनाढ्या अपि याचकाः ॥
रस विक्रयिणश्चापि भविष्यन्ति द्विजातयः ॥ ४१-७३ ॥

धर्मकञ्चुकसंवीता मुनिवेषधरा द्विजाः ॥
अपण्यविक्रयरता अगम्यागामिनस्तथा ॥ ४१-७४ ॥

वेदनिन्दापराश्चैव धर्मशास्त्रविनिन्दुकाः ॥
शूद्रवृत्त्यैव जीवन्ति नरकार्हा द्विजा मुने ॥ ४१-७५ ॥

अनावृष्टभयं प्राप्ता गगनासक्तदृष्टयः ॥
भविष्यन्ति कलौ मर्त्यासर्वे क्षुद्भयकातराः ॥ ४१-७६ ॥

कन्दपर्णफलाहारास्तापंसा इव मानवाः ॥
आत्मानं तारयिष्यन्ति अनावृष्ट्यातिदुखिताः ॥ ४१-७७ ॥

कामार्ता ह्रस्वदेहाश्च लुब्धा श्चाधर्मतत्पराः ॥
कलौ सर्वे भविष्यन्ति स्वल्पभाग्या बहुप्रजाः ॥ ४१-७८ ॥

स्त्रियः स्वपोषणपरा वेश्या लावण्यशीलिकाः ॥
पतिवाक्यमनादृत्य सदान्यगृहतत्पराः ॥ ४१-७९ ॥

दुःशीला दुष्टशीलेषु करिष्यिन्ति सदा स्पृहाम् ॥
असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ ४१-८० ॥

चौरादिभयभीताश्च काष्टयन्त्राणि कुर्वते ॥
दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः ॥ ४१-८१ ॥

गोधूमान्नयवान्नाढ्ये देशे यास्यन्ति दुःखिताः ॥
निधाय हृद्यकर्मणि प्रेरयन्ति वचः शुभम् ॥ ४१-८२ ॥

स्वकार्यसिद्धिपर्यन्तं बन्धुतां कुर्वते जनाः ॥
भिक्षवश्चाव मित्रादिस्नेहसम्बन्धयन्त्रिताः ॥ ४१-८३ ॥

अन्नोपाधिनिमित्तेन शिष्यान्गृह्णन्ति भिक्षवः ॥ ४१-८४ ॥

उभाभ्यामथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः ॥
कुर्वन्त्यो गुरुभर्तॄणामाज्ञामुल्लङ्घयन्ति च ॥ ४१-८५ ॥

पाषण्डालापनिरताः पाषण्डजनसङ्गिनः ॥
यदा द्विजा भविष्यन्ति तदा वृद्धिं कलिर्व्रजेत् ॥ ४१-८६ ॥

यदा प्रजा न यक्ष्यन्ति न होष्यन्ति द्विजातयः ॥
तदैव तु कलेर्वृद्धिरनुमेया विचक्षणैः ॥ ४१-८७ ॥

अधर्मवृद्धिर्भविता बासमृत्युरपि द्विजा ॥
सर्वधर्मेषु नष्टेषु याति निःश्रीकतां जगत् ॥ ४१-८८ ॥

एवं कलेः स्वरूपं ते कथितं विप्रसत्तम ॥
हरिभक्तिपरानेष न कलिर्बाधते क्वचित् ॥ ४१-८९ ॥

ततः परं कृतयुगे त्रेतायुगे त्रेतायां ध्यानमेव च ॥
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥ ४१-९० ॥

यत्कृते दशभिर्वर्षैस्त्रेतायां शरदा च यत् ॥
द्वापरे यञ्च मासेन ह्यहोरात्रेण तत्कलौ ॥ ४१-९१ ॥

ध्यायन्कृते जयन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ॥
यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥ ४१-९२ ॥

अहोरात्रं हरेर्नाम कीर्तयन्ति च ये नराः ॥
कुर्वन्ति हरिपूजां वा न कलिर्बाधते च तान् ॥ ४१-९३ ॥

नमो नारायणायेति कीर्तयन्ति च ये नराः ॥
निष्कामा वा सकामा वा न कलिर्बाधते च तान् ॥ ४१-९४ ॥

हरिनामपरा ये तु घोरे कलियुगे द्विज ॥
त एव कृतकृत्याश्च न कलिर्बाधते हि तान् ॥ ४१-९५ ॥.

हरिपूजापरा ये च हरिनामपरायणाः ॥
त एव शिवतुल्याश्च नात्र कार्या विचारणा ॥ ४१-९६ ॥

समस्तजगदाधारं परमार्थस्वरुपिणम् ॥
घोरे कलियुगे प्राप्ते विष्णुं ध्यायन्न सीदति ॥ ४१-९७ ॥

अहो अति सुभाग्यास्ते सकृद्वै केशवार्चकाः ॥
घोरें कलियुगे प्राप्ते सर्वधर्मविवर्जिते ॥ ४१-९८ ॥

न्यूनातिरिक्तदोषाणां कलौ वेदोक्तकर्मणाम् ॥
हरिस्मरणमेवात्र सम्पूर्णत्वविधायकम् ॥ ४१-९९ ॥

हरे केशव गोविन्द वासुदेव जगन्मय ॥
इतीरयन्ति ये नित्यं नहि तान्बाधते कलिः ॥ ४१-१०० ॥

शिव शङ्कर रुद्रेश नीलकण्ठ त्रिलोचन ॥
इति जल्पन्ति ये वापि कलिस्तान्नापि बाधते ॥ ४१-१ ॥

महादेव विरूपाक्ष गङ्गाधर मृडाव्यय ॥
इत्थं वदन्ति ये विप्र ते कृतार्था न संशयः ॥ ४१-२ ॥

जनार्दन जगन्नात पीताम्बरधराच्युत ॥
इति वाप्युञ्चरन्तीह न च तेषां कलेर्भयम् ॥ ४१-३ ॥

संसारे सुलभाः पुंसां पुत्रदारधनादयः ॥
घोरे कलियुगे विप्र हरिभक्तस्तु दुर्लभा ॥ ४१-४ ॥

कर्मश्रद्धाविहीना ये पाषण्डा वेदनिन्दकाः ॥
अधर्मनिरता नैव नरकार्हा हरिस्मृतेः ॥ ४१-५ ॥

वेदमार्गबहिष्टानां जनानां पापकर्मणाम् ॥
मनः शुद्धिविहीनानां हरिनाम्नैव निष्कृतिः ॥ ४१-६ ॥

दैवाधीनं जगत्सर्वमिदं स्थावरजङ्गमम् ॥
यथाप्रेरितमेतेन तथैव कुरुतें द्विज ॥ ४१-७ ॥

शक्तितः सर्वकर्माणि वेदोक्तानि विधाय च ॥
समर्पयेन्महाविष्णौ नारायणपरायणः ॥ ४१-८ ॥

समर्पितानि कर्माणि महविष्णौ परात्मनि ॥
सम्पूर्णतां प्रयान्त्येव हरिस्मरणमात्रतः ॥ ४१-९ ॥

हरिभक्तिरतानां च पापबन्धो न जायते ॥
अतोऽतिदुर्लभा लोके हरिभक्तिर्दुरात्मनाम् ॥ ४१-१० ॥

अहो हरिपरा ये तु कलौ घोरे भयङ्करे ॥
ते सुभाग्या महात्मानः सत्सङ्गर हिता अपि ॥ ४१-११ ॥

हरिस्मरणनिष्टानां शिवनामरतात्मनाम् ॥
सत्यं समस्तकर्माणि यान्ति सम्पूर्णतां द्विज ॥ ४१-१२ ॥

अहो भाग्यमहो भाग्यं हरिनाम रतात्मनाम् ॥
त्रिदर्शेरपि ते पूज्याः किमन्यैर्बहुभाषितैः ॥ ४१-१३ ॥

तस्मात्समस्तलोकानां हितमेव मयोच्यते ॥
हरिनामपरान्मर्त्यान्न कलिर्बाधर्तक्वचित् ॥ ४१-१४ ॥

हरेर्नामैव नामैव नामैव मम जीवनम् ॥
कलौ नास्त्येव नास्त्येव गतिरन्यथा ॥ ४१-१५ ॥

सूत उवाच ॥
एवं स नारदो विप्राः सनकेन प्रबोधितः ॥
परां निर्वृत्तिमापन्नः पुनरेतदुवाच ह ॥ ४१-१६ ॥

नारद उवाच ॥
भगवन्सर्वशास्त्रज्ञ स्वयातिकरुणात्मना ॥
प्रकाशितं जगज्ज्योतिः परं ब्रह्म सनातनम् ॥ ४१-१७ ॥

एतदेव परं पुण्यमेतदेव परं तपः ॥
यः स्मरेत्पुण्डरीकाक्षं सर्वपापविनाशनम् ॥ ४१-१८ ॥

ब्रह्मन्नानाजगञ्चैतदेकचित्सम्प्रकाशितम् ॥
त्वयोक्तं तत्प्रतीयेऽहं कथं दृष्टान्तमन्तरा ॥ ४१-१९ ॥

तस्माद्येन यथा ब्रह्म प्रतीतं बोधितेन तु ॥
तदाख्याहि यथा चित्तं सीदत्स्थितिमवाप्नुयात् ॥ ४१-२० ॥

एतच्छ्रुत्वा वचो विप्रा नारदस्य महात्मनः ॥
सनकः प्रत्युवाचेदं स्मरन्नारायणं परम् ॥ ४१-२१ ॥

सनक उवाच ॥
ब्रह्मन्नहं ध्यानपरो भवेयं सनन्दनं पृच्छ यथाभिलाषम् ॥
वेदान्तशास्त्रे कुशलस्तवायं निवर्तयेद्वा परमार्यवन्द्यः ॥ ४१-२२ ॥

इतीरितं समाकर्ण्य सनकस्य स नारदः ॥
सनन्दनं मोक्षधर्मान्प्रष्टुं समुपचक्रमे ॥ ४१-२३ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे नाममहात्म्यन्नामैकचत्वारिंशोऽध्यायः ॥