सनक उवाच ॥
अतः परं प्रवक्ष्यामि विभूतिं वैष्णवीं मुने ॥
यां श्रृण्वतां कीर्तयतां सद्यः पापक्षयो भवेत् ॥ ४०-१ ॥
वैवस्वतेंऽतरे पूर्वं शक्रस्य च बृहस्पतेः ॥
संवादः सुमहानासीत्तं वक्ष्यामि निशामय ॥ ४०-२ ॥
एकदा सर्वभोगाढ्यो विबुधैः परिवारितः ॥
अप्सरोगणसङ्कीर्णो बृहस्पतिमभाषत ॥ ४०-३ ॥
इन्द्र उवाच ॥
बृहस्पते महाभाग सर्वतत्त्वार्थकोविद ॥
अतीतब्रह्मणः कल्पे सृष्टिः कीदृग्विधा प्रभो ॥ ४०-४ ॥
इन्द्रस्तु कीदृशः प्रोक्तो विवुधाः कीदृशाः स्मृताः ॥
तेषां च कीदृशं कर्म यथावद्वक्तुमर्हसि ॥ ४०-५ ॥
बृहस्पतिरुवाच ॥
न ज्ञायते मया शक्र पूर्वेद्युश्चरितं विधेः ॥
वर्तमानदिनस्यापि दुर्ज्ञेयं प्रतिभाति मे ॥ ४०-६ ॥
मनवः समतीताश्च तान्वक्तुमपि न क्षमः ॥
यो विजानाति तं तेऽद्य कथयामि निशामय ॥ ४०-७ ॥
सुधर्म इति विख्यातः कश्चिदास्ते पुरे तव ॥
भुञ्जानो दिव्यभोगांश्च ब्रह्मलोकादिहागतः ॥ ४०-८ ॥
स वा एत द्विजानाति कथयामि निशामय ॥
एवमुक्तस्तु गुरुणा शक्रस्तेन समन्वितः ॥ ४०-९ ॥
देवतागणसङ्कीर्णः सुधर्मनिलयं ययौ ॥ ४०-१० ॥
समागतं देवपतिं बृहस्पतिसमन्वितम् ॥
दृष्ट्वा यथार्हं देवर्षे पूजयामास सादरम् ॥ ४०-११ ॥
सुधर्मेणार्चितः शङ्क्रो दृष्ट्वा तच्छ्रियमुत्तमाम् ॥
मनसा विस्मयाविष्टः प्रोवाच विनयान्वितः ॥ ४०-१२ ॥
इन्द्र उवाच ॥
अतीतब्रह्मकल्पस्य वृत्तान्तं वेत्सि चेद्बुध ॥
तदाख्याहि समायात एतत्प्रष्टुं सयाजकः ॥ ४०-१३ ॥
गतनिद्रांश्च देवांश्च येन जानासि सुव्रत ॥
तद्वदस्वाधिकः कस्मादस्मद्भ्योऽपि दिवि स्थितः ॥ ४०-१४ ॥
तेजसायशसा कीर्त्या ज्ञानेन च परन्तप ॥
दानेन वा तपोभिर्वा कथमेतादृशः प्रभो ॥ ४०-१५ ॥
इत्युक्तो देवराजेन सुधर्मा प्रहसंस्तदा ॥
प्रोवाच विनयाविष्टः पूर्ववृत्तं यथाविधि ॥ ४०-१६ ॥
सुधर्म उवाच ॥
चतुर्युगसहस्त्राणि ब्रह्मणो दिनमुच्यते ॥
एकस्मिन् दिवसे शक्र मनवश्च चतुर्दश ॥ ४०-१७ ॥
इन्द्राश्चतुर्दश प्रोक्ता देवाश्च विविधाः पृथक् ॥
इन्द्राणां चैव सर्वेषां मन्वादीनां च वासव ॥ ४०-१८ ॥
तुल्यता तेजसा लक्ष्म्या प्रभावेण बलेन च ॥
तेषां नामानि वक्ष्यामि श्रृणुष्व सुसमाहितः ॥ ४०-१९ ॥
स्वायम्भुवो मनुः पूर्वं ततः स्वारोचिषस्तथा ॥
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ४०-२० ॥
वैवस्वतो मनुश्चैव सूर्यसावर्णिरष्टमः ॥
नवमो दक्षसावर्णिः सर्वदेवहिते रतः ॥ ४०-२१ ॥
दशमो ब्रह्मसावर्णिर्द्धर्मसावर्णिकस्ततः ॥
ततस्तु रुद्रसावर्णी रोचमानस्ततः स्मृतः ॥ ४०-२२ ॥
भौत्यश्चतुर्दशः प्रोक्त एते हि मनवः स्मृताः ॥
देवानिन्द्रांश्च वक्ष्यामि श्रृणुष्व विबुधर्षभ ॥ ४०-२३ ॥
यामा इति समाख्याता देवाः स्वायम्भुवेंऽतरे ॥
शचीपतिः समाख्यातस्तेषामिन्द्रो महापतिः ॥ ४०-२४ ॥
पारावताश्च तुषिता देवाः स्वारोचिषेंऽतरे ॥
विपश्चिन्नाम देवेन्द्रं सर्वसम्पत्समन्वितः ॥ ४०-२५ ॥
सुधामानस्तथा सत्याः शिवाश्चाय प्रर्तदनाः ॥
तेषामिन्द्रः सुशान्तिश्च तृतीये परिकीर्तितः ॥ ४०-२६ ॥
सुताः पाराहराश्चैव सुत्याश्चासुधियस्तथा ॥
तेषामिन्द्रः शिवः प्रोक्तः शक्रस्तामसकेंऽतरे ॥
विभानामा देवपतिः पञ्चमः परिकीर्तितः ॥ ४०-२७ ॥
अमिताभादयो देवाः षष्ठेऽपि च तथा श्रृणु ॥
आर्याद्या विबुधाः प्रोक्तास्तेषामिन्द्रो मनोजवः ॥ ४०-२८ ॥
आदित्यवसुरुद्राद्या देवा वैवस्वतंऽतरे ॥
इन्द्रः पुरन्दरः प्रोक्तः सर्वकामसमन्वितः ॥ ४०-२९ ॥
अप्रमेयाश्च विबुधाः सुतपाद्याः प्रकीर्तिताः ॥
विष्णुपूजाप्रभावेण तेषामिन्द्रो बलिः स्मृतः ॥ ४०-३० ॥
पाराद्या नवमे देवा इन्द्रश्चाद्भुत उच्यते ॥
सुवासनाद्या विबुधा दशमे परिकीर्तिताः ॥ ४०-३१ ॥
शान्तिर्नाम च तत्रेन्द्रः सर्वभोगसमन्वितः ॥
विहङ्गॄमाद्या देवाश्च तेषामिन्द्रो वृषः स्मृतः ॥ ४०-३२ ॥
एकादशे द्वादशे तु निबोधकथायामि ते ॥
ऋभुनामा च देवेन्द्रो हरिनाभास्तथा सुराः ॥ ४०-३३ ॥
सुत्रामाद्यास्तथा देवास्त्रयोदशतमेऽन्तरे ॥
दिवस्पतिर्महावीर्यस्तेषामिन्द्रः प्रकीर्तितः ॥ ४०-३४ ॥
चतुर्दशे चाक्षुपाद्या देवा इन्द्रः शुचिः स्मृतः ॥
एवं ते मनवः प्रोक्ता इन्द्रा देवाश्च तत्त्वतः ॥ ४०-३५ ॥
एकस्मिन्ब्रह्यदिवसे स्वाधिकारं प्रभुञ्जते ॥ ४०-३६ ॥
लेकेषु सर्वसर्गेषु सृष्टिरेकविधा स्मृता ॥
कर्त्तारो बहवः सन्ति तत्सङ्ख्यां वेत्ति कोविदः ॥ ४०-३७ ॥
मयि स्थिते ब्रह्मलोके ब्रह्माणां बहवो गताः ॥
तेषां सङ्ख्या न सङ्ख्यातु शक्तोऽस्म्यद्य द्विजोत्तम ॥ ४०-३८ ॥
स्वर्गलोकमपि प्राप्य यावत्कालं श्रृणुष्व मे ॥
चत्वारो मनवोऽतीता मम श्रीश्चातिविस्तरा ॥ ४०-३९ ॥
स्थातव्यं च मयात्रैव युगकोटिशतं प्रभो ॥
ततः परं गमिष्यामि कर्मभूमिं श्रृणुष्व मे ॥ ४०-४० ॥
मया कृतं पुरा कर्म वक्ष्यामि तव सुव्रत ॥
वदतां श्रृण्वतां चैव सर्वपापप्रणाशनम् ॥ ४०-४१ ॥
अहमांस पुरा शक्र गृध्रः पापो विशेषतः ॥
स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः ॥ ४०-४२ ॥
एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभो ॥
पतितो व्याधशस्त्रेण सायं विष्णोर्गृहाङ्गणे ॥ ४०-४३ ॥
मयि कण्ठगतप्राणे भषणो मांसलोलुपः ॥
जग्राह मां स्ववक्रेण श्वभिरन्यैश्चरन्द्रुतः ॥ ४०-४४ ॥
वहन्मां स्वमुखेनैव भीतोऽन्यैर्भषणैस्तथा ॥
गतः प्रदक्षिणा कारं विष्णोस्तन्मन्दिरं प्रभो ॥ ४०-४५ ॥
तेनैव तुष्टिमापन्नो ह्यन्तरात्मा जगन्मयः ॥
मम चापि शुनश्चापि दत्तावन्परमं पदम् ॥ ४०-४६ ॥
प्रदक्षिणा कारतया गतस्यापीदृशं फलम् ॥
सम्प्राप्तं विबुधश्रेष्ट किं पुनः सम्यगर्चनात् ॥४०-४७ ॥
इत्युक्तो देवराजस्तु सुधर्मेण महात्मना ॥
मनसा प्रीतिमापन्नो हरिपूजा रतोऽभवत् ॥ ४०-४८ ॥
तथापि निर्जराः सर्वे भारते जन्मलिप्सवः ॥
समर्चयन्ति देवेशं नारायणमनामयम् ॥
तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः ॥ ४०-४९ ॥
नारायणानुस्मरणोद्यतानां महात्मनां त्यक्तपरिग्रहणाम् ॥
कथं भवत्युग्रभवस्य बन्धस्तत्सङ्गलुब्धा यदि मुक्तिभाजः ॥ ४०-५० ॥
ये मानवाः प्रतिदिनं परिमुक्तसङ्गा नारायणं गरुडवाहनमर्चयन्ति ॥
ते सर्वपापनिकरैः परितो विमुक्ता विष्णोः पदं शुभतरं प्रतियान्ति हृष्टाः ॥ ४०-५१ ॥
ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ॥
ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ ४०-५२ ॥
ये मानवा हरिकथाश्रवणास्तदोषाः कृष्णाङ्घ्रपद्मभजने रतचेतनास्च ॥
ते वै पुन्नति च जगन्ति शरीरसङ्गात् सम्भाषणादपि ततो हरिरेव पूज्यः ॥ ४०-५३ ॥
हरिपूजापरा यत्र महान्तः शुद्धबुद्धयः ॥
तत्रैव सकलं भद्रं यथा निम्ने जलं द्विज ॥ ४०-५४ ॥
हरिरेव परो बन्धुर्हरिरेव परा गतिः ॥
हरिरेव ततः पूज्यो यतश्चेतन्यकारणम् ॥ ४०-५५ ॥
स्वर्गापवर्गफलदं सदानन्दं निरामयम् ॥
पृज्यस्य मुनिश्रेष्ठ परं श्रेयो भविष्यति ॥ ४०-५६ ॥
पूजयन्ति हरिं ये तु निष्कामाः शुद्धमानसाः ॥
तेषां विष्णुः प्रसन्नात्मा सर्वान्कामान् प्रयच्छति ॥ ४०-५७ ॥
यस्त्वेतच्छृणुयाद्वापि पठेद्वा सुसमाहितः ॥
स प्राप्नोत्यश्वमेधस्य फलं मुनिवरोत्तम ॥ ४०-५८ ॥
इत्येतत्ते समाख्यातं हरिपूजाफलं द्विज ॥
सङ्कोचविस्तराभ्यां तु किमन्यत्कथयामि ते ॥ ४०-५९ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्ये चत्वारिंशोऽध्यायः ॥