नारद उवाच ॥
किन्तत्स्तोत्रं महाभाग कथं तुष्टो जनार्दनः ॥
उक्तङ्कः पुण्यपुरुषः कीदृशं लब्धवान्वरम् ॥ ३८-१ ॥
सनक उवाच ॥
उत्तङ्कस्तु तदा विप्रो हरिध्यानपरायणः ॥
पादोदकस्य माहात्म्यं दृष्ट्वा तुष्टाव भक्तितः ॥ ३८-२ ॥
उत्तङ्क उवाच ॥
नतोऽस्मि नारायणमादिदेवं जगन्निवासं जगदेकबन्धुम् ॥
चक्राब्जशार्ङ्गीसिधरं महान्तं स्मृतार्तिनिघ्नं शरणं प्रपद्ये ॥ ३८-३ ॥
यन्निभिजाब्ज प्रभवो विधाता सृजत्यमुं लोकसमुञ्चयं च ॥
यत्क्रोधजो हन्ति जगञ्च रुद्रस्तमादिदेवं प्रणतोऽस्मि विष्णुम् ॥ ३८-४ ॥
पद्मापतिं पद्मदलायताक्षं विचित्रवीर्यं निखिलैकहेतुम् ॥
वेदान्तवेद्यं पुरुषं पुराणं तैजोनिधिं विष्णुमहं प्रपन्नः ॥ ३८-५ ॥
आत्माक्षरः सर्वगतोऽच्युताख्यो ज्ञानात्मको ज्ञानविदां शरण्यः ॥
ज्ञानैकवेद्यो भगवाननादिः प्रसीदतां व्यष्टिस प्रष्टिरुपः ॥ ३८-६ ॥
अनन्तवीयो गुणजातिहीनां गुणात्मको ज्ञानविदां वरिष्टः ॥
नित्यः प्रपन्नार्ति हरः परात्मा दयाम्बुधिर्मे वरदस्तु भूयात् ॥ ३८-७ ॥
यः स्थूलसूक्ष्मादिविशेषभेदौर्जगद्यथावत्स्वकृतं प्रविष्टः ॥
त्वमेव तत्सर्वमनन्तसारं त्वत्तः परं नास्ति यतः परात्मन् ॥ ३८-८ ॥
अगोचरं यत्तव शुद्धरूरं मायाविहीनं गुणजातिहीनम् ॥
निरञ्जनं निर्मलमप्रमेयं पश्यन्ति सन्तः परमार्थसञ्ज्ञम् ॥ ३८-९ ॥
एकेन हेम्रैव विभूषणानि यातानि भेदत्वमुपाधिभेदात् ॥
तथैव सर्वेष्वर एक एव प्रदृश्यते भिन्न इवारिवलात्मा ॥ ३८-१० ॥
यन्मायया मोहितचेतसस्तं पश्यन्ति नात्मानमपि प्रसिद्धम् ॥
त एव मायारहितास्तदेव पस्यन्ति सर्वात्मकमात्मरुपम् ॥ ३८-११ ॥
विभुं ज्योतिरनौपम्यं विष्णुसञ्ज्ञं नमाम्यहम् ॥
समस्तमेतदुद्भूतं यतो यत्र प्रतिष्टितम् ॥ ३८-१२ ॥
यतश्चैतन्यमायातं यद्रूपं तस्य वै नमः ॥
अप्रमेयमनादारमाधाराधेयरूपकम् ॥ ३८-१३ ॥
परमानन्दचिन्मात्रं वासुदेवं नतोऽस्म्यहम् ॥
हृद्गुहानिलयं देवं योगिभिः परिसेवितम् ॥ ३८-१४ ॥
योगानामादिभूतं तं नमामि प्रणवस्थितम् ॥
नादात्मकं नादबीजं प्रणवात्मकमव्ययम् ॥ ३८-१५ ॥
सद्भघावं सञ्चिदानन्दं तं वन्दे तिग्मचक्रिणम् ॥
अजरं साक्षिणं त्वस्य ह्यवाङ्मनसगोचरम् ॥ ३८-१६ ॥
निरञ्जनमनन्ताख्यं विष्णुरुपं नतोऽस्म्यहम् ॥
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ॥ ३८-१७ ॥
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञमेव च ॥
विद्याविद्यात्मकं प्राहुः परात्परतरं तथा ॥ ३८-१८ ॥
अनादिनिधनं शान्तं सर्वधातारमच्युतम् ॥
ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती ॥ ३८-१९ ॥
वरं वरेण्यं वरदं पुराणं सनातनं सर्वगतं समस्तम् ॥
नतोऽस्मि भूयोऽपि नतोऽस्मि भूयोऽपि नतोऽस्मि भूयः ॥ ३८-२० ॥
यत्पाद तोयं भवरोगवैद्यो यत्पादपांशुर्विमलत्वसिद्ध्यै ॥
यन्नाम दुष्कर्मनिवारणायचय तमप्रमेयं पुरुषं भजामि ॥ ३८-२१ ॥
सद्रूपं तमसद्रूपं सदसद्रूपमव्ययम् ॥
तत्तद्विलक्षणं श्रेष्टं श्रेष्टाच्छ्रष्ठतरं भजे ॥ ३८-२२ ॥
निरञ्जनं निराकारं पूर्णमाकाशमध्यगम् ॥
परं च विद्याविद्याभ्यां हृदम्बुजनिवासिनम् ॥ ३८-२३ ॥
स्वप्रकाशमनिर्देष्यं महतां च महत्तरम् ॥
अणोरणीयांसमजं सर्वोपाधिविवर्जितम् ॥ ३८-२४ ॥
यन्नित्यं परमानन्दं परं ब्रह्म सनातनम् ॥
विष्णुसञ्ज्ञं जगद्धाम तमस्मि शरणं गतः ॥ ३८-२५ ॥
यं भजन्ति क्रियानिष्टायं पश्यन्ति च योगिनः ॥
पूज्यात्पूज्यतरं शान्तं गतोऽस्मि शरणं प्रभुम् ॥ ३८-२६ ॥
यं न पश्यन्ति विद्वांसो य एतद्व्याव्य तिष्ठति ॥
सर्वस्मादधिकं नित्यं नतोऽस्मि विभुमव्ययम् ॥ ३८-२७ ॥
अन्तः करणसंयोगाज्जीव इत्युच्यते च यः ॥
अविद्याकार्य रहितः परमात्मेति गीयते ॥ ३८-२८ ॥
सर्वात्मकं सर्वहेतुं स्रवकर्मफलप्रदम् ॥
वरं वरेण्यमजनं प्रणतोऽस्मि परात्परम् ॥ ३८-२९ ॥
सर्वज्ञं सर्वगं शान्तं सर्वान्तयामिणं हरिम् ॥
ज्ञानात्मकं ज्ञाननिधिं ज्ञानसंस्थं विभुं भजे ॥ ३८-३० ॥
नमाम्यहं वेदनिधिं मुरारिं वेदान्त विज्ञानसुनिश्चितार्थम् ॥
सूर्येदुवत्प्रोज्ज्वलने त्रमिन्द्रं रवगस्वरुपं वपतिस्वरूपम् ॥ ३८-३१ ॥
सर्वेश्वरं सर्वगतं महान्तं वेदात्मकं वेदविदांवरिष्टम् ॥
तंवाङ्मनोऽचिन्त्यमनन्तशक्तिं ज्ञानैकवेद्यं पुरुषं भजामि ॥ ३८-३२ ॥
इन्द्राग्निकालासुरपाशिवायुसोमेषमार्त्तण्डपुरन्दराद्यैः ॥
यः पाति लोकान्परिपूर्णभावस्तमप्रमेयं शरणं प्रपद्ये ॥ ३८-३३ ॥
सहस्त्रशीर्षं च सहस्त्रपादं सहस्त्रबाहुः च सहस्त्रनेत्रम् ॥
समस्तयज्ञैः परिजुष्टमाद्यं नतोऽस्मि तुष्टिप्रदमुग्रवीर्यम् ॥ ३८-३४ ॥
कालात्मकं कालविभागहेतुं गुणत्रयातीतमहं गुणज्ञम् ॥
गुणप्रियं कामदमस्तसङ्गमतीन्द्रियं विश्वभुजं वितृष्णम् ॥ ३८-३५ ॥
निरीहमग्र्यं मनसाप्यगम्यं मनोमयं चान्नमयं निरूढम् ॥
विज्ञानभेदं प्रतिपन्नकल्पं न वाङ्मयं प्राणमयं भजामि ॥ ३८-३६ ॥
न यस्य रूपं न बलप्रभावो न यस्य कर्माणि न यत्प्रमाणम् ॥
जानन्ति देवा कमलोद्भवाद्यस्तोष्याम्यहं तं कथमात्मरूपम् ॥ ३८-३७ ॥
संसारसिधौ पतितं कदर्यं मोहाकुलं कामशतेन बद्धम् ॥
अकीर्तिभाजं पिशुनं कृतघ्नं सदाशुचिं पापरतं प्रमन्युम् ॥
दयाम्बुधे पाहि भयाकुलं मां पुनः पुनस्त्वां शरणं प्रपद्ये ॥ ३८-३८ ॥
इति प्रसादितस्तेन दयालसुः कमलापतिः ॥
प्रत्यक्षतामगात्तस्य भगवांस्तेजसां निधिः ॥ ३९-३९ ॥
अतसी पुष्पसङ्काशं फुल्लपङ्कजलोचनन् ॥
किरीटिनं कुण्डलिनं हारकेयूरभूषितम् ॥ ३८-४० ॥
श्रीवत्सकौस्तुभधरं हेमयज्ञोपवीतिननम् ॥
नासाविन्यस्तमुक्ता भवर्धमानतनुच्छविम् ॥ ३८-४१ ॥
पीताम्बरधरं देवं वनमालाविभूषिमत् ॥
तुलसीकोमलदलैरर्चिताङ्घ्निं महाद्युतिम् ॥ ३८-४२ ॥
किङ्किणीनूपुरा द्यैश्च शोभितं गरुडध्वजम् ॥
दृष्ट्वा नानाम विप्रेन्द्रो दण्डवत्क्षितिमण्डले ॥ ३८-४३ ॥
अभ्यषिञ्चद्धरेः पादावुत्तङ्को हर्षवारिभिः ॥
मुरारे रक्ष रक्षेति व्याहरन्नान्यधीस्तदा ॥ ३८-४४ ॥
तमुत्थाप्य महाविष्णुरालिलिङ्ग दयापरः ॥
वरं वृणुष्व वत्सेति प्रोवाच मुनिपुङ्गवम् ॥ ३८-४५ ॥
असाध्यं नास्ति किञ्चित्ते प्रसन्ने मयि सत्तम ॥
इतीरितं समाकर्ण्य ह्युत्तङ्कश्चक्रपाणिना ॥
पुनः प्रणम्य तं प्राह देवदेवं जनार्द्दनम् ॥ ३८-४६ ॥
किं मां मोहयसीश त्वं किमन्यैर्देव मे वरैः ॥
त्वयि भक्तिर्दृढा मेऽस्तु जन्मजन्मान्तरेष्वपि ॥ ३८-४७ ॥
कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षः पिशाचमनुजेष्वपि यत्र तत्रजजातस्य मे भवतु केशव ते प्रसाद्दात्त्वय्येव भक्तिरचलाव्यभिचारणी च ॥ ३८-४८ ॥
एवमस्त्विति लोकेशः शङ्खप्रान्तेन संस्पृशन् दिव्यज्ञानं ददौ तस्मै योगिनामपिदुर्लभम् ॥ ३८-४९ ॥
पुः स्तुवन्तं विप्रेन्द्रं देवदेवो जनार्द्दनः इदमाह स्मितमुखो हस्तं तच्छिरसि न्यसन् ॥ ३८-५० ॥
श्रीभगवानुवाच आराधय क्रियायोगैर्मां सदा द्विजसत्तम् ॥
नरनारायणस्थानं व्रज मोक्षं गमिष्यसि ॥ ३८-५१ ॥
त्वया कृतमिदं स्तोत्रं यः पठेत्सततं नरः ॥
सर्वान्कामानवाप्यान्ते मोक्षभागी भवेत्ततः ॥ ३८-५२ ॥
इत्युक्त्वा भाधवो विप्रं तत्रैवान्तर्दधे मुने ॥
नरनरायणस्थानमुत्तङ्कोऽपि ततो ययौ ॥ ३८-५३ ॥
कस्माद्भक्तिः सदा कार्या देवदेवस्य चक्रिणः ॥
हरिभक्तिः परा प्रोक्ता सर्वकामपलप्रदा ॥ ३८-५४ ॥
उतङ्को भाक्तिभावेन क्रियायोगपरो मुने ॥
पूजयन्माधयवं नित्यं नरनारायणाश्रमे ॥ ३८-५५ ॥
ज्ञानविज्ञानसम्पन्नः सञ्च्छिन्नद्वैतसंशयः ॥
आवाप दुरवापं वै तद्विष्णोः परमं पदम् ॥ ३८-५६ ॥
पूजितो नमितो वापि संस्मृतो वापि मोक्षदः ॥
नारायणो जगन्नाथो भक्तानां मानवर्द्धनः ॥ ३८-५७ ॥
तस्मान्नारायणं देवमनन्तमपराजितम् ॥
इहामुत्र सुखप्रेप्सुः पूजयेद्भक्तिसंयुतः ॥ ३८-५८ ॥
यः पठेदिदमाख्यानं श्रृणुयाद्वासमाहितः ॥
सोऽपि सर्वाघनिर्मुक्तः प्रयाति भवनं हरेः ॥ ३८-५९ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्यं नामाष्टत्रिंशोऽध्यायः ॥