सनक उवाच ॥
वेदमालेः सुतौ प्रोक्तौ यावुभौ मुनिसत्तम ॥
यज्ञमाली सुमाली च तयोः कर्माधुनोच्यत ॥ ३६-१ ॥
तयोराद्यो यज्ञमाली विभेद पितृसञ्चितम् ॥
धनं द्विधा कनिष्टस्य भागमेकं ददौ तदा ॥ ३६-२ ॥
सुमाली च धनं सर्वं व्यसनाभिरकतः सदा ॥
अपादाना दिभिश्चैव नाशयामास भो द्विज ॥ ३६-३ ॥
गीतवाद्यरतो नित्यं मद्यपानरतोऽभवत् ॥
वेश्याविभ्रमलुब्धोऽसौ परदारतोऽभवत् ॥ ३६-४ ॥
सर्वस्मिन्नाशमायाते हिरण्ये पितृसञ्चिते ॥
अपहृत्य परं द्रव्यं वारस्त्रीनिरतोऽभवत् ॥ ३६-५ ॥
दृष्ट्वा सुमालिनः शूलं यज्ञमाली महामतिः ॥
बभूव दुःखितोऽत्यर्थं भ्रातरं चदमब्रवीत् ॥ ३६-६ ॥
अलममत्यन्तकष्टेन वृत्तेनास्मत्कुलेऽनुज ॥
त्वमेक एव दुष्टात्मा महापापरतोऽभवः ॥ ३६-७ ॥
एवं निवारयन्तं तं बहुशो ज्येष्टसोदरम् ॥
हनिष्यामीति निश्चित्य खङ्गहस्तः कचेऽग्रहीत् ॥ ३६-८ ॥
ततो महारवो जज्ञे नगरे भृशदारुणः ॥
बबन्धुर्नागराश्चैनं कुपितास्ते सुमालिनम् ॥ ३६-९ ॥
यज्ञमाली ह्यमेयात्मा पौरान्सम्प्रार्थ्य दुःखितः ॥
बन्धनान्मोचयामास भ्रातृस्नेहविमोहितः ॥ ३६-१० ॥
यज्ञमाली पुनस्चापि बिभिदे स्वधनं द्विधा ॥
आददे स्वयमर्द्धं च ददावर्द्धं यवीयसे ॥ ३६-११ ॥
सुमाली त्वतिमूढात्मा तद्धनं चापि नारद ॥
मूर्खैः पारंवडचण्डालैर्बुभुजे च सहोद्धतः ॥ ३६-१२ ॥
असतामुपभो गाय दुर्जनानां विभूतयः ॥
पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते ॥ ३६-१३ ॥
भ्रात्रा दत्तं धनं तञ्च सुमाली नाशयन्मुने ॥
मद्यपानप्रमत्तश्च गोमांसा दीन्यभक्षयत् ॥ ३६-१४ ॥
त्यक्तो बन्धुजनैः सर्वैश्चाण्डालस्त्रीसमन्वितः ॥
राज्ञापि बाधितो विप्रप्रपेदे निर्जनं वनम् ॥ ३६-१५ ॥
यज्ञमाली सुधीर्विप्र सदा धर्मरतोऽभवेत् ॥
अवारितं ददावन्नं सत्सङ्गगतकल्मषः ॥ ३६-१६ ॥
पित्रा कृतानि सर्वाणि तडागादीनि सत्तम ॥
अपालयत्प्रयत्नेन सदा धर्मपरायणः ॥ ३६-१७ ॥
विश्राणितं धनं सर्वं यज्ञमालेर्महात्मनः ॥
सत्पात्रदाननिष्टस्य धर्ममार्गप्रवर्तिनः ॥ ३६-१८ ॥
अहो सदुपभोगाय सज्जनानां विभूतयः ॥
कल्पवृक्षफलं सर्वममरैरेव भुज्यते ॥ ३६-१९ ॥
धनं विश्राण्य धर्मार्थं यज्ञमाली महामतिः ॥
नित्यं विष्णुगृहे सम्यक्परिचर्य्यापरोऽभवत् ॥ ३६-२० ॥
कालेन गच्छता तौ तु वृद्धभावमुपागतौ ॥
यज्ञमाली सुमाली च ह्येककाले मृतावुभौ ॥ ३६-२१ ॥
हरिपूजारतस्यास्य यज्ञमालिमहात्मनः ॥
हरिः सम्प्रेषयामास विमानं पार्षदा वृतम् ॥ ३६-२२ ॥
दिव्यं विमानमारुह्य यज्ञमाली महामतिः ॥
पूज्यमानः सुरगणैः स्तूयमानो मुनीश्वरैः ॥ ३६-२३ ॥
गन्धर्वैर्गीयमानश्च सेवितश्चाप्सरोगणैः ॥
कामधेन्वा पुष्यमाणश्चित्राभरणभूषितः ॥ ३६-२४ ॥
कोमलैस्तुलसीमाल्यैर्भूषितस्तेजसां निधिः ॥
गच्छन्विष्णुपदं दिव्यम्मनुजं पथि दृष्टवान् ॥ ३६-२५ ॥
ताह्यमानं यमभटैः क्षुत्तृड्भ्यां परिपीडितम् ॥
प्रेतभूतं विवस्त्रं च दुःखितं पाशवेष्टितम् ॥
इतस्ततः प्राधावन्तं विलपन्तमनाथवत् ॥ ३६-२६ ॥
क्रोशन्तं च सुदन्तं च दृष्ट्वा मनसि विव्यथे ॥ ३६-२७ ॥
यज्ञमालीदयायुक्तो विष्णुदूतान्समीपगान् ॥
कोऽयं भटैर्बाध्यमानं इत्यपृच्छत्कृताञ्जलिः ॥ ३६-२८ ॥
अथ ते हरिदूतास्तं यज्ञमालिमहौजसम् ॥
असौ सुमाली भ्राता ते पापात्मेति समब्रुवन् ॥ ३६-२९ ॥
यज्ञमाली समाकर्ण्य व्याख्यातं विष्णुकिङ्करैः ॥
मनसा दुःखमापन्नः पुनः पप्रच्छ नारद ॥ ३६-३० ॥
कथमस्य भवेन्मोक्षः साञ्चितैः पापसञ्चयैः ॥
तदुपायम्बदध्वं मे यूयं हि ममबान्धवाः ॥ ३६-३१ ॥
सख्यं साप्तपदीनं स्यादित्याहुर्धर्मकोविदाः ॥
सतां साप्तपदी मैत्री सत्सतां त्रिपदी तथा ॥ ३६-३२ ॥
सत्सतामपि ये सन्तस्तेषां मैत्रघी पदे पदे ॥ ३६-३३ ॥
तस्मान्मे बान्धवा यूयं मां नेतुं समुपागताः ॥
यतोऽयं मम भ्रातापि मुच्यते तदिहोच्यताम् ॥ ३६-३४ ॥
यज्ञमालिवचः श्रुत्वा विष्णुदूता दयालवः ॥
पुनः स्मितामुखाः प्रोचुर्यज्ञमालिहरिप्रियम् ॥ ३६-३५ ॥
विष्णुदूता ऊचुः ॥
यज्ञमालिन्महाभाग नारायणपरायण ॥
उपायं तव वक्ष्यामः सुमालिप्रेममुक्तिदम् ॥ ३६-३६ ॥
कृतं यत्सुमहत्कर्म त्वया प्राक्तनजन्मनि ॥
प्रवक्ष्यामः समासेन तच्छ्रणुष्व समाहितः ॥ ३६-३७ ॥
पुरा त्वं वैश्यजातीयो नाम्ना विश्वङ्घभरः स्मृतः ॥
त्वया कृतानि पापानि अहन्त्यगणितानि वै ॥ ३६-३८ ॥
सुकर्मवासनाहीनो मातापित्रोर्विरोधकृत् ॥
एकदा बन्धुभिस्त्यक्तः शोकसन्तापपीडितः ॥ ३६-३९ ॥
क्षुधाग्निनापि सन्तप्तः प्राप्तवान्हरिमन्दिरम् ॥
तदा वृष्टिरभूत्तत्र तत्स्थानं पङ्किलं ह्यभूत ॥ ३६-४० ॥
दीरीकृतस्त्वया पङ्कस्तत्स्थाने स्थातुमिच्छया ॥
उपलेपनतां प्राप्तं तत्स्थानं विष्णुमन्दिरे ॥ ३६-४१ ॥
त्वयोषितं तु तद्गात्रौ तस्मिन्देवालये द्विज ॥
दंशितश्चैव सर्पेण प्राप्तं पञ्चत्वमेव च ॥ ३६-४२ ॥
तेन पुण्यप्रभावेन उपलेपकृतेन च ॥
विप्रजन्म त्वया प्राप्तं हरि भक्तिस्तथाचला ॥ ३६-४२॥
कल्पकोटिशतं साग्रं सम्प्राप्य हरिसन्निधिम् ॥
वसाद्य ज्ञानमासाद्य परं मोक्षं गमिष्यसि ॥ ३६-४३ ॥
अनुजं पातकिश्रेष्टं त्वं समुद्धर्त्तमिच्छसि ॥
उपायं तव वक्ष्यामस्तं निबोध महामते ॥ ३६-४४ ॥
गोचर्ममात्रभूमेस्तु उपलेपनजं फलम् ॥
दत्त्वोद्धर महाभाग भ्रातरं कृपयान्वितः ॥ ३६-४५ ॥
एवमुक्तो विष्णुदूतैर्यज्ञमाली महापतिः ॥
तत्फलं प्रददौ तस्मै भ्रात्रे पापविमुक्तये ॥ ३६-४६ ॥
सुमाली भ्रातृदत्तेन पुण्येन गतकल्मषः ॥
बभूव यमदूतास्तु तं त्यक्त्वा प्रपलायिताः ॥ ३६-४७ ॥
विमानं चागतं सद्यः सर्वभोगसमन्वितम् ॥
तदा सुमाली स्वर्यानमारुह्य मुमुदे मुने ॥ ३६-४८ ॥
तावुभौ भ्रातरौ विप्र सुरवृन्दनमस्कृतौ ॥
अवापतुर्भृशं प्रीतिं समालिङ्ग्य परस्परम् ॥ ३६-४९ ॥
यज्ञमाली सुमाली च स्तूयमानौ महर्षिभिः ॥
गीयमानौ च गन्धर्वैर्विष्णुलोकं प्रजग्मतुः ॥ ३६-५० ॥
अवाप्य हरिसालोक्यं सुमाली मुनिसत्तम ॥
यज्ञमाली चोषतुस्तौ कल्पमेकं मुदान्वितौ ॥ ३६-५१ ॥
भुक्त्वा भोगान्बहूँस्तत्र यज्ञमाली महामतिः ॥
तत्रैव ज्ञानसम्पन्नः परं मोक्षमुपागतः ॥ ३६-५२ ॥
सुमाली तु महाभागो विष्णुलोके मुदान्वितः ॥
स्थित्वा भूमिं पुनः प्राप्य विप्रत्वं समुपागतः ॥ ३६-५३ ॥
अतिशुद्धे कुले जातो गुणवान्वेदपारगः ॥
सर्वसम्पत्समोपेतो हरिभक्तिपरायणः ॥ ३६-५४ ॥
व्याहरन्हरिनामानि प्रपेदे जाह्नवीतटम् ॥
तत्र स्नातश्च गङ्गायां दृष्ट्वा विश्वेश्वरं प्रभुम् ॥ ३६-५५ ॥
अवाप परमं स्थानं योगिनामपि दुर्लभम् ॥
उपलेपनमाहात्म्यं कथितं ते मुनीश्वर ॥ ३६-५६ ॥
तस्मात्सर्वप्रयत्नेन सम्पूज्यो जगताम्पतिः ॥
अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते ॥ ३६-५७ ॥
न तेषां भवबन्धस्तु कदाचिदपि जायते ॥
हरिभक्तिरतान्यस्तु हरिबुद्ध्या समर्चयेत् ॥ ३६-५८ ॥
तस्य तुष्यन्ति विप्रेन्द्र ब्रह्मविष्णुमहेश्वराः ॥
हरिभक्तिपराणां तु सङ्गिनां सङ्गमात्रतः ॥ ३६-५९ ॥
मुच्यते सर्वपापेभ्यो महापातकवानपि ॥
हरिपूजापराणां च हरिनामरतात्मनाम् ॥ ३६-६० ॥
शुश्रूषानिरता यान्ति पापिनोऽपि परां गतिम् ॥ ३६-६१ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुसेवाप्रभावो नाम षट्त्रिंशोऽध्यायः ॥