सनक उवाच ॥
पुनर्वक्ष्यामि माहात्म्यं देवदेवस्य चक्रिणः ॥
पठतां शुण्वतां सद्यः पापराशिः प्रणश्यति ॥ ३५-१ ॥
शान्ता जितारिषड्वर्गा योगेनाप्यनहङ्कृताः ॥
यजन्ति ज्ञानयोगेन ज्ञानरूपिणमव्ययम् ॥ ३५-२ ॥
तीर्थस्नानैर्विशुद्धा ये व्रतदानतपोमखैः ॥
यजन्ति कर्मयोगेन सर्वधातारमच्युतम् ॥ ३५-३ ॥
लुब्धा व्यसनितोऽज्ञाश्च न यजन्ति जगत्पतिम् ॥
अजरामरवन्मूढास्तिष्टन्ति नरकीटकाः ॥ ३५-४ ॥
तडिल्लेखाश्रिया मत्ता वृथाहङ्कारद्विषिताः ॥
न यजन्ति जगन्नाथं सर्वश्रैयोविधायकम् ॥ ३५-५ ॥
हरिधर्मरताः शान्ता हरिपादाब्जसेवकाः ॥
दैवात्केऽपीह जायन्ते लोकानुग्रहतत्पराः ॥ ३५-६ ॥
कर्मणा मनसा वाचा यो यजेद्भक्तितो हरिम् ॥
स याति परमं स्थानं सर्वलोकोत्तमोत्तमम् ॥ ३५-७ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥
पठतां श्रृण्वतां चैव सर्वपापप्रणाशनम् ॥ ३५-८ ॥
तत्प्रवक्ष्यामि चरितं यज्ञमालिसुमालिनोः ॥
यस्य श्रवणमात्रेण वाचिमेध फलं लभेत् ॥ ३५-९ ॥
कश्चिदासीत्पुरा विप्र ब्रह्मणो रैवतेंऽतरे ॥
वेदमालिरिति ख्यातो वेदवेदाङ्गपारगः ॥ ३५-१० ॥
सर्वभूतदयायुक्तो हरिपूजापरायणः ॥
पुत्रमित्रकलत्रार्थं धनार्जनपरोऽभवत् ॥ ३५-११ ॥
अपण्यंविक्रयं चक्रे तथा च रसिविक्रयम् ॥
चण्डालाद्यैरपि तथा सम्भषी तत्प्रतिग्रही ॥ ३५-१२ ॥
तपसां विक्रयं चक्रे व्रतानां विक्रयं तथा ॥
परार्थं तीर्थगमनं कलत्रार्थमकारयत् ॥ ३५-१३ ॥
कालेन गच्छता विप्र जातौ तस्य सुतावुभो ॥
यज्ञमाली सुमाली च यमलावतिशोभनौ ॥ ३५-१४ ॥
ततः पिता कुमारौ तावतिस्नेहसमन्वितः ॥
पोषयामास वात्सल्याद्बहुभिः साधनैस्तदा ॥ ३५-१५ ॥
वेदमालिर्बहूपायैर्धनं सम्पाद्य यत्नतः ॥
स्वधनं गणयामास कियत्स्यादिति वेदितुम् ॥ ३५-१६ ॥
निधिकोटिसहस्त्राणां कोटिकोटिगुणान्वितम् ॥
विगणय्य स्वयं दृष्टो विस्मितश्चार्थचिन्तया ॥ ३५-१७ ॥
असत्प्रतिग्रहैश्चैव अपण्यानां च विक्रयैः ॥
मेया तपो विक्रयाद्यैरेतद्धनमुपार्जितम् ॥ ३५-१८ ॥
नाद्यापि शान्तिमापन्ना मम तृष्णातिदुःसहा ॥
मेरुतुल्यसुवर्णानि ह्यसङ्ख्यातानि वाञ्छति ॥ ३५-१९ ॥
अहो मन्ये महाकष्टं समस्तक्लेशसाधनम् ॥
सर्वान्कामानवाम्प्नोति पुनरन्यञ्च काङ्क्षति ॥ ३५-२० ॥
जीर्यन्ति जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः ॥
चक्षुःश्रोत्रे च जीर्येते तृष्णेका तरुणायते ॥ ३५-२१ ॥
ममेद्रियाणि सर्वाणि मन्दभावं व्रजन्ति च ॥
बलं हतं च जरसा तृष्णा तरुणतां गता ॥ ३५-२२ ॥
कष्टाशा वर्त्तते यस्य स विद्रानथ पण्डितः ॥
सुशान्तोऽपि प्रमन्युः स्याद्धीमानप्यतिमूढधीः ॥ ३५-२३ ॥
आशा भङ्गकरी पुंसामजेयारातिसन्निभा ॥
तस्मादाशां त्यजेत्प्राज्ञो यदीच्छेच्छाश्वतं सुखम् ॥ ३५-२४ ॥
बलं तेजोः यशश्वैव विद्यां मानं च वृद्धताम् ॥
तथैव सत्कुले जन्म आशा हत्यतिवेगतः ॥ ३५-२५ ॥
नृणामाशाभिभूतानामाश्चर्यमिदसुच्यते ॥
किञ्चिद्दातापि चाण्डालस्तस्मादधिकतां गतः ॥ ३५-२६ ॥
आशाभिभूता ये मर्त्या महामोहा महोद्धताः ॥
अवमानादिकं दुःखं न जानन्ति कदाप्यहो ॥ ३५-२७ ॥
मयाप्येवं बहुक्लिशैरेतद्धनमुपार्जितम् ॥
शरीरमपि जीर्णं च जरसापहतं बलम् ॥ ३५-२८ ॥
इतः परं यतिष्यामि परलोकार्थमादरात् ॥
एवं निश्चित्य विप्रेन्द्र धर्ममार्ग रतोऽभवत् ॥ ३५-२९ ॥
तदैव तद्धनं सर्वं चतुर्द्धा व्यभजत्तथा ॥
स्वयं तु भाग द्वितय स्वार्जितार्थादपाहरत् ॥ ३५-३० ॥
शेषं च भागद्वितयं पुत्रयोरुभयोर्ददौ ॥
स्वेनार्जितानां पापानां नाशं कर्तुमनास्तदा ॥ ३५-३१ ॥
प्रपातडागारामांश्च तथा देवगृहान्बहून् ॥
अन्नादीनां च दानानि गङ्गातीरे चकार सः ॥ ३५-३२ ॥
एवं धनमशेषं च विश्राण्य हरिभक्तिमान् ॥
नारनारायण स्थानं जगाम तपसे वनम् ॥ ३५-३३ ॥
तत्रापश्यन्महारम्यमाश्रमं मुनिसेवितम् ॥
फलितैः पुष्पितैश्चैव शोभितं वृक्षसञ्चयैः ॥ ३५-३४ ॥
गृणद्भिः परमं ब्रह्म शास्त्रचिन्तापरैस्तथा ॥
परिचर्यापरैर्वृद्धैर्मुनिभिः परिशोभितम् ॥ ३५-३५ ॥
शिष्यैः परिवृतं तत्र मुनिं जानन्ति सञ्ज्ञकम् ॥
गृणन्तं परमं ब्रह्म तेजोराशिं ददर्श ह ॥ ३५-३६ ॥
शमादिगुणसंयुक्तं रागादिरहितं मुनिम् ॥
शीर्णपर्णाशनं दृष्ट्वा वेदमालिर्ननाम तम् ॥ ३५-३७ ॥
तस्य जानन्तिरागन्तोः कल्पयामास चार्हणम् ॥
कन्दमूलफलाद्यैस्तु नारायणधिया मुने ॥ ३५-३८ ॥
कृतातिथ्यक्रियस्तेन वेदमाली कृताञ्जलिः ॥
विनयावनतो भूत्वा प्रोवाच वदतां वरम् ॥ ३५-३९ ॥
भगवन्कृतकृत्योऽस्मि विगतं कल्मषं मम ॥
मामुद्धर महाभाग ज्ञानदानेन पण्डित ॥ ३५-४० ॥
एवमुक्तस्ततस्तेन जानन्तिर्मुनिसत्तमः ॥
प्रोवाच प्रहसन्वाग्मी वेदमालिं गुणान्वितम् ॥ ३५-४१ ॥
जानन्तिरुवाच ॥
श्रृणष्व विप्रशार्दूल संसारच्छेदकारणम् ॥
प्रवक्ष्यामि समासेन दुर्लभं त्वकृतात्मनाम् ॥ ३५-४२ ॥
भज विष्णुं परं नित्यं स्मर नारायणं प्रभुम् ॥
परापवादं पैशुन्यं कदाचिदपि मा कृथाः ॥ ३५-४३ ॥
परोपकारनिरतः स दा भव महामते ॥
हरिपूजापरश्चैव त्यज मूर्खसमागमम् ॥ ३५-४४ ॥
कामं क्रोधं च लोभं च मोहं च मदमत्सरौ ॥
परित्यज्यात्मवल्लोकं दृष्ट्वा शान्तिं गमिष्यसि ॥ ३५-४५ ॥
असूयां परनिन्दां च कदाचिदपि मा कुरु ॥
द्रम्भाचारमहङ्कारं नैष्ठुर्यं च परित्यज ॥ ३५-४६ ॥
दयां कुरुष्व भुतेषु शुश्रूषां च तथा सताम् ॥
त्वया कृतांश्च धर्मान्वै मा प्रकाशय पुच्छताम् ॥ ३५-४७ ॥
अनाचारपरान्दृष्ट्वा नोपेक्षां कुरु शक्तितः ॥
पूजयस्वातियिं नित्यं स्वकुटुम्बाविरोधतः ॥ ३५-४८ ॥
पत्रैः पुष्पैः फलैर्वापि दूर्वाभिः पल्लवैरथ ॥
पूजयस्व जगन्नाथं नारायणमकां मतः ॥ ३५-४९ ॥
देवानृपीन्पितॄश्चापि तर्पयस्व यथाविधि ॥
अग्रेश्च विधिवद्वप्र परिचर्यापरो भव ॥ ३५-५० ॥
देवतायतने नित्यं सम्मार्जनपरो भव ॥
तथोपलेपनं चैव कुरुष्व सुसमाहितः ॥ ३५-५१ ॥
शीर्णस्फटितसन्धानं कुरु देवगृहे सदा ॥
मार्गशोभां च दीपं च विष्णोरायतने कुरु ॥ ३५-५२ ॥
कन्दमूलफलैर्वापि सदा पूजय माधवम् ॥
प्रदक्षिणनमस्कारैः स्तोत्राणां पठनैस्तथा ॥ ३५-५३ ॥
पुराणश्रवणं चैव पुराणपठनं तथा ॥
वेदान्तपठनं चैव प्रत्यहं कुरु शक्तितः ॥ ३५-५४ ॥
एवं स्थिति तव ज्ञानं भघविष्यत्युत्तमोत्तमम् ॥
ज्ञानात्समस्तपापानां मोक्षो भवति निश्चितम् ॥ ३५-५५ ॥
एवं प्रबोधितस्तेन वेदमालिर्महामतिः ॥
तथा ज्ञानरतो नित्यं ज्ञानलेशमवाप्तवान् ॥ ३५-५६ ॥
वेदमालिः कदाचित्तु ज्ञानलेशप्रचोदितः ॥
कोऽहं मम क्रिया केति स्वयमेव व्यक्तिन्तयत् ॥ ३५-५७ ॥
मम जन्म कथं जातं रूपं कीदृग्विधं मम ॥
एवं विचारणपरोः दिवानिशमतन्द्रितः ॥ ३५-५८ ॥
अनिश्चितमतिर्भूत्वा वेदमालिर्द्धिजोत्तमः ॥
पुनर्जानन्तिमागम्य प्रणम्येदमुवाच ह ॥ ३५-५९ ॥
वेदमालिरूवाच ॥
मम चित्तमतिभ्रातं गुरो ब्रह्मविदां वर ॥
कोऽहं मम क्रिया का च मम जन्म कथं वद ॥ ३५-६० ॥
जानन्तिरुवाच ॥
सत्यं सत्यं महाभागं चित्तं भ्रातं सुनिश्चितम् ॥
अविद्यानिलर्य चित्तं कथं सद्भावमेष्यति ॥ ३५-६१ ॥
ममेति गदितं यत्तु तदपि भ्रान्तिरिष्यते ॥
अहङ्कारो मनोधर्म आत्मनो नहि पण्डित ॥ ३५-६२ ॥
पुनश्च कोऽहमित्युक्तं वेदमाले त्वया तु यत् ॥
मम जात्यादि शून्यस्य कथं नाम करोम्यहम् ॥ ३५-६३ ॥
अनौपम्यस्वभावस्य निर्गुणस्य परात्मनः ॥
नीरूपस्याप्रमेयस्य कथं नाम करोम्यहम् ॥ ३५-६४ ॥
परज्योतिः स्वरूपस्य परिपूर्णाव्ययात्मनः ॥
अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया ॥ ३५-६५ ॥
स्वप्रकाशात्मनो विप्र नित्यस्य परमात्मनः ॥
अनन्तस्य क्रिया चैव कथं जन्म च कथ्यते ॥ ३५-६६ ॥
ज्ञानैकवेद्यमजरं परं ब्रह्म सनातनम् ॥
परिपूर्णं परानन्दं तस्मान्नान्यदिह द्विज ॥ ३५-६७ ॥
तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनम् ॥
ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत् ॥ ३५-६८ ॥
एवं प्रबोधितस्तेन वेदमालिर्मुनीश्वर ॥
मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम् ॥ ३५-६९ ॥
उपाधिरहितं ब्रह्म स्वप्रकाशं निरञ्जनम् ॥
अहमेवेति निश्चित्य परां शान्तिमवाप्तवान् ॥ ३५-७० ॥
ततश्च व्यवहारार्थं वेदमालिर्मुनीश्वरम् ॥
गुरुं प्रणम्य जानन्ति सदा ध्यानपरोऽभवत् ॥ ३५-७१ ॥
गते बहुतिथे काले वेदमालिर्मुनीश्व ॥
वाराणसीपुरं प्राप्य परं मोक्षमवाप्तवान् ॥ ३५-७२ ॥
य इमं पठतेऽध्यायं श्रृणुयाद्वा समाहितः ॥
स कर्मपाशविच्छेदं प्राप्य सौख्यमवान्पुयात् ॥ ३५-७३ ॥
इति श्रीबृहन्नारादीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपण नाम पञ्चत्रिंशोऽध्यायः ॥