नारद उवाच ॥
समाख्यातानि सर्वाणि योगाङ्गानि महामुने ॥
इदानीमपि सर्वज्ञ यत्पृच्छामि तदुच्यताम् ॥ ३४-१ ॥
योगोभक्तिमतामेव सिध्यतीति त्वयोदितम् ॥
यस्य तुष्यति सर्वेशस्तस्य भक्तिश्च शाश्वतम् ॥ ३४-२ ॥
यथा तुष्यति सर्वेशो देवदेवो जनार्दनः ॥
तन्ममाख्याहि सर्वज्ञ मुने कारुण्यवारिधे ॥ ३४-३ ॥
सनक उवाच ॥
नारायणं परं देवं सच्चिदानन्दविग्रहम् ॥
भज सर्वात्मना विप्र यदि मुक्तिमभीप्ससि ॥ ३४-४ ॥
रिपवस्तं न हिंसन्ति न बाधन्ते ग्रहाश्चतम् ॥
राक्षसाश्च न चेक्षन्ते नरं विष्णुपरायणम् ॥ ३४-५ ॥
भक्तर्दृढा भवेद्यस्य देवदेवे जनार्दने ॥
श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तोऽधिकास्ततः ॥ ३४-६ ॥
पादौ तौ सफलौ पुंसां यौ विष्णुगृहगामिनौ ॥
तौ करौ सफलौ ज्ञेयौ विष्णुपूजापरौ तु यौ ॥ ३४-७ ॥
ते नेत्रे सुफले पुंसां पश्यतो ये दनार्दनम् ॥
सा जिह्वा प्रोच्यते सद्भिर्हरिनामपरा तु या ॥ ३४-८ ॥
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुत्यते ॥
तत्त्वं गुरुसमं नारित नत देवः केशवात्परः ॥ ३४-९ ॥
सत्यं वच्मिहितं वाच्मि सारं वच्मि पुनः पुनः ॥
असारेऽस्मिंस्त संसारे सत्यं हरिसमर्चनम् ॥ ३४-१० ॥
संसारपाशं सुदृढं महामोहप्रदायकम् ॥
हरिभक्तिकुटारेण च्छित्त्वात्यन्तसुखी भव ॥ ३४-११ ॥
तन्मनः संयुतं विष्णौ सा वाणी यत्परायणा ॥
ते श्रोत्रे तत्कथासारपूरिते लोकवन्दिते ॥ ३४-१२ ॥
आनन्दमक्षरं शून्यमवस्थात्रितयैरपि ॥
आकाशमध्यगं देवं भज नारद सन्ततम् ॥ ३४-१३ ॥
स्थानं न शक्यते यस्य स्वरुपं वा कदाचन ॥
निर्देष्टुं मुनिशार्दूल द्रष्टुं वाप्यकृतात्मभिः ॥ ३४-१४ ॥
समस्तैः करणैर्युक्तो वर्त्तेऽसौ यदा तदा ॥
जाग्रदित्युच्यते सद्भिरन्तर्यामी सनातनः ॥ ३४-१५ ॥
यदान्तः करणैंर्युक्तः स्वेच्छया विचरत्यसौ ॥
स्वपन्निच्युच्यते ह्यात्मा यदा स्वापविवर्जितः ॥ ३४-१६ ॥
न बाह्यकरणैर्युक्तो न चान्तः करणैस्तथा ॥
अस्वरुपो यदात्मासौ पुण्यापुण्यविवर्जितः ॥ ३४-१७ ॥
सर्वोपाधिविनिर्मुक्तो ह्यानन्दो निर्गुणो विभुः ॥
परब्रह्ममयो देवः सुषुप्त इति गीयते ॥ ३४-१८ ॥
भावनामयमेतद्वै जगत्स्थावरजङ्गमम् ॥
विद्युद्विलोलं विप्रेन्द्र भज तस्माज्जनार्दनम् ॥ ३४-१९ ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥
वर्तते यस्य तस्यैव तुष्यते जगतां पतिः ॥ ३४-२० ॥
सर्वभूतदयायुक्तो विप्रपूजापरायणः ॥
तस्य तुष्टो जगन्नाथो मधुकैटभमर्द्दनः ॥ ३४-२१ ॥
सत्कथायां च रमते सत्कथां च करोति यः ॥
सत्सङ्गो निरहङ्कारस्तस्य प्रीतो रमापतिः ॥ ३४-२२ ॥
नामसङ्कीर्त्तनं विष्णो क्षुत्तृट्प्रस्खलितादिषु ॥
करोति सततं यस्तु तस्य प्रीतो ह्यधोक्षजः ॥ ३४-२३ ॥
यातु नारीपतिप्राणा पतिपूजापरायणा॥
तस्यास्तुष्टो जगन्नाथो ददाति स्वपदं मुने ॥ ३४-२४ ॥
असूयारहिता ये तु ह्यहङ्कारविवर्जिताः ॥
देवपूजापराश्चैव तेषां तुष्यति केशवः ॥ ३४-२५ ॥
तस्माच्छृणुष्व देवर्शे भजस्वं सततं हरिम् ॥
मा कुरुष्व ह्यहङ्कारं विद्युल्लोलश्रिया वृथा ॥ ३४-२६ ॥
शरीरं मृत्युसंयुक्तं जीवितं चाति चञ्चलम् ॥
राजादिभिर्धनं बाध्यं सम्पदः क्षणभङ्गुराः ॥ ३४-२७ ॥
किं न पश्यसि देवर्षे ह्यायुषार्द्धं तु निद्रया ॥
हतं च भोजनाद्यैश्च कियदायुः समाहृतम् ॥ ३४-२८ ॥
कियदायुर्बालभावात्कियद्वृथा ॥
कियद्विषयभोगैश्च कदा धर्मान्करिष्यति ॥ ३४-२९ ॥
बालभावे च वार्द्धक्येन घटेताच्युतार्चनम् ॥
वयस्येव ततो धर्मान्कुरु त्वमनहङ्कृतः ॥ ३४-३० ॥
मा विनाशं व्रज मुने मग्नः संसारगह्वरे ॥
वरुर्विनाशनिलयमापदां परमं पदम् ॥ ३४-३१ ॥
शरीरं भोगनिलयं मलाद्यैः परिदूषितम् ॥
किमर्थं शाश्वतधिया कुर्यात्पापं नरो वृथा ॥ ३४-३२ ॥
आसारभूते संसारे नानादुःखसमन्विते ॥
विश्वासो नात्र कर्त्तव्यो निश्चितं मृत्युसङ्कुले ॥ ३४-३३ ॥
तस्माच्छृणुष्व विप्रेन्द्र सत्यमेतद्व्रवीम्यहम् ॥
देहयोगनिवृत्त्यर्थं सद्य एव जनार्दनम् ॥ ३४-३४ ॥
मानं त्यक्त्वा तथा लोभं कामक्रोधविवर्जितः ॥
भजस्व सततं विष्णुं मानुष्यमतिदुर्लभम् ॥ ३४-३५ ॥
कोटिजन्मसहस्त्रेषु स्थावरादिषु सत्तम ॥
सम्भ्रान्तस्य तु मानुष्यं कथञ्चित्परिलभ्यते ॥ ३४-३६ ॥
तत्रापि देवताबुद्धिर्दानबुद्धिश्च सत्तम ॥
भोगबुद्धिस्तथा नॄणां जन्मान्तरतपः फलम् ॥ ३४-३७ ॥
मानुष्यं दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत् ॥
मूर्खः कोऽस्ति परस्तस्माज्जडबुद्धिरचेतनः ॥ ३४-३८ ॥
दुर्लभं प्राप्य मानुष्यं नार्चयन्ति च ये हरिम् ॥
तेषामतीव मूर्खाणां विवेकः कुत्र तिष्ठति ॥ ३४-३९ ॥
आराधितो जगन्नाथो ददात्यभिमतं फलम् ॥
कस्तं न पूजयेद्विप्रसंसाराप्रिप्रदीपितः ॥ ३४-४० ॥
चण्डालोऽपि मुनिश्रेष्ट विष्णुभक्तो द्विजाधिकः ॥
विष्णुभक्तिविहीनश्च द्विजोऽपि श्वपचाधमः ॥ ३४-४१ ॥
तस्मात्कामादिकं त्यक्त्वा भजेत हरिमव्ययम् ॥
यस्मिंस्तुष्टेऽखिलं तुष्येद्यतः सर्वगतो हरिः ॥ ३४-४२ ॥
यथा हस्तिपदे सर्वं पदमात्रं प्रलीयते ॥
तथा चराचरं विश्वं विष्णाविव प्रलीयते ॥ ३४-४३ ॥
आकाशेन यथा व्याप्तं जगत्स्थावरजङ्गमम् ॥
तथैव हरिणा व्याप्तं विश्वमेतच्चराचरम् ॥ ३४-४४ ॥
जन्मनो मरणं नॄणां जन्म वै मृत्युसाधनम् ॥
उभे ते निकटे विद्धि तन्नाशो हरिसेवया ॥ ३४-४५ ॥
ध्यातः स्मृतः पूजितो वा प्रणतो वा जनार्दनः ॥
संसारपाशविच्छेदीकस्तं न प्रतिपूजयेत् ॥ ३४-४६ ॥
यन्नामोच्चांरणादेव महापातकनाशनम् ॥
यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः ॥ ३४-४७ ॥
अहो चित्रमहो चित्रमहो चित्रमिदं द्विज ॥
हरिनाम्नि स्थिते लोकः संसारे परिवर्त्तते ॥ ३४-४८ ॥
भूयोभूयोऽपि वक्ष्यामि सत्यमेतत्तपोधन ॥
नीयमानो यमभटैरशक्तो धर्मसाधनैः ॥ ३४-४९ ॥
यावन्नेन्द्रियवैकल्यं यावद्व्याधिर्न बाधते ॥
तावदेवार्चयेद्विष्णुं यदि मुक्तिमभीप्सति ॥ ३४-५० ॥