सनक उवाच ॥
एवं कर्मपाशनियन्त्रितजन्ततवः स्वर्गादिपुण्यस्थानेषु पुण्यभोगमनुभूय यातीव दुःखतरं पापफलमनुभूय प्रक्षीणकर्मा वशेषेणामुं लोकमागत्य सर्वभयविह्वलेषु मृत्युबाधासंयुतेषुस्थावरादिषु जायते ॥
वृक्षगुल्मलतावल्लीगिरयश्च तृणानि च ॥
स्थावरा इति विख्याता महामोहसमावृताः ॥ ३२-१ ॥
स्थावरत्वे पृथिव्यामुत्पबीजानि जलसेकानुपदं सुसंस्कारसामग्रीवशादन्तरुष्मप्रपाचितान्युच्छूनत्वमापद्य ततो मूलभावं तन्मूलादङ्कुरोत्पत्तिस्तस्मादपि पर्णकाण्डनालादिकं काण्डेषु च प्रसवमापद्यन्ते तेषु च पुष्पसम्भवः ॥ ३२-२ ॥
तानि पुष्पाणि कानिचिदफलानि कानिचित्फलहेतुभूतानि तेषु पुष्पेषु वृद्धभावेषु सत्सु तत्पुष्पमूलतस्तुषोत्पत्तिर्जायते तेषु तुषु भोक्तॄणां प्राणिनां संस्कारसामग्रीवशाद्धिमरश्मिकिरणासन्नतया तदोषधिरसस्तुषान्तः प्रविश्य क्षीरभावं समेत्य स्वकाले तण्डुलाकारतामुपगम्य प्राणिनां भोगसंस्कारवशात्संवत्सरे फलिनः स्युः ॥ ३२-३ ॥
स्थावरत्वेऽपि बहुकालं वानरादिभिर्भुज्यमाना हि च्छेदनदवाग्निदहनशीतातपादिदुःखमनुभूय म्रियते ॥
ततश्च क्रिमयो भूत्वा सदादुःखबहुलाः क्षणार्ध्दं जीवन्तः क्षणार्ध्दं म्रियमाणा बलवत्प्राणिपीडायां निवारयितुमक्षमाः शीतवातादिक्लेशभूयिष्ठा नित्यं क्षुधाक्षुधिता मलमूत्रादिषु सचरन्तो दुःखमनुभवन्ति ॥ ३२-४ ॥
तत एव पद्मयोनिमागत्य बलवद्वाधोद्वेजिता वृथोद्वेगभूयिष्ठाः क्षुत्क्षान्ता नित्यं वनचारिणो मातृष्वपि विषयातुरा वातादिक्लेषबहुलाः कश्मिंश्चिज्जन्मनि तृणाशनाः कस्मिंश्चिज्जन्मनि मांसामेध्याद्यदनाः कस्मिंश्चिज्जन्मनि कन्दमूलफलाशना दुर्बलप्राणिपीडानिरता दुःखमनुभवन्ति ॥ ३२-५ ॥
अण्डजत्वेऽपि वाताशनामांसामेध्याद्यशनाश्च परपीडापरायणा नित्यं दुःखबहुला ग्राम्यपशुयोनिमागता अपि स्वजातिवियोगभारोद्वहनपाशादिबन्धनताडनहलादिधारणादिसर्वदुःखान्यनुभवन्ति ॥ ३२-६ ॥
एवं बहुयोनिषु सम्भ्रान्ताः क्रमेण मानुषं जन्म प्राप्नुवन्ति ॥
केचिच्च पुण्यविशेषाद्युत्क्रमेणापि मनुष्यजन्माश्नुवते ॥ ३२-७ ॥
मनुष्यजन्म नापि च
चर्मकारचण्डालव्याधानापितरजककुम्भकारलोहकारस्वर्णकारतन्तुवाचसौचिकजटिलसिद्धधावकलेखकभृतकशासनहारिनीचभृत्यद्ररिदहीनाङ्गाधिकाङ्गत्वादि दुःखबहुलज्वरतापशीतश्लेष्मगुल्मपादाक्षिशिरोगर्भपार्श्ववेदनादिदुःखमनुभवन्ति ॥ ३२-८ ॥
मनुष्यत्वेऽपि यदा स्त्रीपुरुषयोर्व्यवायस्तत्समयेरेतो यदा जरायुं प्रविशति तदैव कर्मवशाज्जन्तुः शुक्रेण सह जरायुं प्रविश्य शुक्रशोणितकलले प्रवर्त्तते ॥ ३२-९ ॥
तद्वीर्यं जीवप्रवेशात्पञ्चाहात्कललं भवति अर्द्धमासे ॥
पलवलभावमुपेत्य मासे प्रादेशमात्रत्वमापद्यते ॥ ३२-१० ॥
ततः प्रभृति वायुवशाच्चैतन्याभावेऽपि मातुरुह्ये दुःसहतापल्केशतयैकत्र स्थातुमशक्यत्वाद् भ्रमति ॥ ३२-११ ॥
मासे द्वितीये पूर्णे पुरुषाकारमात्रतामुपगमय मासत्रितये पूर्णे करचरणाद्यवयवभावमुपगम्य चतुर्षु मासेषु गतेषु सर्वावयवानां सन्धिभेदपरिज्ञानं पञ्चस्वतीतेषु नखानामभिव्यञ्जककता षट्स्वतीतेषु नखसन्धिपरिस्फुटतामुपगम्य नाभिसूत्रेण पुष्यमाणममेध्यमूत्रसिक्ताङ्गं जरायुणा बन्धितरक्तास्थिक्रिमिवसामज्जास्नायुकेशादिदूषिते कुत्सिते शरीरे निवासिनं स्वयमप्येवं परिदूषितदेहं मातुश्च कट्वम्ललवणात्युष्णभुक्तदह्यमात्मानं दृष्ट्वा देही पूर्वजन्मस्मरणानुभावात्पूर्वानुभूतनरकदुःथानि च स्मृत्वान्तर्दुःखेन च परिदह्यमानो मातुर्देहातिमूत्रादिरुक्षेण दह्यमान एवं मनसि प्रलयति ॥ ३२-१२ ॥
अहोऽत्यन्तपापोऽहम्पूर्वजन्मनिभृत्यापत्यमित्रयोषिद्गृहक्षेत्रधनधान्यादिष्वत्यन्तरागेण कलत्रपोषणार्थं परधनक्षेत्रादिकं पश्यतो हरणाद्युपायैरपह्यत्य कामान्धतया परस्त्रीहरणादिकमनुभूय महापापान्याचरंस्तैः पापैरहमेक एवंविधनरकाननुभूय पुनः स्थावरादिषु महादुःखमनुभूय सम्प्रति जरायुणा परिवेष्टितोऽन्तर्दुखेन बहिस्तापेन च दह्यामि ॥ ३२-१३ ॥
मया पोषिता दाराश्च स्वकर्मवशादन्यतो गताः ॥ ३२-१४ ॥
अहो दुखं हि देहिनाम् ॥ ३२-१५ ॥
देहस्तु पापात्सञ्जातस्तस्मात्पापं न कारयेत् ॥
भृत्यभित्रकलत्रार्थमन्यद्द्रव्यं हृतं मया ॥ ३२-१६ ॥
तेन पापेन दह्यामि जरायुपरिवेष्टितः ॥
दृष्ट्वान्यस्य श्रियं पूर्वं सतत्पोऽहमसूयया खितः ॥ ३२-१७ ॥
गर्भाग्निनानुदह्येयमिदानीमपि पापकृत् ॥
कायेन मनसा वाचा परपीडामकारिषन्तेन पापेन दह्यामि त्वहमेकोऽतिदुःखितः ॥ ३२-१८ ॥
एवं बहुविधं गर्भस्थो जन्तुर्विलप्य स्वयमेव वा ॥ ३२-१९ ॥
आत्मानमाश्वास्य उत्पत्तेरनन्तरं सत्सङ्गेन विष्णोश्चरितश्रवणेन च विशुद्धमना भूत्वा सत्कर्माणि निर्वर्त्य अखिलजगदन्तरात्मनः सत्यज्ञानानन्दमयस्य शक्तिप्रभावानुष्टितविष्टपवर्गस्य लक्ष्मीपतेर्नारायणस्य सकलसुरासुरयक्षगन्धर्वराक्षसपन्न गमुनिकिन्नरसमूहार्चितचरणकमलयुगं भक्तितः समभ्यर्च्य दुःसहः संसारच्छेदस्यकारणभूतं वेदरहस्योपनिषद्भिः परिस्फुटं सकललोकपरायणं हृदिनिधाय दुःखतरमिमं संस्कारागारमतिक्रमिष्यामीति मनसि भावयति ॥ ३२-२० ॥
यतस्तन्मातुः प्रसूतिसमये सति गर्भस्थोदेही नारदमुने वायुनापरिपीडितो मातुश्चापि दुःखं कुर्वन्कर्मपाशेन बलाद्योनिमार्गान्निष्क्रामन्सकलयातनाभोगमेककालभवमनुभवति ॥ ३२-२१ ॥
तेनातिक्लेशेन योनियन्त्रपीडितो गर्भान्निष्कान्तो निःसञ्ज्ञतां याति ॥ ३२-२२ ॥
तं तु बाह्यवायुः समुज्जीवयति ॥
बाह्यवायुस्पर्शसमनन्तरमेव नष्टस्मृतिपूर्वानुभूताखिलदुःखानि वर्त्तमानान्यपि ज्ञानाभावदविज्ञायात्यन्तदुःखमनुभवति ॥ ३२-२३ ॥
एवं बालत्वमापन्नो जन्तुस्तत्रापि स्वमलमूत्रलित्पदेह आध्यात्मिकादिपीड्यमानोऽपि वक्तुमशक्तक्षुत्तृषापीडितो रुदिते सति स्तनादिकं देयमिति मन्वानाः प्रयतन्ते ॥ ३२-२४ ॥
एवमनेकं देहभोगमन्याधीनतयानुभूयमानो दंशादिष्वपि निवारयितुमशक्तः ॥ ३२-२५ ॥
बाल्यभावमासाद्य मातापित्रोरुपाध्यायस्य ताडनं सदा पर्यटनशीलत्वं पांशुभस्मपङ्कादिषुक्रीडनं सदा कलहनियतत्वाम शुचित्वं बहुव्यापाराभासकार्यनियतत्वं तदसम्भव आध्यात्मिकदुःखमेवंविधमनुभवति ॥ ३२-२६ ॥
ततस्तु तरुणभावेन धनार्जनमर्जितस्य रक्षणं तस्य नाशव्ययादिषु चात्यन्तदुःखिता मायया मोहिताः कामक्रोधादिदुष्टमनसाः सदासूयापरायणाः परस्वपरस्त्रीहरणोपायपरायणाः पुत्रमित्रकलत्रादिभरणोपायचिन्तापरायणा वृथाहङ्कारदूषिताः पुत्रादिषु व्याध्यादि पीडितेषु सत्सु सर्वव्यात्पिं परित्यज्य रोगादिभिः क्लेशितानां समीपे स्वयमाध्यात्मिकदुःखेन परिप्लुता
वक्ष्यमाणप्रकारेण चितामश्नुवते ॥ ३२-२७ ॥
गृहक्षेत्रादिकं कम किञ्चिन्नापि विचारितम् ॥
समृद्धस्य कुटुम्बस्य कथं भवति वर्त्तनम् ॥ ३२-२८ ॥
मम मूलधनं नास्ति वृष्टिश्चापि न वर्षति ॥
अश्वः पलायितः कुत्र गावः किं नागता मम ॥ ३२-२९ ॥
बालापत्या च मे भार्या व्याधितोऽहं च निर्धनः ॥
अविचारात्कृषिर्नष्टा पुत्रा नित्यं रुदन्ति च ॥ ३२-३० ॥
भग्नं छिन्नं तु मे सद्म बान्धवा अपि दूरगाः ॥
न लभ्यते वर्त्तनं च राज बाधातिदुःसहा ॥ ३२-३१ ॥
रिपवो मां प्रधावन्ते कथं जेष्टाम्यहं रिपून् ॥
व्यवसायाक्षमश्चाहं प्रात्पाः प्राघूर्णका अमी ॥ ३२-३२ ॥
एवमत्यन्तचिन्ताकुलः स्वदुःखानि निवारयितुमक्षमो धिग्विधिं भाग्यहीनं मां किमर्थं विदधे इति दैवमाक्षिपति ॥ ३२-३३ ॥
तथा वृद्धत्वमापन्नो हीयमानसारो जरापलितादिव्यात्पदेहो व्याधिबाध्यत्वादिकमापन्नः ॥
प्रकम्पमानावयवश्वासकासादिपीडितो लोलाविललोचनः श्लेष्मण्यात्पकण्ठः पुत्रदारादिभिर्भर्त्स्यमानः कदा मरणमुपयामीति चिन्ताकुलो मयि मृते सति मदर्जितं गृहक्षेत्रादिकं वस्तु पुत्रादयः कथं रक्षन्ति कस्य वा भविष्यति ॥ ३२-३४ ॥
मद्धने परैरपहृते पुत्रादीनां कथं वर्त्तनं भविष्यतीति ममतादुःखपरिप्लुतो गाढं निःश्वस्य स्वेन वयसा कृतानि कर्माणि पुनः पुनः स्मरन् क्षणे विस्मरति च सन्ततस्त्वासन्नमरणो ॥ ३२-३५ ॥
व्याधिपीडितोऽन्तस्तापार्तः क्षणं शय्यायां क्षणं मञ्चे च ततस्ततः पर्यटन् क्षुत्तृटूपरिपूडितः किञ्चिन्मात्रमुदकं देहीत्यतिकार्पण्येन याचमानस्तत्रापि ज्वराविष्टानामुदकं न श्रेयस्करमिति ब्रुवतो मनसातिद्वेषं कुर्वन्मन्द चैतन्यो भवति ॥ ३२-३६ ॥
ततश्च हस्तपादाकर्षणे न तु क्षमो रुद्रद्भिबन्धुजनैर्वेष्टितो वक्तुमक्षमः स्वार्जितधनादिकं कस्य भविष्यतीति चिन्तापरो बाष्पाविलविलोचनः कण्ठे वुरघुरायमाणे सति शरीरान्निष्क्रान्तप्राणो यमदूतैर्भर्त्स्यमानः पाशयन्त्रितो नरकादीन्पूर्ववदश्नुते ॥ ३२-३७ ॥
आमलप्रक्षयाद्यद्वदग्नौ धाम्यन्ति धातवः ॥
तथैव जीविनः सर्व आकर्मप्रक्षयाद् भृशम् ॥ ३२-३८ ॥
तस्मात्संसारदावाग्नितापार्तो द्विजसत्तम ॥
अभ्यसेत्परमं ज्ञानं ज्ञानान्मोक्षमवान्पुयात् ॥ ३२-३९ ॥
ज्ञानशून्या नरा ये तु पशवः परिकीर्तिताः ॥
तस्मात्संसारमोक्षाय परं ज्ञानं समभ्यसेत् ॥ ३२-४० ॥
मानुष्यं चैव सम्प्राप्य सर्वकर्मप्रसाधकम् ॥
हरिं न सेवते यस्तु कोऽन्यस्तस्मादचेतनः ॥ ३२-४१ ॥
अहो चित्रमहो चित्रमहो चित्रं मुनीश्वराः ॥
आस्थिते कामदे विष्णो नरा यान्ति हि यातनाम् ॥ ३२-४२ ॥
नारायणे जगन्नाथे सर्वकामफलप्रदे ॥
स्थितेऽपि ज्ञानरहिताः पच्यन्ते नरकेष्वहो ॥ ३२-४३ ॥
स्त्रवन्मूत्रपुरीषे तु शरीरेऽस्मिन्नृशाश्वते ॥
शाश्वतं भावयन्त्यज्ञा महामोहसमावृताः ॥ ३२-४४ ॥
कुत्सितं मांसरक्ताद्यैर्देहं सम्प्राप्य यो नरः ॥
संसारच्छेदकं विष्णुं न भजेत्सोऽतिपातकी ॥ ३२-४५ ॥
अहो कष्टमहो कष्टमहो कष्टं हि मूर्खता ॥
हरिध्यानपरो विप्र चण्डालोऽपि महासुखी ॥ ३२-४६ ॥
स्वदेहान्निस्सृतं दृष्ट्वा मलमूत्रादिकिल्बिषम् ॥
उद्वेग मानवा मूर्खाः किं न यान्ति हि पापिनः ॥ ३२-४७ ॥
दुर्लभं मानुषं जन्म प्रार्थ्यते त्रिदशैरपि ॥
तल्लब्ध्वा परलोकार्थं यत्नं कुर्य्याद्विचक्षणः ॥ ३२-४८ ॥
अध्यात्मज्ञानसम्पन्ना हरिपूजापरायणाः ॥
लभन्ते परमं स्थानं पुनरावृत्तिदुर्लभम् ॥ ३२-४९ ॥
यतो जातमिदं विश्वं यतश्चैतन्यमश्नुते ॥
यस्मिंश्च विलयं याति स संसारस्य मोचकः ॥ ३२-५० ॥
निर्गुणोऽपि परोऽनन्तो गुणवानिव भाति यः ॥
तं समभ्यर्च्य देवेशं संसारात्परिमुच्यते ॥ ३२-५१ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भवाटवीनिरुपणं नाम द्वात्रिंशोऽध्यायः ॥