०३०

सनक उवाच ॥
प्रायश्चित्तविधिं वक्ष्ये श्रृणु नारद साम्प्रतम् ॥
प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत् ॥ ३०-१ ॥

प्रायश्चित्तविहीनैस्तु यत्कर्म क्रियते मुने ॥
तत्सर्वं निष्फलं प्रोक्तं राक्षसैः परिसेवितम् ॥ ३०-२ ॥

कामक्रोधविहीनैश्च धर्मशास्त्रविशारदैः ॥
प्रष्टव्या ब्राह्मणा धर्मं सर्वधर्मफलेच्छुभिः ॥ ३०-३ ॥

प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखैः ॥
न निष्पुनन्ति विप्रेन्द्र सुराभाण्डमिवापगाः ॥ ३०-४ ॥

ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ॥
महापातकिननस्त्वेते तत्संसर्गी च पञ्चमः ॥ ३०-५ ॥

यस्तु संवत्सरं ह्यतैः शयनासनभोजनैः ॥
संवसेत्सह तं विद्यात्पतितं सर्वकर्मसु ॥ ३०-६ ॥

अज्ञानाद्वाह्मणं हत्वा चीरवासा जटी भवेत् ॥
स्वेनैव हतविप्रस्य कपालमपि धारयेत् ॥ ३०-७ ॥

तदभावे मुनिश्रष्ट कपालं वान्यमेव वा ॥
तद्द्रव्यं ध्वजदण्डे तु धृत्वा वनचरो भवेत् ॥ ३०-८ ॥

वन्याहारो वसेतत्र वारमेकं मिताशनः ॥
सम्यक्सन्ध्यामुपासीत त्रिकालं स्नानमाचरेत् ॥ ३०-९ ॥

अध्ययनाध्यापनादून्वर्जयेत्संस्मरेद्धरिम् ॥
ब्रह्मचारी भवेन्नित्यं गन्धमाल्यादि वर्जयेत् ॥ ३०-१० ॥

तीर्थान्यनुवसेच्चैव पुण्याश्चावाश्रमांस्तथा ॥
यदि वन्यैर्न जीवेत ग्रामे भिक्षां समाचरेत् ॥ ३०-११ ॥

द्वादशाब्दं व्रतं कुर्यादेवं हरिपरायणः ॥
ब्रह्महा शुद्धिमाप्नोति कर्मार्हश्चैव जायते ॥ ३०-१२ ॥

व्रतमध्ये मृगैर्वापि रोगैर्वापि निषूदितः ॥
गोनिमित्तं द्विजार्थं वा प्राणान्वापि परित्यजेत् ॥ ३०-१३ ॥

यद्वा दद्याद्द्विजेन्द्राणां गवामयुतमुत्तसम् ॥
एतेष्वन्यतमं कृत्वा ब्रह्महा शुद्धिमान्पुयात् ॥ ३०-१४ ॥

दीक्षितं क्षत्रियं हत्वा चरेद्धि ब्रह्महव्रतम् ॥
अग्निप्रवेशनं वापि मरुत्प्रपतनं तथा ॥ ३०-१५ ॥

दीक्षीतं ब्राह्मणं हत्वा द्विगुणं व्रतमाचरेत् ॥
आचार्यादिवधे चैव व्रतमुक्तं चतुर्गुणम् ॥ ३०-१६ ॥

हत्वा तु विप्रमात्रं च चरेत्संवत्सरं व्रतम् ॥
एवं विप्रस्य गदितः प्रायश्चित्तविधिर्द्विज ॥ ३०-१७ ॥ ॥

द्विगुणं क्षत्रियस्योक्तं त्रिगुणं तु विशः स्मृतम् ॥
ब्राह्मणं हन्ति यः शूद्रस्तं मुशल्यं विर्दुर्बुधाः ॥ ३०-१८ ॥

राज्ञैव शिक्षा कर्तव्या इति शास्तेषु निश्चयः ॥
ब्राह्मणीनां वधे त्वर्द्धं पादः स्यात्कन्यकावधे ॥ ३०-१९ ॥

हत्वा त्वनुपनीतांश्च तथा पादव्रतं चरेत् ॥
हत्वा तु क्षत्रियं विप्रः षडब्दं कुच्छ्रमाचरेत् ॥ ३०-२० ॥

संवत्सरं त्रयं वेश्यं शूर्द्रं हत्वा तु वत्सरम् ॥
दीक्षितस्य स्त्रियं हत्वा ब्राह्मणी चाष्टवत्सरान् ॥ ३०-२१ ॥

ब्रह्महत्याव्रतं कृत्वा शुद्धो भवति निश्चितम् ॥
प्रायश्चित्तं विधानं तु सर्वत्र मुनिसत्तम ॥ ३०-२२ ॥

वृद्धातुरस्त्रीबालानामर्द्धमुक्तं मनीषिभिः ॥
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ॥ ३०-२३ ॥

चातुर्वर्ण्यारपेया स्यात्तथा स्त्रीभिश्च नारद ॥
क्षीरं घृतं वा गोमूत्रमेतेष्वन्यतमं मुने ॥ ३०-२४ ॥

स्नात्वर्द्रवासा नियतो नारायणमनुस्मरन् ॥
पक्वायसनिभं कृत्वा पिबेज्चैवोदकं ततः ॥ ३०-२५ ॥

तत्तु लौहेन पात्रेण ह्यायसेनाथवा पिबेत् ॥
ताम्रेण वाथं पात्रेण तत्पीत्वा मरणं व्रजेत् ॥ ३०-२६ ॥

सुरापी शुद्धिमाप्नोति नान्यथा शुद्धिरिष्यते ॥
अज्ञानादात्मबुद्द्या तु सुरां पीत्वा द्विजश्चरेत् ॥ ३०-२७ ॥

ब्रह्महत्याव्रतं सम्यक्तच्चिह्नपरिवर्जितः ॥
यदि रोगानिवृत्त्यर्थमौषधार्थं सुरां पिबेत् ॥ ३०-२८ ॥

तस्योपनयनं भूयस्तथा चान्द्रायणद्वयम् ॥
सुरासंस्पृष्टपात्रं तु सुराभाण्डोदकं तथा ॥ ३०-२९ ॥

सुरापानसमं प्राहुस्तथा चन्द्रस्य भक्षणम् ॥
तालं च पानसं चैव द्राक्षं खार्जूरसम्भवम् ॥ ३०-३० ॥

माधुक शैलमारिष्टं मैरेयं नालिकेरजम् ॥
गौडी माध्वी सुरा मद्यमेवमेकादश स्मृताः ॥ ३०-३१ ॥

एतेष्वन्यतमं विप्रो न पिबेद्वै कदाचन ॥
एतेष्वन्यतमं यस्तु पिबेदज्ञानतो द्विजः ॥ ३०-३२ ॥

तस्योपनयनं भूयस्तप्तकृच्छ्रं चरेत्तथा ॥
समक्षं वा परोक्षं वा बलाच्चौयण वा तथा ॥ ३०-३३ ॥

परस्वानामुपादानं स्तेयमित्युच्यते बुधैः ॥
सुवर्णस्य प्रमाणं तु मन्वाद्यैः परिभाषितम् ॥ ३०-३४ ॥

वक्ष्ये श्रृणुष्व विप्रेन्द्र प्रायश्चजितोक्तिसाधनम् ॥
गवाक्षागतमार्तण्डरश्मिमध्ये प्रदृश्यते ॥ ३०-३५ ॥

त्रसरेणुप्रमाणं तु रज इत्युच्यते बुधैः ॥
त्रसरेण्वष्टकं निष्कस्तत्रयं राजसर्षपः ॥ ३०-३६ ॥

गौरसर्षपस्तर्त्रयं स्यात्तत्षट्कं यव उच्यते ॥
यवत्रयं कृष्णलः स्यान्माषस्तत्पञ्चकं स्मृतः ॥ ३०-३७ ॥

माषषोडषमानं स्यात्सुवर्णमिति नारद ॥
हत्वा ब्रह्मस्वमज्ञानाद्द्वादशाम्ब्दं तु पूर्ववत् ॥ ३०-३८ ॥

कपालध्वजहीनं तु ब्रह्महत्याव्रतं चरेत् ॥
गुरुणां यज्ञकतॄणां धार्मिष्टानां तथैव च ॥ ३०-३९ ॥

श्रोत्रियाणां द्विजानां तु हृत्वा हेमैवमाचरेत् ॥
कृतानुतापो देहे च सम्पूर्णे लेपयेद् धृतम् ॥ ३०-४० ॥

करीषच्छादितो दग्‌धः स्तेयपापाद्विमुच्यते ॥
ब्रह्मस्वं क्षत्रियो हृत्वा पश्चात्तापमवाप्य च ॥ ३०-४१ ॥

पुनर्ददाति तत्रैव तद्विधानं श्रृणुष्व मे ॥
तत्र सान्तपनं कृत्वा द्वादशाहोपवासतः ॥ ३०-४२ ॥

शुद्धिमाप्नोति देवर्षे ह्यन्यथा पतितो भवेत् ॥
रत्नासनमनुष्यस्त्रीधेनुभूम्यादिकेषु च ॥ ३०-४३ ॥

सुवर्णसहृशेष्वेषु प्रायश्चितार्द्धमुच्यते ॥
त्रसरेणुसमं हेम हृत्वा कुर्यात्समाहितः ॥ ३०-४४ ॥

प्राणायामद्वयं सम्यक् तेन शुद्धच्चति मानवः ॥
प्राणायामत्रयं कुर्याद्धृत्वा निष्कप्रमाणकम् ॥ ३०-४५ ॥

प्राणायामाश्च चत्वारो राजसर्षपमात्रके ॥
गौरसर्षपमानं तु हृत्वा हेम विचक्षणः ॥ ३०-४६ ॥

स्नात्वा च विधिवज्जप्याद्गायत्र्यष्टसहस्त्रकम् ॥
यवमात्रसुवर्णस्य स्तेयाच्छुद्धो भवेद्दिजः ॥ ३०-४७ ॥

आसायं प्रातरारभ्य जप्त्वा वै वेदमातरम् ॥
हेम कृष्णलमात्रं तु हृत्वा सान्तपनं चरेत् ॥ ३०-४८ ॥

माषप्रमाणे हेम्नस्तु प्रायश्चित्तं निगद्यते ॥
गोमूत्रपक्वयवभुग्वर्षेणैकेन शुद्ध्यति ॥ ३०-४९ ॥

सम्पूर्णस्य सुवर्णस्य स्तेयं कृत्वा मुनीश्वर ॥
ब्रह्महत्याव्रतं कुर्याद्द्वादशाब्दं समाहितः ॥ ३०-५० ॥

सुवर्णमानान्न्यूने तु रजतस्तेयकर्मणि ॥
कुर्यात्सान्तपनं सम्यगन्यथा पतितो भवेत् ॥ ३०-५१ ॥

दशनिष्कान्तपर्यन्तमूर्द्धूं निष्कचतुष्टयात् ॥
हत्वा च रजतं विद्वान्कुर्याच्चान्द्रायणं मुने ॥ ३०-५२ ॥

दशादिशतिष्कान्तं यः स्तेयी रजतस्य तु ॥
चान्द्रायणद्वयं तस्य प्रोक्तं पापविशोधकम् ॥ ३०-५३ ॥

शतादूर्द्धूं सहस्त्रान्तं प्रोक्तं चान्द्रायणत्रयम् ॥
सहस्त्रादधिकस्तेये ब्रह्महत्याव्रतं चरेत् ॥ ३०-५४ ॥

कांस्यपित्तलमुख्येषु ह्ययस्कान्ते तथैव च ॥
सहस्रनिष्कमाने तु पराकं परिकीर्तितम् ॥ ३०-५५ ॥

प्रायश्चित्तं तु रत्नानां स्तेये राजतवत्स्मृतम् ॥
गुरुतल्पगतानां च प्रायश्चित्तमुदीर्यते ॥ ३०-५६ ॥

अज्ञानान्मातरं गत्वा तत्सपत्नीमथापि वा ॥
स्वयमेव स्वमुष्कं तु च्छिन्द्यात्पापमुदीरयन् ॥ ३०-५७ ॥

हस्ते गृहीत्वा मुष्कं तु गच्छन्द्वै नैऋतीं दिशम् ॥
गच्छन्मार्गै सुखं दुःखं न कदाचिद्विचारयेत् ॥ ३०-५८ ॥

अपश्यन्गच्छतो गच्छेत्पाणान्तं यः स शुद्ध्यति ॥
मरुत्प्रपतनं वापि कुर्यात्पापमुदाहरन् ॥ ३०-५९ ॥

स्ववर्णोत्तमवर्णस्त्रीगमने त्वविचारतः ॥
ब्राह्महत्याव्रतं कुर्याद्वादशाब्दं समाहितः ॥ ३०-६० ॥

अमत्याभ्यासतो गच्छेत्सवर्णां चोत्तमां तथा ॥
कारीषवह्निना दग्धः शुद्धिं याति द्विजोत्तम ॥ ३०-६१ ॥

रेतःसेकात्पूर्वमेव निवृत्तो यदि मातरि ॥
ब्रह्महत्याव्रतं कुर्याद्रेतः सेकेऽग्निदाहनम् ॥ ३०-६२ ॥

सवर्णोत्तमवर्णासु निवृत्तो वीर्यसेचनात् ॥
ब्रह्महत्याव्रतं कुर्यान्नवाब्दान्विष्णुतत्परः ॥ ३०-६३ ॥

वैश्यायां पितृपत्न्यां तु षडब्दं व्रतमाचरेत् ॥
गत्वा शूद्वां गुरोर्भार्यां त्रिवर्षं व्रतमाचरेत् ॥ ३०-६४ ॥

मातृष्वसारं च पितृष्वसारमाचार्यभार्यां श्वशुरस्य पत्नीम् ॥
पितृव्यभार्यामथ मातुलानीं पुत्रीं च गच्छेद्यदि काममुग्धः ॥ ३०-६५ ॥

दिनद्वये ब्रह्महत्याव्रतं कुर्याद्यथाविधि ॥
एकस्मिन्नेव दिवसे बहुवारं त्रिवार्षिकम् ॥ ३०-६६ ॥

एकवारं गते ह्यब्दंव्रतं कृत्वा विशुद्ध्यति ॥
दिनत्रये गते वह्निदग्धः शुध्येत नान्यथा ॥ ३०-६७ ॥

चाञ्जालीं पुष्कसीं चैव स्नुषां च भगिनीं तथा ॥
मित्रस्त्रियं शिष्यपत्नीं यस्तु वै कामतो व्रजेत् ॥ ३०-६८ ॥

ब्रह्महत्याव्रतं कुर्यात्स षडब्दं मुनीश्वर ॥
अकामतो व्रजेद्यस्तु सोऽब्दकृच्छ्रं समाचरेत् ॥ ३०-६९ ॥

महापातकिसंसर्गे प्रायश्चित्तं निगद्यते ॥
प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत् ॥ ३०-७० ॥

यस्य येन भवेत्सङ्गो ब्रह्महान्दिचतुर्ष्वपि ॥
तत्तद्व्रतं स निव्रर्त्य शुद्धिमान्पोत्यसंशयम् ॥ ३०-७१ ॥

अज्ञानात्पञ्चरात्रं तु सङ्गमेभिः करोतियः ॥
कायकृच्छ्रं चरेत्सम्यगन्यथा पतितो भवेत् ॥ ३०-७२ ॥

द्वादशाहेतु संसर्गे महासान्तपनं स्मृतम् ॥
सङ्गङ्कृत्वार्द्धमासं तु द्वादशाहमुपावसेत् ॥ ३०-७३ ॥

पराको माससंसर्गे चान्द्रमासत्रयेस्मृतम् ॥
कृत्वा सङ्गं तु षण्मासं चरेच्चान्द्रायणद्वयम् ॥ ३०-७४ ॥

किञ्चिन्न्यूनाब्दसङ्गे तु षण्मासव्रतमाचरेत् ॥
एतच्च त्रिगुणं प्रोक्तं ज्ञानात्सङ्गे यथाक्रमम् ॥ ३०-७५ ॥

मण्डूकं नकुलं काकं वराहं मूषकं तथा ॥
मार्जाराजाविकं श्वानं हत्वा कुक्कुटकं तथा ॥ ३०-७६ ॥

कृच्छ्रार्द्धमाचरेद्विप्रोऽतिकृच्छ्रं चाश्वह चरेत् ॥
जतप्तकृच्छ्रं करिवधे पराकं गोवधे स्मृतम् ॥ ३०-७७ ॥

कामतो गोवधे नैव शुद्धिर्द्दष्टा मनीषिभिः ॥
पानशय्यासनाद्येषु पुष्पमूलफलेषु च ॥ ३०-७८ ॥

भक्ष्यभोज्यापहारेषु पञ्चगव्यविशोधनम् ॥
शुष्ककाष्टतृणानां च द्रुमाणां च गुडस्य च ॥ ३०-७९ ॥

चर्मवस्त्रामिषाणां च त्रिरात्रं स्‌यादभोजनम् ॥
टिट्टिभं चक्रवाकं च हंसं कारण्डवं तथा ॥ ३०-८० ॥

उलूकं सारसं चैव पकोतं जलपादकम् ॥
शुकं चाषं बलाकं च शिशुमारं च कच्छपम् ॥ ३०-८१ ॥

एतेष्वन्यतमं हत्वा द्वादशाहमभोजनम् ॥
प्राजापत्यव्रतं कुर्याद्रेतोविण्मूत्रभोजने ॥ ३०-८२ ॥

चान्द्रायणत्रयं प्रोक्तं शूद्रोच्छिष्टस्य भोजने ॥
रजस्वलां च चाण्डालं महापातकिनं तथा ॥ ३०-८३ ॥

सूतिकां पतितं चैव उच्छिष्टं रजकादिकम् ॥
स्पृष्ट्वा सचैलं स्नायीत घृतं सम्प्राशेयत्तथा ॥ ३०-८४ ॥

गायत्रीं च विशुद्धात्मा जपेदष्टशतं द्विज ॥
एतेष्वन्यतमं स्पृष्ट्वा अज्ञानाधद्यदि भोजने ॥ ३०-८५ ॥

त्रिरात्रो पोषणाच्छुद्ध्ये त्पञ्चगव्याशनाद्विज ॥
स्नानदानजपादौ च भोजनादौ च नारद ॥ ३०-८६ ॥

एषामन्यतमस्यापि शब्दं यः श्रृणुयाद्वदेत् ॥
उद्वमेद्धुक्तमन्न्नतत्स्त्रात्वा चोपवसेत्तथा ॥ ३०-८७ ॥

द्वितीयेऽह्नि घृतं प्राश्य शुद्धिमाप्नोति नारद ॥
व्रतादिमध्ये यद्येषा श्रृणुयाद्धूनिमप्युत ॥ ३०-८८ ॥

अष्टोत्तरसहस्रं तु जपेद्वै वेदमातरम् ॥
पापानामधिकं पापं द्विजदैवतनिन्दनम् ॥ ३०-८९ ॥

न दृष्ट्वा निष्कृतिस्तस्य सर्वशास्त्रेषु नारद ॥
महापातकतुल्यानि यानि प्रोक्तानि सूरिभिः ॥ ३०-९० ॥

प्रायश्चित्तं तु तेषां च कुर्यादेवं यथाविधि ॥
प्रायश्चित्तानि यः कुर्यान्नारायणपरायणः ॥ ३०-९१ ॥

तस्य पापानि नश्यन्तिह्यन्यथा पतितो भवेत् ॥
यस्तु रागादिनिर्मुक्तो ह्यनुतापसमन्वितः ॥ ३०-९२ ॥

सर्वभूतययायुक्तो विष्णुस्मरणतत्परः ॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥ ३०-९३ ॥

विमुक्त एव पापेभ्यो ज्ञेयो विष्णुपरो यतः ॥
नारायणमनान्द्यन्तं विश्वाकारमनामयम् ॥ ३०-९४ ॥

यस्तु संस्मरते मर्त्यः स मुक्तः पापकोटिभिः ॥
स्मृतो वा पूजितो वापि ध्यातः प्रणमितोऽपि वा ॥ ३०-९५ ॥

नाशयत्येव पापानि विष्णुर्हृद्गमनः सताम् ॥
सम्पर्काद्यदि वा मोहाद्यस्तु पूजयते हरिम् ॥ ३०-९६ ॥

सर्वपापविनिर्मुक्तः स प्रयाति हरेः पदम् ॥
सकृत्संस्मरणाद्विष्णोर्नश्यन्ति क्लेशसञ्चयाः ॥ ३०-९७ ॥

स्वर्गादिभोगप्रात्पिस्तु तस्य विप्रानुमीयते ॥
मानुषं दुर्लभं जन्म प्राप्यते यैर्मुनीश्वर ॥ ३०-९८ ॥

तत्रापि हरिभक्तिस्तु दुर्लभा परिकीर्त्तिता ॥
तस्मात्तडिल्लतालोलं मानुष्यं प्राप्य दुर्लभम् ॥ ३०-९९ ॥

हरिं सम्पूजयेद्भक्त्या पशुपाशविमोचनम् ॥
सर्वेऽन्तराया नश्यन्ति मनःशुद्धिश्च जायते ॥ ३०-१०० ॥

परं मोक्षं लभेश्चैव पूजिते तु जनार्दने ॥
धर्मार्थकामोक्षाख्याः पुरुषार्थाः सनातनाः ॥ ३०-१०१ ॥

हरिपूजापराणां तु सिध्यन्ति नात्र संशयः ॥
पुत्रदारगृहक्षेत्रधनधान्याभिधावतीम् ॥ ३०-१०२ ॥

लब्ध्वेमां मानुषीं वृत्तिं रेरे दर्पं तु मा कृथाः ॥
सन्त्यज्य कामं क्रोधं च लोभं मोहं मदं तथा ॥ ३०-१०३ ॥

परापवादं निन्दां च भजध्वं भक्तितो हरिम् ॥
व्यापारान्सकलांसत्यक्तवा पूजयध्वं जनार्दनम् ॥ ३०-१०४ ॥

निकटा एव दृश्यन्ते कृतान्तनगरद्रुमाः ॥
यावन्नायाति मरणं यावन्नायाति वै जरा ॥ ३०-१०५ ॥

यावन्नेन्द्रियवैकल्यं तावदेवाचर्येद्धरिम् ॥
धीमान्नकुर्याद्विश्वासं शरीरेऽस्मिन्विनश्वरे ॥ ३०-१०६ ॥

नित्यं सन्निहितो मृत्युः सम्पदत्यन्तचञ्चला ॥
आसन्नमरणो देहस्तस्माद्दर्प्पं विमुचत ॥ ३०-१०७ ॥

संयोगा विप्रयोगान्ताः सर्वं च क्षणभङ्गुरम् ॥
एतज्ज्ञात्वा महाभाग पूजयस्व जनार्दनम् ॥ ३०-१०८ ॥

आशया व्यथते चैव मोक्षस्त्वत्यन्तदुर्लभः ॥
भक्त्या यजति यो विष्णुं महापातकवानपि ॥ ३०-१०९ ॥

सोऽपि याति परं स्थानं यत्र गत्वा न शोचति ॥
सर्वतीर्थानि यज्ञाश्च साङ्गा वेदाश्च सत्तम ॥ ३०-११० ॥

नारायणार्चनस्यैते कलां नार्हन्ति षोडशीम् ॥
किं वै वेदैर्मखैः शास्त्रैः किंवा तीर्थनिषेवणैः ॥ ३०-१११ ॥

विष्णुभक्तिविहीनानां किं तपोभिर्व्रतैरपि ॥ ३०-११२ ॥

यजन्ति ये विष्णुमनन्तमूर्तिं निरीक्ष्य चाकारगतं वरेण्यम् ॥
वेदान्तवेद्यं भवरोगवैद्यं ते यान्ति मर्त्याः पदमच्युतस्य ॥ ३०-११३ ॥

अनादिमात्मानमनन्तशक्तिमाधारभूतं जगतः सुरेड्यम् ॥
ज्योतिः स्वरुपं परमच्युताख्यं स्मृत्वा समभ्येति नरः सखायम् ॥ ३०-११४ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे प्रायश्चित्तविधिर्नाम त्रिंशोऽध्यायः ॥