सनक उवाच ॥
तिथीनां निर्णयं वक्ष्ये प्राचश्चित्तविधिं तथा ॥
श्रृणुष्व तन्मुनिश्रेष्ठ कर्मसिद्धिर्यतो भवेत् ॥ २९-१ ॥
श्रौतं स्मार्त्तं व्रतं दानं यच्चान्यत्कर्म वैदिकम् ॥
अनिर्णीतासु तिथिषु न किञ्चित्फलति द्विज ॥ २९-२ ॥
एकादश्यष्टमी षष्टी पौर्णमासी चतुर्द्दशी ॥
अमावास्या तृतीया च ह्युपवासव्रतादिषु ॥ २९-३ ॥
परविद्धाः प्रशस्ताः स्युर्न ग्राह्याः पूर्वसंयुताः ॥
नागविद्धा तु या षष्टी शिवविद्धा तु सप्तमी ॥ २९-४ ॥
दशम्येकादशीविद्धा नोपोष्याः स्युः कदाचन ॥
दर्शं च पौर्णमासीं च सत्पमीं पितृवासरम् ॥ २९-५ ॥
पूर्वविद्धं प्रकुर्वाणो नरकायोपद्यते ॥
कृष्णपक्षे पूर्वविद्धां सत्पमीं च चतुर्दशीम् ॥ २९-६ ॥
प्रशस्तां केचिदाहुश्च तृतीयां नवमीं तथा ॥
व्रतादीनां तु सर्वेषां शुक्लपक्षो विशिष्यते ॥ २९-७ ॥
अपराह्णाच्च पूर्वोह्णं ग्राह्यं श्रेष्टत्तरं यतः ॥
असम्भवे व्रतादीनां यदि पौर्वाह्णिकी तिथिः ॥ २९-८ ॥
मुहूर्तद्वितयं ग्राह्यं भगवत्युदिते रवौ ॥
प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ॥ २९-९ ॥
उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ॥
तिथिनक्षत्रसंयोगविहितव्रतकर्मणि ॥ २९-१० ॥
प्रदोषव्यापिनी ग्राह्या त्वन्यथा निष्फलं भवेत् ॥
अर्द्धरात्रादधो या तु नक्षत्रव्यापिनी तिथिः ॥ २९-११ ॥
सैव ग्राह्या मुनिश्रेष्ट नक्षत्रविहितव्रते ॥
यद्यर्द्धरात्रघगयोर्व्यात्पं नक्षत्रं तु दिनद्वये ॥ २९-१२ ॥
तत्पुण्यं तिथिसंयुक्तं नक्षत्रं ग्राह्यमुच्यते ॥
अर्द्धरात्रद्वये स्यातां नक्षत्रं च तिथिर्यदि ॥ २९-१३ ॥
क्षये पूर्वा प्रशस्ता स्याद्रृद्धौ कार्या तथोत्तरा ॥
अर्ध्दरात्रद्वयव्यात्पा तिथिर्नक्षत्रसंयुता ॥ २९-१४ ॥
ह्नासवृद्धिविशून्या चेत् ग्राह्यापूर्वा तथा परा ॥
ज्येष्ठासम्मिश्रितं मूलं रोहिणी वह्निंसंयुता ॥ २९-१५ ॥
मैत्रेण संयुता ज्येष्टा सन्तानादिविनाशिनी ॥
ततः स्युस्तिथयः पुण्याः कर्मानुष्टानतो दिवा ॥ २९-१६ ॥
रात्रिव्रतेषु सर्वेषु रात्रियोगो विशिष्यते ॥
तिथिर्नक्षत्रयोगेन या पुण्या परिकीर्तिता ॥ २९-१७ ॥
तस्यां तु तद्वतं कार्यं सैव कार्या विचक्षणैः ॥
उदयव्यापिनी ग्राह्या श्रवणद्वादशी व्रते ॥ २९-१८ ॥
सूर्येन्दुग्रहणे यावत्तावद् ग्राह्या जपादिषु ॥
सङ्क्रान्तिषु तु सर्वासु पुण्यकालोनिगद्यते ॥ २९-१९ ॥
स्नानदानजपादीनां कुर्वतामक्षय फलम् ॥
तत्र कर्कटको ज्ञेयो दक्षिणायनसङ्क्रमः ॥ २९-२० ॥
पूर्वतो घटिकास्त्रिंशत्पुण्यकालं विदुर्बुधाः ॥
वृषभे वृश्चिके चैव सिंहे कुम्भे तथैव च ॥ २९-२१ ॥
पूर्वमष्टमुहूर्तास्तु ग्राह्याः स्नानजपादिषु ॥
तुलायां चैव मेषे च पूर्वतः परतस्तथा ॥ २९-२२ ॥
ज्ञेया दशैव घटिका दत्तस्याक्षयतावहाः ॥
कन्यायां मिथुने चैव मीने धनुषि च द्विज ॥ २९-२३ ॥
घटिकाः षोडश ज्ञेया परतः पुण्यदायिकाः ॥
माकरं सङ्क्रमं प्राहुरुत्तरायणसञ्ज्ञकम् ॥ २९-२४ ॥
परास्त्रिंशश्च घटिकाश्चत्वारिंशच्च पूर्ववत् ॥
आदित्यशीतकिरणौ ग्राह्यावस्तङ्गतौ यदि ॥ २९-२५ ॥
स्नात्वा भुञ्जीत विप्रेन्द्र परेद्युः शुद्धमण्डलम् ॥
दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूः स्मृता ॥ २९-२६ ॥
अमावास्या द्विधा प्रोक्ता विद्वद्भिर्धर्मालिप्सुभिः ॥
सिनीवालीं द्विजैर्ग्राह्या साग्निकैः श्राद्धकर्मणि ॥ २९-२७ ॥
कहूः स्त्रीभिस्तथा शूद्रैरपि वानग्रिकैस्तथा ॥
अपराह्णद्वयव्यापिन्यमावास्यातिथिर्यदि ॥ २९-२८ ॥
क्षये पूर्वा तु कर्त्तव्या वृद्धौ कार्या तथोत्तरा ॥
अमावास्या प्रतीता चेन्मध्याह्णात्परतो यदि ॥ २९-२९ ॥
भूतविद्धेति विख्यातास्रद्भिः शास्त्रविशारदैः ॥
अत्यन्तक्षयपक्षे तु परेद्युर्नापराह्णगा ॥ २९-३० ॥
तत्र ग्राह्या सिनीवाली सायाह्नव्यापिनी तिथिः ॥
अर्वाचीनक्षये चचैव सायाह्नव्यापिनी तथा ॥ २९-३१ ॥
सिनीवाली परा ग्राह्या सर्वथा श्राद्धकर्मणि ॥
अत्यन्ततिथिवृद्धौ तु भूतविद्धां परित्यजेत् ॥ २९-३२ ॥
ग्राह्या स्यादपराह्णस्था कुहूः पैतृककर्मणि ॥
यथार्वाचीनवृद्धौ तु सन्त्याज्या भूतसंयुताः ॥ २९-३३ ॥
परेद्युर्विबुधश्रेष्टैः कुहूर्ग्राह्या पराह्णगा ॥
मध्याह्नद्वितये व्यात्पा ह्यमावास्या तिथिर्यदि ॥ २९-३४ ॥
तत्रेच्छया च सङ्ग्राह्या पूर्वा वाथ पराथवा ॥
अन्वाधानं प्रवक्ष्यामि सन्तः सम्पूर्णवर्वणि ॥ २९-३५ ॥
प्रतिपद्दिवसे कुर्याद्यागं च मुनिसत्तम ॥
पर्वणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः ॥ २९-३६ ॥
यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः ॥
मध्याह्नद्वितये स्याताममावास्या च पूर्णिमा ॥ २९-३७ ॥
परेद्युरेव विप्रेन्द्र सद्यः कालो विधीयते ॥ २९-३८ ॥
पूर्वद्वये परेद्युः स्यात्सङ्गवात्परतो मनीषिभिः ॥
सद्यः कालः परेद्युः स्याज्ज्ञेयमेवं तिथिक्षये ॥ २९-३९ ॥
सर्वैरेकादशी ग्राह्या दशमीपरिवर्जिता ॥
दशमीसंयुता हन्तिपुण्यं जन्मत्रयार्जितम् ॥ २९-४० ॥
एकादशी कलामात्रा द्वादश्यां तु प्रतीयते ॥
द्वादशी च त्रयोदश्यामस्ति चेत्सा परा स्मृता ॥ २९-४१ ॥
सम्पूर्णैकादशी शुद्धा द्वादश्यां च प्रतीयते ॥
त्रयोदशी च रात्र्यन्ते तत्र वक्ष्यामि निर्णयम् ॥ २९-४२ ॥
पूर्वा गृहस्थैः सा कार्य्या ह्युत्तरा यतिभिस्तथा ॥
गृहस्थाः सिद्धिमिच्छन्ति यतो मोक्षं यतीश्वराः ॥ २९-४३ ॥
द्वादश्यां तु कलायां वा यदि लभ्येत पारणा ॥
तदानीं दशमीविद्धाप्युपोष्यैकादशी तिथिः ॥ २९-४४ ॥
शुल्के वा यदि वा कृष्णे भवेदेकादशीद्वयम् ॥
गृहस्थानां तु पूर्वोक्ता यतीनामुत्तरा स्मृता ॥ २९-४५ ॥
द्वादश्यां विद्यते किञ्चिद्दशमीसंयुता यदि ॥
दिनक्षये द्वितीयैव सर्वेषां परिकीर्तितां ॥ २९-४६ ॥
विद्धाप्येकादशी ग्राह्या परतो द्वादशी न चेत् ॥
अविद्धापि निषिद्धैव परतो द्वादशी यदि ॥ २९-४७ ॥
एकादशी द्वादशी च रात्रघिशेषे त्रयोदशी ॥
द्वादशद्वादशीपुण्यं त्रयोदश्यां तु पारणे ॥ २९-४८ ॥
एकादशी कलामात्रा विद्यते द्वादशीदिने ॥
द्वादशी च त्रयोदश्यां नास्ति वा विद्यतेऽथवा ॥ २९-४९ ॥
विद्वाप्येकादशी तत्र पूर्वा स्याद्गृहणां तदा ॥
यदिभिश्चोत्तरा ग्राह्या ह्यवीराभिस्तथैव च ॥ २९-५० ॥
सम्पूर्णैकादशी शुद्धा द्वादश्यां नास्ति किञ्चन ॥
द्वादशी च त्रयोदशयामस्ति तत्र कथं भवेत् ॥ २९-५१ ॥
पूर्वा गृहस्थैः कार्यात्र यतिभिश्चोत्तरा तिथिः ॥
उपोष्यैव द्वितीयेति केचिदाहुश्च भक्तितः ॥ २९-५२ ॥
एकादशी यदाविद्धा द्वादश्यां न प्रतीयते ॥
द्वादशी च त्रयोदश्यामस्ति तत्रैव चापरे ॥ २९-५३ ॥
उपोष्या द्वादशी शुद्धा सर्वैरेव न संशयः ॥
केचिदाहुश्च पूर्वां तु तन्मतं न समञ्जसम् ॥ २९-५४ ॥
सङ्क्रातौ रविवारे च पातग्रहणयोस्तथा ॥
पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही ॥ २९-५५ ॥
अर्केऽह्नि पर्वरारौ च चतुर्दश्यष्टमी दिवा ॥
एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत् ॥ २९-५६ ॥
आदित्यग्रहणे प्राप्ते पूर्वयामत्रये तथा ॥
नाद्याद्वै यदि भुञ्जीत सुरापेन समो भवेत् ॥ २९-५७ ॥
अन्वाधानेष्टिमध्ये तु ग्रहणे चन्द्रसूर्ययोः ॥
प्रायश्चित्तं मुनिश्रेष्ट कर्त्तव्यं तत्र याज्ञिकैः ॥ २९-५८ ॥
चद्रोपरागे जुहुयाद्दशमे सोम इत्यृचा ॥
आप्यायस्व ऋचा चैव सोमपास्त इति द्विज ॥ २९-५९ ॥
सूर्योपरागे जुहुयादुदुत्यं जातवेदसम् ॥
आसत्येन्नोद्वयं चैव त्रयोमन्त्रा उदाहृताः ॥ २९-६० ॥
एवं तिथिं विनिश्चित्य स्मृतिमार्गेण पण्डितः ॥
यः करोति व्रतादीनि तस्य स्यादक्षयं फलम् ॥ २९-६१ ॥
वेदप्रणिहितो धर्मो धर्मैस्तुष्यति केशवः ॥
तस्माद्धर्मपरा यान्ति तद्विष्णोः परमं पदम् ॥ २९-६२ ॥
धर्मान्ये कर्त्तुमिच्छन्ति ते वै कृष्णस्वरुपिणः ॥
तस्मात्तांस्तु भवव्याधिः कदाचिन्नैव बाधते ॥ २९-६३ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे तिथ्यादिनिर्णयो नाम एकोनत्रिंशोऽध्यायः ॥