सनक उवाच ॥
श्रृणुष्व मुनिशार्दूल श्राद्धस्य विधिमुत्तमम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २८-१ ॥
क्षयाहपूर्वदिवसे स्नात्वा चैकाशनो भवेत् ॥
अधः शायी ब्रह्मचारी निशि विप्रान्निमन्त्रयेत् ॥ २८-२ ॥
दन्तधावनताम्बूले तैलाभ्यङ्गं तथैव च ॥
रत्योषधिपरान्नानि श्राद्धकर्त्ताविवर्जयेत् ॥ २८-३ ॥
अध्वानं कलहं क्रोधं व्यवायं च धुरं तथा ॥
श्राद्धकर्त्ता च भोक्ता च दिवास्वापं च वर्जयेत् ॥ २८-४ ॥
श्राद्धे निमन्त्रितो यस्तु व्यवायं कुरुते यदि ॥
ब्रह्महत्यामवाप्नोति नरकं चापि गच्छति ॥ २८-५ ॥
श्राद्धे नियोजयेद्विप्रं श्रोत्रिय विष्णुतत्परम् ॥
यथास्वाचारनिरतं प्रशान्तं सत्कुलोद्भवम् ॥ २८-६ ॥
रागद्वेषविहीनं च पुराणार्थविशारदम् ॥
त्रिमधुत्रिसुपर्णज्ञं सर्वभूतदयापरम् ॥ २८-७ ॥
देवपूजारतं चैव स्मृतितत्त्वविशारदम् ॥
वेदान्ततत्त्वसम्पन्नं सर्वलोकहिते रतम् ॥ २८-८ ॥
कृतज्ञं गुणसम्पन्नं गुरुशुश्रूषणे रतम् ॥
परोपदेशनिरतं सच्छास्त्रकथनैस्तथा ॥ २८-९ ॥
एते नियोजितव्या वै श्राद्धे विप्रा मुनीश्वर ॥
श्राद्धे वर्ज्याप्रवक्ष्यामि श्रृणु तान्मुसमाहितः ॥ २८-१० ॥
न्पूनाङ्गश्चाधिकाङ्गश्च कदर्यो रोगितस्तथा ॥
कुष्टी च कुनखी चैव लम्बकर्णः क्षतव्रतः ॥ २८-११ ॥
नक्षत्रपाठजीवी च तथा च शवदाहकः ॥
कुवादी परिर्वत्ता च तथा देवलकः खलः ॥ २८-१२ ॥
निन्दकोऽमर्षणो धूर्तस्तथैव ग्रामयाजकः ॥
असच्छास्त्राभिनिरतः परान्ननिगतस्तथा ॥ २८-१३ ॥
वृषलीसूति पोष्टा च वृषलीपतिरेव च ॥
कुण्डश्च गोलकश्चैव ह्ययाज्यानां च याजकः ॥ २८-१४ ॥
दम्भाचारो वृथामुण्डी ह्यन्यस्त्रीधनतत्परः ॥
विष्णुभक्तिविहीनश्च शिवभक्तिपराड्मुखः ॥ २८-१५ ॥
वेदविक्रयिणश्चैव व्रतविक्रयिणस्तथा ॥
स्मृतिविक्रयिणश्चैव मन्त्रविक्रयिणस्तथा ॥ २८-१६ ॥
गायकाः काव्यकर्त्तारो भिषक्छास्त्रोपजीविनः ॥
वेदनिन्दापरश्चैव ग्रामापण्यप्रदाहकः ॥ २८-१७ ॥
तथातिकामुकश्चैव रसविक्रयकारकः ॥
कूटयुक्तिरतश्चैव श्राद्धे वर्ज्याः प्रयत्नतः ॥ २८-१८ ॥
निम्मत्रयीत पूर्वेद्युस्तस्मिन्नेव दिनेऽथवा ॥
निमन्त्रितो भवेद्विप्रो ब्रह्मचारी जितेन्द्रियः ॥ २८-१९ ॥
श्राद्धे क्षणस्तु कर्त्तव्यः प्रसादश्चेति सत्तम ॥
निमन्त्रयेद्द्विजं प्राज्ञं दर्भपाणिर्जितेन्द्रियः ॥ २८-२० ॥
ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च ॥
श्राद्धं समाचरेद्विद्वान्काले कुतपसञ्ज्ञिते ॥ २८-२१ ॥
दिवसस्याष्टमे काले यदा मन्दायते रविः ॥
स कालः कुतपस्तत्र पितॄणां दत्तमक्षयम् ॥ २८-२२ ॥
अपराह्णः पितॄणां तु दत्तः कालः स्वयम्भुवा ॥
तत्काल एव दातव्यं कव्यं तस्माद्द्विजोत्तमैः ॥ २८-२३ ॥
यत्काव्यं दीयते द्वव्यैरकाले मुनिसत्तम ॥
राक्षसं तद्धि विज्ञेयं पितॄणां नोपतिष्टति ॥ २८-२४ ॥
काव्यं प्रत्तं तु सायाह्ने राक्षसं तद्भवेदपि ॥
दाता नरकमाप्नोति भोक्ता च नरकं व्रजेत् ॥ २८-२५ ॥
क्षयाहस्य तिथैर्विप्र यदि दण्डमितिर्भवेत् ॥
विद्धापराह्णि कायां तु श्राद्धं कार्यं विजानता ॥ २८-२६ ॥
क्षयाहस्य तिथिर्या तु ह्यपराह्णद्वये यदि ॥
पूर्वा क्षये तु कर्त्तव्या वृद्वौ कार्या तथोत्तरा ॥ २८-२७ ॥
मुहूर्त्त द्वितये पूर्वदिने स्यादपरेऽहनि ॥
तिथिः सायाह्नगा यत्र परा काव्यस्य विश्रुता ॥ २८-२८ ॥
किञ्चित्पूर्वदिने प्राहुर्मुहूर्त्तद्वितये सति ॥
नैतन्मतं हि सर्वेषां काव्यदाने मुनीश्वर ॥ २८-२९ ॥
निमन्त्रितेषु विप्रेषु मिलितेषु द्विजोत्तम ॥
प्रायश्चित्तविशुद्धात्मा तेभ्योऽनुज्ञां समाहरेत् ॥ २८-३० ॥
श्राद्धार्थं समनुज्ञातो विप्रान्भूयो निमन्त्रयेत् ॥
उभौ च विश्वेदेवार्थं पित्रर्थं त्रीन्यथाविधि ॥ २८-३१ ॥
देवतार्थं च पित्रर्थमेकैकं वा निमन्त्रयेत् ॥
श्राद्धार्थं समनुज्ञातः कारयेन्मण्डलद्वयम् ॥ २८-३२ ॥
चतुरस्त्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य वै ॥
वैश्यस्य वर्तुलं ज्ञेयं शूद्रस्याभ्याभ्युक्षणं भवेत् ॥ २८-३३ ॥
ब्राह्मणानामभावे तु भ्रातरं पुत्रमेव च ॥
आत्मानं वा नियुञ्जीत न विप्रं वेदवर्जितम् ॥ २८-३४ ॥
प्रक्षाल्य विप्रपादांश्च ह्याचान्नानुपवेश्य च ॥
यथावदर्चनं कुर्यात्स्मरन्नारायणं प्रभुम् ॥ २८-३५ ॥
ब्राह्मणानां तु मध्ये च द्वारदेशे तथैव च ॥
अपहता इत्यृचा वै कर्त्ता तु विकिरेत्तिलान् ॥ २८-३६ ॥
यवैर्दर्भघैश्च विश्वेषां देवानामिदमासनम् ॥
दत्त्वेति भूयो दद्यच्च दैवे क्षणप्रतीक्षणम् ॥ २८-३७ ॥
अक्षय्यासनयोः षष्टी द्वितीयावाहने स्मृता ॥
अन्नदाने चतुर्थी स्याच्छेषाः सम्पुद्धयः स्मृताः ॥ २८-३८ ॥
आसाद्य पात्रद्वितयं दर्भशाखासमन्वितम् ॥
तत्पात्रे सेचयेत्तोयं शन्नोदेवीत्यृचा ततः ॥ २८-३९ ॥
यवोसीति ति यवान् क्षित्प्वा गन्धपुष्पे च वाग्यतः ॥
आवाहयेत्ततो देवान्विश्वे देवास्स इत्यृचा ॥ २८-४० ॥
या दिव्या इति मन्त्रेण दद्यादर्घ्यं समाहितः ॥
गन्धैश्च पत्रपुष्पैश्च धूपैर्दीपैर्यजेत्ततः ॥ २८-४१ ॥
देवैश्च समनुज्ञातो यजेत्पितृगणांस्तथा ॥
तिलसंयुक्तदर्भैश्च दद्यात्तेषां सदासनम् ॥ २८-४२ ॥
पात्राण्यासादयेत्त्रीणि ह्यर्घाथ पूर्ववद्द्विजः ॥
शन्नोदेव्या जलं क्षिप्त्वा तिलोसीति तिलाक्षिपेत् ॥ २८-४३ ॥
उशन्त इत्यृचावाह्य पितॄन्विप्रः समाहितः ॥
या दिव्या इति मन्त्रेण दद्यादर्घ्यं च पूर्ववत् ॥ २८-४४ ॥
गन्धैश्च पत्रपुष्पैश्च धूपैर्दीपैश्च सत्तम ॥
वासोर्भिभूषणैश्वैव यथाविभवमर्चयेत् ॥ २८-४५ ॥
ततोऽन्नाग्रं समादाय घृतयुक्तं विचक्षणः ॥
अग्नौ करिष्य इत्युक्त्वा तेभ्योऽनुज्ञां समाहरेत् ॥ २८-४६ ॥
करवै करवाणीति चापृष्टा ब्राह्मणा मुने ॥
कुरुष्व क्रियतां वेति कुर्विति ब्रूयुरेव च ॥ २८-४७ ॥
उपासनाग्निमाधाय स्वगृह्योक्तविधानतः ॥
सामाय च पितृमते स्वधा नम इतीरयेत् ॥ २८-४८ ॥
अग्नये कव्यवाहनाय स्वधा नम इतीह वा ॥
स्वाहान्तेनापि वा प्राज्ञो जुहुयात्पितृयज्ञवत् ॥ २८-४९ ॥
आभ्यामेवाहुतिभ्यां तु पितॄणां तृप्तिरक्षया ॥
अग्न्यभावे तु विप्रस्य पाणौ होमो विधीयते ॥ २८-५० ॥
यथाचारं प्रकुर्वीत पाणावग्नौ च वा द्विज ॥
नह्यग्निर्दूरगः कार्यः पार्वणे समुपस्थिते ॥ २८-५१ ॥
सन्धायाग्निं ततः कार्यं कृत्वा तं विसृजेत्कृती ॥
यद्याग्निर्दूरगो विप्र पार्वणे समुपस्थिते ॥ २८-५२ ॥
भ्रातृभिः कारयेच्छ्राद्धं साग्निकैर्विधिवद्द्विजैः ॥
क्षयाहे चैव सम्प्रात्पे स्वस्याग्निर्दूरगो यदि ॥ २८-५३ ॥
तथैव भ्रातरस्तत्र लौकिकाग्नावपि स्थिताः ॥
उपासनान्गौ दूरस्थे समीपेभ्रातरि स्थइते ॥ २८-५४ ॥
यद्यग्नौ जुहुयाद्वापि पाणौ वा स हि पातकी ॥
उपासनाग्ना दूरस्थे केचिदिच्छन्ति वै द्विजाः ॥ २८-५५ ॥
तच्छेष विप्रपात्रेषु विकिरेत्संस्मरन्हरिम् ॥
भक्ष्यैर्भोज्यैश्च लेह्यैश्च स्वाद्यैर्विप्रान्प्रपूजयत् ॥ २८-५६ ॥
अन्नत्यागं ततः कुर्य्यादुभयत्र समाहितः ॥
आगच्छन्तु महाभागाविश्वेदेवा महाबलाः ॥ २८-५७ ॥
ये यत्र विहिताः श्राद्धे सावधानां भवन्तु ते ॥
इति सम्प्रार्थयेद्देवान्ये देवास ऋचा नु वै ॥ २८-५८ ॥
तथासम्प्रार्थयद्विप्रान्ये च हेति ऋचा पितॄन् ॥
अमूर्तानां मूर्तानां च पितॄणां दीप्ततेजसाम् ॥ २८-५९ ॥
नमस्यामि सदा तेषां ध्यानिनां योगचजक्षुषाम् ॥
एवं पितॄन्नमस्कृत्य नारायण परायणः ॥ २८-६० ॥
दत्तं हविश्च तत्कर्ण विष्णवे विनिवेदयेत् ॥
ततस्ते ब्राह्मणाः सर्वे भुञ्जीरन्वाग्यता द्विजाः ॥ २८-६१ ॥
हसतो वदते कोऽपि राक्षघसं तद्भवेद्धविः ॥
यथाचार प्रदेयं च मधुमांसादिकं तथा ॥ २८-६२ ॥
पाकादिं च प्रशंसेरन् वाग्यता धृतभाजनाः ॥
यदि पात्रं त्यजेत्कोऽपि ब्राह्मणः श्राद्धयोजितः ॥ २८-६३ ॥
श्राद्धहन्ता स विज्ञेयो नरकायोपपद्यते ॥
भुञ्जानेषु च विप्रेषु ह्यन्योन्यं संस्पुशेद्यदि ॥ २८-६४ ॥
तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत् ॥
भुज्यमानेषु विप्रेषु कर्त्ता श्रद्धापरायणः ॥ २८-६५ ॥
स्मरेन्नारायणं देवमनन्तमपराजितम् ॥
रक्षोघ्नान्वैष्णवांश्चैव पैतृकांश्चविशेषतः ॥ २८-६६ ॥
जपेच्च पौरुषं सूक्तं नाचिकेतत्रयं तथा ॥
त्रिमधु त्रिसुपर्णं च पावमानं यजूंषि च ॥ २८-६७ ॥
सामान्यपितथोक्तानि वदेत्पुण्यप्रदां स्तथा ॥
इतिहासपुराणानि धर्मशास्त्राणि चैव हि ॥ २८-६८ ॥
भुञ्जीरन्ब्रह्मणा यावत्तावदेताञ्जपेद्द्विज ॥
ब्राह्मणेषु च भुक्तेषु विकिरं विक्षिपेत्तथा ॥ २८-६९ ॥
शेषमन्नं वदेच्चैव मधुसूक्तं च वै जपेत् ॥
स्वयं च पादौ प्रक्ाल्य सम्यगाचम्य नारद ॥ २८-७० ॥
आचान्तेषु च विप्रेषु पिण्डं निर्वापयेत्ततः ॥
स्वस्तिवा चनकं कुर्यादक्षय्योदकमेव च ॥ २८-७१ ॥
दत्त्वा समाहितः कुर्यात्तथा विप्राभिवादनम् ॥
अचालयित्वा पात्रं तु स्वस्ति कुर्वन्ति ये द्विजाः ॥ २८-७२ ॥
वत्सरं पितरस्तेषां भवन्त्युच्छिष्टभोजिनः ॥
दातारो नोऽभिवर्द्धन्तामित्याद्यैः स्मृतिभाषितैः ॥ २८-७३ ॥
आशीर्वचो लभेत्तेभ्यो नमस्कारं चरेत्ततः ॥
दद्याच्च दक्षिणां शक्त्या ताम्बूलं गन्धसंयुतम् ॥ २८-७४ ॥
न्युब्जपात्रमथानीय स्वधाकारमुदीरयेत् ॥
वाजेवाजे इति ऋचा पितॄन्देवान्विसर्जयेत् ॥ २८-७५ ॥
भोक्ता च श्राद्धकृत्तस्यां रजन्यां मैथुनं त्यजेत् ॥
तथा स्वाध्यायमध्वानं प्रयत्नेन परित्यजेत् ॥ २८-७६ ॥
अध्वगश्चातुरश्चैव विहीनश्च धनैस्तथा ॥
आमश्राद्धं प्रकुर्वीत हेम्ना वास्पृश्यभार्यकः ॥ २८-७७ ॥
द्रव्याभावे द्विजाभावे ह्यन्नमात्रं च पाचयेत् ॥
पैतृकेन तु सूक्तेन होमं कुर्याद्विचक्षणः ॥ २८-७८ ॥
अत्यन्त हव्यशून्यश्चैत्स्वशक्त्या तु तृणं गवाम् ॥
स्नात्वा च विधिवद्विप्र कुर्याद्वा तिलतपर्णम् ॥ २८-७९ ॥
अथवा रोदनं कुर्यादत्युच्चैर्विजने वने ॥
दरिद्रोऽहं महापापी वदन्निति विचक्षणः ॥ २८-८० ॥
परेद्युः श्राद्धकृन्मर्त्यो यो न तर्पयते पितॄन् ॥
तत्कुलं नाशमायाति ब्रह्महत्यां च विन्दति ॥ २८-८१ ॥
श्राद्धं कुर्वन्ति ये मर्त्याः श्रद्धावन्तो मुनीश्वर ॥
न तेषां सन्ततिच्छेदः सम्पन्नास्ते भवन्ति च ॥ २८-८२ ॥
पितॄन्यञ्जति यें श्राद्धे तैस्तु विष्णुः प्रपूजितः ॥
तस्मिंस्तुष्टे जगन्नाथे सर्वास्तुष्यन्ति देवताः ॥ २८-८३ ॥
पितरो देवताश्चैव गन्धर्वाप्सरसस्तथा ॥
यक्षाश्च सिद्धा मनुजा हरिरेव सनातनः ॥ २८-८४ ॥
येनेदमखिलं जातं जगत्स्थावरजङ्गमम् ॥
तस्माद्दाता च भोक्ता च सर्वं विष्णुः सनातनः ॥ २८-८५ ॥
यदस्ति विप्र यन्नास्ति दृश्यं चादृश्यमेव च ॥
सर्वं विष्णुमयं ज्ञेयं तस्मादन्यन्न विद्यते ॥ २८-८६ ॥
आधारभूतो विश्वस्य सर्वभूतात्मकोऽव्ययः ॥
अनौपम्यस्वभावश्च भगवान्हव्यकव्यभुक् ॥ २८-८७ ॥
परब्रह्माभिधेयो य एक एव जनार्दनः ॥
कर्त्ता कारयिता चैव सर्वं विष्णुः सनातनः ॥ २८-८८ ॥
इत्येवं ते मुनिश्रेष्ठ श्राद्धास्य विधिरुत्तमः ॥
कथितः कुर्वतामेवं पापं सद्यो विलीयते ॥ २८-८९ ॥
य इदं पठते भक्त्या श्राद्धकाले द्विजोत्तमः ॥
पितरस्तस्य तुष्यन्ति सन्ततिश्चैव वर्द्धते ॥ २८-९० ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे श्राद्धक्रियावर्णनं नामाष्टाविंशोऽध्यायः ॥