०२५

सनक उवाच ॥
वर्णाश्रमाचारविधिं प्रवक्ष्यामि विशेषतः ॥
श्रृणुष्व तन्मुनिश्रेष्ट सावधानेन चेतसा ॥ २५-१ ॥

यः स्वधर्मं परित्यज्य परधर्मं समाचरेत् ॥
पाषण्डः स हि विज्ञेयः सर्वधर्मबहिष्कृतः ॥ २५-२ ॥

गर्भाधानादिसंस्काराः कार्या मन्त्रविधानतः ॥
स्त्रीणाममन्त्रतः कार्या यथाकालं यथाविधि ॥ २५-३ ॥

सीमन्तकर्म प्रथमं चतुर्थे मासि शस्यते ॥
षष्टे वा सत्पमे वापि अष्टमे वापि कारयेत् ॥ २५-४ ॥

जाते पुत्रे पिता स्नात्वा सचैलं जातकर्म च ॥
कुर्य्याच्च नान्दीश्राद्धं च स्वस्तिवाचनपूर्वकम् ॥ २५-५ ॥

हेम्ना वा रजतेनापि वृद्धिश्राद्धं प्रकल्पयेत् ॥
अन्नेन कारयेद्यस्तु स चण्डाल समो भवेत् ॥ २५-६ ॥

कृत्वाभ्युदयिकं श्राद्धं पिता पुत्रस्य वाग्यतः ॥
कुर्वीत नामनिर्द्देशं सूतकान्ते यथाविधि ॥ २५-७ ॥

अस्पष्टमर्थहीनं च ह्यतिगुर्वक्षरान्वितम् ॥
न दद्यान्नाम विप्रेन्द तथा च विषमाक्षरम् ॥ २५-८ ॥

तृतीयवर्षे चौलं च पञ्चमे षष्टसम्मिते ॥
सत्पमे चाष्टमे वापि कुर्याद् गृह्योक्तमार्गतः ॥ २५-९ ॥

दैवयोगादतिक्रान्ते गर्भाधानादिकर्मणि ॥
कर्तव्यः पादकृच्छ्रो वै चौले त्वर्द्धं प्रकल्पयेत् ॥ २५-१० ॥

गर्भाष्टमेऽष्टमे वाब्दे बटुकस्योपनायनम् ॥
आषोडशाब्दपर्यन्तं गौणं कालमुशन्ति च ॥ २५-११ ॥

गर्भैकादशमेऽब्दे तु राजन्यस्योपनायनम् ॥
आद्वाविंशाब्दपर्यन्तं कालमाहुर्विपश्चितः ॥ २५-१२ ॥

वैश्वोपनयनं प्रोक्तं गर्भाद्द्वादशमे तथा ॥
चतुर्विंशाब्दपर्यन्तं गौणमाहुर्मनीषिणः ॥ २५-१३ ॥

एतत्कालावधेर्यस्य द्विजस्यातिक्रमो भवेत् ॥
सावित्रीपतितं विद्यात्तं तु नैवालपेत्कदा ॥ २५-१४ ॥

द्विजोपनयने विप्र मुख्यकालव्यतिक्रमे ॥
द्वादशाब्दं चरेत्कृच्छ्रं पश्चाज्चान्द्रायणं तथा ॥
सान्तपनद्वयं चैव कृत्वा कर्म समाचरेत् ॥ २५-१५ ॥

अन्यथा पतितं विद्यात्कर्त्तापि ब्रह्महा भवेत् ॥
र्मौजी विप्रस्य विज्ञेया धनुर्ज्या क्षत्त्रियस्य तु ॥ २५-१६ ॥

आवी वैश्यस्य विज्ञेया श्रूयतामजिने तथा ॥
विप्रस्य चोक्तमैणेयं रौरवं क्षत्रियस्य तु ॥ २५-१७ ॥

आजं वेश्यस्य विज्ञेयं दण्डान्वक्ष्ये यथाक्रमम् ॥
पालाशं ब्राह्मणस्योक्तं नृपस्यौदुम्बरं तथा ॥ २५-१८ ॥

बैल्वं वैश्यस्य विज्ञेय तत्प्रमाणं श्रृणुष्व मे ॥
विप्रस्य केशमानं स्यादाललाटं नृपस्य च ॥ २५-१९ ॥

नासाग्रसम्मितं दण्डं वैश्यस्याहुर्विपश्चितः ॥
तथा वासांसि वक्ष्यामि विप्रादीनां यथाक्रमम् ॥ २५-२० ॥

कषायं चैव माञ्जिष्टं हारिद्रं च प्रकीर्तितम् ॥
उपनीतो द्विजो विप्र परिचर्यापरो गुरोः ॥ २५-२१ ॥

वेदग्रहणपर्यन्तं निवसेद्गुरुवेश्मनि ॥
प्रातः स्नायी भवेद्वर्णी समित्कुशफलादिकान् ॥ २५-२२ ॥

गुर्वर्थमाहरेन्नित्यं कल्ये कल्ये मुनीश्वर ॥
यज्ञोपवीतमजिनं दण्डं च मुनिसत्तम ॥ २५-२३ ॥

नष्टे भ्रष्टे नवं मन्त्राद्धृत्वा भ्रष्टं जले क्षिपेत् ॥
वर्णिनो वर्त्तनं प्राहुर्भिक्षान्नेनैव केवलम् ॥ २५-२४ ॥

भिक्षा च श्रोत्रियागारादाहरेत्प्रयतेन्द्रियः ॥
भवत्पूर्वं ब्राह्मणस्य भवन्मध्यं नृपस्य च ॥ २५-२५ ॥

भवदत्यं विशः प्रोक्तं भिक्षाहरणकं वचः ॥
सांयप्रातर्वह्निकार्यं यथाचारं जितेन्द्रियः ॥ २५-२६ ॥

कुर्यात्प्रतिदिनं वर्णीं ब्रह्मयज्ञं च तर्पणम् ॥
अग्निकार्यपरित्यागी पतितः प्रोच्यते बुधैः ॥ २५-२७ ॥

ब्रह्मयज्ञविहीनश्च ब्रह्महा परिकीर्तितः ॥
देवताभ्यर्च्चनं कुर्याच्छुश्रूषानुपदं गुरोः ॥ २५-२८ ॥

भिक्षान्नं भोजयेन्नित्यं नैकान्नाशी कदाचन ॥
आनीयानिन्द्यविप्राणां गृहाद्भिक्षां जितेन्द्रियः ॥ २५-२९ ॥

निवेद्य गुरवेऽश्रीयाद्वाग्यतस्तदनुज्ञया ॥
मधुस्त्रीमांसलवणं ताम्बूलं दन्तधावनम् ॥ २५-३० ॥

उच्छिष्टभोजनं चैव दिवास्वापं च वर्जयेत् ॥
छत्रपादुक गन्धांश्च तथा माल्यानुलेपनम् ॥ २५-३१ ॥

जलकेलिं नृत्यगीतवाद्यं तु परिवर्जयेत् ॥
परिवादं चोपतापं विप्रलापं तथाञ्जनम् ॥ २५-३२ ॥

पाषण्ड जनसंयोगं शूद्रसङ्गं च वर्जयेत् ॥
अभिवादनशीलः स्याद् वृद्धेषु च यथाक्रमम् ॥ २५-३३ ॥

ज्ञानवृद्धास्तपोवृद्धा वयोवृद्धा इति त्रयः ॥
आध्यात्मिकादिदुःखानि निवारयति यो गुरुः ॥ २५-३४ ॥

वेदशास्त्रोपदेशेन तं पूर्वमभिवादयेत् ॥
असावहमिति ब्रूयाद्दिजो वै ह्यभिवादने ॥ २५-३५ ॥

नाभिवाद्याश्च विप्रेण क्षत्रियाद्याः कथञ्चन ॥
नास्तिकं भिन्नमर्यादं कृतन्घं ग्रामयाजकम् ॥ २५-३६ ॥

स्तेनं च कितवं चैव कदाचिन्नाभिवादयेत् ॥
पाषण्डं पतितं व्रात्यं तथा नक्षत्रजीविनम् ॥ २५-३७ ॥

तथा पातकिनं चैव कदाचिन्नाभिवादयेत् ॥
उन्मत्तं च शठं धूर्त्तं धावन्तमशुचिं तथा ॥ २५-३८ ॥

अभ्यक्तशिरसं चैव जपन्तं नाभिवादयेत् ॥
विवादशीलिनं चण्डं वमन्तं जलमध्यगम् ॥ २५-३९ ॥

भिक्षान्नधारिणं चैव शयानं नाभिवादयेत् ॥
भर्तृघ्नी पुष्पिणीं जारां सूतिकां गर्भपातिनीम् ॥ २५-४० ॥

कृतन्घीं च तथा चण्डीं कदाचिन्नाभिवादयेत् ॥
सभायां यज्ञशालायां देवतायतनेष्वपि ॥ २५-४१ ॥

प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुराकृतम् ॥
श्राद्धं व्रतं तथा दानं देवताभ्यार्चनं तथा ॥ २५-४२ ॥

यज्ञं च तर्पणं चैव कुर्वन्तं नाभिवादयेत् ॥
कृतेऽभिवादने यस्तु न कुर्यात्प्रतिवादनम् ॥ २५-४३ ॥

नाभिवाद्यः स विज्ञेयो यया शूद्रस्तथैव सः ॥
प्रक्षाल्य पादावाचम्य गुरोरभिमुखः सदा ॥ २५-४४ ॥

तस्य पादौ च सङ्गृह्य अधीयीत विचक्षणः ॥
अष्टकासु चतुर्दश्यां प्रतिपत्पर्वणोस्तथा ॥ २५-४५ ॥

महाभरण्यां विप्रेद्रं श्रवणद्वादशीदिने ॥
भाद्रपदापरपक्षे द्वितीयायां तथैव च ॥ २५-४६ ॥

माघस्य शुक्लसप्तम्यां नवम्यामाश्विनस्य च ॥
परिवेषं गते सूर्ये श्रोत्रिये गृहमागते ॥ २५-४७ ॥

बन्धिते ब्रह्मणे चैव प्रवृद्धकलहे तथा ॥
सन्ध्यायां गर्जिते मेघे ह्यकाले परिवर्षणे ॥ २५-४८ ॥

उल्काशनिप्रपाते च तथा विप्रेऽवमानिते ॥
मन्वादिषु च देवर्षे युगादिषु चतुर्ष्वपि ॥ २५-४९ ॥

नाधीयीत द्विजः कश्चित्सर्वकर्मफलोत्सुकः ॥
तृतीया प्राधवे शुक्ला भाद्रे कृष्णा त्रयोदशी ॥ २५-५० ॥

कार्त्तिके नवमी शुद्धा माघे पञ्चदशी तिथिः ॥
एता युगाद्याः कथिता दत्तस्याक्षयकारिकाः ॥ २५-५१ ॥

मन्वादींश्च प्रवक्ष्यामि श्रृणुष्व सुसमाहितः ॥
अक्षयुक्छुक्लनवमी कार्तिके द्वादशी सिता ॥ २५-५२ ॥

तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥
आषाढशुक्लदशमी सिता माघस्य सप्तमी ॥ २५-५३ ॥

श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णमा ॥
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ॥ २५-५४ ॥

कार्तिकी फाल्गुनी चैत्रीं ज्यैष्ठी पञ्चदशी सिता ॥
मन्वादयः समाख्याता दत्तस्याक्षयकारिकाः ॥ २५-५५ ॥

द्विजैः श्रद्धं चकर्त्तव्यं मन्वादिषु युगादिषु ॥
श्राद्धे निमन्त्रिते चैवग्रहणे चन्द्रसूर्ययोः ॥ २५-५६ ॥

अयनद्वितये चैव तथा भूकम्पने मुने ॥
गलग्रहे दुर्द्दिने च नाधीयीत कदाचन ॥ २५-५७ ॥

एवमादिषु सर्वेषु अनध्यायेषु नारद ॥
अधीयतां सुमूढानाम्प्रजाम्प्रज्ञांयशः श्रियम् ॥ २५-५८ ॥

आयुष्यं बलमारोग्यं निकृन्तति यमः स्वयम् ॥
अनध्याये तु योऽधीते तं विद्याद्वब्रह्मघातकम् ॥ २५-५९ ॥

न तं सम्भाषयेद्विप्रन तेन सह संवसेत् ॥
कुण्डगोलकयोः केचिज्जडादीनां च नारद ॥ २५-६० ॥

वदन्ति चोपनयनं तत्पुत्रादिषु केचन ॥
अनधीत्य तु यो वेदमन्त्रय कुरुते श्रमम् ॥ २५-६१ ॥

शूद्रतुल्यः स विज्ञेयो नरकस्य प्रियोऽतिथिः ॥
अनधीतश्रुतिर्विप्र आचार प्रतिपद्यते ॥ २५-६२ ॥

नाचारफलमान्पोति यथा शूद्रस्तथैव सः ॥
नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम् ॥ २५-६३ ॥

अनधीतस्य विप्रस्य सर्वं भवति निष्फलम् ॥
शब्दब्रह्ममयो विष्णुर्‌वेदः साक्षाद्धारि स्मृकतः ॥ २५-६४ ॥

वेदाध्यायी ततो विप्रः सर्वान्कामानवाप्नुयात् ॥ २५-६५ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्ताचारेषु वर्णाश्रमधर्मेष्वध्ययनादिधर्मनिरुपणं नाम पञ्चविंशोऽध्यायः ॥