सूत उवाच ॥
एतन्निशम्य सनकोदितमप्रमेयं पुण्यं हरेर्दिनभवं निखिलोत्तमं च ॥
पापौघशान्तिकरणं व्रतसारमेवं ब्रह्मात्मजः पुनरभाषत हर्षयुक्तः ॥ २४-१ ॥
नारद उवाच ॥
कथितं भवता सर्वं मुने तत्त्वार्थकोविद ॥
व्रताख्यानं महापुण्यं यथावद्धरिभक्तिदम् ॥ २४-२ ॥
इदानीं श्रोतुमिच्छामि वर्णाचचारविधिं मुने ॥
तथा सर्वाश्रमाचारं प्रायश्चित्तविधिं तथा ॥ २४-३ ॥
एतत्सर्वं महाभाग सर्वतत्त्वार्थकोविद ॥
कृपया परया मह्यं यथावद्वक्तुमर्हसि ॥ २४-४ ॥
सनक उवाच ॥
श्रृणुष्व मुनिशार्दूल यथा भक्तप्रियङ्करः ॥
वर्णाश्रमाचारपरैः पूज्यते हरिरव्ययः ॥ २४-५ ॥
मन्वाद्यैरुदितं यच्च वर्णाश्रमनिबन्धनम् ॥
तत्ते वक्ष्यामि विधिवद्भक्तोऽसि त्वमधोक्षजे ॥ २४-६ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चत्वार एव ते ॥
वर्णा इति समाख्याता एतेषु ब्राह्मणोऽधिकः ॥ २४-७ ॥
ब्राह्मणाः क्षत्रिया वैश्या द्विजाः प्रोक्तास्त्रयस्तथा ॥
मातृतश्चोपनयनाद्दिजत्वं प्राप्यते त्रिभिः ॥ २४-८ ॥
एतैर्वर्णैः सर्वधर्माः कार्या वर्णानुरुपतः ॥
स्ववर्णधर्मत्यागेन पाषण्डः प्रोच्यते बुधैः ॥ २४-९ ॥
स्वगृह्यचोदितं कर्मद्विजः कुर्वन्कृती भवेत् ॥
अन्यथा पतितो भूयात्सर्वधर्मबहिष्कृतः ॥ २४-१० ॥
युगधर्मः परिग्राह्यो वेर्णैरेतैर्यथोचितम् ॥
देशाचारास्तथाग्राह्याः स्मृतिधर्माविरोधतः २४-११ ॥
कर्मणा मनसा वाचा यत्नाद्धर्म्मं समाचरेत् ॥
अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्नतु ॥ २४-१२ ॥
समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ॥
द्विजानामसवर्णासु कन्यासूपयमस्तथा ॥ २४-१३ ॥
देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्वधः ॥
मांसादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ॥ २४-१४ ॥
दत्ताक्षतायाः कन्यायाः पुनर्दानं वराय च ॥
नैष्टिकं ब्रह्मचर्यं च नरमेधाश्चमेधकौ ॥ २४-१५ ॥
महाप्रस्थानगमनं गोमेधश्च तथा मखः ॥
एतान्धर्मान्कलियुके वर्ज्यानाहुर्मनीषिणः ॥ २४-१६ ॥
देशाचाराः परिग्राह्यास्तत्तद्देशगतैर्नरैः ॥
अन्यथा पतितो ज्ञेयः सर्वधर्मबहिष्कृतः ॥ २४-१७ ॥
ब्राह्मणक्षत्रियविशां शूद्राणां च द्विजोत्तमा ॥
क्रियाः सामान्यतो वक्ष्ये तच्छृणुष्व समाहितः ॥ २४-१८ ॥
दानं दद्याद्ब्राह्मणेभ्यस्तथा यज्ञैर्यजेत्सुरान् ॥
वृत्त्यर्थं याचयेच्चैव अन्यानध्यापयेत्तथा ॥ २४-१९ ॥
याजयेद्यजने योग्यान्विप्रो नित्योदकी भवेत् ॥
कुर्य्याच्च वेदग्रहणं तथाग्रेश्च परिग्रहम् ॥ २४-२० ॥
ग्राह्ये द्र्व्ये च पारक्ये समबुद्धिर्भवेत्तथा ॥
सर्वलोकहितं कृर्यान्मृदुवाक्यमुदीरयेत् ॥ २४-२१ ॥
ऋतावभिगमः पत्न्यां शस्यते ब्राह्मणस्य वै ॥
न कस्याप्यहितं ब्रूयाद्विष्णुपूजापरो भवेत् ॥ २४-२२ ॥
दद्याद्दानानि विप्रेभ्यः क्षत्रियोऽपि द्विजोत्तम ॥
कुर्य्याच्च वेदग्रहणं यज्ञैर्द्देवान्यजेत्तथा ॥ २४-२३ ॥
शस्त्राजीवी भवेच्चैव पालयेद्धर्मतो महीम् ॥
दुष्टानां शासनं कुर्य्याच्छिष्टानां पालनं तथा ॥ २४-२४ ॥
पाशुपाल्यं च वाणिज्यं कृंषिश्च द्विजसत्तम ॥
वेदस्याध्ययनं चैव वैश्यस्यापि प्रकीर्त्तितम् ॥ २४-२५ ॥
कुर्याच्च दारग्रहणं धर्माश्चैव समाचरेत् ॥
क्रयविक्रयजर्वापि धनैः कारुक्रियोद्भवैः ॥ २४-२६ ॥
दद्याद्दानानि शूद्रोऽपि पाकयज्ञैर्यजेन्न च ॥
ब्राह्मणक्षत्रियविशां शुश्रूषानि रतो भवेत् ॥ २४-२७ ॥
ऋतुकालाभिगामीच स्वदारेषु भवेत्तथा ॥
सर्वलोकहितोषित्वं मङ्गलं प्रियवादिता ॥ २४-२८ ॥
अनायासो मनोहर्षस्तितिक्षा नातिमानिता ॥
सामान्यं सर्ववर्णानां मुनिभिः परिकीर्तितम् ॥ २४-२९ ॥
सर्वे च मुनितां यान्ति स्वाश्रमोचितकर्मणा ॥
ब्राह्मणः क्षत्रियाचारमाश्रयेदापदि द्विज ॥ २४-३० ॥
क्षत्रियोऽपि च विड्वृत्तिमत्यापदि समाश्रयेत् ॥
नाश्रयेच्छूद्रवृत्तिं तु अत्यापद्यपि वै द्विजः ॥ २४-३१ ॥
यद्याश्रयेद्दिजो मूढस्तदा चाण्डासतां व्रजेत् ॥
ब्राह्मणक्षत्रियविशां त्रयाणां मुनिसत्तम ॥ २४-३२ ॥
चत्वार आश्रमाः प्रोक्ताः पञ्चमो नोपपद्यते ॥
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सत्तम ॥ २४-३३ ॥
चतुर्भिराश्रमैरेभिः साध्यते धर्म उत्तमः ॥
विष्णुस्तुष्यति विप्रेन्द्र कर्मयोगरतात्मनः ॥ २४-३४ ॥
निःस्पृहाशान्तमनसः स्वकर्मनिरतस्य च ॥
ततो याति परं स्थानं यतो नावर्त्तते पुनः ॥ २४-३५ ॥
इति श्रीबृहन्नारायणपुराणे पूर्वभागे प्रथमपादे सदाचारो नाम चतुर्विशोऽध्यायः ॥