सनक उवाच ॥
इदमन्यत्प्रवक्ष्यामि व्रतं त्रैलोक्यविश्रुतम् ॥
सर्वपापप्रशमनं सर्वकामफलप्रदम् ॥ २३ -१ ॥
ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषिताम् ॥
मोक्षदं कुर्वतां भक्त्या विष्णोः प्रियतरं द्विज ॥ २३-२ ॥
एकादशीव्रतं नाम सर्वाभीष्टप्रदं नृणाम् ।.
कर्त्तव्यं सर्वथा विप्रविष्णुप्रीतिकरं यतः ॥ २३-३ ॥
एकादश्यां न भुञ्जीत पक्षयोरुभयोपरि ॥
यो भुङ्क्ते सोऽत्र पापीयान्परत्र नरकं व्रजेत् ॥ २३-४ ॥
उपवासफलं लिप्सुर्जह्याद्भुक्तिचतुष्टयम् ॥
पूर्वापरदिने गत्रावहोरात्रं तु मध्यमे ॥ २३-५ ॥
एकादशीदिने यस्तु भोक्तुमिच्छति मानवः ॥
स भोक्तुं सर्वपापानि स्पृहयालुर्नसंशयः ॥ २३-६ ॥
भवेद्दशम्यामेकाशीद्वादश्यां च मुनीश्वर ॥
एकादश्यां निराहारो यदि मुक्तिमभीप्सति ॥ २३-७ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥
अन्नमाश्रित्य तिष्ठन्ति तानि विप्र हरेश्वर ॥
एकादश्यां निराहारो यदि मुक्तिमभीप्सति ॥ २३-८ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥
अन्नमाश्रित्य तिष्ठन्ति तानि च मुनीश्वर ॥
एकादश्यां निराहारो यदि मुक्तिमभीप्सति ॥ २३-९ ॥
महापातकयुक्तो वायुक्तो वा सर्व पातकैः ॥
एकादश्यां निराहारः स्थित्वा याति परां गतिम् ॥ २३-१० ॥
एकादशी महापुण्या विष्णोः प्रियतमा तिथिः ॥
संसेव्या सर्वथा विप्रैः संसारच्छेदलिप्सुभिः ॥ २३-११ ॥
दशम्यां प्रातरुत्थाय दन्तधावनपूर्वकम् ॥
स्नापयेद्विधिवद्विष्णुं पूजयेत्प्रयतेन्द्रियः ॥ २३-१२ ॥
एकादश्यां निराहारो निगृहीतेन्द्रियो भवेत् ॥
शयीत सन्निधौ विष्णोर्नारायणपरायणः ॥ २३-१३ ॥
एकादश्यां तथा स्नात्वा सम्पूज्य च जनार्दनम् ॥
गन्धपुष्पादिभिः सम्यक् ततस्त्वे वसुदीरयेत् ॥ २३-१४ ॥
एकादश्यां निराहारः स्थित्वाद्याहं परेऽहनि ॥
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥ २३-१५ ॥
इमं मन्त्रं समुच्चाय देव देवस्य चक्रिणः ॥
भक्तिभावेन तुष्टात्मा उपवासं समर्पयेत् ॥ २३-१६ ॥
देवस्य पुरतः कुर्याज्जागरं नियतो व्रती ॥
गीतैर्वाद्यैश्च नृत्यैश्च पुराणश्रवणादिभिः ॥ २३-१७ ॥
ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती ॥
स्नात्वा च विधिवद्विष्णुं पूजयत्प्रयतेन्द्रियः ॥ २३-१८ ॥
पञ्चामृतेन संस्नाप्य एकादश्यां जनार्द्दनम् ॥
द्वादश्यां पयसा विप्र हरिसारुपप्यमश्नुते ॥ २३-१९ ॥
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ॥
प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ॥ २३-२० ॥
एवं विज्ञाप्य विप्रेन्द्र माधवं सुसमाहितः ॥
ब्रह्मणान्भोजयेच्छक्त्या दद्याद्वै दक्षिणां तथा ॥ २३-२१ ॥
ततः स्वबन्धुभिः सार्द्धं नारायणपरायणः ॥
कृतपञ्चमहायज्ञः स्वयं भुञ्जीत वाग्यतः ॥ २३-२२ ॥
एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम् ॥
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥ २३-२३ ॥
उपवासव्रतपरो धर्मकार्यपरायणः ॥
चाण्डालान्पतितांश्चैव नेक्षेदपि कदाचन ॥ २३-२४ ॥
नास्तिकान्भिन्नमर्योदान्निन्दकान्पिशुनांस्तथा ॥
उपवास व्रतपरो नालपेच्च कदाचन ॥ २३-२५ ॥
वृषलीसूतिपोष्टारं वृषलीपतिमेव च ॥
अयाज्ययाजकं चैव नालपेत्सर्वदा व्रती ॥ २३-२६ ॥
कुण्डाशिनं गायकं च तथा देवलकाशिनम् ॥
भिषजं काव्यकर्त्तारं देवद्विजविरोधिनम् ॥ २३-२७ ॥
परान्नलोलुपं चैव परस्त्रीनिरतं तथा ॥
व्रतोपवासनिरतो वाङ्मात्रेणापि नार्चयेत् ॥ २३-२८ ॥
इत्येवमादिभिः शुद्धो वशी सर्वहिते रतः ॥
उपवासपरो भूत्वा परां सिद्धिमवान्पुयात् ॥ २३-२९ ॥
नास्ति गङ्गासमं तीर्थं नास्ति मातृसमोगुरुः ॥
नास्तु विष्णुसमं दैवं तपो नानशनात्परम् ॥ २३-३० ॥
नास्ति क्षमासमा माता नास्ति कीर्तिसमं धनम् ॥
नास्ति ज्ञानसमो लाभो न च धर्म समः पिता ॥ २३-३१ ॥
न विवेकसमो बन्धुनैकादश्याः परं व्रतम् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ २३-३२ ॥
संवादं भद्रशीलस्य तत्पितुर्गालवस्य च ॥
पुरा हिगालवो नाम मुनिः सत्यपरायणः ॥ २३-३३ ॥
उवास नर्मदातीरे शान्तो दान्तस्तपोनिधिः ॥
बहुवृक्षसमाकीर्णे गजभल्लुनिषेविते ॥ २३-३४ ॥
सिद्धचारणगन्धर्व यक्षविद्याधरान्विते ॥
कन्दमूलफलैः पूर्णे मुनिवृन्दनिषेदिते ॥ २३-३५ ॥
गालवो नाम विप्रेन्द्रो निवासमकरोच्चिरम् ॥
तस्याभवद्भद्रशील इति ख्यातः सुतो वशी ॥ २३-३६ ॥
जान्तिस्मरो महाभागो नारायणपरायणः ॥
बालक्रीडनकालेऽपि भद्रशीलो महामतिः ॥ २३-३७ ॥
मृदा च विष्णोः प्रतिमां कृत्वा पूजयते क्षणम् ॥
वयस्यान्बोधयेच्चापि विष्णुः पूज्यो नरैः सदा ॥ २३-३८ ॥
एकादशीव्रतं चैव कर्त्तव्यमपि पण्डितैः ॥
एवं ते बोधितास्तेन शिशवोऽपि मुनीश्वर ॥ २३-३९ ॥
हरिं मृदैव निर्माय पृथक्सम्भूय वा मुदा ॥
अर्चयन्ति महाभागा विष्णुभक्तिपरायणाः ॥ २३-४० ॥
नमस्कुर्वन्भद्रमतिर्विष्णवे सर्वविष्णवे ॥
सर्वेषां जगतां स्वस्ति भूयादित्यब्रवीदिदम् ॥ २३-४१ ॥
क्रीडाकाले मुहूर्तं वा मुहूर्तार्द्धमथापि वा ॥
एकादशीति सङ्कल्प्यव्रतं यच्छति केशवे ॥ २३-४२ ॥
एवं सुचरितं दृष्ट्वा तनयं गालवो मुनिः ॥
अपृच्छद्विस्मयाविष्टः समालिङ्ग्य तपोनिधिः ॥ २३-४३ ॥
गालव उवाच ॥
भद्रशील महाभाग भद्रशीलोऽसि सुव्रत ॥
चरितं मङ्गलं यत्ते योगिनामपि दुर्लभम् ॥ २३-४४ ॥
हरिपूजापरो नित्यं सर्वभूतहितेरतः ॥
एकादशीव्रतपरो निषिद्धाचारवर्जितः ॥
निर्द्धन्द्वो निर्ममः शान्तो हरिध्यानपरायाणः ॥ २३-४५ ॥
एवमेतादृशी बुद्धिः कथं जातार्भकस्यते ॥
विनापि महतां सेवां हरिभक्तिर्हि दुर्लभा ॥ २३-४६ ॥
स्वभावतो जनस्यास्य ह्यविद्याकामकर्मसु ॥
प्रवर्त्तते मतिर्वत्स कथं तेऽलौकिकी कृतिः ॥ २३-४७ ॥
सत्सङ्गेऽपि मनुष्याणां पूर्वपुण्यातिरेकतः ॥
जायते भगवद्भक्तिस्तदहं विस्मयं गतः ॥ २३-४८ ॥
पृच्छामि प्रीतिमापन्नस्तद्भवान्वक्तुमर्हति ॥
भद्रशीलो मुनिश्रेष्टः पित्रैवं सुविकल्पितैः ॥ २३-४९ ॥
जातिस्मरः सुकृतात्मा हृष्टप्रहसिताननः ॥
स्वानभ्रुतं यथाव्रतं सर्वं पित्रे न्यवेदयत् ॥ २३-५० ॥
भद्रशील उवाच ॥
श्रृणु तात मुनिश्रेष्ट ह्यनुभूतं मया पुरा ॥
जातिस्मरत्वाज्जानामि यमेन परिभाषितम् ॥ २३-५१ ॥
एतच्छ्रत्वा महाभागो गालवो विस्मयोन्वितः ॥
उवाच प्रीतिमापन्नो भद्रशीलं महामतिम् ॥ २३-५२ ॥
गालव उवाच ॥
कस्त्वं पूर्वं महाभाग किमुक्तं च यमेन ते ॥
कस्य वा केन वा हेतोस्तत्सर्वं वक्तुमर्हसि ॥ २३-५३ ॥
भद्रशील उवाच ॥
अहमासं पुरा तात राजा सोमकुलोद्भवः ॥
धर्मकीर्तिरिति ख्यातो दत्तात्रेयेण शासितः ॥ २३-५४ ॥
नव वर्षसहस्त्राणि महीं कृत्स्त्रमपालयम् ॥
अधर्माश्च तथा धर्मा मया तु बहवः कृताः ॥ २३-५५ ॥
ततः श्रिया प्रमत्तोऽहं बह्वधर्मम कारिषम् ॥
पाषण्डजनसंसर्गात्पाषण्डचरितोऽभवम् ॥ २३-५६ ॥
पुरार्जितानि पुण्यानि मया तु सुबहून्यपि ॥
पाषण्डैर्बाधितोऽहं तु वेदमार्गं समत्यजम् ॥ २३-५७ ॥
मखाश्च सर्वे विध्वस्ता कूटयुक्तिविदा मया ॥
अधर्मनिरतं मां तु दृष्ट्वा महेशजाः प्रजाः॥ २३-५८ ॥
सदैव दुष्कृतं चक्रुः षष्टांशस्तत्रमेऽभवत् ॥
एवं पापसमाचारो व्यसनाभिरतः सदा ॥ २३-५९ ॥
मृगयाभिररतो भूत्वा ह्येकदा प्राविशं वनम् ॥
ससैन्योऽहं वने तत्र हत्वा बहुविधान्मृगान् ॥ २३-६० ॥
क्षुत्तृट्परिवृतः श्रान्तो रेवातीरमुपागमम् ॥
रवितीक्ष्णातपक्लान्तो रेवायां स्नानमाचरम् ॥ २३-६१ ॥
अदृष्टसैन्य एकाकी पीड्यमानः क्षुधा भृशम् ॥ २३-६२ ॥
समेतास्तत्र ये केचिद्रेवातीरनिवासिनः ॥
एकादशीव्रतपरा मया दृष्ट्वा निशामुखे ॥ २३-६३ ॥
निराहारश्च तत्राहमेकाकी तज्जनैः सह ॥
जागरं कृतवांश्वापि सेनया रहितो निशि ॥ २३-६४ ॥
अध्वश्रमपरिश्रान्तः क्षुत्पिपासाप्रपीडितः ॥
तत्रैव जागरान्तेऽहं तातपञ्चत्वमागतः ॥ २३-६५ ॥
ततो यमभटैर्बद्धो महादंष्ट्राभयङ्करैः ॥
अनेकक्लेशसम्पन्नमार्गेणाप्तो यमान्तिकम् ॥
दंष्ट्राकरालवदनमपश्यं समवर्तिनम् ॥ २३-६६ ॥
अथ कालिश्चित्रगुप्तमाहूयेदमभाषत ॥
अस्य शिक्षाविधानं च यथावद्वद पण्डित ॥ २३-६७ ॥
एवमुक्तश्चित्रगुप्तो धर्मराजेन सत्तम ॥
चिरं विचारयामास पुनश्चेदमभाषत ॥ २३-६८ ॥
असौ पापरतः सत्यं तथापि श्रृणु धर्मप ॥
एकादश्यां निराहारः सर्वपापैः प्रमुच्यते ॥ २३-६९ ॥
एष रेवातटे रम्ये निराहारो हरेर्दिने ॥
जागरं चोपवासं च कृत्वा निष्पापतां गतः ॥ २३-७० ॥
यानि कानि च पापानि कृतानि सुबहूनि च ॥
तानि सर्वाणि नष्टानि ह्युपवासप्रभावतः ॥ २३-७१ ॥
एवमुक्तो धर्मराजश्चित्रगुप्तेन धीमता ।
ननाम दण्डवद्भूमौ ममाग्रे सोऽनुकम्पितः ॥ २३-७२ ॥
पूजयामास मां तत्र भक्तिभावेन धर्मराट् ॥
ततश्च स्वभटान्सर्वानाहूयेदमुवाच ह ॥ २३-७३ ॥
धर्मराज उवाच ॥
श्रृणुध्वं मद्वचो दूता हितं वक्ष्याम्यनुत्तममम् ॥
धर्ममार्गरतान्मर्त्यान्मानयध्वं ममान्तिकम् ॥ २३-७४ ॥
ये विष्णुपूजनरताः प्रयताः कृतज्ञाश्चैकादशीव्रतपरा विजितेन्द्रियाश्च ॥
नारायणाच्युतहरे शरणं भवेति शान्ता वदन्ति सततं तरसा त्यजध्वम् ॥ २३-७५ ॥
नारायणाच्युत जनार्दन कृष्ण विष्णो पद्मेश पद्मजपितः शिव शङ्करेति ॥
नित्यं वदन्त्यखिललोक हिताः प्रशान्ता दूरद्भटास्त्यजता तान्न ममैषु शिक्षा ॥ २३-७६ ॥
नारायणार्पितकृतान्हरिभक्तिभजः स्वाचारमार्गनिरतान् गुरुसेवकांश्च ॥
सत्पात्रदान निरतांश्च सुदीनपालान्दूतास्त्यजध्वमनिशं हरिनामसक्तान् ॥ २३-७७ ॥
पाषण्डसङ्गरहितान्द्विजभक्तिनिष्ठान्सत्सङ्गलोलुपतरांश्च तथातिथेयान् ॥
शम्भौ हरौ च समबुद्धिमतस्तथैव दूतास्त्यजध्वमुपकारपराञ्जनानाम् ॥ २३-७८ ॥
ये वर्जिता हरिकथामृतसेवनैश्च नारायणस्मृतिपरायणमानसैश्च ॥
विप्रेद्रपादजलसेचनतोऽप्रहृष्टांस्तान्पापिनो मम भटा गृहमानयध्वम् ॥ २३-७९ ॥
ये मातृतातपरिभर्त्सनशीलिनश्च लोकद्विषो हितजनाहितकर्मणश्च ॥
देवस्वलोभनिरताञ्जननाशकर्तॄनत्रानयध्वमपराधपरांश्च दूताः ॥ २३-८० ॥
एकादशीव्रतपराङ्मुखमुग्रशीलं लोकापवादनिरतं परनिन्दकं च ॥
ग्रामस्य नाशकरमुत्तमवैरयुक्तं दूताः समानयत विप्रधनेषु लुब्धम् ॥ २३-८१ ॥
ये विष्णुभक्तिविमुखाः प्रणमन्ति नैव नारायणं हि शरणागतपालकं च ॥
विष्ण्वालयं च नहि यान्ति नराः सुमूर्खास्तानानयध्वमतिपापरतान्प्रसाह्य ॥ २३-८२ ॥
एवं श्रुतं यदा तत्र यमेन परिभाषितम् ॥
मयानुतापदग्धेन स्मृतं तत्कर्म निन्दितम् ॥ २३-८३ ॥
असत्कर्मानुतापेन सद्धर्मश्रवणेन च ॥
तत्रैव सर्वपापानि निःशेषाणि गतानि मे ॥ २३-८४ ॥
पापशेषाद्विनिर्मुक्तं हरिसारुप्यतां गतम् ॥
सहस्रसूर्यसङ्काशं प्रणनाम यमश्च तम् ॥ २३-८५ ॥
एवं दृष्ट्वा विस्मितास्ते यमदूता भयोत्कटाः ॥
विश्वासं परमं चक्रुर्यमेन परिभाषिते ॥ २३-८६ ॥
ततः सम्पूज्य मां कालो विमानशतसङ्कुलम् ॥
सद्यः सम्प्रेषयामास तद्विष्णोः परमं पदम् ॥ २३-८७ ॥
विमानकोटिभिः सार्द्धं सर्वभोगसमन्वितैः ॥
कर्मणा तेन विप्रर्षे विष्णुलोके मयोषितम् ॥ २३-८८ ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
स्थित्वा विष्णुपदं पश्चादिन्द्रलोकमुपगमम् ॥ २३-८९ ॥
तत्रापि सर्वभोगाढ्यः सर्वदेवनमस्कृतः ॥
तावत्कालं दिविस्थित्वा ततो भूमिमुपागतः ॥ २३-९० ॥
अत्रापि विष्णुभक्तानां जातोऽहं भवतां कुले ॥
जातिस्मरत्वाडज्जानामि सर्वमेतन्मुनीश्वर ॥ २३-९१ ॥
तस्माद्विष्ण्वर्चनोद्योगं करोमि सह बालकैः ॥
एकादशीव्रतमिदमिति न ज्ञातवान्पुरा ॥ २३-९२ ॥
जातिस्मृतिप्रभावेण तज्ज्ञातं साम्प्रतं मया ॥
अत्र स्वेनापि यत्कर्म कृतं तस्य फलं त्विदम् ॥ २३-९३ ॥
एकादशीव्रतं भक्त्या कुर्वतां किमुत प्रभो ॥
तस्माच्चरिष्ये विप्रेन्द्र शुभमेकादशीव्रतम् ॥ २३-९४ ॥
विष्णुपूजां चाहरहः परमस्थानकाङ्क्षया ॥
एकादशीव्रतं यत्तु कुर्वन्ति श्रद्धया नराः ॥ २३-९५ ॥
तेषां तु विष्णुभवनं परमानन्ददायकम् ॥
एवं पुत्रवचः श्रुत्वा सन्तुष्टो गालवो मुनिः ॥ २३-९६ ॥
अवाप परमां तुष्टिं मनसा चातिहर्षितः ॥
मज्जन्म सफलं जातं मद्धंशः पावनीकृतः ॥ २३-९७ ॥
यतस्त्वं मद्गृहे जातो विष्णुभक्तिपरायणः ॥
इति सन्तुष्टचित्तस्तु तस्य पुत्रस्य कर्मणा ॥ २३-९८ ॥
हरिपूजाविधानं च यथावत्समबोधयत् ॥
इत्येतत्ते मुनिश्रेष्ट यथावत्कथितं मया ॥
सङ्कोचविस्तराभ्यां च किमन्यच्छ्रोतुमिच्छसि ॥ २३-९९ ॥
इति श्रीबृहन्नारदीये पुराणे पूर्वभागे प्रथमपादे ब्रताख्याने एकादशीव्रतमहिमानुवर्णनं नाम त्रयोविंशोऽध्यायः ॥