नारद उवाच ॥
भगवन्सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ॥
सर्वकर्मवरिष्टं च त्वयोक्तं ध्वजधारणम् ॥ २०-१ ॥
यस्तु वै सुमतिर्नाम ध्वजारोपपरो मुने ॥
त्वयोक्तस्तस्य चरितं विस्तरेण ममादिश ॥ २०-२ ॥
सनक उवाच ॥
श्रृणुष्वैकमनाः पुण्यमितिहासं पुरातनम् ॥
ब्रह्मणा कथितं मह्यं सर्वपापप्रणाशनम् ॥ २०-३ ॥
आसीत्पुरा कृतयुगे सुमतिर्नाम भूपतिः ॥
सोमवंशोद्भवः श्रीमान्सत्पद्वीपैकनायकः ॥ २०-४ ॥
धर्मात्मा सत्यसम्पन्नः शुचिवंश्योऽतिथिप्रियः ॥
सर्वलक्षणसम्पन्नः सर्वसम्पद्विभूषितः ॥ २०-५ ॥
सदा हरिकथासेवी हरिपूजापरायणः ॥
हरिभक्तिपराणां च शुश्रूषुर्निरहङ्कृतिः ॥ २०-६ ॥
पूज्यपूजारतो नित्यं समदर्शी गुणान्वितः ॥
सर्वभूतहितः शान्तः कृतज्ञः कीर्तिमांस्तथा ॥ २०-७ ॥
तस्य भार्या महाभागा सर्वलक्षणसंयुता ॥
पतिव्रता पतिप्राणा नाम्रा सत्यमतिर्मुने ॥ २०-८ ॥
तावुभौ दम्पती नित्यं हरिपूजापरायणौ ॥
जातिस्मरौ महाभागौ सत्यज्ञौ सत्परायणौ ॥ २०-९ ॥
अन्नदानरतौ नित्यं जलदानपरायणौ ॥
तडागारामवप्रादौ नसङ्ख्यातान्वितेनतुः ॥ २०-१० ॥
सा तु सत्यमतिर्नित्यं शुचिर्विष्णुगृहे सती ॥
नृत्यत्यत्यन्तसन्तुष्टा मनोज्ञा मञ्जुवादिनी ॥ २०-११ ॥
सोऽपि राजा महाभागो द्वादशीद्धादशीदिने ॥
ध्वजमारोपयत्येव मनोज्ञं बहुविस्तरम् ॥ २०-१२ ॥
एवं हरिपरं नित्यं राजानं धर्मकोविदम् ॥
प्रियां सत्यमतिं चास्य देवा अपि सदास्तुवन् ॥ २०-१३ ॥
त्रिलोके विश्रुतौ ज्ञात्वा दम्पती धर्मको विदौ ॥
आययौ बहुभिः शिष्यैर्द्रष्टुकामो विभाण्डकः ॥ २०-१४ ॥
तमायान्तं मुनिं श्रुत्वा स तु राजा विभाण्डकम् ॥
प्रत्युद्ययौ सपत्नीकः प्रजाभि र्बहुविस्तरम् ॥ २०-१५ ॥
कृतातिथ्यक्रियं शान्तं कृतासनपरिग्रहम् ॥
नीचासनस्थितो भूयः प्राञ्जलिर्मुनिमब्रवीत् ॥ २०-१६ ॥
राजो वाच ॥
भगवन्कृतकृत्योऽस्मिं त्वदभ्यागमनेन वै ॥
सतामायमनं सन्तं प्रशंसन्ति सुरवावहम् ॥ २०-१७ ॥
यत्र स्यान्महतां प्रेम तत्र स्युः सर्वसम्पदः ॥
तेजः कीर्तिर्धनं पुत्रा इति प्राहुर्विपश्चितः ॥ २०-१८ ॥
तत्र वृद्धिमुपायान्ति श्रेयांस्यनुदिनं मुने ॥
यत्र सन्तः प्रकुर्वन्ति महतीं करुणां प्रभो ॥ २०-१९ ॥
यो मृर्ध्नि धारयेदूह्यन्महत्पादजलं रजः ॥
स स्नातः सर्वतीर्थेषु पुण्यात्मा नात्र संशयः ॥ २०-२० ॥
मम पुत्राश्च दाराश्च सम्पत्त्वयि समर्पिताः ॥
मामाज्ञापय विप्रेन्द्र किं प्रियं करवाणि ते ॥ २०-२१ ॥
विनञ्चवनतं भूपं स निरीक्ष्य मुनीश्वरः ॥
स्पृशन्करेण तं प्रीत्युवाचातिहर्षितः ॥ २०-२२ ॥
ऋषिरुवाच ॥
गजन्यदुक्तं भवता तत्सर्वं त्वत्कुलोचितम् ॥
विनयावनतः सर्वो बहुश्रेयो लभेदिह ॥ २०-२३ ॥
धर्मश्चार्थश्च कामश्च मोक्षश्च नृपसत्तम ॥
विनयाल्लभते मर्त्यो दुर्लभं किं महात्मनाम् ॥ २०-२४ ॥
प्रीतोऽस्मि तव भूपाल सन्मार्गपरिवर्त्तिनः ॥
स्वस्ति ते सततं भूयाद्यत्पृच्छामि तदुच्यताम् ॥ २०-२५ ॥
पूजा बहुविधाः सन्ति हरितुष्टिविधायिकाः ॥
तासु नित्यं ध्वजारोपे वर्त्त्से त्वं सदोद्यतः ॥ २०-२६ ॥
भार्यापि तव साध्वीयं नित्यं नृत्यपरायणा ॥
किमर्थमेतद्वृत्तान्तं यथावद्वक्तुमर्हसि ॥ २०-२७ ॥
राजोवाच ॥
श्रृणुष्व भगवन्सर्वं यत्पृच्छसि वदामि तत् ॥
आश्चर्यभूतं लोकानामावयोश्चरितं त्विह ॥ २०-२८ ॥
अहमासं पुरा शूद्रो मालिनिर्नाम सत्तम ॥
कुमार्गनिरतो नित्यं सर्वलोकाहिते रतः ॥ २०-२९ ॥
पिशुनो धर्मविद्वेषी देवद्रव्यापहारकः ॥
गोध्नश्च ब्रह्महा चौरः सर्वप्राणिवधे रतः ॥ २०-३० ॥
नित्यं निष्ठुरवक्ता च पापी वेश्यापरायणः ॥
एवं स्थितः कियत्कालमनाहत्यं महदृचः ॥ २०-३१ ॥
सर्वबन्धुपरित्यक्तो दुःखी वनमुपागतः ॥
मृगमांसाशनो नित्यं तथा पान्थाविलुम्पकः ॥ २०-३२ ॥
एकाकी दुःखबहुलो न्यवसन्निर्जने वने ॥
एकदा क्षुत्परिश्रान्तो निदाघार्त्तः पिपासितः ॥ २०-३३ ॥
जीर्णं देवालयं विष्णोरपश्यं विजने वने ॥
हंसकारण्डवाकीर्णं तत्समीपे महत्सरः ॥ २०-३४ ॥
पर्यन्तवनपुष्पौघच्छादितं तन्मुनीश्वर ॥
अपिबं तत्र पानीयं तत्तीरे विगतश्रमः ॥ २०-३५ ॥
फलानि जग्ध्वा शीर्णानि स्वयं क्षुच्च निवारिता ॥
तस्मिञ्जीर्णीलये विष्णोनर्निवासं कृतकवानहम् ॥ २०-३६ ॥
जीर्णस्फुटितसन्धानं तस्य नित्यमकारिषम् ॥
पर्णैस्तृणैश्च काष्ठैघै र्गृहं सम्यक् प्रकल्पितम् ॥ २०-३७ ॥
स्वसुऱार्थं तु तद्भमिर्मया लिप्ता मुनीश्वर ॥
तत्राहं व्याधवृत्तिस्थो हत्वा बहुविधान्मृगान् ॥ २०-३८ ॥
आजीवं वर्तय न्नित्यं वर्षाणां विंशतिः स्थितः ॥
अथेयमागता साध्वी विन्ध्यदेशसमुद्भवा ॥ २०-३९ ॥
निषादकुलजा विप्रा नान्मा ख्याताऽवकोकिला ॥
बन्धुवर्गपरित्यक्ता दुःखिता जीर्णविग्रहा ॥ २०-४० ॥
क्षुत्तृड्घर्मपरिश्रान्ता शोचन्ती स्वकृतं ह्यघम् ॥
दैवयोगाकत्समायाताभ्रमन्ती विजने वने ॥ २०-४१ ॥
ग्रीष्मतापार्द्दिता बाह्ये स्वान्ते चाधिनिपूडिता ॥
इमां दुःखार्दितां दृष्ट्वा जाता मे विपुला दया ॥ २०-४२ ॥
दत्तं मया जलं चास्यै मांसं वन्यफलानि च ॥
गतश्रमात्वियं ब्रह्मन्मया पृष्टा यथा तथम् ॥ २०-४३ ॥
अवेदयत्स्ववृत्तान्तं तच्छृणुष्व महामुने ॥
नान्मावकोकिला चाहं निषादकुलसम्भवा ॥ २०-४४ ॥
दारुकस्य सुता चाहं विन्ध्यपर्वतवासिनी ॥
परस्वहारिणी नित्यं सदा पैशुन्यवादिनी ॥ २०-४५ ॥
पुंश्चलूत्येवमुक्त्वा तु बन्धुवर्गैः समुज्झिता ॥
कियत्कालं ततः पत्या भृताहं लोकनिन्दिता ॥ २०-४६ ॥
दैवात्सोऽपि गतो लोकं यमस्यात्र विहाय माम् ॥
कान्तारे विजने चैका भ्रमन्ती दुःखपीडिता ॥ २०-४७ ॥
दैवात्त्वत्सविधं प्राप्ता जीविताहं त्वयाधुना ॥
इत्येवं स्वकृतं कर्म मह्यं सर्वं न्यवेदयत् ॥ २०-४८ ॥
ततो देवालये तस्मिन्दम्पतीभावमाश्रितौ ॥
स्थितौ वर्षाणि दश च आवां मांसफलाशिनौ ॥ २०-४९ ॥
एकदा मद्यपानेन प्रमत्तौ निर्भरैमुने ॥
तत्र देवालये रात्रौ मुदितौ मांसभोजनात् ॥ २०-५० ॥
तनुवस्त्रापरिज्ञानौ नृत्यं चकृव मोहितौ ॥
प्रारब्धकर्म भोगान्तमावां युगपदागतौ ॥ २०-५१ ॥
यमदूतास्तदायाताः पाशहस्ता भयङ्कराः ॥
नेतुमावां नृत्यरतौ सुधोरां यमयातनाम् ॥ २०-५२ ॥
ततः प्रसन्नो भगवान्कर्मणा मम मानद ॥
देवावसथसंस्कारसञ्ज्ञितेन कृतेन नः ॥ २०-५३ ॥
स्वदूतान्प्रेषयामास स्वभक्तावनतत्परः ॥
ते दूता देवदेवस्य शङ्खचक्र गदाधराः ॥ २०-५४ ॥
सहस्रसूर्यासङ्काशाः सर्वे चारुचतुर्भुजाः ॥
किरीटकुण्डलधरा हारिणो वनमालिनः ॥ २०-५५ ॥
दिशो वितिमिरा विप्र कुर्वन्तः स्वेन तेजसा ॥
भयङ्करान्याशहस्तान्दंष्ट्रिणो यमकिङ्करान् ॥ २०-५६ ॥
आवयोग्राहणे यत्तानृचुः कृष्णपरायणाः ॥ २०-५७ ॥
विष्णुदूता ऊचुः ॥
भो भो क्रूरा दूराचारा विवेकपरिवर्जिताः ॥
मुञ्चध्वमेतौ निष्पापौ दम्पती हरिवल्लभौ ॥ २०-५८ ॥
विवेकस्त्रिषु लोकेषु सम्पदामादिकारणम् ॥
अपापे पापधीर्यस्तु तं विद्यात्पुरुषाधमम् ॥ २०-५९ ॥
पापे त्वपापधीर्यस्तु तं विद्यादधमाधमम् ॥ २०-६० ॥
यमदूता ऊचुः ॥
युष्माभिः सत्यमेवोक्तं किं त्वेतौ पापिसत्तमौ ॥
यमेन पापिनो दण्ड्यास्तन्नेष्यामो वयं त्विमौ ॥ २०-६१ ॥
श्रुतिप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ॥
धर्माधर्मविवेकोऽयं तन्नेष्यामो यमान्तिकम् ॥ २०-६२ ॥
एतच्त्छुवातिकुपिता विष्णुदूता महौजसः ॥
प्रत्यूचूस्तान्यमभटानधर्मे धर्ममानिनः ॥ २०-६३ ॥
विष्णदूता ऊचुः ॥
अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् ॥
सम्यग्विवेकशून्यानां निदानं ह्यापदां महत् ॥ २०-६४ ॥
तर्काणाद्यविशेषेण नरकाध्यक्षतां गताः ॥
यूयं किमर्थमद्यापि कर्त्तुं पापानि सोद्यमाः ॥ २०-६५ ॥
स्वकर्मक्षयपर्यन्तं महापातकिनोऽपि च ॥
तिष्टन्ति नरके घोरे यावच्चन्द्रार्कतारकम् ॥ २०-६६ ॥
पूर्वसञ्चितपापानामदृष्ट्वा निष्कृतिं वृथा ॥
किमर्थं पापकर्माणि करिष्येऽथ पुनः पुनः ॥ २०-६७ ॥
श्रुतिप्रणिहितो धर्मः सत्यं सत्यं न संशयः ॥
किन्त्वाभ्यां चरितान्धर्मान्प्रवक्ष्यामो यथातथम् ॥ २०-६८ ॥
एतौ पापविनिर्मुक्तौ हरिशुश्रूषणे रतौ ॥
हरिणात्रायमाणौ च मुञ्चध्वमविलम्बितम् ॥ २०-६९ ॥
एषा च नर्तनं चक्रे तथैव ध्वजरोषणम् ॥
अन्तकाले विष्णुगृहे तेन निष्पापतां गतौ ॥ २०-७० ॥
अन्तकाले तु यन्नाम श्रुत्वोक्त्वापि च वै सकृत् ॥
लभते परमं स्थानं किमु शूश्रूषणे रताः ॥ २०-७१ ॥
महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।.।
कृष्णसेवी नरोऽन्तेऽपि लभते परमां गतिम् ॥ २०-७२ ॥
यतीनां विष्णुभक्तानां परिचर्या परायणाः ॥
ते दूताः सहसा यान्ति पापिनोऽपि परां गतिम् ॥ २०-७३ ॥
मुहुर्तं वा मुहुर्तार्द्धं यस्तिष्टोद्धरिमन्दिरे ॥
सोऽपि याति परं स्थानं किमुद्वात्रघिंशवत्सरान् ॥ २०-७४ ॥
उपलेपनकर्त्तारौ सम्मार्जनपरायणौ ॥
एतौ हरिगृहे नित्यं जीर्णशीर्णाधिरोपकौ ॥ २०-७५ ॥
जलसेचनकर्त्तारौ दीपदौ हरिमन्दिरे ॥
कथमेतौ महाभागौ यातनाभोगमर्हथ ॥ २०-७६ ॥
इत्युक्ता विष्णुदूतास्ते च्छित्वा पाशांस्तदैव हि ॥
आरोप्यावां विमानाग्रयं ययुर्विष्णोः परं पदम् ॥ २०-७७ ॥
तत्र सामीप्यमापन्नौ देवदेवस्य चक्रिणः ॥
दिव्यान्भोगान्भुक्तवन्तौ तावत्कालं मुनीश्वर ॥ २०-७८ ॥
दिव्यान्भोगांस्तु तत्रापि भुक्त्वा यातौ महीमिमाम् ॥
अत्रापि सम्पदतुला हरिसेवाप्रसादतः ॥ २०-७९ ॥
अनिच्छया कृतेनापि सेवनेन हरेर्मुने ॥
प्राप्तमीदृक् फलं विप्र देवानामपि दुर्लभम् ॥ २०-८० ॥
इच्छयाराध्य विश्वेशं भक्तिभावेन माधवम् ॥
प्राप्स्यावः परमं श्रेय इति हेतुर्निरुपितः ॥ २०-८१ ॥
अवशेनापि यत्कर्म कृतं स्यात्सुमहत्फलम् ॥
जायते भूमिदेवेन्द्र किं पुनः श्रद्धया कृतम् ॥ २०-८२ ॥
एतदुक्तं निशम्यासौ स मुनीन्द्रो विभण्डकः ॥
प्रशस्य दम्पती तौ तु प्रययौ स्वतपोवनम् ॥ २०-८३ ॥
तस्माज्जानीहि देवर्षे देवदेवस्य चक्रिणः ॥
परिचर्या तु सर्वेषां कामधेनूपमा स्मृता ॥ २०-८४ ॥
हरिपूजापराणां तु हरिरेव सनातनः ॥
ददाति परमं श्रेयः सर्वकामफलमप्रदः ॥ २०-८५ ॥
य इदं पुण्यमाख्यानं सर्वपापप्रणाशनम् ॥
पठेच्च श्रृणुयाद्वापि सोऽपि याति परां रातिम् ॥ २०-८६ ॥
इति श्रबृहन्नारदीयपराणे पूर्वभागे प्रथमपादे सुमतिभूपकथावर्णनं नाम विंशऽध्यायः ॥