०१९

सनक उवाच ॥
अन्यद्वूतं प्रवक्ष्यामि ध्वजारोपणसञ्ज्ञितम् ॥
सर्वपापहरं पुण्यं विष्णुप्रीणनकारणम् ॥ १९-१ ॥

यः कुर्याद्विष्णुभवने ध्वजारोपणमुत्तमम् ॥
सम्पूज्यते विग्निञ्च्याद्यैः किमन्यैर्बहुभाषितैः ॥ १९-२ ॥

हेमभारसहस्त्रं तु यो ददाति कुटुम्बिने ॥
तत्फलं तुल्यमात्रं स्याद्धूजारोपणकर्मणः ॥ १९-३ ॥

ध्वजारोपणतुल्यं स्याद्गङ्गास्नानमनुत्तमम् ॥
अथवा तुलसिसेवा शिवलिङ्गप्रपूजनम् ॥ १९-४ ॥

अहोऽपूर्वमहोऽपूर्वमहोऽपूर्वमिदं द्विज ॥
सर्वपाप हरं कर्म ध्वजागोपणसञ्ज्ञितम् ॥ १९-५ ॥

सन्ति वै यानि कार्याणि ध्वजारोपणकर्मणि ॥
तानि सर्वाणि वक्ष्यामि श्रृणुष्व गदतो मम ॥ १९-६ ॥

कार्तिकस्य सिते पक्षे दशम्यां प्रयतो नरः ॥
स्नानं कुर्यात्प्रयत्नेन दन्तधावनपूर्वकम् ॥ १९-७ ॥

एकाशी ब्रह्मचारी च स्वपेन्नारायणं स्मरन् ॥
धौताम्बरधरः शुद्धो विप्रो नारायणाग्रतः ॥ १९-८ ॥

ततः प्रातः समुत्थाय स्नात्वाचम्य यथाविधि ॥
नित्यकर्माणि निर्वर्त्य पश्चाद्विष्णुं समर्चयेत् ॥ १९-९ ॥

चतुर्भिर्ब्राह्मणैः सार्ध्दं कृत्वा च स्वस्तिवाचनम् ॥
नान्दीश्राद्धं प्रकुर्वीत ध्वजारोपणकर्मणि ॥ १९-१० ॥

ध्वजस्तम्भो च गायत्र्या प्रोक्षयेद्वस्त्रसंयुतौ ॥
सूर्यं च वैनतेयं च हिमांशुं तत्परोऽर्चयेत् ॥ १९-११ ॥

धातारं च विधातारं पूजयेद्धजदण्डके ॥
हरिद्राक्षतगन्धाद्यैः शुक्लपुष्पैर्विशेषतः ॥ १९-१२ ॥

ततो गोचर्ममात्रघं तु स्थण्डिलं चोपलिप्य वै ॥
आधायान्गिं स्वगृह्योत्त्या ह्याज्यभागादिकं क्रमात् ॥ १९-१३ ॥

जुहुयात्पायसं चैव साज्यमष्टोत्तरं शतम् ॥
प्रथमं पौरुषं सूक्तं विष्णोर्नुकमिरावतीम् ॥ १९-१४ ॥

ततश्च वैनतेयाय स्वाहेत्यष्टाहुतीस्तथा ॥
सोमो धेनुमुदुत्यं च जुहुयाच्च ततो द्विज ॥ १९-१५ ॥

सौरमन्त्राञ्जपेत्तत्र शान्तिसूत्कानि शक्तितः ॥
रात्रौ जागरणं कुर्यादुपकण्ठं हरेः शुचुः ॥ १९-१६ ॥

ततः प्रातः समुत्थाय नित्यकर्म समाप्य च ॥
गन्धपुष्पादिभिर्देवमर्चयेत्पूर्ववत्क्रमात् ॥ १९-१७ ॥

ततो मङ्गलवाद्यैश्च सूक्तपाठैश्च शौभनम् ॥
नृत्यैश्च रतोत्रपठनैर्नयेद्विष्णवालये ध्वजम् ॥ १९-१८ ॥

देवस्य द्वारदेशे वा शिखरे वा मुदान्वितः ॥
सुस्थिरं स्थापयेद्विप्र ध्वजं सस्तम्भसंयुतम् ॥ १९-१९ ॥

गन्धपुष्पाघक्षतैर्द्देवं धूपदीपैर्मनोहरैः ॥
भक्षयभोज्यादिसंयुक्तैर्नैवेद्यैश्च हरिं यजेत् ॥ १९-२० ॥

एवं देवालये स्थाप्य शोभनं ध्वजमुत्तमम् ॥
प्रदक्षिणमनुव्रज्य स्तोत्रमेतदुदूरयेत् ॥ १९-२१ ॥

नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ १९-२२ ॥

येनेदमखिलं जातं यत्र सर्वं प्रतिष्टितम् ॥
लयमेष्यति यत्रैवं तं प्रपन्नोऽस्मि केशवम् ॥ १९-२३ ॥

न जानन्ति परं भावं यस्य ब्रह्यादयः सुराः ॥
योगिनोयं न पश्यन्ति तं वन्दं ज्ञानरुपिणम् ॥ १९-२४ ॥

अन्तरिक्षन्तु यन्नाभिर्द्यौर्मूर्द्धा यस्य चैव हि ॥
पादोऽभूद्यस्य पृथिवी तं वन्दे विश्वरुपिणम् ॥ १९-२५ ॥

यस्य श्रोत्रे दिशः सर्वा यच्चक्षुर्दिनकृच्छशी ॥
ऋक्सामयजुषी येन तं वन्दे ब्रह्ररुपिणम् ॥ १९-२६ ॥

यन्मुखाद्वाह्मणा जाता यद्वाहोरभवन्नृपाः ॥
वैश्या यस्योरुतो जाताः पद्भ्यां शूद्रो व्यजायत ॥ १९-२७ ॥

मायासङ्गममात्रेण वदन्ति पुरुषं त्वजम् ॥
स्वभावविमलं शुद्धं निर्विकारं निरञ्जनम् ॥ १९-२८ ॥

क्षीरब्धि शायिनं देवमनन्तमपराजितम् ॥
सद्भक्तवत्सलं विष्णुं भक्तिगम्यं नमाम्यहम् ॥ १९-२९ ॥

पृथिव्यादीनि भूतानि तन्मात्राणीन्न्द्रियाणि च ॥
सूक्ष्मासूक्ष्याणि येनासंस्तं वन्दे सर्वतोमुखम् ॥ १९-३० ॥

यद्वह्य परमं धाम सर्वलोकोत्तमोत्तमम् ॥
निर्गुणं परमं सूक्ष्मं प्रणतोऽस्ति पुनः पुनः ॥ १९-३१ ॥

अविकारमजं शुद्धं सर्वतोबाहुमीश्वरम् ।.
यमामनन्ति योगीन्द्राः सर्वकारणकारणम् ॥ १९-३२ ॥

यो देवः- सर्वभूतानामन्तरात्मा जगन्मयः ॥
निर्गुणः परमात्मा च स मे विष्णुः प्रसीदतु ॥ १९-३३ ॥

हृदयस्थोऽपि दूरस्थो मायया मोहितात्मनाम् ॥
ज्ञानिनां सर्वगो यस्तु स मे विष्णुः प्रसीदतु ॥ १९-३४ ॥

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ॥
हूयते च पुनर्द्वातार्थम्भ्यां स मे विष्णुः प्रतीदतु ॥ १९-३५ ॥

ज्ञानिनां कर्मिणां चैव तथा भक्तिमतां नृणाम् ॥
गतिदाता विश्वमृग्यः स मे विष्णुः प्रसूदतु ॥ १९-३६ ॥

जगद्धितार्थं ये देहा ध्रियन्ते लीलया हरेः ॥
तानर्चयन्ति विबुधाः स मे विष्णुः प्रसीदतु ॥ १९-३७ ॥

यमामनन्तिवै सन्तः सच्चिदानन्दविग्रहम् ॥
निर्गुणं च गुणाधारं स मे विष्णुः प्रसीदतु ॥ १९-३८ ॥

इति स्तुत्वा नमेद्विष्णुं ब्राह्मणांश्च प्रपूजयेत् ॥
आचार्यं पूजयेत्पश्चाद्दक्षिणाच्छादनादिभिः ॥ १९-३९ ॥

ब्राह्मणान्भोजयेच्छक्त्या भक्ति भावसमन्वितः ॥
पुत्रमित्रकलत्राद्यैः स्वयं च सह बन्धुभिः ॥ १९-४० ॥

कुर्वीत पारणं विप्र नारायणपरायणः ॥
यस्त्वेतत्कर्म कुर्वीत ध्वजारोपणमुत्तमम् ॥
तस्य पुण्यफलं वक्ष्ये श्रृणुष्व सुसमाहितः ॥ १९-४१ ॥

पटो ध्वजस्य विप्रेन्द्र यावच्चलति वायुना ॥
तावन्ति पापजालानि नश्यन्त्‌येव न संशयः ॥ १९-४२ ॥

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥
ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः ॥ १९-४३ ॥

यावद्दिनानि तिष्टेत ध्वजो विष्णुगृहे द्विज ॥
तावद्युगसहस्त्राणि हरिसारुप्यमश्नुते ॥ १९-४४ ॥

आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः ॥
तेऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः ॥ १९-४५ ॥

आरोपितो ध्वजो विष्णुगृहे धुन्वन्पटं स्वकम् ॥
कर्तुः सर्वाणि पापानि धुनोति निमिषार्द्धतः ॥ १९-४६ ॥

यस्त्वारोप्य गृहे विष्णोर्ध्वजं नित्यमुपाचरेत् ॥
स देवयानेन दिवं यातीव सुमतिर्नृपः ॥ १९-४७ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने ध्वजारोपणन्‌नामैकोनविंशोऽध्यायः ॥