ऋषय ऊचुः ॥
साधु सूत महाभाग त्वयातिकरुणात्मना ॥
श्रावितं सर्वपापघ्नं गङ्गामाहात्म्यमुत्तमम् ॥ १७-१ ॥
श्रुत्वा तु गङ्गामाहात्म्यं नारदो देवदर्शनः ॥
किं पप्रच्छ पुनः सूत सनकं मुनिसत्तमम् ॥ १७-२ ॥
सूत उवाच ॥
श्रृणुध्वमृषयः सर्वे नारदेन सुरर्षिणा ॥
पृष्टं पुनर्यथा प्राह प्रवक्ष्यामि तथैव तत् ॥ १७-३ ॥
नानाख्यानेतिहासाड्यं गङ्गामाहात्म्यमुत्तमम् ॥
श्रुत्वा ब्रह्मसुतो भूयः पृष्टवानिदमादरात् ॥ १७-४ ॥
नारद उवाच ॥
अहोऽतिधन्यं सुकृतैकसारं श्रुतं मया पुण्यमसंवृतार्थम् ॥
गाङ्गेयमाहात्म्यमघप्रणाशि त्वत्तो मुने कारुणिकादभीष्टम् ॥ १७-५ ॥
ये साधवः साधु भजन्ति विष्णुं स्वार्थं परार्थं च यतन्त एव ॥
नानोपदेशैः सुविमुग्धचित्तं प्रबोधयन्ति प्रसभं प्रसन्नम् ॥ १७-६ ॥
ततः समाख्याहि हरेर्व्रतानि कृतैश्च यैः प्रीतिमुपैति विष्णुः ॥
ददाति भक्तिं भजतां दयालुर्मुक्तिस्तु तस्या विदिता हि दासी ॥ १७-७ ॥
ददाति मुक्तिं भजतां मुकुन्दो व्रतार्चनध्यानपरायणानाम् ॥
भक्तानुसेवासु महाप्रयासं विमृश्य कस्यापि न भक्तियोगम् ॥ १७-८ ॥
प्रवृत्तं च निवृत्तं च यत्कर्म हरितो षणम् ॥
तदाख्याहि मुनिश्रेष्ठ विष्णुभक्तोऽसि मानद ॥ १७-९ ॥
सनक उवाच ॥
साधु साधु मुनिश्रेष्ट भक्तस्त्वं पुरुषोत्तमेः ॥
भूयो भूयो यतः पुच्छेश्चरित्रं शार्ङ्गधन्वनः ॥ १७-१० ॥
व्रतानि ते प्रवक्ष्यामि लोकोपकृतिमन्ति च ॥
प्रसीदति हरिर्यैस्तु प्रयच्छत्यभयं तथा ॥ १७-११ ॥
यस्य प्रसन्नो भगवान्यज्ञलिङ्गो जनार्दनः ॥
इहामुत्र सुखं तस्य तपोवृद्धिश्च जायते ॥ १७-१२ ॥
येन केनाप्युपायेन हरिपूजापरायणाः ॥
प्रयान्ति परमं स्थानमिति प्राहुर्महर्षयः ॥ १७-१३ ॥
मार्गशीर्षे सिते पक्षे द्वादश्यां जलशायिनम् ॥
उपोषितोऽर्चयेत्सम्यङ् नरः श्रद्धासमन्वितः ॥ १७-१४ ॥
स्नात्वा शुक्लाम्बरधरो दन्तधावनपूर्वकम् ॥
गन्धपुष्पाक्षतैर्धूपै र्दीपैर्नैवेद्यपूर्वकैः ॥ १७-१५ ॥
वाग्यतो भक्तिभावेन मुनिश्रेष्टार्चयेद्धरिम् ॥
केशवाय नमस्तुभ्यमिति विष्णुं च पूजयेत् ॥ १७-१६ ॥
अष्टोत्तरशतं हुत्वा वन्हौ घृततिलाहुतीः ॥
रात्रौ जागरणं कुर्याच्छालग्रामसमीपतः ॥ १७-१७ ॥
स्नापयेत्प्रस्थपयसा नारायणमनामयम् ॥
गीतैर्वाद्यैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैश्च केशवम् ॥ १७-१८ ॥
त्रिकालं पूजयेद्भक्त्या महालक्ष्म्या समन्वितम् ॥
पुनः कल्ये समुत्थाय कृत्वा कर्म यथोचितम् ॥ १७-१९ ॥
पूर्ववत्पूजयेद्वेवं वाग्यतो नियतः शुचिः ॥
पायसं घृतसम्मिश्रं नालिकेरफलान्वितम् ॥ १७-२० ॥
मन्त्रेणानेन विप्राय दद्याद्भक्त्या सदक्षिणम् ॥
केशवः केशिहा देवः सर्वसम्पत्प्रदायकः ॥ १७-२१ ॥
परमान्नप्रदानेन मम स्यादिष्टदायकः ॥
ब्राह्मणान्भोजयेत्पश्चाच्छक्तितो बन्धुभिः सह ॥ १७-२२ ॥
नारायण परो भूत्वा स्वयं भुञ्जीत वाग्यतः ॥
इति यः कुरुते भक्त्या केशवार्चनमुत्तमम् ॥ १७-२३ ॥
स पौण्डरीकयज्ञस्य फलमष्टगुणं लभेत् ॥
पौषमासे सिते पक्षे द्वादश्यां समुपोषितः ॥ १७-२४ ॥
नमो नारायणायेति पूजयेत्प्रयतो हरिम् ॥
पयसा स्नाप्य नैवेद्यं पायसं च समर्पयेत् ॥ १७-२५ ॥
रात्रौ जागरणं कुर्यात्र्रिकालार्चनतत्परः ॥
धूपैर्दीपैश्च नैवेद्यैर्गन्धैः पुष्पैर्मनोरमैः ॥ १७-२६ ॥
तृणैश्च गीतवाद्याद्यैः स्तोत्रैश्चाप्यर्ययेद्धरिम् ॥
कृशरान्नं च विप्राय दद्यात्सघृतदक्षिणम् ॥ १७-२७ ॥
सर्वात्मा सर्वलोकेशः सर्वव्यापी सनातनः ॥
नारायणः प्रसन्नः स्यात्कृशरान्नप्रदानतः ॥ १७-२८ ॥
मन्त्रेणानेन विप्राय दत्त्वा वै दानमुत्तमम् ॥
द्विजांश्च भोजेयच्छक्त्या स्वयमद्यात्सबान्धवः ॥ १७-२९ ॥
एवं सम्पूजयेद्भक्त्या देवं नारायणं प्रभुम् ॥
अग्निष्टोमाष्टकफलं स सम्पूर्णमवाप्नुयात् ॥ १७-३० ॥
माघस्य शुक्लद्वादश्यां पूर्ववत्समुपोषितः ॥
नमस्ते माधवायेति हुत्वाष्टौ च घृताहुतीः ॥ १७-३१ ॥
पूर्वमानेन पयसा स्नापयेन्माधवं तदा ॥
पुष्पगन्धाक्षतैरर्चेत्सावधानेन चेतसा ॥ १७-३२ ॥
रात्रौ जागरणं कुर्यात्पूर्ववद्भक्तिसंयुतः ॥
कल्यकर्म च निर्वर्त्य माधवं पुनरर्चयेत् ॥ १७-३३ ॥
प्रस्थं तिलानां विप्राय दद्याद्वै मन्त्रपूर्वकम् ॥
सदक्षिणं सवस्त्रञ्च सर्वपापविमुक्तये ॥ १७-३४ ॥
माधवः सर्वभूतात्मा सर्वकर्मफलप्रदः ॥
तिलदानेन महता सर्वान्कामान्प्रयच्छतु ॥ १७-३५ ॥
मन्त्रेणानेन विप्राय दत्त्वा भक्तिसमन्वितः ॥
ब्रह्मणान्भोजयेच्छक्त्या संस्मरन्माधवं प्रभुम् ॥ १७-३६ ॥
एवं यः कुरुते भक्त्या तिलदाने व्रतं मुने ॥
वाजपेय शतस्यासौ सम्पूर्णं फलमाप्नुयात् ॥ १७-३७ ॥
फाल्गुनस्य सिते पक्षे द्वादश्यां समुपोषितः ॥
गोविन्दाय नमस्तुभ्यमिति सम्पूजयेद्व्रती ॥ १७-३८ ॥
अष्टोत्तगरशतं दृत्वा घृतमिश्रतिलाहुतीः ॥
पूर्वमानेन पयसा गोविन्दं स्नापयेच्छुचिः ॥ १७-३९ ॥
रात्रौ जागरणं कुर्यात्र्रिकालं पूजयेत्तथा ॥
प्रातः कृत्यं समाप्याथ गोविन्दं पूजयेत्पुनः ॥ १७-४० ॥
व्रीह्याढकं च विप्राय दद्याद्वस्त्रं सदक्षिणम् ॥
नमो गोविन्द सर्वेश गोपिकाजनवल्लभ ॥ १७-४१ ॥
अनेन धान्य दानेन प्रीतो भव जगद्गुरो ॥
एवं कृत्वा व्रतं सम्यक् सर्वपापविवर्जितः ॥ १७-४२ ॥
गोमेधमखजं पुण्यं सम्पूर्णं लभते नरः ॥
चैत्रमासे सिते पक्षे द्वादश्यां समुपोषितः ॥ १७-४३ ॥
नमोऽस्तु विष्णवे तुभ्यमिति पूर्ववदर्चयेत् ॥
क्षीरेण स्नापयेद्विष्णुं पूर्वमानेन शक्तितः ॥ १७-४४ ॥
तथैव स्नापयेद्विप्र घृतप्रस्थेन सादरम् ॥
कृत्वा जागरणं रात्रौ पूजयेत्पूर्ववद्व्रती ॥ १७-४५ ॥
ततः कल्ये समुत्थाय प्रातः कृत्यं समाप्य च ॥
अष्टोत्तरशतं हुत्वा मध्वाज्यतिलमिश्रितम् ॥ १७-४६ ॥
सदक्षिणं च विप्राय दद्याद्वै तण्डुलाढकम् ॥
प्राणरुपी महाविष्णुः प्राणदः सर्ववल्लभः ॥ १७-४७ ॥
तण्डुलाढकदानेन प्रीयतां मे जनार्दनः ॥
एवं कृत्वा नरो भक्त्या सर्वपापविवर्जितः ॥ १७-४८ ॥
अत्यन्गिष्टोमयज्ञस्य फलमष्टगुणं लभेत् ॥
वैशाखशुक्लद्वादश्यामुपोष्य मधुसूदनम् ॥ १७-४९ ॥
द्रोणक्षीरेण देवेशं स्नापयेद्भक्तिंसंयुतः ॥
जागरं तत्र कर्त्तव्यं त्रिकालार्चनसंयुतम् ॥ १७-५० ॥
नमस्ते मधुहन्त्रे च जुहुयाच्छक्तितो घृतम् ॥
अष्टोत्तरशतं प्रोर्च्य विधिवन्मधुसूदनम् ॥ १७-५१ ॥
विपापो ह्यश्वमेधानामष्टानां फलमाप्नुयात् ॥
ज्येष्टमासे सिते पक्षे द्वादश्यामुपवासकृत् ॥ १७-५२ ॥
क्षीरेणाढकमानेन स्नापयेद्यस्त्रिविक्तमम् ॥
नमस्त्रिविक्तमायेति पूजयेद्भक्तिसंयुतः ॥ १७-५३ ॥
जुहुयात्पायसेनैव ह्यष्टोत्तरशताहुतीः ॥
कृत्वा जागरणं रात्रौ पुनः पूजां प्रकल्पयेत् ॥ १७-५४ ॥
अपूपविंशतिं दत्त्वा ब्राह्मणाय सदक्षिणम् ॥
देवदेव जगन्नात प्रसीद परमेश्वर ॥ १७-५५ ॥
उपायनं च सङ्गृह्य ममाभीष्टप्रदो भव ॥
ब्राह्मणान्भोजयेच्छक्त्या स्वयं भुञ्जीत वाग्यतः ॥ १७-५६ ॥
एवं यः कुरुते विप्र व्रतं त्रैविक्रमं परम् ॥
सोऽष्टानां नरमेधानां विपापः फलमाप्नुयात् ॥ १७-५७ ॥
आषाढशुक्लद्वादश्यामुपवासी जितेन्द्रियः ॥
वामनं पूर्वमानेन स्नापयेत्पयसा व्रती ॥ १७-५८ ॥
नमस्ते वामनायेति दूर्वाज्याष्टोत्तरं शतम् ॥
हुत्वा च जागरं कुर्याद्वामनं चार्चयेत्पुनः ॥ १७-५९ ॥
सदाक्षिणं च दध्यन्नं नालिकेरफलान्वितम् ॥
भक्त्या प्रदद्याद्विप्राय वामनार्चनशीलिने ॥ १७-६० ॥
वामनो वुद्धिदो होता द्रव्यस्थो वामनः सदा ॥
वामनस्तारकोऽस्माच्च वामनाय नमो नमः ॥ १७-६१ ॥
अनेन दत्त्वा दध्यन्नं शक्तितो भोजयेद्दिजान् ॥
कृत्वैवमग्रिष्टोमानां शतस्य फलमाप्नुयात् ॥ १७-६२ ॥
श्रावणस्य सिते पक्षे द्वादश्यामुपवासकृत् ॥
क्षीरेण मधुमिश्रेण स्नापयेच्छ्रीधरं व्रती ॥ १७-६३ ॥
नमोऽस्तु श्रीधरायेति गन्धाद्यैः पूजयेत्क्रमात् ॥
जुहुयात्पृषदाज्येन शतमष्टोत्तरं मुने ॥ १७-६४ ॥
कृत्वा च जागरं रात्रौ पुनः पूजां प्रकल्पयेत् ॥
दातव्यं चैव विप्राय क्षीराढकमनुत्तमम् ॥ १७-६५ ॥
दक्षिणां च सवस्त्रां वै प्रदद्याद्धेमकुण्डले ॥
मन्त्रेणानेन विप्रेन्द्रु सर्वकामाश्रसिद्धये ॥ १७-६६ ॥
क्षीराब्धिशायिन्देवेश रमाकान्त जगत्पते ॥
क्षीरदानेन सुप्रीतो भव सर्वसुखप्रदः ॥ १७-६७ ॥
सुखप्रदत्त्वाद्विप्रांश्च भोजयेच्छक्तितो व्रती ॥
एव कृत्वाश्वमेधानां सहस्त्रस्य फलं लभेत् ॥ १७-६८ ॥
मासि भाद्रपदे शुक्ले द्वादश्यां समुपोषितः ॥
स्नापयेद्द्रोणपयसा हृषीकेशं जगद्गुरुम् ॥ १७-६९ ॥
हृषीकेश नमस्तुभ्यमिति सम्पूजयेन्नरः ॥
चरुणा मधुयुक्तेन शतमष्टोत्तरं हुनेत् ॥ १७-७० ॥
जागरादीनिनि निर्वर्त्य दद्यादात्मविदे ततः ॥
सार्धाढकं च गोधूमान्दक्षिणां हेम शक्तितः ॥ १७-७१ ॥
हृषीकेश नमस्तुभ्यं सर्वलोकैकहेतवे ॥
मह्यं सर्वसुखं देहि गोधूमस्य प्रदानतः ॥ १७-७२ ॥
भोजयेद्ब्राह्माञ्शक्त्या स्वयं चाश्रीतवाग्यतः ॥
सर्वपापविनिर्मुक्तो ब्रह्ममेधफलं लभेत् ॥ १७-७३ ॥
आश्विने मासिशुक्लायां द्वादश्यांसमुपोषितः ॥
पद्मनाभं चपयसा स्नापयेद्भक्तितः शुचिः ॥ १७-७४ ॥
नमस्ते पद्मनाभाय होमं कुयार्त्स्वशक्तितः ॥
तिलब्रीहियवाज्यैश्च पूजयेच्च विधानतः ॥ १७-७५ ॥
जामरं निशि निर्वर्त्य पुनः पूजां समाचरेत् ॥
दद्याद्विप्राय कुडवं मधुनस्तु सदक्षिणम् ॥ १७-७६ ॥
पद्मनाभ नमस्तुभ्यं सर्वलोकपितामह ॥
मधुदानेन सुप्रीतो भवसर्वसुखप्रदः ॥ १७-७७ ॥
एवं यः कुरुते भक्त्या पद्मनाभव्रतं सुधीः ॥
ब्रह्ममेधसहस्त्रस्य फलमाप्नोति निश्चितम् ॥ १७-७८ ॥
द्वादश्यां कार्तिके शुक्ले उपवासी जितेन्द्रियः ॥
क्षीरेणाकढकमानेन दन्धा वाज्येन तावता ॥ १७-७९ ॥
नमो दामोदरायेति स्नापयेद्भक्तिभावतः ॥
अष्टोत्तरशतं हुत्वा मघ्वाज्याक्ततिलाहुतीः ॥ १७-८० ॥
जागरं नियतः कुर्यात्त्रिकालार्चनतत्परः ॥
प्रातः सम्पूजयेद्देवं पद्मपुष्पैर्मनोरमैः ॥ १७-८१ ॥
पुनरष्टोत्तरशतं जुहुयात्सघृतै स्तिलैः ॥
पञ्चभक्ष्ययुतं चान्नं दद्याद्विप्राय भक्तितः ॥ १७-८२ ॥
दामोदर जगन्नाथ सर्वकारणकारण ॥
त्राहिमां कृपया देव शारणागतपालकः ॥ १७-८३ ॥
अनेन दत्त्वा दानं च श्रोत्रियाय कुटुम्बिने ॥
दक्षिणाञ्च यथाशक्त्या ब्राह्मणाञ्चापि भोजयेत् ॥ १७-८४ ॥
एवङ्कृत्वा व्रतं सम्यगश्रीयाद्बन्धुभिः सह ॥
अश्वमेघ सहस्राणां द्विगुणं फलमश्नुते ॥ १७-८५ ॥
एवं कुर्याद्व्रती यस्तु द्वादशीव्रतमुत्तमम् ॥
संवत्सरं मुनिश्रेष्ठ स याति परमं पदम् ॥ १७-८६ ॥
एकमासे द्विमासे वायः कुर्याद्भक्तितत्परः ॥
तत्तत्फलमवाप्नोति प्राप्नोति च हरेः पदम् ॥ १७-८७ ॥
पूर्णँ संवत्सरं कृत्वा कुर्यादुद्यापनं व्रती ॥
मार्गशीर्षासिते पक्षे द्वादश्यां च मुनीश्वर ॥ १७-८८ ॥
स्नात्वा प्रातर्यथाचारं दन्तधावनपूर्वकम् ॥
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥ १७-८९ ॥
मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुशोभनम् ॥
घण्टाचामरसंयुक्तं किङ्किणीरवशोभितम् ॥ १७-९० ॥
अलङ्कृतं पुष्पमाल्यैर्वितानघ्वजराजितान् ॥
छादितं शुक्लवस्त्रेण दीपमालाविभूषितम् ॥ १७-९१ ॥
तन्मध्ये सर्वतोभद्रं कुर्यात्सम्यगलङ्कृतम् ॥
तस्योपरिन्यसेत्कुम्भान्द्वादशाम्बुप्रपूरितान् ॥ १७-९२ ॥
एकेन शुक्लवस्त्रेण सम्यक्संशोधितेन च ॥
सर्वानाच्छादयेत्कुम्भान्पञ्चरत्नसमन्वितान् ॥ १७-९३ ॥
लक्ष्मीनारायणं देवं कारयेद्भक्तिमान्व्रती ॥
हेम्ना वा रजतेनापि तथा ताम्रेण वा द्विज ॥ १७-९४ ॥
स्थापयेत्प्रतिमां तां च कुम्भोपरि सुसंयमी ॥
तन्मूल्यं वा द्विजश्रेष्ट काञ्चनं च स्वशक्तितः ॥ १७-९५ ॥
सर्वव्रतेषु मतिमान्वित्तशाठ्यं विवर्जयेत् ॥
यदि कुर्यात्क्षयं यान्ति तस्यायुर्द्धनसम्पदः ॥ १७-९६ ॥
अनन्तशायिनं देवं नारायणमनामयम् ॥
पञ्चामृतेन प्रथमं स्नापयेद्भक्तिसंयुतः ॥ १७-९७ ॥
नाम्मभिः केशवाद्यैश्च ह्युपचाराप्रकल्पयेत् ॥
रात्रौ जागरणं कुर्यात्पुराणश्रवणादिभिः ॥ १७-९८ ॥
जितनिद्रो भवेत्सम्यक्सोपवासो जितेन्द्रियः ॥
त्रिकालमर्चयेद्देवं यथाविभवविस्तरम् ॥ १७-९९ ॥
ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च ॥
तिलहोमान्व्याहृतिभिः सहस्रं कार्येद्द्विजैः ॥ १७-१०० ॥
ततः सम्पूजयेद्देवं गन्धपुष्पादिभिः क्रमात् ॥
देवस्य पुरतः कुर्यात्पुराणश्रवणं ततः ॥ १७-१०१ ॥
दद्याद्द्वादशविप्रेभ्यो दध्यन्नं पायसं तथा ॥
अपूपैर्दशभिर्युक्तं सघृतं च सदक्षिणम् ॥ १७-१०२ ॥
देवदेवजगन्नाथ भक्तानुग्रहविग्रह ॥
गृहाणोपायनं कृष्ण सर्वाभीष्टप्रदो भव ॥ १७-१०३ ॥
अनेनोपायनं दत्त्वा प्रार्थयेमाञ्जलिः स्थितः ॥
आधाय जानुनी भूमौ विनयावननतो व्रती ॥ १७-१०४ ॥
नमो नमस्ते सुरराजराज नमोऽस्तुते देवं जगन्निवास ॥
कुरुष्व सम्पृर्णफलं ममाद्य नमोऽस्तु तुभ्यं पुरुषोत्तमाय ॥ १७-१०५ ॥
इति सम्प्रार्थयेद्विप्रान्देवं च पुरुषोत्तमम् ॥
दद्यादर्घ्यं च देवाय महालक्ष्मीयुताय वै ॥ १७-१०६ ॥
लक्ष्मीपते नमस्तुभ्यं क्षीरार्णवनिवासिने ॥
अर्घ्यं गृहाण देवेश लक्ष्म्या च सहितः प्रक्षो ॥ १७-१०७ ॥
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ॥
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ १७-१०८ ॥
इति विज्ञाप्य देवेशं तत्सर्वं संयमी व्रते ॥
प्रतिमां दक्षिणायुक्तामाचार्याय निवेदयेत् ॥ १७-१०९ ॥
ब्राह्मणान्भोजयेत्पश्चाच्छक्त्या दद्याच्च दक्षिणाम् ॥
भुञ्जीत वाग्यतः पश्चात्स्वयं बन्धुजनैर्वृतः ॥ १७-११० ॥
आसायं श्रृदुयाद्विष्णोः कथां विद्वज्जनैः सह ॥
इत्येवं कुरुते यस्तु मनुजो द्वादशीव्रतम् ॥ १७-१११ ॥
सर्वान्कामान्स आन्पोति परत्रेह च नारद ॥
त्रिसतकुलसंयुक्तः सर्वपापविवर्जितः ॥
तपाति विष्णुभवनं यत्र यत्त्वा न शोचति ॥ १७-११२ ॥
य इदं श्रृणुयाद्विप्र द्वादशीव्रतमुत्तमम् ॥
वाचयेद्वापि स नरो वाजपेयफलं लभेत् ॥ १७-११३ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुक्लद्वादशीव्रतकथनं नाम सत्पदशोऽध्यायः ॥