नारद उवाच ॥
हिमवद्गिरिमासाद्य किं चकार महीपतिः ॥
कथमानीतवान्गङ्गामेतन्मे वक्तुमर्हसि ॥ १६-१ ॥
सनक उवाच ॥
भगीरथो महाराजो जटाचीरधरो मुने ॥
गच्छन्हिमाद्रिं तपसे प्राप्तो गोदावरी तटम् ॥ १६-२ ॥
तत्रापश्यन्महारण्ये भृगोराश्रममुत्तमम् ॥
कृष्णसारसमाकीर्णं मातङ्गगणसेवितम् ॥ १६-३ ॥
भ्रमद्भ्रमरसङ्घुष्टं कूजद्विहगसङ्कुलम् ॥
व्रजद्वराहनिकरं चमरीपुच्छवीजितम् ॥ १६-४ ॥
नृत्यन्मयूरनिकरं सारङ्गादिनिषेवितम् ॥
प्रवर्द्धितमहावृक्षं मुनिकन्याभिरादरात् ॥ १६-५ ॥
शालतालतमालाढ्यं नूनहिन्तालमण्डितम् ॥
मालतीयूथिकाकुन्दचम्पकाशअवत्थभूषितम् ॥ १६-६ ॥
उत्पुल्लकुसुमोपेत मृषिसङ्घनिषेवितम् ॥
वेदशास्त्रमहाघोषमाश्रमं प्राविशद्भुगोः ॥ १६-७ ॥
गृणन्तं परम ब्रह्म वृत्तं शिष्यगणैर्मुनिम् ॥
तेजसा सूर्यसदृशं भृगुं तत्र ददर्श सः ॥ १६-८ ॥
प्रणनामाथ विप्रेन्द्रं पादसङ्ग्रहणादिना ॥
आतिथ्यं भृगुरप्यस्य चक्रे सन्मानपूर्वकम् ॥ १६-९ ॥
कृतातिथ्यक्रियो राजा भृगुणा परमर्षिणा ॥
उवाच प्राञ्जलिर्भूत्वा विनयान्मुनिपुङ्गवम् ॥ १६-१० ॥
भगीरथ उवाच ॥
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥
पृच्छामि भवभीतोऽहं नृणामुद्धारकारणम् ॥ १६-११ ॥
भगवांस्तुष्यते येन कर्मणा मुनिसत्तम ॥
तन्ममाख्याहि सर्वज्ञ अनुग्राह्योऽस्मि ते यति ॥ १६-१२ ॥
भृगुरुवाच ॥
राजंस्तवेप्सितं ज्ञातं त्वं हि पुण्यवतां वरः ॥
अन्यथा स्वकुलं सर्वं कथमुद्धर्त्तुमर्हसि ॥ १६-१३ ॥
यो वा को वापि भूपाल स्वकुलं शुभकर्मणा ॥
उद्धर्त्तकामस्तं विद्यान्नररुपधरं हरिम् ॥ १६-१४ ॥
कर्मणा येन देवेशो नृणामिष्टफलप्रदः ॥
तत्प्रवक्ष्यामि राजेन्द्र श्रृणुष्व सुसमाहितः ॥ १६-१५ ॥
भव सत्यपरो राजन्न हिंसानिरतस्तथा ॥
सर्वभूतहितो नित्यं मानृतं वद वै क्वचित् ॥ १६-१६ ॥
त्यज दुर्जनसंसर्गं भज साधुसमागमम् ॥
कुरु पुण्यमहोरात्रं स्मर विष्णुं सनातनम् ॥ १६-१७ ॥
कुरु पूजां महाविष्णोर्याहि शान्ति मनुत्तमाम् ॥
द्वादशाष्टाक्षरं मन्त्रं जय श्रेयो भविष्यति ॥ १६-१८ ॥
भगीरथ उवाच ॥
सत्यं तु कीदृशं प्रोक्तं सर्वभूतहितं मुने ॥
अनृतं कीदृशं प्रोक्तं दुर्जनाश्चापि कीदृशाः ॥ १६-१९ ॥
साधवः कीदृशाः प्रोक्तास्तथा पुण्यं च कीदृशम् ॥
स्मर्तव्यस्च कथं विष्णुस्तस्य पूजा च कीदृशी ॥ १६-२० ॥
शान्तिश्च कीदृशी प्रोक्ता को मन्त्रोऽष्टाक्षरो मुने ॥
को वा द्वादशवर्णश्च मुने तत्त्वार्थकोविद ॥ १६-२१ ॥
कृपां कृत्वा मयि परां सर्वं व्याख्यातुमर्हसि ॥
भृगुरुवाच ॥
साधु साधुमहाप्राज्ञ तव बुद्धिरनुत्तमा ॥ १६-२२ ॥
यत्पृष्टोऽहं त्वया भूप तत्सर्वं प्रवदामि ते ॥
यथार्थकथनं यत्तत्सत्यमाहुर्विपश्चितः ॥ १६-२३ ॥
धर्माविरोधतो वाच्यं तद्धि धर्मपरायणैः ॥
देशकालादि विज्ञाय स्वयमस्याविरोधतः ॥ १६-२४ ॥
यद्वचः प्रोच्यते सद्भिस्तस्तत्यमभिधीयते ॥
सर्वेषामेव जन्तूनामक्लेषजननं हि तत् ॥ १६-२५ ॥
अहिंसा सा नृप प्रोक्ता सर्वकामप्रदायिनी ॥
कर्मकार्यसहायत्वमकार्यपरिपन्थिता ॥ १६-२६ ॥
सर्वलोकहितत्वं वै प्रोच्यते धर्मकोविदैः ॥
इच्छानुवृत्तकथनं धर्माधर्मविवेकिनः ॥ १६-२७ ॥
अनृतं तद्धि विज्ञेय सर्वश्रेयोविरोधि तत् ॥
ये लोके द्वेषिणो मूर्खाः कुमार्गरतबुद्धयः ॥ १६-२८ ॥
ते राजन्दुर्ज्जना ज्ञेयाः सर्वधर्मबहिष्कृताः ॥
धर्माधर्मविवेकेन वेदमार्गानुसारिणः ॥ १६-२९ ॥
सर्वलोकहितासक्ताः साधवः परिकीर्त्तिताः ॥
हरि भक्तिकरं यत्तत्सद्भिश्च परिरञ्चितम् ॥ १६-३० ॥
आत्मनः प्रीतिजनकं तत्पुण्यं परिकीर्त्तितम् ॥
सर्वं जगदिदं विष्णुर्विष्णुः सर्वस्य कारणम् ॥ १६-३१ ॥
अहं च विष्णुर्यज्ज्ञानं तद्विष्णुस्मरणं विदुः ॥
सर्वदेवमयो विष्णुर्विधिना पूजयामि तम् ॥ १६-३२ ॥
इति या भवति श्रद्धा सा तद्भक्तिः प्रकीर्तिताः ॥
सर्वभूतमयो विष्णुः परिपूर्णः सनातनः ॥ १६-३३ ॥
इत्यभेदेन या बुद्धिः समता सा प्रकीर्त्तिता ॥
समता शत्रुमित्रेषु वशित्वं च तथा नृप ॥ १६-३४ ॥
यदृच्छालाभसन्तुष्टिः सा शान्तिः परिकीर्तिता ॥
एते सर्वे समाख्यातास्तपः सिद्धिप्रदा नृणाम् ॥ १६-३५ ॥
समस्तपापराशीनां तरसा नाशहेतवः ॥
अष्टाक्षरं महामन्त्रं सर्वपापप्रणाशनम् ॥ १६-३६ ॥
वक्ष्यामि तव राजेन्द्र पुरुषार्थैकसाधनम् ॥
विष्णोः प्रियकरं चैव सर्वसिद्धिप्रदायकम् ॥ १६-३७ ॥
नमो नारायणायेति जपेत्प्रणवपूर्वकम् ॥
नमो भगवते प्रोच्य वासुदेवाय तत्परम् ॥ १६-३८ ॥
प्रणवाद्यं महाराज द्वादशार्णमुदाहृतम् ॥
द्वयोः समं फलं राजन्नष्टद्वादशवर्णयोः ॥ १६-३९ ॥
प्रवृत्तौ च निवृत्तौ च साम्यमुद्दिष्टमेतयोः ॥
शङ्खचक्रधरं शान्तं नारायणमनामयम् ॥ १६-४० ॥
लक्ष्मीसंश्रितवामाङ्कं तथाभयकरं प्रभुम् ॥
किरीटकुण्डलधरं नानामण्डनशोभितम् ॥ १६-४१ ॥
भ्राजत्कौस्तुभमालाढ्यं श्रीवत्साङ्कितवक्षसम् ॥
पीताम्बरधरं देवं सुरासुरनमस्कृतम् ॥ १६-४२ ॥
ध्यायेदनादिनिधनं सर्वकामफलप्रदम् ॥
अन्तर्यामी ज्ञानरुपी परिपूर्णः सनातनः ॥ १६-४३ ॥
एतत्सर्वं समाख्यातं यत्तु पुष्टं त्वया नृप ॥
स्वस्ति तेऽस्तु तपः सिद्धिं गच्छ लब्धुं यथासुखम् ॥ १६-४४ ॥
एवमुक्तो महीपालो भृगुणा परमर्षिणा ॥
परमां प्रीतिमापन्नः प्रपेदेतपसे वनम् ॥ १६-४५ ॥
हिमवद्गिरिमासाद्य पुण्यदेशे मनोहरे ॥
नादेश्वरे महाक्षेत्रे तपस्तेपेऽतिदुश्चरम् ॥ १६-४६ ॥
राजा त्रिषवणस्नायी कन्दमूलफलाशनः ॥
कृतातिथ्यर्हणश्चापि नित्यं होमपरायणः ॥ १६-४७ ॥
सर्वभूतहितः शान्तो नारायणपरायणः ॥
पत्रैः पुष्पैः फलैस्तोयैस्त्रिकालं हरिपूजकः ॥ १६-४८ ॥
एवं बहुतिथं कालं नीत्वा चात्यन्तधैर्यवान् ॥
ध्यायन्नारायणं देवं शीर्णपर्णाशनोऽभवत् ॥ १६-४९ ॥
प्राणायामपरो भूत्वा राजा परमधार्मिकः ॥
निरुच्छ्वासस्तपस्तप्तुं ततः समुपचक्रमे ॥ १६-५० ॥
ध्यायन्नारायणं देवमनन्तमपराजितम् ॥
षष्टिवर्षसहस्ताणि निरुच्छ्वासपरोऽभवत् ॥ १६-५१ ॥
तस्य नान्मापुटाद्राज्ञो वह्निर्जज्ञं भयङ्करः ॥
तं दृष्ट्वा देवताः सर्वे वित्रस्ता वह्निता पिताः ॥ १६-५२ ॥
अभिजग्मुर्महाविष्णुं यत्रास्ते जगतां पतिः ॥
क्षीरोदस्योत्तरं तीर सम्प्राप्य त्रिदशेश्वराः ॥
अस्तुवन्देवदेवेशं शरणागतपालकम् ॥ १६-५३ ॥
देवा ऊचुः ॥
नताः स्म विष्णुं जगदेकनाथं स्मरत्समस्तार्तिहरं परेशम् ॥
स्वभावशुद्धं परिपूर्णभावं वदन्ति यज्ज्ञानतनुं च तज्ज्ञाः ॥ १६-५४ ॥
ध्येयः सदा योगिवरैर्महात्मा स्वेच्छाशरीरैः कुतदेवकार्यः ॥
जगत्स्वरुपो जगदादिनाथस्तस्मै नताः स्मः पुरुषोत्तमाय ॥ १६-५५ ॥
यनन्नामसङ्कीर्त्तनतो खलानां समस्त पापानि लयं प्रयान्ति ॥
तमीशमीड्यं पुरुषं पुराणं नताः स्म विष्णुं पुरुषार्थसिद्ध्यै ॥ १६-५६ ॥
यत्तेजसा भान्ति दिवाकराद्या नातिक्रमन्त्यस्य कदापि शिक्षाः ॥
कालात्मकं तं त्रिदशाधिनाथं नमामहे वै पुरुषार्थरुपम् ॥ १६-५७ ॥
जगत्करोऽत्यब्जभवोऽत्ति रुद्रः पुनाति लोकाञ्श्रुतिभिश्च विप्राः ॥
तमादिदेवं गुणसन्निधानं सर्वोपदेष्टारमिताः शरण्यम् ॥ १६-५८ ॥
वरं वरेण्यं मधुकैटभारिं सुरासुराभ्यर्चितपादपीठम् ॥
सद्भक्तिसङ्कल्पितासिद्धिहेतुं ज्ञानैकवेद्यं प्रणताः स्म देवम् ॥ १६-५९ ॥
अनादिमध्यान्तमजं परेशमनाद्यविद्याख्यतमोविनाशम् ॥
सच्चित्परानन्दघनस्वरुपं रुपादिहीनं प्रणताः स्म देवम् ॥ १६-६० ॥
नारायणं विष्णुमनन्तमीशं पीताम्बरं पद्मभवादिसेव्यम् ॥
यज्ञप्रियं यज्ञकरं विशुद्धं नताः स्म सर्वोत्तममव्ययं तम् ॥ १६-६१ ॥
इति स्तुतो महाविष्णुर्देवैरिन्द्रादिभिस्तदा ॥
चरितं तस्य राजर्षेर्देवानां सन्न्यवेदयत् ॥ १६-६२ ॥
ततो देवान्समाश्वास्य दत्त्वाभयमनञ्जनः ॥
जगाम यत्र राजर्षिस्तपस्तपति नारद ॥ १६-६३ ॥
शङ्खचक्रधरो देवः सच्चिदानन्दविग्रहः ॥
प्रत्यक्षतामगात्तस्य राज्ञः सर्वजगद्गुरुः ॥ १६-६४ ॥
तं दुष्ट्वा पुण्डरीकाक्षं भासितदिगन्तरम् ॥
अतसीपुष्पंसङ्काशं स्फुरत्कुण्डलमण्डितम् ॥ १६-६५ ॥
स्निग्ध कुन्तलवक्राब्जं विभ्राजन्मुकुटोज्ज्वलम् ॥
श्रीवत्सकौस्तुभधरं वनमालाविभूषितम् ॥ १६-६६ ॥
दीर्घबाहुमुदाराङ्गं लोकेशार्चितपन्त्कजम् ॥
ननाम दण्डवद्भूमौ भूपतिर्नम्रकन्धरः ॥ १६-६७ ॥
अत्यन्तहर्षसम्पूर्णः सरोमाञ्चः सगद्गदः ॥
कृष्ण कृष्णेति श्रीकृष्णेति समुच्चरन् ॥ १६-६८ ॥
तस्य विष्णुः प्रसन्नात्मा ह्यन्तर्यामी जगद्गुरुः ॥
उवाच कृपयाविष्टो भगवान्भूतभावनः ॥ १६-६९ ॥
श्रीभगवानुवाच ॥
भगीरथ महाभाग तवाभीष्टं भविष्यति ॥
आगमिष्यन्ति मल्लोकं तव पूर्वपितामहाः ॥ १६-७० ॥
मम मूर्त्यन्तरं शम्भुं राजन्स्तोत्रैः स्वशक्तितः ॥
स्तुहि ते सकलं कामं सवै सद्यः करिष्यन्ति ॥ १६-७१ ॥
यस्तु जग्राह शशिनं शरणं समुपागतम् ॥
तस्मादाराधयेशानं स्तोत्रैः स्तुत्यं सुखप्रदम् ॥ १६-७२ ॥
अनादिनिधनो देवः सर्वकाम फलप्रदः ॥
त्वया सम्पुजितो राजन्सद्यः श्रेयो विधास्यति ॥ १६-७३ ॥
इत्युक्त्वा देवदेवेशो जगतां पतिरच्युतः ॥
अन्तर्दधे मुनिश्रेष्ट उत्तस्थौसोऽपि भूपतिः ॥ १६-७४ ॥
किमिदं स्वप्न् आहोस्वित्सत्यं साक्षाद्विजोत्तम् ॥
भूपतिर्विस्मयं प्राप्तः किं करोमीति विस्मितः ॥ १६-७५ ॥
अथान्तरिक्षे वागुच्चैः प्राह तं भ्रान्तचेतसम् ॥
सत्यमेतदिति व्यक्तं न चिन्तां कर्तुमर्हसि ॥ १६-७६ ॥
तन्निशम्यावनीपाल ईशानं सर्वकारणम् ॥
समस्तदेवताराजमस्तौषीद्भक्तितत्परः ॥ १६-७७ ॥
भगीरथ उवाच ॥
प्रणमामि जगन्नाथं प्रणतार्तिप्रणाशनम् ॥
प्रमाणागोचरं देवमीशानं प्रणवात्मकम् ॥ १६-७८ ॥
जगद्रूपमजं नित्यं सर्गस्थित्यन्तकारणम् ॥
विश्वरुपं विरुपाक्ष प्रणतोऽस्म्युग्ररेतसम् ॥ १६-७९ ॥
आदिमध्यान्तरहितमनन्तमजमव्ययम् ॥
समामनन्ति योगीन्द्रास्तं वन्दे पुष्टिवर्धनम् ॥ १६-८० ॥
नमो लोकाधिनाथाय वञ्चते परिवञ्चते ॥
नमोऽस्तु नीलग्रीवाय पशूनां पतये नमः ॥ १६-८१ ॥
नमः कपालहस्ताय पाशपतये नमः ॥
नमोऽकल्पप्रकल्पाय भूतानां पतये नमः ॥ १६-८२ ॥
नमः पिनाकहस्ताय शूलहस्ताय ते नमः ॥
नमः कपालहस्ताय पाशमुद्गरधारिणे ॥ १६-८३ ॥
नमस्ते सर्वभूताय घण्टाहस्ताय ते नमः ॥
नमः पञ्चास्यदेवाय क्षेत्राणां पतये नमः ॥ १६-८४ ॥
नमः समस्तभूतानामादिभृताय भूभृते ॥
अनेकरुपरुपाय निर्गुणाय परात्मने ॥ १६-८५ ॥
नमो गणाधिदेवाय गणानां पतये नमः ॥
नमो हिरण्यगर्भाय हिरण्यपतये नमः ॥ १६-८६ ॥
हिरण्यरेतसे तुभ्यन्नमो हिरण्यबाहवे ॥
नमो ध्यानस्वरुपाय नमस्ते ध्यानसाक्षिणे ॥ १६-८७ ॥
नमस्ते ध्यानसंस्थाय ध्यानगम्याय ते नमः ॥
येनेदं विश्वमखिलं चराचरविराजितम् ॥ १६-८८ ॥
वर्षेवाभ्रेण जनितं प्रधानपुरुषात्मना ॥ १६-८९ ॥
स्वप्रकाशं महात्मानं परं ज्योतिः सनातनम् ॥
यमामनन्ति तत्त्वज्ञाः सवितारं नृचक्षुषाम् ॥ १६-९० ॥
उमाकान्तनन्दिकेशन्तं नीलकण्ठं सदाशिवम् ॥
मृत्युञ्जयं महादेवं परात्परतरं विभुम् ॥ १६-९१ ॥
परं शब्दब्रह्मरुपं तं वन्देऽखिलकारणम् ॥
कपर्द्दिने नमस्तुभ्यं सद्यो जाताय वै नमः ॥ १६-९२ ॥
भवोद्भवाय शुद्धाय ज्येष्ठाय च कनीयसे ॥
मन्यवे त इषे त्रघय्याः पतये यज्ञतन्तवे ॥ १६-९३ ॥
ऊर्जे दिशां च पतये कालायाघोररुपिणे ॥
कृशानुरेतसे तुभ्यं नमोऽस्तु सुमाहात्मने ॥ १६-९४ ॥
यतः समुद्राः सरितोऽद्रयश्च गन्धर्वयक्षासुरसिद्धसङ्घाः ॥
स्थाणुश्चरिष्णुर्महदल्पकं च असञ्च सज्जीवमजीवमास ॥ १६-९५ ॥
नतोऽस्मि तं योगिनताङ्घ्रिपद्मं सर्वान्तरात्मानमरुपमीशम् ॥
स्वतन्त्रमेकं गुणिनां गुणं च नमामि भूयः प्रणमामि भूयः ॥ १६-९६ ॥
इत्थं स्तुतो महादेवः शङ्करो लोकशङ्करः ॥
आविर्बभूव भृपस्य सन्तप्ततपसोग्रतः ॥ १६-९७ ॥
पञ्चवक्रं दशभुजं चन्द्रार्ध्दकृतशेखरम् ॥
त्रिलोचनमुदाराङ्गं नागयज्ञोपवीतिनम् ॥ १६-९८ ॥
विशालवक्षसं देवं तुहिनाद्रिसमप्रभम् ॥
गजचर्माम्बरधरं सुरार्चितपदाम्बुजम् ॥ १६-९९ ॥
दृष्ट्वा पपात पादाग्रे दण्डवद्भुवि नारद ॥
तत उत्थाय सहसा शिवाग्रे विहिताञ्जलिः ॥ १६-१०० ॥
प्रणनाम महादेवं कीर्तयञ्शङ्कराह्वयम् ॥
विज्ञाय भक्तिं भूपस्य शङ्करः शशिशेखरः ॥ १६-१ ॥
उवाच राज्ञे तुष्टोऽस्मि वरं वरय वाञ्छितम् ॥
तोषितोऽस्मि त्वया सम्यक् स्तोत्रेण तपसा तथा ॥ १६-२ ॥
एवमुक्तः स देवेन राजा सन्तुष्टमानसः ॥
उवाच प्राञ्जलिर्भूत्वा जगतामीश्वरेश्वरेश्वरम् ॥ १६-३ ॥
भगीरथ उवाच ॥
अनुग्राह्योऽस्मि यदि ते वरदानान्महेश्वर ॥
तदा गङ्गां प्रयच्छास्मत्पितॄणां मुक्तिहेतवे ॥ १६-४ ॥
श्रीशिव उवाच ॥
दत्ता गङ्गा मया तुभ्यं पितॄणां ते गतिः परा ॥
तुभ्यं मोक्षं परश्चेति तमुक्त्वान्तर्दधे शिवः ॥ १६-५ ॥
परर्दिनो जटास्त्रस्ता गङ्गा लोकैकपाविर्नी ॥
पावयन्ती जगत्सर्वमन्वगच्छद्भगीरथम् ॥ १६-६ ॥
ततः प्रभृति सा देवी निर्मला मलहारिणी ॥
भागीरथीति विख्याता त्रिषु लोकेष्वभून्मुने ॥ १६-७ ॥
सगरस्यात्मजाः पूर्वं यत्र दग्धाः स्वपाप्मना ॥
तं देशं प्लावयामास गङ्गा सर्वसरिद्वरा ॥ १६-८ ॥
यदा सम्प्लावितं भस्म सागराणां तु गङ्गाया ॥
तदैव नरके मग्ना उद्धृताश्च गतैनसः ॥ १६-९ ॥
पुरा सङ्क्रुश्यमानेन ये यमेनातिपूडिताः ॥
त एव पूचितास्तेन गङ्गाजलपरिप्लुताः ॥ १६-१० ॥
गतपापान् सविज्ञाय यमः सगरसम्भवान् ॥
प्रणम्याभ्यर्च्य विधिवत्प्राह तान्प्रीतमानसः ॥ १६-११ ॥
भो भो राजसुता यूयं नरकाद् भृशदारुणात् ॥
मुक्ता विमानमारुह्य गच्छध्वं विष्णुमन्दिरम् ॥ १६-१२ ॥
इत्युक्तास्ते महात्मानो यमेन गतकल्मषाः ॥
दिव्यदेहधरा भूत्वा विष्णुलोकं प्रपेदिरे ॥ १६-१३ ॥
एवम्प्रभावा सा गङ्गा विष्णुपादाग्रसम्भवा ॥
सर्वलोकेषु विख्याता महापातकनाशिनी ॥ १६-१४ ॥
य इदं पुण्यमाख्यानं महापातकनाशनम् ॥
पठेच्च श्रृणुयाद्वापि गङ्गास्नानफलं लभेत् ॥ १६-१५ ॥
यस्त्वे तत्पुण्यमाख्यानं कथयेद्ब्राह्यणाग्रतः ॥
स याति विष्णुभवनं पुनरावृत्तिवर्जितम् ॥ १६-१६ ॥
इति श्रूबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्ये भगीरथगङ्गानयनं नाम षोडषोऽध्यायः ॥