०१३

धर्मराज उवाच ॥
देवतायतनं यस्तु कुरुते कारयत्यपि ॥
शिवस्यापि हरेर्वापि तस्य पुण्यफलं श्रृणु ॥ १३-१ ॥

मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः ॥
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः ॥ १३-२ ॥

मृदैव कुरुते यस्तु देवतायतनं निरः ॥
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः श्रृणु ॥ १३-३ ॥

दिव्यदेहधरो भूत्वा विमानवरमास्थितः ॥
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः ॥ १३ -४ ॥

मृदैव कुरुते यस्तु देवतायतनं नरः ॥
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः श्रृणु ॥ १३-५ ॥

दिव्यदेहधरो भूत्वा विमानवरमास्थितः ॥
कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत् ॥ १३-६ ॥

कल्पद्वयं स्थितस्तत्र पुनः कल्पं वसेद्दिवि ॥
ततस्तु योगिनामेव कुले जातो दयान्विताः ॥ १३-७ ॥

वैष्णवं योगमास्थाय मुक्तिं व्रजति शाश्वतीम् ॥
दारुभिः कुरुते यस्तु तस्य स्याद्दिगुणं फलम् ॥ १३-८ ॥

त्रिगुणं चेष्टकाभिस्तु शिलाभिस्तच्चतुर्गणम् ॥
स्फुटिकाभिः शिलाभिस्तु ज्ञेयं दशगुणोत्तरम् ॥ १३-९ ॥

तान्मीभिस्तच्छतगुणं हेम्ना कोटिगुणं भवेत् ॥
देवालयं तडागं वा ग्रामं वा पालयेत्तु यः ॥ १३-१० ॥

कर्तुः शतगुणं तस्य पुण्यं भवति भूपते ॥
देवालयस्य शुश्रूषां लेपसेचनमण्डनैः ॥ १३-११ ॥

कुर्याद्यत्सततं भक्त्या तस्य पुण्यमनन्तकम् ॥
वेतनाद्विष्टितो वापि पुण्यकर्मप्रवर्त्तिताः ॥ १३-१२ ॥

ते गच्छन्ति धराधाराः शाश्चतं वैष्णवं पदम् ॥
ताडागार्द्धफलं राजन्कासारे परिकीर्तितम् ॥ १३-१३ ॥

कूपे पादफलं ज्ञेयं वाप्यां पद्माकरोन्मितम् ॥
वापीशतगुणं प्रोक्तं कुल्यायां भूपतेः फलम् ॥ १३-१४ ॥

दृषद्भिस्तुधनीःकुर्यान्मृदा निष्किञ्चनो जनः ॥
तयोः फलं समानं स्यादित्याह कमलोद्भवः ॥ १३-१५ ॥

दद्यादाढ्यास्तु नगरं हस्तमात्रमकिञ्चनः ॥
भुवं तयोः समफलं प्राहुर्वेदविदो जनाः ॥ १३-१६ ॥

धनाढ्यः कुरुते यस्तु तडागं फलसाधनम् ॥
दरिद्रः कुरुते कूपं समं पुण्यं प्रकीर्तितम् ॥ १३-१७ ॥

आश्रमं कारयेद्यस्तु बहुजन्तूपकारकम् ॥
स याति ब्रह्मभुवनं कुलत्रयसमन्वितः ॥ १३-१८ ॥

धेनुर्वा ब्राह्मणो वापि यो वा को वापि भूपते ॥
क्षणार्द्धं तस्य छायायां तिष्टन्स्वर्गं नयत्यमुम् ॥ १३-१९ ॥

आरामकारका राजन्देवतागृहकारिणः ॥
तडागग्रामकर्त्तारः पूज्यन्ते हरिणा सह ॥ १३-२० ॥

सर्वलोकोपकारार्थं पुष्पाराम् जनेश्वर ॥
कुर्वते देवतार्थं वा तेषां पुण्यफलं श्रृणु ॥ १३-२१ ॥

तत्र यावन्ति पर्णानि कुसुमानि भवन्ति च ॥
तावद्वर्षाणि नाकस्थो मोदते कुलकोटिभिः ॥ १३-२२ ॥

प्राकारकारिणस्तस्य कण्टकावरणप्रदाः ॥
प्रयान्ति ब्रह्मणः स्थानं युगानामेकसत्पतिम् ॥ १३-२३ ॥

तुलसीरोपणं ये तु कुर्वते मनुजेश्वर ॥
तेषां पुण्यफलं राजन्वदतो मे निशामय ॥ १३-२४ ॥

सत्पकोटिकुलैर्युक्तो मातृतः पितृतस्तथा ॥
वसेत्कल्पशतं साग्रं नारायणपदे नृप ॥ १३-२५ ॥

ऊर्द्धपुण्ड्रधरो यस्तु तुलसीमूलमृत्स्नया ॥
गोपिकाचन्दनेनापि चित्रकूटमृदापि वा ॥
गङ्गामृतिकया चैव तस्य पुण्यफलं श्रृणु ॥ १३-२६ ॥

विमानवरमारुढो गन्धर्वाप्सरसां गणैः ॥
सङ्गीयमानचरितो मोदते विष्णुम्मन्दिरे ॥ १३-२७ ॥

पत्राणि तुलसीमूलाद्यावन्ति पतितानि वै ॥
तावन्ति ब्रह्महत्यादिपातकानि हतानि च ॥ १३-२८ ॥

तुलस्यां सेचयेद्यस्तु जलं चुलुकमात्रकम् ॥
क्षीरोदवासिना सार्द्धं वसेदाचन्द्रतारकम् ॥ १३-२९ ॥

ददाति ब्राह्मणानां यः कोमलं तुलसीदलम् ॥
स याति ब्रह्मसदने कुलत्रितयतसंयुतः ॥ १३-३० ॥

शालग्रामेऽर्पयेद्यस्तु तुलस्यास्तु दलानि च ॥
स वसेद्विष्णुभवने यावदाभूतसम्प्लवम् ॥ १३-३१ ॥

कण्टकावरणं यस्तु प्राकारं वापि कारयेत् ॥
सोऽप्येकविम्शतिकुलैर्मोदते विष्णुमन्दिरे ॥ १३-३२ ॥

योऽर्च्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलैः ॥
न तस्य पुनरावृत्तिर्विष्णुलोकान्नरेश्वर ॥ १३-३३ ॥

द्वादश्यां पौर्णमास्यां यः क्षीरेण स्नापयेद्धरिम् ॥
कुलायुतयुतः सोऽपि मोदते वैष्णवे पदे ॥ १३-३४ ॥

प्रस्थमात्रेण पयसा यः स्नापयति केशवम् ॥
कुलायुतायुतयुतः सोऽपि विष्णुपुरे वसेत् ॥ १३-३५ ॥

घृतप्रस्थेन यो विष्णुं द्वादश्यां स्नापयेन्नरः ॥
कुलकोटियुतो राजन्सायुज्यं लभते हरेः ॥ १३-३६ ॥

पञ्चामृतेन यः स्नानमेकादश्यां तु कारयेत् ॥
विष्णोः सायुज्यकं तस्य भवेत्युलशतायुतैः ॥ १३-३७ ॥

एकादश्यां पौर्णमास्यां द्वादश्यां वा नृपोत्तम ॥
नालिकेरोदकैर्विष्णुं स्नापयेत्तत्फलं श्रृणु ॥ १३-३८ ॥

दशजन्मार्जितैः पापैर्विमुक्तो नृपसत्तम ॥
शतद्वयकुलैर्युक्तो मोदते विष्णुना सह ॥ १३-३९ ॥

इक्षुतोयेन देवेशं यः स्नापयति भूपते ॥
केशवं लक्षपितृभिः सार्द्धं विष्णुपदं व्रजेत् ॥ १३-४० ॥

पुष्पोदकेन गोविन्दं तथा गन्धोदकेन च ॥
स्नापयित्वा हरिं भक्त्या वैष्णवं पदमान्पुयात् ॥ १३-४१ ॥

जलेन वस्त्रपूतेन यः स्नापयति माधवम् ॥
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ॥ १३-४२ ॥

क्षीराद्यैः स्नापयेद्यस्तु रविसङ्क्रमणे हरिम् ॥
स वसेद्विष्णुसदने त्रिसप्तपुरुषैः सह ॥ १३-४३ ॥

शुक्लपक्षे चतुर्द्दश्यामष्टम्यां पूर्णिमादिने ॥ १३-४४ ॥

एकादश्यां भानुवारे द्वादश्यां पञ्चमीतिथौ ॥
सोमसूर्योपरागे च मन्वादिषुयुगादिषु ॥ १३-४५ ॥

अर्द्धोदये च सूर्यस्य पुष्यार्के रोहिणीबुधे ॥
तथैव शनिरोहिण्यां भौमाश्विन्यां तथैव च ॥ १३-४६ ॥

शन्यां भृगुमृगे चैवभृगुरेवतिसङ्गमे ॥
तथा बुधानुराधायां श्रवणार्के तथैव च ॥ १३-४७ ॥

तथा च सोमश्रवणे हस्तयुक्ते बृहस्पतौ ॥
बुधाष्टम्यां बुधाषाढे पुण्ये दिने तथा ॥ १३-४८ ॥

स्त्रापयेत्पयसा विष्णुं शान्तिमान् वाग्यतः शुचिः ॥
घृतेन मधुना वापि दध्ना वा तत्फलं श्रृणु ॥ १३-४९ ॥

सर्वयज्ञफलं प्राप्ये सर्वपापविवर्जितः ॥
वसेदिष्णुपुरे सार्ध्दं त्रिसप्तपुरुषैर्नृप ॥ १३-५० ॥

तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् ॥
मोक्षमाप्रोति नृपते पुनरावृत्तिदुर्लभम् ॥ १३-५१ ॥

कृष्णपक्षे चतुर्दशयां सोमवारे च भूपते ॥
शिवं संस्नाप्य दुग्धेन शिवसायुज्यमाप्नुयात् ॥ १३-५२ ॥

नालिकेरोदकेनापि शिवं संस्नाप्य भक्तितः ॥
अष्टम्यामिन्दुवारे वा शिवसायुज्यमश्नुते ॥ १३-५३ ॥

शुक्लपक्षे चतुर्दश्यामष्यम्यां वापि भूपते ॥
घृतेन मधुना स्नाप्य शिवं तत्साम्यतां व्रजेत् ॥ १३-५४ ॥

तिलतैलेन संस्त्राप्य विष्णुं वा शिवमेवं च ॥
स याति तत्तत्सारुप्यं पितृभिः सह सप्तभिः ॥ १३-५५ ॥

शिवमिक्षुरसेनापि यः स्नापयति भक्तितः ॥
शिवलोके वसेत्कल्पं ससप्तपुरुषैः सह ॥ १३-५६ ॥

घृतेन स्नापयेल्लिङ्गमुत्थाने द्वादशीदिने ॥
क्षीरेण वा महाभाग तत्फलं श्रृणु मद्गिरा ॥ १३-५७ ॥

जन्मायुतकृतकैः पापैर्दर्मुक्तो मनुजो नृप ॥
कोटि सङ्ख्यं समुद्धृकत्य स्वकुलं शिवतां व्रजेत् ॥ १३-५८ ॥

सम्पूज्य गन्धकुसुमैर्विष्णुं विष्णुतिथौ नृप ॥
जन्मायुतार्जितैः पापैर्मुक्तो व्रजति तत्पदम् ॥ १३-५९ ॥

पद्मपुष्पेण यो विष्णुं शिवं वा पूजयेन्नरः ॥
स याति विष्णुभवनं कुलकोटिसमन्वितः ॥ १३-६० ॥

हरिं च केतकीपुष्पैः शिवं धत्तूरजैर्निशि ॥
सम्म्पूज्य पापनिर्मुक्तो वसेद्विष्णुपुरे युगम् ॥ १३-६१ ॥

हरिं तु चाम्पकैः पुर्ष्पेरर्कष्पैश्च शङ्करम् ॥
समभ्यर्च्य महाराज तत्तत्सालोक्यमाप्नुयात् ॥ १३-६२ ॥

शङ्कर स्याथवा विष्णोर्घृतयुक्तं च गुगगुलुम् ॥
दत्त्वा धूपे नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ १३-६३ ॥

तिलतैलान्वितं दीपं विष्णोर्वा शङ्करस्य वा ॥
दत्त्वा नरः सर्वकामान्मम्प्राप्नोति नृपोत्तम ॥ १३-६४ ॥

घृतेन दीपं यो दद्याच्छङ्करायाथ विष्णवे ॥
स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥ १३-६५ ॥

ग्रामयेन वापि तैलेन राजन्नन्येन वा पुनः ॥
दीपं दत्त्वा महाविष्णोः शिवस्यापि फलं श्रृणु ॥ १३-६६ ॥

सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ॥
तत्तत्सालोक्यमाप्नोति त्रिःसप्तपुरुषान्वितः ॥ १३-६७ ॥

यद्यदिष्टतमं भोज्यं तत्तदीशाय विष्णवे ॥
दत्त्वा तत्तत्पदं याति चत्वारिशत्कुलान्वितः ॥ १३-६८ ॥

यद्यदिष्टतमं वस्तु तत्द्विप्राय दापयेत् ॥
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥ १३-६९ ॥

भ्रूणहास्वर्णदानेन शुद्धो भवति भूपते ॥
अन्नतोयसमन्दानं न भूतं न भविष्यति ॥ १३-७० ॥

अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः ॥
सर्वदानफलं यस्मादन्नदस्य नृपोत्तम ॥ १३-७१ ॥

अन्नदो ब्रह्मसदनं यातिवंशायुतान्वितः ॥
न तस्य पुनरावृत्तिरिति शास्त्रेषु निश्चितम् ॥ १३-७२ ॥

सद्यस्तुष्टिकरं ज्ञेयं जलदानं यतोऽधिकम् ॥
अन्नदानान्नृपश्रेष्ट निर्दिष्टं ब्रह्मवादिभिः ॥ १३-७३ ॥

महापातकयुक्तो वा युक्तो वाप्युपपातकैः ॥
जलदो मुच्यते तेभ्य इत्याह कमलोद्भवः ॥ १३-७४ ॥

शरीरमन्नजं प्राहुः प्राणामप्यन्नजान्विदुः ॥
तस्मादन्नप्रदो ज्ञेयः प्राणदः पृथिवीपते ॥ १३-७५ ॥

यद्यतुष्टिकरं दानं सर्वकामफलप्रदम् ॥
तस्मादन्नसमं दानं नास्ति भूपाल भूतले ॥ १३-७६ ॥

अन्नदस्य कुले जाता आसहंस्त्र नृपोत्म ॥
नरकं तेन पश्यन्ति तस्मादन्नप्रदो वरः ॥ १३-७७ ॥

पादाभ्यङ्गम्भक्तियुक्तो योऽतिथेः कुरुते नरः ॥
स स्नातः सर्वतीर्थेषु गङ्गास्नानपुरःसरम् ॥ १३-७८ ॥

तैलाभ्यङ्गं महाराज ब्राह्मणानां करोति यः ॥
स स्नातोऽष्टशतं साग्रं गङ्गायां नात्र संशयः ॥ १३-७९ ॥

रोगितान्ब्रह्माणान्यस्तु प्रेम्णा रक्षति रक्षकः ॥
स कोटिकुलसंयुक्तो वसेद्वूह्यपुरे युगम् ॥ १३-८० ॥

यो रक्षेत्पृथिवीपाल रङ्गं वा रोगिणं नरम् ॥
तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति ॥ १३-८१ ॥

मनसा कर्मणा वाचा यो रक्षेदामयान्वितम् ॥
सर्वान्कामानवाप्नोति सर्वेपापविवर्जितः ॥ १३-८२ ॥

यो ददाति महीपाल निवासं ब्राह्मणाय वै ॥
तस्य प्रसन्नो देवेशः स्वलोकं सम्प्रयच्छति ॥ १३-८३ ॥

ब्राह्मणायं ब्रह्मविदे यो दद्याद्गां पयस्विनीम् ॥
स यातिब्रह्मसदनमन्येषामतिदुर्लभम् ॥ १३-८४ ॥

अन्येभ्यः प्रतिगृह्यापि यो द्द्याद्गां पयस्विनीम् ॥
तस्य पुण्यफलं वक्तुं नाहं शक्तोऽस्मि पण्डित ॥ १३-८५ ॥

कपिलां वेदविदुषे यो ददाति पयस्विनीम् ॥
स एव रुद्रो भूपाल सर्वपापविवर्जितः ॥ १३-८६ ॥

विप्राय वेदविदुषे दद्यादुभयतोमुखीम् ॥
यस्तस्य पुण्यं सङ्ख्यातु न शक्तोऽब्दशतैरपि ॥ १३-८७ ॥

तस्य पुण्यफलं राजञ्श्रृणु वक्ष्यामि तत्त्वतः ॥
एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ॥ १३-८८ ॥

एकतो भयभीतस्यत प्राणिनः प्राणरक्षणम् ॥
संरक्षति महीपाल यो विप्रं भयविह्वलम् ॥ १३-८९ ॥

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥
वस्त्रदो रुद्रभवनं कन्यादो ब्रह्मणः पदम् ॥ १३-९० ॥

हेमदो विष्णु भवनं प्रयाति स्वकुलान्वितः ॥
यस्तु कन्यामलङ्कृत्य ददात्यध्यात्मवेदिने ॥ १३-९१ ॥

शतवंशसमायुक्तः स व्रजेद्ब्रह्यणः पदम् ॥
कार्तिक्यां पौर्णमास्यां वा आषाढ्यां वापि भूपते ॥ १३-९२ ॥

वृषभं शिवतुष्ट्यर्थमुत्सृजेत्तत्फलं श्रृणु ॥
सप्तजन्मार्जितैः पापैर्विमुक्तो रुद्ररुपभाक् ॥ १३-९३ ॥

कुलसप्ततिसंयुक्तो रुद्रेण सह मोदते ॥
शिवलिङ्गाङ्कितं कृत्वा महिषं यः समुत्सृजेत् ॥ १३-९४ ॥

न तस्य यातनालोको भवेन्नृपतिसत्तम् ॥
ताम्बूलदानं यः कुर्याच्छक्तितो नृपसत्तम ॥ १३-९५ ॥

तस्य विष्णुः प्रसन्नात्मा ददात्यायुर्यशः श्रियम् ॥
क्षीरोदो घृतदश्चैव मधुदो दधिदस्तथा ॥ १३-९६ ।.

दिव्याब्दायुतपर्यन्तंस्वर्गलोके महीयते ॥
प्रयाति ब्रह्मसदनमिक्षुदाता नृपोत्तम ॥ १३-९७ ॥

गन्धदः पुण्यफलदः प्रयाति ब्रह्मणः पदम् ॥
गुडेक्षुरसदश्चैव प्रयाति क्षीरसागरम् ॥ १३-९८ ॥

भटानां जलदो याति सूर्यलोकमनुत्तमम् ॥
विद्यादानेन सायुज्यं माधवस्य व्रजेन्नरः ॥ १३-९९ ॥

विद्यादानं महीदानं गोदानं चोत्तमोत्तमम् ॥
नरकादुद्धरन्त्येव जपवाहनदोहनात् ॥ १३-१०० ॥

सर्वेषामपि दानानां विद्यादानं विशिष्यते ॥
विद्यादानेन सायुज्यं विष्णोर्याति नृपोत्तम ॥ १३-१०१ ॥

नरस्त्विन्न्धनदानेन मुच्यते ह्युपपातकैः ॥
शालग्रामशिलादानं महादानं प्रकीर्तितम् ॥ १३-१०२ ॥

यद्दत्त्वा मोक्षमान्पोति लिङ्गदानं तथा स्मृतम् ॥
ब्रह्माण्ड कोटिदानेन यत्फलं लभते नरः ॥ १३-१०३ ॥

तत्फलं समवान्पोति लिङ्गदानान्न संशयः ॥
शालग्रामशिलादाने ततोऽपि द्विगुणं फलम् ॥ १३-१०४ ॥

शालग्रामशिलारूपी विष्णुरेवेति विश्रुतः ॥
यो ददाति नरो दानं गृहतां प्रभो ॥ १३-१०५ ॥

गङ्गास्त्रानफलं तस्य निश्चितं नृप जायते ॥
रत्नान्वितसवर्णस्य प्रदानेन नृपोत्तम ॥ १३-१०६ ॥

भुक्तिमुक्तिमवान्पोति महादानं यतः स्मृतम् ॥
नरो माणिक्यदानेन परं मोक्षमवान्पुयात् ॥ १३-१०७ ॥

घ्रुवलोकमवान्पोति वज्रदानेन मानवः ॥
स्वर्गं विद्रुमदानेन रुद्रलोकमवान्पुयात् ॥ १३-१०८ ॥

प्रयाति यानदानेन मुक्तादानेन चैन्दवम् ॥
वैडूर्यदो रुद्रलोकं पुष्परागप्रदस्तथा ॥ १३-१०९ ॥

पुष्परागप्रदानेन सर्वत्र सुखमश्नुते ॥
अश्वसान्निध्यं चिरं व्रजति भूमिप ॥ १३-११० ॥

गजदानेन महता सर्वान्कामानवान्पुयात् ॥
प्रयाति यानदानेन स्वर्गं स्वर्यानमास्थितः ॥ १३-१११ ॥

महिषीदो जयत्येव ह्यपमृकत्युं न संशयः ॥
गवां तृणप्रदानेन रुद्रलोकमवान्पुयात् ॥ १३-११२ ॥

वारुणं लोकमान्पोति महीश लवणप्रदः ॥
स्वश्रमाचारनिरताः सर्वभूतहितेरताः ॥ १३-११३ ॥

अदाम्भिका गतासूयाः प्रयान्ति बग्रह्मणः पदम् ॥
परोपदेश निरता वीतरागा विमत्साराः ॥ १३-११४ ॥

हरिपादार्चनरताः प्रयान्ति सदनं हरेः ॥
सत्सङ्गाह्लादनिरताः सत्कर्मसु सदोद्यताः ॥ १३-११५ ॥

परापवादविमुखाः प्रायान्ति हरिमन्दिरम् ॥
नित्यं हितकरा ये तु ब्राह्मणेषु च गोषु च ॥ १३-११६ ॥

परस्त्रीसङ्गविमुखा न पश्यन्ति यमालयम् ॥
जितेन्द्रिया जिताहारा गोषु क्षान्ताः सुशीलिनः ॥ १३-११७ ॥

ब्राह्मणेषु क्षमाशीलाः प्रयान्ति भवनं हरेः ॥
अग्निशुश्रूषवश्चैव गुरुशुश्रूषकास्तथा ॥ १३-११८ ॥

पतिशुश्रूषणरता न वै संसृतिभागिनः ॥
सदा देवार्चनरता हरिनमपरायणाः ॥ १३-११९ ॥

प्रतिग्रहनिवृत्ताश्च प्रयान्ति परमं पदम् ॥
अनाथं विप्रकुणपं ये दहेयुर्नृपोत्तम ॥ १३-१२० ॥

अश्वमेधसहस्त्राणां फलमश्नुवते सदा ॥
पत्रैः पुर्ष्पेः फलैर्वापि जलैर्वा मनुजेश्वर ॥ १३-१२१ ॥

पूजया रहितं लिङ्गमचर्यत्तेत्फलं श्रृणु ॥
अप्सरोगणगन्धर्वैः स्तूयमानो विमानगः ॥ १३-१२२ ॥

प्रयाति शिवसान्निध्यमित्याह कमलोद्भवः ॥
चुलुकोदकमात्रेण लिङ्गं संस्नाप्य भूमिप ॥ १३-१२३ ॥

लक्षाश्वमेधजं पुण्यं सम्प्रान्पोति न संशयः ॥
पूजया रहितं लिङ्गं कुसुमैर्योऽर्चयेत्सुधीः ॥ १३-१२४ ॥

अश्वमेधायुतफलं भवेत्तस्य जनेश्वर ॥
भक्ष्यैर्भोज्यैः फलैर्वापि शून्यं लिङ्गं प्रपूज्य च ॥ १३-१२५ ॥

शिवसायुज्यमान्पोति पुनरावृत्तिवर्जितम् ॥
पूजया रहितं विष्णुं योऽर्चयेदकर्वंशज ॥ १३-१२६ ॥

जलेनापि स सालोक्यं विष्णोर्याति नरोत्तम ॥
देवतायतने यस्तु कुर्यात्सम्मार्जनं सुधीः ॥ १३-१२७ ॥

यावत्पांसु युगावासं वैष्णवे मन्दिरेलभेत् ॥
शीर्णं स्फटिकलिङ्गन्तु यः सन्दध्यान्नृपोत्तम ॥ १३-१२८ ॥

शतजन्मार्जितैः पापैर्मुच्यते स तु मानवः ॥
यस्तु देवालये राजन्नपि गोचर्ममात्रकम् ॥ १३-१२९ ॥

जलेन सिञ्चिद्भूभागं सोऽपि स्वर्गं लभेन्नरः ॥
गन्धोदकेन यः सिञ्चेद्देवतायतने भुवम् ॥ १३-१३० ॥

यावत्कणानुकल्पं तु तिष्ठेत देवसन्निधौ ॥
मृदा धातुविकारैर्वा यो लिम्पेद्देवतागृहम् ॥ १३-१३१ ॥

स कोटिकुलमुद्धृत्य याति साम्यं मधुद्विषः ॥
शिलाचूर्णेन यो मर्त्यो देवागारं तु लोपयेत् ॥ १३-१३२ ॥

स्वस्तिकादीनि वा कुर्यात्तस्य पुण्यमनन्तकम् ॥
यः कुर्याद्दीपरचनां देवतायतने नृप ॥ १३-१३३ ॥

तस्य पुण्यं प्रसङ्ख्यातुं नोत्सहेऽब्दशतैरपि ॥
अखण्डदीपं यः कुर्याद्विष्णोर्वा शङ्करस्य च ॥ १३-१३४ ॥

क्षणे क्षणेऽश्वमेधस्य फलं तस्य न दुर्लभम् ॥
अर्चितं शङ्करं दृष्ट्वा विष्णुं वापि नमेत्तु यः ॥ १३-१३५ ॥

स विष्णुभवनं प्राप्य मोदते च युगायुतम् ॥
देव्याः प्रदक्षिणामेकां सत्प सूर्यस्य भूमिप ॥ १३-१३६ ॥

तिस्त्रो विनायकस्यापि चतस्त्रो विष्णुमन्दिरे ॥
कृत्वा तत्तद्गृहं प्राप्य मोदते युगलक्षकम् ॥ १३-१३७ ॥

यो विष्णोर्भक्तिभावेन तथैव गोद्विजस्य च ॥
प्रदक्षिणां चररेत्तस्य ह्यश्वमेधः पदे पदे ॥ १३-१३८ ॥

काश्यां महेश्वरं माहेश्वरं लिङ्गं सम्पूज्य प्रणमेत्तु यः ॥
न तस्य विद्यते कृत्यं संसृतिर्नैव जायते ॥ १३-१३९ ॥

शिवं प्रदक्षिणं कृत्वा सव्येनैव विधानतः ॥
नरो न च्यवते स्वर्गाच्छङ्करस्य प्रसादतः ॥ १३-१४० ॥

स्तुत्वा स्तोत्रैर्जगन्नाथं नारायणमनामयम् ॥
सर्वान्कामानवान्पोति मनसा यद्यदिच्छति ॥ १३-१४१ ॥

देवतायतने यस्तु भक्तियुक्तः प्रनृत्यति ॥
गायते वा स भूपाल रुद्रलोके च मुक्तिभाक् ॥ १३-१४२ ॥

ये तु वाद्यं प्रकुर्वन्ति देवतायतने नराः ॥
ते हंसयानमारुढा व्रजन्ति ब्रह्‌मणः पदम् ॥ १३-४३ ॥

करतालं प्रकुर्वन्ति देवतायतने तु येते ॥
सर्वपापनिर्मुक्ता विमानस्था युगायुतम् ॥ १३-१४४ ॥

देवतायतने ये तु घण्टानादं प्रकुर्वते ॥
तेषां पुण्यं निगदितुं न समर्थः शिवः स्वयम् ॥ १३-१४५ ॥

भेरीमृदङ्गपटहमुरजैश्व सडिण्डिमैः ॥
सम्प्रीणयन्ति देवेशं तेषां पुण्यफलं श्रृणु ॥ १३-१४६ ॥

देवस्त्रीगणसंयुक्ताः सर्वकामैः समर्चिताः ॥
स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम् ॥ १३-१४७ ॥

देवतामन्दिरे कुर्वन्नरः शङ्खरवं नृप ॥
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ॥ १३-१४८ ॥

तालकांस्यादिनिनदं कुर्वन् विष्णुगृहे नरः ॥
सर्वपापविनिर्मुक्तो विष्णुलोकमवान्पुयात् ॥ १३-१४९ ॥

यो देवः सर्वदृग्विष्णुर्ज्ञानरुपी निरञ्जनः ॥
सर्वधर्मफलं पूर्णं सन्तुष्टः प्रददाति च ॥ १३-१५० ॥

यस्य स्मरणमात्रेण देवदेवस्य चक्रिणः ॥
सफलानि भवन्त्येव सर्वकर्माणि भूपते ॥ १३-१५१ ॥

परमात्मा जगन्नाथः सर्वकर्म्मफलप्रदः ॥
सत्कर्मकर्तृभिर्नित्यं स्मृतः सर्वार्तिनाशनः ॥
तमुद्दिश्य कृतं यच्च तदानन्त्याय कल्पते ॥ १३-१५२ ॥

धर्माणि विष्णुश्च फलानि विष्णुः कर्माणि विष्णुश्च फलानि भोक्ता ॥
कार्यं च विष्णुः करणानि विष्णुरस्मान्न किञ्चिव्द्यतिरिक्तमस्ति ॥ १३-१५३ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मानुकथनं नाम त्रयोदशोऽध्यायः ॥