०१२

नातद उवाच ॥
श्रुतं तु गङ्गामाहात्म्यं वाञ्छितं पापनाशनम् ।
अधुना लक्षणं ब्रूहि भ्रातर्मे दानपात्रघयोः ॥ १२-१ ॥

सनक उवाच ॥
सर्वेषामेव वर्णानां ब्रह्मणः परमो गुरुः ॥
तस्मै दानानि देयानि दत्तस्यानन्त्यमिच्छता ॥ १२-२ ॥

ब्राह्मणः प्रतिगृह्णीयात्सर्वतो भयवर्जितः ॥
न कदापि क्षत्रविशो गृह्णीयातां प्रतिग्रहम् ॥ १२-३ ॥

चण्डस्य पुत्रहीनस्य दम्भाचाररतस्य च ॥
स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम् ॥ १२-४ ॥

परदाररतस्यापि परद्रव्याभिलिषिणः ॥
नक्षत्रसूचकस्यापि दत्तं भवति निष्फलम् ॥ १२-५ ॥

असूयाविष्टमनसः कृतन्घस्य च मायिनः ॥
अयाज्ययाजकस्यापि दत्तं भवति निष्फलम् ॥ १२-६ ॥

नित्यं याच्ञापरस्यापि हिंसकस्य खलस्य च ॥
रसविक्रयिणश्वैव दत्तं भवति निष्फलम् ॥ १२-७ ॥ नामैका द

वेदविक्रयिणश्चापि स्मृतिविक्रयिणस्तथा ॥
धर्मविक्रयिणो विप्र दत्तं भवति निष्फलम् ॥ १२-८ ॥

गानेन जीविका यस्य यस्य भार्या च पुश्चली ॥
परोपतापिनश्चापि दत्तं भवति निष्फलम् ॥ १२-९ ॥

असिजीवी मषीजीवी देवलो ग्रामयाजकः ॥
धावको वा भवेत्तेषां दत्तं भवति निष्फलम् ॥ १२-१० ॥

पाककर्तुः परस्यार्थे कवये गदहारिणे ॥
अभक्ष्य भक्षकस्यापि दत्तं भवति निष्फलम् ॥ १२-११ ॥

शूद्रान्नभोजिनश्चैव शूद्राणां शवदाहिनः ॥
पौंश्वलान्नभुजश्चापि दत्तं भवति निष्फलम् ॥ १२-१२ ॥

नामविक्रयिणो विष्णोः सन्ध्याकर्म्मोर्ज्झितस्य च ॥
दुष्प्रतिग्रहदग्धस्य दत्तं भवति निष्फलम् ॥ १२-१३ ॥

दिवाशयनशीलस्य तथा मैथुनकारिणः ॥
सध्याभोजिन एवापिदत्तं भवति निष्फलम् ॥ १२-१४ ॥

महापातकयुक्तस्य त्यक्तस्य ज्ञातिबान्धवैः ॥
कुण्डस्य चापि गोलस्य दत्तं भवति निष्फलम् ॥ १२-१५ ॥

परिवित्तेः शठस्यापि परिवत्तुः प्रमादिनः ॥
स्त्रीजितस्यातिदुष्टस्य दत्तं भवित निष्फलम् ॥ १२-१६ ॥

मद्यमांसाशिनश्चापि स्त्रीविटस्यातिलोभिनः ॥
चौरस्य पिशुनस्यापि दत्तं भवति निष्फलम् ॥ १२-१७ ॥

ये केचित्पापनिरता निन्दिताः सुजनैः सदा ॥
न तेभ्यः प्रतिगृह्णीयान्न च वद्याद्दिजोत्तम ॥
सत्कर्मनिरतायापि देयं यत्नेन नारद ॥ १२-१८ ॥

यद्दानं श्रद्धया दत्तं तथा विष्णुसमर्पणम् ॥
याचितं वापि पात्रेण भवेत्तद्दानमुत्तमम् ॥ १२-१९ ॥

परलोकं समुद्दश्य ह्यैहिकं वापि नारद ॥
यद्दानं दीयते पात्रे तत्काम्यं मध्यमं स्मृतम् ॥ १२-२० ॥

दग्भेन चापि हिंसार्थं परस्याविधिनापि च ॥
क्रुद्धेनाश्रद्धयापात्रे तद्दानं मध्यमं स्मृतम् ॥ १२-२१ ॥

अधमं बलितोषायमध्यमं स्वार्थसिद्धये ॥
उत्तमं हरिप्रीत्यर्थं प्राहुर्वेदविदां वराः ॥ १२-२२ ॥

दानभोगविनाशाश्च रायः स्युर्गतयस्त्रिधा ॥ १२-२३ ॥

यो ददाति च नोभुक्ते तद्धनं नाशकारणम् ॥
धनं धर्मफलं विप्र धर्मो माधवतुष्टिकृत् ॥ १२-२४ ॥

तरवः किं न जीवन्ति तेऽपि लोके परार्थकाः ॥
यत्र मूलफलैर्वृक्षाः परकार्यं प्रकुर्वते ॥ १२-२५ ॥

मनुष्या यदि विप्राग्थ्र न परार्थास्तदा मृताः ॥
परकार्यं न ये मर्त्याः कायेनापि धनेन वा ॥ १२-२६ ॥

मनसा वचसा वापि ते ज्ञेयाः पापकृत्तमाः ॥
अत्रेतिहासं वक्ष्यामि श्रृणु नारद तत्त्वतः ॥ १२-२७ ॥

यत्र दानादिकानां तु लक्षणं परिकीर्तितम् ॥
गङ्गामाहात्म्यसहितं सर्वपापप्रणाशनम् ॥ १२-२८ ॥

भगीरथस्य धर्मस्य संवादं पुण्यकारणम् ॥
आसीद्भगीरथो राजा सगरान्वयसम्भवः ॥ १२-२९ ॥

शशास पृथिवीं मेतां सत्पद्वीपां ससागराम् ॥
सर्वधर्मरतो नित्यं सत्यसन्धः प्रतापवान् ॥ १२-३० ॥

कन्दर्पसद्दशो रुपे यायजृको विचक्षणः ॥
प्रालेयाद्रिसमो धैर्ये धर्मे धर्मसमो नृपः ॥ १२-३१ ॥

सर्वलक्षणसम्पन्नः सर्वशास्त्रार्थपारगः ॥
सर्वसम्पत्समायुक्तः सर्वानन्दकरो मुने ॥ १२-३२ ॥

आतिथ्यप्रयतो नित्यं वासुदेवार्चनेरतः ॥
पराक्रमी गुणनिधिर्मैत्रः कारुणिकः सधीः ॥ १२-३३ ॥

एतादृशं तं राजानं ज्ञात्वा हृष्टो भगीरथम् ॥
धर्मराजो द्विजश्रेष्ठ कदाचिद्द्रष्टुमागतः ॥ १२-३४ ॥

समागतं धर्मराजमर्हयामास भूपतिः ॥
शास्त्रदृष्टेन विधिना धर्मः प्री उवाच तम् ॥ १२-३५ ॥

धर्मराज उवाच ॥
राजन्धर्मविदां श्रेष्टप्रसिद्धोऽसि जगत्र्रये ॥
धर्मराजोऽथ कीर्तिं ते श्रुत्वा त्वां द्रष्टुमागतः ॥ १२-३६ ॥

सन्मार्गनिरतं सत्यं सर्वभूतहिते रतम् ॥
द्रष्टुमिच्छन्ति विबुधारतवोत्कुष्टगुणप्रियाः ॥ १२-३७ ॥
कीर्तिर्नीतिश्च सम्पत्तिर्वर्तते यत्र भूपते ॥
वसन्ति तत्र नियतं गुणास्सन्तश्च देवताः ॥ १२-३८ ॥

अहो राजन्महाभाग शोभनीचरितं तव ॥
सर्वभूतहितत्वादि मादृशामपि दुर्लभम् ॥ १२-३९ ॥

इत्युक्तवन्तं तं धर्मं प्रणिपत्य भगीरथः ॥
प्रोवाच विनयाविष्टः संहृष्टः श्लक्ष्णया गिरा ॥ १२-४० ॥

भगीरथ उवाच ॥
भगवन्सर्वधर्मज्ञ समदर्शित् सुरेश्वर ॥
कृपया परयाविष्टो यत्पृच्छामि वदस्व तत् ॥ १२-४१ ॥

धर्मा कीदृग्विधाः प्रोक्ताः के लोका धर्मशालिनाम् ॥
कियत्यो यातनाः प्रोक्ताः केषां ताः परिकीर्तिताः ॥ १२-४२ ॥

त्वया सम्माननीया ये शासनीयाश्च ये यथा ॥
तत्सर्वं मे महाभाग विस्तराद्वक्तुमर्हसि ॥ १२-४३ ॥

धर्मराज उवाच ॥
साधु साधु महाबुद्धे मतिस्ते विमलोर्जिता ॥
धर्माधर्मान्प्रवक्ष्यामितत्त्वतः श्रृणु भक्तितः ॥ १२-४४ ॥

धर्मा बहुविधाः प्रोक्ताः पुण्यलोकप्रदायकाः ॥
तथैव यातनाः प्रोक्ता असङ्ख्या घोरदर्शताः ॥ १२-४५ ॥

विस्तराद्गदितुं नालमपि वर्षशतायुतैः ॥
तस्मातंसमासतो वक्ष्ये धर्माधर्मनिदर्शनम् ॥ १२-४६ ॥

वृत्तिदानं द्विजानां वै महापुण्यं प्रकीर्ततम् ॥
तथैवाध्यात्मविदुषो दत्तं भवति चाक्षयम् ॥ १२-४७ ॥

कुटुम्बिनं या शास्त्रज्ञं श्रोत्रियं वा गुणान्वितम् ॥
यो दत्त्वा स्यापयेदृतिं तस्य पुण्यफलं श्रृणु ॥ १२-४८ ॥

मातृताः पितृतश्चैव द्विजः कोटिकुलन्वितः ॥
निर्विश्य विष्णुभवनं कल्पं तत्रैव मोदते ॥ १२-४९ ॥

गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिविन्दवः ॥
न गण्यन्ते विधात्रापि ब्रहह्मवृत्तिफलानि वै ॥ १२-५० ॥

समस्तदेवतारुपो ब्राह्मणः परिकीर्तितः ॥
जीवनं ददतस्तस्य कः पुण्यं गदितुं क्षमः ॥ १२-५१ ॥

यो विप्रहितकृन्नित्यं स सर्वान्कृतवान्मखान् ॥
स स्नातः सर्वतीर्थेषु तप्तं तेनाखिलं तपः ॥ १२-५२ ॥

यो ददस्वेति विप्राणां जीवनं प्रेरयेत्परम् ॥
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ॥ १२-५३ ॥

तडागं कारयेद्यस्तु स्वयमेवापरेण वा ॥
वक्तुं तत्पुण्यसङ्ख्यानं नालं वर्षशतायुषा ॥ १२-५४ ॥

एकश्चेदध्वगो राजंस्तडागस्य जलं पिबेत् ॥
कत्कर्तुः सर्वपापानि नश्यन्त्येव न संशयः ॥ १२-५५ ॥

एकाहमपि यत्कुर्याद्भूमिस्थमुदकं नरः ॥
स मुक्तः सर्वपापेभ्यः शतवर्षं वसेद्दिवि ॥ १२-५६ ॥

कर्तुं तडागं यो मर्त्यः साह्यकः शक्तितो भवेत् ॥
सोऽपि तत्फलमाप्नोति तुष्टः प्रेरक एव च ॥ १२-५७ ॥

मृदं सिद्धार्थमात्रां वा तडागाद्यो वहिः क्षिपेत् ॥
तिष्टत्यब्दशतं स्वर्गे विमुक्तः पापकोटिभिः ॥ १२-५८ ॥

देवता यस्य तुष्यन्ति गुरवो वा नृपोत्तम ॥
तडागपुण्यभाक्स स्यादित्येषा शाश्वती श्रुतिः ॥ १२-५९ ॥

इतिहासं प्रवक्ष्यामि तवात्र नृपसत्तम ॥
यं श्रृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १२-६० ॥

गौडदेशेऽतिविख्यातो राजासीद्वीरभद्रकः ॥
महाप्रतापी विद्यावान्सदा विप्रप्रपूजकः ॥ १२-६१ ॥

वेदशास्त्रकुलाचारयुक्तो मित्रक्विर्धनः ॥
तस्य राज्ञी महाभागा नान्मा चम्पकमञ्जरी ॥ १२-६२ ॥

तस्य राज्ञो महामात्याः कृत्माकृस्यविचारणाः ॥
धर्माणां धर्मशास्त्रेस्तु सदा कुर्वन्ति निश्चयम् ॥ १२-६३ ॥

प्रायश्चित्तं चिकित्त्सां च ज्योतिषे धर्मनिर्णयम् ॥
विनाशास्त्रेण यो ब्रूयात्तमाहुर्ब्रह्यघातकम् ॥ १२-६४ ॥

इति निश्चित्य मनसा मन्वादीरितधर्मकान् ॥
आचार्येभ्यः सदा भूपः श्रृणोति विधिपूर्वकम् ॥ १२-६५ ॥

न कोऽप्यन्यायवर्ती तस्य राज्येऽवरोऽपि च ॥
धर्मेण पाल्यमानस्य तस्य देशस्य भूपतेः ॥ १२-६६ ॥

जातं समत्वं स्वर्गस्य सौराज्यस्य शुभावहम् ॥
स चैकदा तु नृपतिर्मृगयायां महावने ॥ १२-६७ ॥

मन्त्र्यादिभिः परिवृतो बभ्राम मध्यभास्करम् ॥
दैवादाखेटशून्यस्य ह्यतिश्रान्तस्य तत्र वै ॥ १२-६८ ॥

नृपरीतस्य सञ्जातं सरसो दर्शनं नृप ॥
ततः शुष्कां तु सरसीं दृष्ट्वा तत्र व्यचिन्तयत् ॥ १२-६९ ॥

किमयं सरसीश्रृङ्गेभुवः केन विनिर्मिता ॥
कथं जलं भवेदत्र येन जीवेदयं नृपः ॥ १२-७० ॥

ततो बुद्धिः समभवत्खाते तस्या नृपोत्तम ॥
हस्तमात्रं ततो गर्त्तं खात्वा तोयमवाप्तवान् ॥ १२-७१ ॥

तेन तोयेन पीतेन राज्ञस्तृत्पिरजायत ॥
मन्त्रिणश्चापि भूमिश बुद्धिसागरसञ्ज्ञिनः ॥ १२-७२ ॥

स बुद्धिसागरो भूपं प्राह धर्मार्थकोविदः ॥
राजन्नियं पुष्करिणी वर्षाजलवती पुरा ॥ १२-७३ ॥

अद्यैनां बद्धवप्रां च कर्त्तुं जाता मतिर्मम ॥
तद्भवान्मोदतां देव दत्तादाज्ञां च मेऽनघ ॥ १२-७४ ॥

इति श्रुत्वा वचस्तस्य मन्त्रिणो नृपसत्तमः ॥
मुमुदेऽतितरां भूपः स्वयं कर्तुं समुद्यतः ॥ १२-७५ ॥

तमेव मन्त्रिणां तत्र युयोज शुभकर्मणि ॥
ततो राजाज्ञया सोऽपि बुद्धिसागरको मुदा ॥ १२-७६ ॥

सरसीं सागरं कर्त्तुमुद्यतः पुण्यकृत्तमः ॥
धनुषां चैव पञ्चाशत्सर्वतो विस्तृतायताम् ॥ १२-७७ ॥

सरसीं बद्धसु शिलां चकारागाधशम्बराम् ॥
तां विनिर्माय सरसीं राज्ञे सर्वं न्यवेदयत् ॥ १२-७८ ॥

तस्यां ततः प्रभृति वै सर्वेऽपि वनचारिणः ॥
पान्थाः पिपासिता भूप लभन्ते स्म जलं शुभम् ॥ १२-७९ ॥

कदाचित्स्वायुषश्चान्ते स मन्त्री बुद्धिसागरः ॥
प्रमृतो गतवाँल्लोकं लोकशास्तुर्मम प्रभो ॥ १२-८० ॥

तदर्थं तु मया पृष्टो धर्मो धर्मलिपिङ्करः ॥
चित्रगुत्पस्तु तत्कर्म मह्यं सर्वं न्यवेदयत् ॥ १२-८१ ॥

उपदेष्टा स्वयं चासौ धर्मकार्यस्य भूपतेः ॥
तस्माद्धर्मविमानं तु समारोढुमिहार्हति ॥ १२-८२ ॥

इत्युक्ते चित्रगुप्तेन समाज्ञप्तो मया नृप ॥
विमानं धर्मसञ्ज्ञं तु आरोढुं बुद्धिसागरः ॥ १२-८३ ॥

अथ कालान्तरे राजन्सराजा वीरभद्रकः ॥
मृतो गतो मम स्थानं नमश्चक्रे मुदान्वितः ॥ १२-८४ ॥

मया तु तत्र तस्यापि पृष्टं कर्माखिलं नृप ॥
कथितं चित्रगुत्पेन धर्मं सरसिसम्भवम् ॥ १२-८५ ॥

तदा सम्यङ्मया राजा बोधितोऽभूद्यथाश्रृणु ॥
अधित्यकायां भूपाल सैकतस्य गिरेः परा ॥ १२-८६ ॥

लावकेनामुनाचञ्च्वा खातं द्व्यङ्ङ्गुप्रलमबुनि ॥
ततः कालान्तरे तेन वाराहेण नृपोत्तम ॥ १२-८७ ॥

खनितं हस्तमात्रं तु जलं तुण्डेन चात्मनः ॥
ततोऽन्यदाऽमुया काल्याहस्त युग्ममितः कृतः ॥ १२-८८ ॥

खातो जले महाराज तोयं मासद्वयं स्थितम् ॥
पीतं क्षुद्रैर्वनचरैः सत्त्वैस्तृष्णासमाकुलैः ॥ १२-८९ ॥

ततो वर्षत्रायान्ते तु गजतानेन सुव्रत ॥
हस्तत्रयमितः खातः कृतस्तत्राधिकं जलम् ॥ १२-९० ॥

मासत्रये स्थितं तच्च पयो जीवैर्वनेचरैः ॥
भवांस्तत्र समायातो जलशोषादनन्तरम् ॥ १२-९१ ॥

मासे तत्र तु सम्प्रात्पं हस्तं खात्वा जलं नृप ॥
ततस्तस्योपदेशेन मन्त्रिणो नृपते त्वया ॥ १२-९२ ॥

पञ्चाशद्धनुरुत्खातं जातं तत्र महाजलम् ॥
पुनः शिलाभिः सुदृढं बद्धं जातं महत्सरः ॥
वृक्षाश्च रोपितास्तत्र सर्वलोकोपकारिणः ॥ १२-९३ ॥

तेन स्वस्वेन पुण्येन पञ्चैते जगतीपते ॥
विमानं धर्म्यमारुढास्त्वमाण्येनं समारुह ॥ १२-९४ ॥

इति वाक्यं समाकर्ण्य मम राजा स भूमिप ॥
आरुरोह विमानं तत्षष्ठो राजा समांशभाक् ॥ १२-९५ ॥

इति ते सर्वमाख्यातं तडागजनितं फलम् ॥
श्रुत्वैतन्मुच्यते पापादाजन्ममरणान्तिकात् ॥ १२-९६ ॥

यो नरः श्रद्धयो युक्तो व्याख्यातं श्रुणुयात्पठेत् ॥
सोऽप्याप्नोत्यखिलं पुण्यं सरोनिर्माणसम्भवम् ॥ १२-९७ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने द्वादशोऽध्यायः ॥ १२ ॥