०११

नारद उवाच ॥
अहो ह्यत्यद्भुतं प्रोक्तं त्वया भ्रातरिदं मम ॥
स वह्निरदितिं मुक्त्वा कथं तानदहत्क्षणात् ॥ ११-१ ॥

वदादितेर्महासत्त्वं विशेषाश्चर्यकारणम् ॥
परोपदेशनिरताः सज्जना हि मुनीश्वराः ॥ ११-२ ॥

सनक उवाच ॥
श्रृणु नारद माहात्म्यं हरिभक्तिरतात्मनाम् ॥
हरिध्यानपरान्साधून्कः समर्थः प्रबाधितुम् ॥ ११-३ ॥

हरिभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः ॥
देवाः सिद्धा मुनीश्वाश्च नित्यं तिष्टन्ति सत्तमाः ॥ ११-४ ॥

हरिरास्ते महाभाग हृदये शान्तचेतसाम् ॥
हरिनामपराणां च किमु ध्यानरतात्मनाम् ॥ ११-५ ॥

शिवपूजारतो वाऽपि विष्णुपूजापरोऽपि वा ॥
यत्र तिष्टति तत्रैव लक्ष्मीः सर्वाश्च देवताः ॥ ११-६ ॥

यत्र पूजापरो विष्णोर्वह्निस्तत्र न बाधते ॥
राजा वा तस्करो वापि व्याधयश्च न सन्ति हि ॥ ११-७ ॥

प्रेताः पिशाचाः कूष्माण्डग्रहा बालग्रहास्तथा ॥
डाकिन्यो राक्षसाश्चैव न बाधन्तेऽच्युतार्चकम् ॥ ११-८ ॥

परपीडारता ये तु भूतवेतालकादयः ॥
नश्यन्ति यत्र सद्भक्तो हरिलक्ष्म्यर्चने रतः ॥ ११-९ ॥

जितेन्द्रियः सर्वहितो धर्मकर्मपरायणः ॥
यत्र तिष्टति तत्रैव सर्वतीर्थानि देवताः ॥ ११-१० ॥

निमिषं निमिषार्द्धं वा यत्र तिष्टन्ति योगिनः ॥
तत्रैव सर्वश्रेयांसि तत्तीर्थं तत्तपोवनम् ॥ ११-११ ॥

यन्नामोच्चारणादेव सर्वे नश्यन्त्युपद्रवाः ॥
स्तोत्रैर्वाप्यर्हणाभिर्वा किमु ध्यानेन कथ्यते ॥ ११-१२ ॥

एवं तेनाग्निना विप्र दग्धं सासुरकाननम् ॥
सादितिर्नैव दग्धाभूद्विष्णुचक्राभिरक्षिता ॥ ११-१३ ॥

ततः प्रसन्नवदनः पह्मपत्रायतेक्षणः ॥
प्रादुरासीत्समीपेऽस्याः शङ्खचक्रगदाधरः ॥ ११-१४ ॥

ईषद्वास्यस्फुरद्दन्तप्रभाभाषितदिङ्मुखः ॥
स्पृशन्करेण पुण्येन प्राह कश्यपवल्लभाम् ॥ ११-१५ ॥

श्रीभगवाननवाच ॥
देवमातः प्रसन्नोऽस्मि तपसाराधितस्त्वया ॥
चिरं श्रान्तासि भद्रं ते भविष्यति न संशयः ॥ ११-१६ ॥

वरं वरय दास्यामि यत्ते मनसि रोचते ॥
मा भैर्भद्रे महाभागे ध्रुवं श्रेयो भविष्यति ॥ ११-१७ ॥

इत्युक्तादेवमाता सा देवदेवेन चक्रिणा ॥
तुष्टाव प्रणिपत्यैनं सर्वलोकसुखावहम् ॥ ११-१८ ॥

अदितिरुवाच ॥
नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दना ॥
सत्त्वादिगुणभेदेन लोकव्यापारकारण ॥ ११-१९ ॥

नमस्ते बहुपरुपायारुपाय च महात्मने ॥
सर्वैकरुपरुपाय निर्गुणाय गुणात्मने ॥ ११-२० ॥

नमस्ते लोकनाथाय परमज्ञानरुपिणे ॥
सद्भक्तजनवात्सल्यशालिने मङ्गलात्मने ॥ ११-२१ ॥

यस्यावताररुपाणि ह्यर्चयन्ति मुनीश्वराः ॥
तमादिपुरुषं देवं नमामि ह्यर्थसिद्धये ॥ ११-२२ ॥

श्रुतयो यं न जानन्ति न जानन्ति च सूरयः ॥
तं नमामि जगद्धेतुं समायं चाप्यमायिनम् ॥ ११-२३ ॥

यस्यावलोकनं चित्रं मायोपद्रवकारणम् ॥
जगद्रूपं जगद्धेतुं तं वन्दें सर्ववन्दितम् ॥ ११-२४ ॥

यत्पादाम्बुजकिञ्जल्कसेवारक्षितमस्तकाः ॥
अवापुः परमां सिद्धिं तं वन्दे कमलाधवम् ॥ ११-२५ ॥

यस्य ब्रह्मादयो देवा महिमानं न वै विदुः ॥
अत्यासन्नं च भक्तानां तं वन्दे भक्तसङ्गिनम् ॥ ११-२६ ॥

यो देवस्त्यक्तसङ्गानां शान्तानं करुणार्णवः ॥
करोति ह्यात्मनः सङ्गं तं देवं सङ्गवर्जितम् ॥ ११-२७ ॥

यज्ञेश्वरं यज्ञकर्म यज्ञकर्मसु निष्टितम् ॥
नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥ ११-२८ ॥

अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु ॥
प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥ ११-२९ ॥

हरिरुपी महादेवः शिवरुपी जनार्दनः ॥
इति लोकस्य नेता यस्तं नमामि जगद्गुरुम् ॥ ११-३० ॥

ब्रह्माद्या अपि देवेशा यन्मायापाशयन्त्रिताः ॥
न जानन्ति परं भावं तं वन्दे सर्वनायकम् ॥ ११-३१ ॥

ह्यत्पह्मस्थोऽपिञ्योग्यानां दूरस्थ इव भासते ॥
प्रमाणातीतसद्भावस्तं वन्दे ज्ञानसाक्षिणम् ॥ ११-३२ ॥

यन्मु खाद्ब्राह्यणो जातो बाहुभ्यां क्षत्रियोऽजनि ॥
ऊर्वोर्वैश्यः समुत्पन्नः पद्यां शूद्रोऽभ्यजायत ॥ ११-३३ ॥

मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः ॥
मुखादग्निस्तर्थेन्द्रश्च प्राणाद्वायुरजायत ॥ ११-३४ ॥

ऋग्यजुःसामरुपाय सत्यस्वरगतात्मने ॥
षडङ्गरुपिणे तुभ्यं भूयोभूयो नमो नमः ॥ ११-३५ ॥

त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः ॥
त्वमग्निर्निर्ऋतिश्चैव वरुणस्त्वं दिवाकरः ॥ ११-३६ ॥

देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः ॥
गिरयः सिद्धगन्धर्वानद्यो भूमिश्च सागराः ॥ ११-३७ ॥

त्वमेव जगतामीशो यत्रासि त्वं परात्परः ॥
त्वद्रूपमखिलं देव तस्मान्नित्यं नमोऽस्तु ते ॥ ११-३८ ॥

अनाथानाथ सर्वज्ञ भूतदेवेन्द्रविग्रह ॥
दैतेयैर्बाधितान्पुत्रान्मम पाहि जनार्दन ॥ ११-३९ ॥

इति स्तुत्वा देवमाता देवं नत्वा पुनः पुनः ॥
उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥ ११-४० ॥

अनुग्राह्यास्मि देवेंश त्वया सर्वादिकारण ॥
अकण्टकां श्रियां देहि मत्सुतानां दिवौकसाम् ॥ ११-४१ ॥

अन्तर्य्यामिञ्जगद्रूप सर्वज्ञा परमेश्वर ॥
अज्ञातं किं तव श्रीश किं मामीहयसि प्रभो ॥ ११-४२ ॥

तथापि तव वक्ष्यामि यन्मे मनसि रोचते ॥
वृथापुत्रास्मि देवेश दैतेयैः परिपीडिता ॥ ११-४३ ॥

तान्न हिंसितुमिच्छामि यतस्तेऽपि सुता मम ॥
तानहत्वा श्रियं देहि मत्सुतेभ्यः सुरेश्वर ॥ ११-४४ ॥

इत्युक्तो देवेदेवेशः पुनः प्रीतिमुपागतः ॥
उवाच हर्षयन्विप्र देवमातरमादरात् ॥ ११-४५ ॥

श्रीभगवानुवाच ॥
प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतो ह्यहम् ॥
यतः सपत्निपुत्रेषु वात्सल्यं देवि दुर्लभम् ॥ ११-४६ ॥

त्वया तु यत्कृतं स्तोत्रं तत्पठान्ति नरास्तु ये ॥
तेषां सम्पद्वरा पुत्रा न हीयन्ते कदाचन ॥ ११-४७ ॥

त्वात्मजे वान्यपुत्रे वा यः समत्वेन वर्तते ॥
न तस्य पुत्रशोकः स्यादेष धर्मः सनातनः ॥ ११-४८ ॥

अदितिरुवाच ॥
ताह वोढुं क्षमा देव त्वामाद्यपुरुषं परम् ॥
असङ्ख्याताण्डरोमाणं सर्वेशं सर्वकारणम् ॥ ११-४९ ॥

यत्प्रभावं न जानन्ति श्रुतयः सर्वदेवताः ॥
तमहं देवदेवेशं धारयामि कथं प्रभो ॥ ११-५० ॥

अणोरणीयांसमजं परात्परतरं प्रभुम् ॥
धारयामि कथं देव त्वामहं पुरुषोत्तमम् ॥ ११-५१ ॥

महापातकयुक्तोऽपि यन्नामस्मृतिमात्रतः ॥
मुच्यते स कथं देवोग्राम्येषु जनिमर्हति ॥ ११-५२ ॥

यथा शूकरमत्स्याद्या अवतारास्तव प्रभो ॥
तथायमपि को वेद तव विश्वेश चेष्टितम् ॥ ११-५३ ॥

त्वत्पादपह्मप्रणतात्वन्नामस्मृतितत्परा ॥
त्वामेव चिन्तये देव यथेच्छासि तथा कुरु ॥ ११-५४ ॥

सनक उवाच ॥
तयोक्तं वचनं श्रुत्वा देवदेवो जनार्दनः ॥
दत्त्वाभयं देवमातुरिदं वचनमब्रवीत् ॥ ११-५५ ॥

श्रीभगवानुवाच ॥
सत्यमुक्तं महाभागे त्वया नास्त्यत्र संशयः ॥
तथापि श्रृणु वक्ष्यामि गुह्याद्गुह्यतरं शुभे ॥ ११-५६ ॥

रागद्वेषविहीना ये मद्भक्ता मत्परायणाः ॥
वंहति सततं तें मां गतासूया अदाम्भिकाः ॥ ११-५७ ॥

परोपतापविमुखाः शिवभक्तिपरायणः ॥
मत्कथाश्रवणासक्ता वहन्ति सततं हि माम् ॥ ११-५८ ॥

पतिव्रताः परिप्राणाः पतिभक्तिपरायणाः ॥
वहन्ति सततं देवि स्त्रियोऽपि त्यक्तप्रत्सराः ॥ ११-५९ ॥

मातापित्रोश्च शुश्रूषुर्गुरुभक्तोऽतिथिप्रियः ॥
हितकृद्बाह्यणानां यः स मां वहति सर्वदा ॥ ११-६० ॥

पुण्यतीर्थरता नित्यं सत्सङ्गनिरतास्तथा ॥
लोकानुग्रहशीलाश्च सततं ते वहन्ति माम् ॥ ११-६१ ॥

परोपकारविरताः परद्रव्यपराङ्मुखाः ॥
नषुंसकाः परस्त्रीषु ते वहन्ति च मां सदा ॥ ११-६२ ॥

तुलस्युपासनरताः सदा नामपरायणाः ॥
गोरक्षणपरा ये च सततं मां वहन्ति ते ॥ ११-६३ ॥

प्रतिग्रहनिवृत्ता ये परान्नविमुखास्तथा ॥
अन्नोदकप्रदातारो वहन्ति सततं हि माम् ॥ ११-६४ ॥

त्वं तु देवि पतिप्राणा साध्वी भूतहिते रता ॥
सम्प्राप्य पुत्रभावं ते साधयिष्ये मनोरथम् ॥ ११-६५ ॥

इत्युक्त्वा देवेदेवशो ह्यदितिं देवमातरम् ॥
दत्त्वा कण्ठगतां मालामभयं च तिरोदधे ॥ ११-६६ ॥

सा तु संहृष्टमनसा देवसूर्दक्षनन्दिनी ॥
प्रणम्य कमलाकान्तं पुनः स्वस्थानमाव्रजत् ॥ ११-६७ ॥

ततोऽदितिर्महाभागा सुप्रीता लोकवन्दिता ॥
असूत समये पुत्रं सर्वलोकनमस्कृतम् ॥ ११-६८ ॥

शङ्गचक्रधरं शान्तं चन्द्रमण्डलमध्यगम् ॥
सुधाकलशदध्यन्नकरं वामनसञ्ज्ञितम् ॥ ११-६९ ॥

सहस्त्रादित्यसङ्काशं व्याकोशकमलेक्षणम् ॥
सर्वाभरणंसंयुक्तं पीताम्बरधरं हरिम् ॥ ११-७० ॥

स्तुत्यं मुनिगणैर्युक्तं सर्वलोकैकनायकम् ॥
आविर्भूतं हरिं ज्ञात्वा कश्यपो हर्षविह्वलः ॥
प्रणम्य प्रञ्जलिर्भूत्वा स्तोतुं समुपचक्रमे ॥ ११-७१ ॥

कश्यप उवाच ॥
नमोनमस्तेऽखिलकारणाय नमोनमस्तेऽखइलपालकाय ॥
नमोनमस्तेऽमरनायकाय नमोनमो दैतेयविनाशनाय ॥ ११-७२ ॥

नमोनमो भक्तजनप्रियाय नमोनमः सज्जनरञ्जिताय ॥
नमोनमो दुर्जननाशनाय नमोऽस्तु तस्मै जगदीश्वराय ॥ ११-७३ ॥

नमोनमः कारणवामनाय नारायणायामितविक्रमाय ॥
सशार्ङ्गचक्रासिगदाधाराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ ११-७४ ॥

नमः पयोराशिनिवासनाय नमोऽस्तु सद्धृत्कमलस्थिताय ॥
नमोऽस्तु सूर्याद्यमितप्रभाय नमोनमः पुण्यकथागताय ॥ ११-७५ ॥

नमोनमोऽर्केन्दुविलोचनाय नमोऽस्तु ते यज्ञफलप्रदाय ॥
नमोऽस्तु यज्ञाङ्गविराजिताय नमोऽस्तु ते सज्जनवल्लभाय ॥ ११-७६ ॥

नमो जगत्कारणकारणाय नमोऽस्तु शब्दादिविवर्जिताय ॥
नमोऽस्तु ते दिव्यसुखप्रदाय नमो नमो भक्तमनोगताय ॥ ११-७७ ॥

नमोऽस्तु ते ध्वान्तविनाशकाय नमोऽस्तु शब्दादिविवर्जिताय ॥
नमोऽस्तु ते ध्वान्तविनाशकाय मन्दरधारकाय ॥
नमोऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय ॥ ११-७८ ॥

नमोऽस्तु ते वामनरुपभाजे नमोऽस्तु ते क्षत्र्रकुलान्तकाय ॥
नमोऽस्तु ते रावणमर्दनाय नमोऽस्तु ते नन्दसुताग्रजाय ॥ ११-७९ ॥

नमस्ते कमलाकान्त नमस्ते सुखदायिने ॥
स्मृतार्तिनाशिने तुभ्यं भूयो भूयो नमोनमः ॥ ११-८० ॥

यज्ञेश यज्ञविन्यास यज्ञविन्घविनाशन ॥
यज्ञरुप यजद्रूप यज्ञाङ्गं त्वां यजाम्यहम् ॥ ११-८१ ॥

इति स्तुतः स देवेशो वामनो लोकपावनः ॥
उवाच प्रहसन्हर्षं वर्ध्दयन्कश्यपस्य सः ॥ ११-८२ ॥

श्रीभगवानुवाच ॥
तात तुष्टोऽस्मि भद्रं ते भविष्यति सुरार्चिता ॥
अचिरात्साधयिष्यामि निखिलं त्वन्मनोरथम् ॥ ११-८३ ॥

अहं जन्मद्वये त्वेवं युवयोः पुत्रतां गतः ॥
अस्मिञ्जन्मन्यपि तथा सादयाम्युत्तमं सुखम् ॥ ११-८४ ॥

अत्रान्तरे बलिर्दैत्यो दीर्घसत्रं महामखम् ॥
आरेभे गुरुणा युक्तः काव्येन च मुनीश्वरैः ॥ ११-८५ ॥

तस्मिन्मखे समाहूतो विष्णुर्लक्ष्मीसमन्वितः ॥
हविः स्वीकरणार्थाय ऋषिभिर्ब्रह्यवादिभिः ॥ ११-८६ ॥

प्रवृद्धैश्वर्यर्दैत्यस्य वर्त्तमाने महाक्रतौ ॥
आमन्त्र्य मातापितरौ स बटुर्वामनो ययौ ॥ ११-८७ ॥

स्मितेन मोहयँल्लोकं वामनो भक्तवत्सलः ॥
हविर्भोक्तुमिवायातो बलेः प्रत्यक्षतो हरिः ॥ ११-८८ ॥

दुर्वृत्तो वा सुवृत्तो वा जडो वायं हितोऽपि वा ॥
यो भक्तियुक्तस्तस्यान्तः सदा सन्निहितो हरिः ॥ ११-८९ ॥

आयान्तं वामनं दृष्ट्वा ऋषयो ज्ञानचक्षुषः ॥
ज्ञात्वा नारायणं देवमुद्ययुः सभ्यसंयुताः ॥ ११-९० ॥

एतज्ज्ञात्वा दैत्यगुरुरेकान्ते बलिमब्रवीत् ॥
स्वसारमविचार्यैव खलाः कार्याणि कुर्वते ॥ ११-९१ ॥

शुक्र उवाच ॥
भो भो दैत्यपते सौम्य ह्यपहर्ता तव श्रियम् ॥
विष्णुर्वामनरुपेण ह्यदितेः पुत्रातां गतः ॥ ११-९२ ॥

तवाध्वरं स आयाति त्वया तस्यासुरेश्वर ॥
न किञ्चिदपि दातव्यं मन्मतं श्रृणु पण्डित ॥ ११-९३ ॥

आत्मबुद्धिः सुखकरी गुरुबुद्धिर्विशेषतः ॥
परबुद्धिर्विनाशाय स्त्रीबुध्दिः प्रलयङ्करी ॥ ११-९४ ॥

शत्रूणां हितकृतद्यस्तु स हन्तव्यो विशेषतः ॥ ११-९५ ॥

बलिरुवाच ॥
एवं गुरो न वक्तव्यं धर्ममार्गविरोधतः ॥
यदादत्ते स्वयं विष्णुः किमस्मादधिकं वरम् ॥ ११-९६ ॥

कुर्वन्ति विदुषो यज्ञान्विष्णुप्रीणनकारणात् ॥
स चेत्साक्षाद्धविर्भोगी मत्तः कोऽभ्यधिको भुवी ॥ ११-९७ ॥

दरिद्रेणापि यत्किञ्चिद्दीयते विष्णवे गुरो ॥
तदेव परमं दानं दत्तं भवति चाक्षयम् ॥ ११-९८ ॥

स्मृतोऽपि परया भक्त्या पुनाति पुरुषोत्तमः ॥
येन केनाप्यर्चितश्वेद्ददाति परमां गतिम् ॥ ११-९९ ॥

हरिर्हरति पापानिदुष्टचित्तैरपि स्मृतः ॥
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ ११-१०० ॥

जिह्वाग्रे वसते यस्य हरिरित्यक्षरद्वयम् ॥
स विष्णुलोकमाप्नोति पुनरावृत्तिदुर्लभम् ॥ ११-१ ॥

गोविन्देति सदा ध्यायेद्यस्तु रागादिवर्जितः ॥
स याति विष्णुभवनमिति प्राहुर्मनीषिणः ॥ ११-२ ॥

अग्नौ वा ब्राह्मणे वापिहूयते यद्वविर्गुरो ॥
हरिभक्त्या महाभाग तेन विष्णुः प्रसीदति ॥ ११-३ ॥

अहं तु हरितुष्यद्यर्थं करोम्यध्वरमुत्तमम् ॥
स्वयमायाति चेद्विष्णुः कृतार्थोऽस्मि न संशयः ॥ ११-४ ॥

एवं वदति दैत्यन्द्रे विष्णुर्वामनरुपधृक् ॥
प्रविवेशाध्वरस्थानं हुतवह्निमनोरमम् ॥ ११-५ ॥

तं दृष्ट्वा कोटिसूर्याभं योग्यावयवसुन्दरम् ॥
वामनं सहसोत्थाय प्रत्यगृह्णात्कृताञ्जलिः ॥ ११-६ ॥

दत्त्वासनं च प्रक्षाल्य पादौ वामनरुपिणम् ॥
सकुटुम्बो वहन्मूर्ध्ना परमां मुदमाप्तवान् ॥ ११-७ ॥

विष्णवेऽस्मै जगद्धान्मे दत्त्वार्घ्यं विधिवद्कलिः ॥
रोमाञ्चिततनुर्भूत्वा हर्षाश्रुनयनोऽब्रवीत् ॥
बलिरुवाच ॥ ११-८ ॥

अद्य मे सफलं जन्म अद्य मे सफलो मरवः ॥
जीवितं सफलं मेऽद्य कृतार्थोऽस्मि न संशयः ॥ ११-९ ॥

अमोघामृतवृष्टिर्मे समायातातिदुर्लभा ॥
त्वदागमनमात्रेण ह्यनायासो महोत्सवः ॥ ११-१० ॥

एते च ऋषयः सर्वे कृतार्थां नात्र संशयः ॥
यैः पूर्वं हि तपस्तप्तं तदद्य सफलं प्रभो ॥ ११-११ ॥

कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ॥
तस्मात्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥ ११-१२ ॥

त्वदाज्ञया त्वन्नियोगं साधयामीति मन्मनः ॥
अत्युत्साहसमायुक्तं समाज्ञापय मां प्रभो ॥ ११-१३ ॥

एवमुर्को दीक्षितेन प्रहसन्वामनोऽब्रवीत् ॥
देहि मे तपसि स्थातुं भूमिं त्रिपदसम्मिताम् ॥ ११-१४ ॥

एतच्छॄत्वा बलिः प्राह राज्यं याचितवान्नहि ॥
ग्रामं वा नगरं चापि धनं वा किं कृतं त्वया ॥ ११-१५ ॥

तन्निशम्य बलिं प्राह विष्णुः सर्वशरीरभृत् ॥
आसन्नभ्रष्टराज्यस्य वैराग्यं जनयन्निवा ॥ ११-१६ ॥

श्रीभगवानुवाचा ॥
श्रृणु दैत्यन्द्र वक्ष्यामि गुह्याद्गुह्यतमं परम् ॥
सर्वसङ्गविहीनानां किमर्थैः साध्यतेवद ॥ ११-१७ ॥

अहं तु सर्वभूतानामन्तर्यामीति भावय ॥
मयि सर्वमिदं दैत्य किमन्यैः साध्यते वद ॥ ११-१८ ॥

रागद्वेषविहीनानां शान्तानां त्यक्तमायिनाम् ॥
नित्यानन्दस्वरुपाणां किमन्यैः साध्यते धनैः ॥ ११-१९ ॥

आत्मवत्सर्वभूतानि पश्यतां शान्तचेतसाम् ॥
अभिन्नमात्मनः सर्वं को दाता दीयते च किम् ॥ ११-२० ॥

पृथ्वीयं क्षत्रियवशा इति शास्त्रेषु निश्चितम् ॥
तदाज्ञायां स्थिताः सर्वे लभन्ते परमं सुखम् ॥ ११-२१ ॥

दातव्यो मुनिभिश्चापि षष्टांशो भूभुजे बले ॥
महीयं ब्राह्मणानां तु दातव्या सर्व यत्नतः ॥ ११-२२ ॥

भूमिदानस्य माहात्म्यं न भूतं न भविष्यति ॥
परं निर्वाणमाप्नोति भूमिदो नात्र संशयः ॥ ११-२३ ॥

स्वल्पामपि महीं दत्त्वा श्रोत्रियायाहिताग्नये ॥
ब्रह्मलोकमवाप्नोति पुनरावृत्तिदुर्लभम् ॥ ११-२४ ॥

भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत् ॥
अतिदानं तु तज्ज्ञेयं सर्वपापप्राणाशनम् ॥ ११-२५ ॥

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥
दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते ॥ ११-२६ ॥

सत्पात्रे भूमिदाता यः सर्वदानफलं लभेत् ॥
भूमिदानसमं नान्यत्त्रिषु लोकेषु विद्यते ॥ ११-२७ ॥

द्विजाय वृत्तिहीनाय यः प्रदद्यान्महीं बले ॥
तस्य पुण्यफलं वक्तुं न क्षमोऽब्दशतैरहम् ॥ ११-२८ ॥

सक्ताय देवपूजासु वृत्तिहीनाय दैत्यप ॥
स्वल्पामपि महीं दद्याद्यः स विष्णुर्न संशयः ॥ ११-२९ ॥

इक्षुगोधूम तुवरीपूगवृक्षादिसंयुता ॥
पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः ॥ ११-३० ॥

वृत्तिहीनाय विप्राय दरिद्राय कुटुम्बिने ॥
स्वल्पामपि महीन्दत्त्वा विष्णुसायुज्यमान्पुयात् ॥ ११-३१ ॥

सक्ताय देवपूजासु विप्रायाढकिकां महीम् ॥
दत्त्वा लभेत गङ्गायां त्रिरात्रस्नानजं फलम् ॥ ११-३२ ॥

विप्राय वृत्तिहीनाय सदाचाररताय च ॥
द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते श्रृणु ॥ ११-३३ ॥

गङ्गातीर्थाश्वमेधानां शतानि विधिवन्नरः ॥
कृत्वा यत्फलमाप्वोति तदाप्नोति स पुष्कलम् ॥ ११-३४ ॥

ददाति खारिकां भूमिं दरिद्राय द्विजाय यः ॥
तस्य पुण्यं प्रवक्ष्यामि वदतो मे निशामय ॥ ११-३५ ॥

अश्वमेधसहस्त्राणि वाजपेयशतानि च ॥
विधाय जाह्नवीतीरे यत्फलं तल्लभेद्धुवम् ॥ ११-३६ ॥

भूमिदानं महादानमतिदानं प्रकीर्त्तितम् ॥
सर्वपापप्रशमनमपवर्गफलप्रदम् ॥ ११-३७ ॥

अत्रोतिहासं वक्ष्यामि श्रृणु दैत्यकुलेश्वर ॥
यच्छुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत् ॥ ११-३८ ॥

आसीत्पुरा द्विजवरो ब्राह्मकल्पे महामतिः ॥
दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्बले ॥ ११-३९ ॥

श्रुतानि सर्वशास्त्राणि तेन वेददिवानिशम् ॥
श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः ॥ ११-४० ॥

अभवंस्तस्य षट्पत्न्यः श्रुतिः सिन्धुर्यशोवती ॥
कामिनी मालिनी चैव शोभा चेति प्रकीर्तिताः ॥ ११-४१ ॥

आसु पत्नीषु तस्यासञ्चत्वरिंशच्छतद्वयम् ॥
पुत्राणामसुरश्रेष्ट सर्वे नित्यं बुभुक्षिताः ॥ ११-४२ ॥

अकिञ्चनो भद्रमतिः क्षुधार्त्तानात्मजान्प्रियाः ॥
पश्यन्स्वयं क्षुधार्त्तश्च विललापाकुलेन्द्रियः ॥ ११-४३ ॥

धिग्जन्म भाग्यरहितं धिग्जन्म धनवर्जितम् ॥
धिग्जन्म धर्मरहितं धिग्जन्म ख्यातिवर्जितम् ॥ ११-४४ ॥

नरस्य बह्वपत्यस्य धिग्जन्मैश्वर्यवार्जितम् ॥
अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले ॥ ११-४५ ॥

दारिद्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ॥
प्रियाः पुत्राश्चपौत्राश्च बान्धवा भ्रातरस्तथा ॥ ११-४६ ॥

शिष्याश्च सर्वमनुजास्त्यजन्त्यैश्वर्यवार्जितम् ॥
चाण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते ॥ ११-४७ ॥

दरिद्रः पुरुषो लोके शववल्लोकनिन्दितः ॥
अहो सम्पत्सम्मायुक्तो निष्टुरो वाप्यनिष्ठुरः ॥ ११-४८ ॥

गुणहीनोऽपि गुणवान्मूर्खो वाप्यथ पण्डितः ॥
ऐश्वर्यगुणयुक्तश्चेत्पूज्य एव न संशयः ॥ ११-४९ ॥

अहो दरिद्रता दुःखं तत्राप्याशातिदुःखदा ॥
आशाभिभूताः पुरुषा दुःखमश्नुवतेऽक्षयम् ॥ ११-५० ॥

आशयादासा ये दासास्ते सर्वलोकस्य ॥
आशा दासी येषां तेषां दासायते लोकः ॥ ११-५१ ॥

मानो हि महतां लोके धनमक्षयमुच्यते ॥
तस्मिन्नाशाख्यरिपुणा माने नष्टे दरिद्रता ॥ ११-५२ ॥

सर्वशास्त्रार्थवेत्तापि दरिद्रो भाति मूर्खवत् ॥
नैष्किञ्चन्यमहाग्राहग्रस्तानां को विमोचकः ॥ ११-५३ ॥

अहो दुःखमहो दुःखमहो दुःखं दरिद्रता ॥
तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम् ॥ ११-५४ ॥

एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः ॥
अन्यमैश्वर्यदं धर्मं मनसाऽचिन्तयत्तदा ॥ ११-५५ ॥

भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् ॥
दानेन योऽनुमन्ताति स एव कृतवान्पुरा ॥ ११-५६ ॥

प्रापकं परमं धर्मं सर्वकामफलप्रदम् ॥
दानानामुत्तमं दानं भूदानं परिकीर्तितम् ॥ ११-५७ ॥

यद्दत्त्वा समवान्पोति यद्यदिष्टतमं नरः ॥
इति निश्चत्य मतिमान्धीरो भद्रमतिर्बले ॥ ११-५८ ॥

कौशाम्बीन्नाम नगरीं कलत्रापत्ययुग्ययौ ॥
सुघोषनामविप्रेन्द्रं सर्वैश्वर्यसमन्एविलितम् ॥ ११-५९ ॥

गत्वा याचितवान्भूमिं पञ्चहस्तायतां बले ॥
सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिक्रम् ॥ ११-६० ॥

मनसा प्रीयमाणेन समभ्यर्च्येदमब्रवीत् ॥
कृतार्थोऽहं भद्रमते सफलं मम जन्म च ॥ ११-६१ ॥

मत्कुल पावनं जातं त्वदनुग्रहतो द्विज ॥
इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः ॥ ११-६२ ॥

पञ्चहस्तमितां भूमिं ददौ तस्मै महामतिः ॥
पृथिवी वैष्णवी पुण्या पृथिवीं विष्णुपालिता ॥ ११-६३ ॥

पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः ॥
मन्त्रेणानेन दैत्येन्द्र सुघोषस्तं द्विजोत्तमम् ॥ ११-६४ ॥

विष्णुबुद्ध्या समभ्यर्च्य तावतीं पृथिवीं ददौ ॥
सोऽपि भद्रमतिर्विप्रो धीमता याचितां भुवम् ॥ ११-६५ ॥

दत्तवान्हरिभक्ताय श्रोत्रियाय कुटुम्बिने ॥
सुघोषो भूमिदानेन कोटिवंशसमन्वितः ॥ ११-६६ ॥

प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति ॥
बले भद्रमतिश्चापि यतः प्रार्थितवाञ्छ्रियम् ॥ ११-६७ ॥

स्थितवान्विष्णुभवने सकुटुम्बो युगायुतम् ॥
तथैव ब्रह्मसदने स्थित्वा कोटियुगायुतम् ॥ ११-६८ ॥

ऐन्द्रं पदं समासाद्य स्थितवान्कल्पपञ्चकम् ॥
ततो भुवं समासाद्य सर्वैश्वर्यसमन्वितः ॥ ११-६९ ॥

जातिस्मरो महाभागो बुभुजे भोगमुत्तमम् ॥
ततो भद्रमतिर्दैत्य निष्कामो विष्णुतत्परः ॥ ११-७० ॥

पृथिवीं वृत्तिहीनेभ्यो ब्राह्मणेभ्यः प्रदत्तवान् ॥
तस्य विष्णुः प्रसन्नात्मा तत्त्वैश्वर्यमनुत्तमम् ॥ ११-७१ ॥

कोटिवंशसमेतस्य ददौ मोक्षमनुत्तमम् ॥
तस्माद्दैत्यपते मह्यं सर्वधर्मपरायण ॥ ११-७२ ॥

तपश्चरिष्येमोक्षाय देहि मे त्रिपदां महीम् ॥
वैरोचनिस्ततो दृष्टः कलशं जलपूरितम् ॥ ११-७३ ॥

आददे पृथिवीं दातुं वर्णिने वामनाय ॥
विष्णुः सर्वगतोज्ञात्वा जलधारावरोधिनम् ॥ ११-७४ ॥

काव्यं हस्तस्थदर्भाग्रं तच्छरे सन्न्यवेशयत् ॥
दर्भाग्रेऽभून्महाशस्त्रं कोटिसूर्यसमप्रभम् ॥ ११-७५ ॥

अमोधं ब्राह्ममत्युग्रं काव्याक्षिग्रासलोलुपम् ॥
आयाय भार्गवसुरानसुरानेकचक्षुषा ॥ ११-७६ ॥

पश्येति वान्दिदेशे च दर्भाग्रं शस्त्रसन्निभम् ॥
बलिर्ददौ महाविष्णोर्महीं त्रिपदसम्मिताम् ॥ ११-७७ ॥

ववृधे सोऽपि विश्वात्मा आब्रह्यभुवनं तदा ॥
अमिमीत महीं द्वाभ्यां पद्भ्यां विश्वतनुर्हरिः ॥ ११-७८ ॥

स आब्रह्मकटाहान्तपदान्येतानि सप्रभः ॥
पादाङ्कुष्टाग्रनिर्भिन्नं ब्रह्माण्डं विभिदे द्विधा ॥ ११-७९ ॥

तद्दारा बाह्यसलिलं बहुधारं समागतम् ॥
धौतविष्णुपदं तोयं निर्मलं लोकपावनम् ॥ ११-८० ॥

अजाण्डबाह्यनिलयं धारारुपमवर्त्तत ॥
तज्जलं पावनं श्रेष्टं ब्रह्मादीन्पावयत्सुरान् ॥ ११-८१ ॥

सत्पर्षिसेवितं चैव न्यपतन्मेरुमूर्द्धनि ॥ ११-८२ ॥
एतद्दष्ट्वाद्भुतं कर्म ब्रह्माद्या देवतागणाः ॥
ऋषयो मनवश्चैव ह्यस्तुवन्हर्षविह्वलाः ॥ ११-८३ ॥

देव ऊचुः ॥
नमः परेशाय परात्मरुपिणे परात्परायापररुपधारिणे ॥
ब्रह्मात्मने ब्रह्मरतात्मबुद्धये नमोऽस्तु तेऽव्याहतकर्मशीलिने ॥ ११-८४ ॥

परेश परमानन्द परमात्मन्परात्पर ॥
सर्वात्मने जगन्मूर्त्ते प्रमाणातीत ते नमः ॥ ११-८५ ॥

विश्वतश्चक्षुषे तुभ्यं विश्वतो बाहवे नमः ॥
विश्वतः शिरसे चैव विश्वतो गतये नमः ॥ ११-८६ ॥

एवं स्तुतो महाविष्णुर्ब्रह्याद्यैः स्वर्द्दवौकसाम् ॥
दत्त्वाभयं च मुमुदे देवदेवः सनातनः ॥ ११-८७ ॥

विरोचनात्मजं दैत्यं पदैकार्थं बबन्ध ह ॥
ततः प्रपन्नं तु बलिं ज्ञात्वा चास्मै रसातलम् ॥
ददौ तद्वारपालश्च भक्तवश्यो बभूव ह ॥ ११-८८ ॥

नारद उवाच ॥
रसातले महाविष्णुर्विरोचनसुतस्य वै ॥
किं भोज्यं कल्पयामास घोरे सर्पभयाकुले ॥ ११-८९ ॥

सनक उवाच ॥
अमन्त्रितं हविर्यत्तु हूयते जातवेदसि ॥
अपात्रे दीयते यच्च तद्धोरं भोगसाधनम् ॥ ११-९० ॥

हुतं हविरशुचिना दृत्तं सत्कर्म यत्कृतम् ॥
तत्सर्वं तत्र भोगार्हमधः पातफलप्रदम् ॥ ११-९१ ॥

एवं रसातलं विष्णुर्बलये सासुराय तु ॥
दत्त्वाभयं च सर्वेषां सुराणां त्रिदिवं ददौ ॥ ११-९२ ॥

पूज्यमानोऽमरगणैः स्तूयमानो महर्षिभिः ॥
गन्धर्वैर्गीयमानश्च पुनर्वामनतां गतः ॥ ११-९३ ॥

एतद्दृष्ट्वा महत्कर्ममुनयो ब्रह्मवादिनः ॥
परस्परं स्मितमुखाः प्रणेभुः पुरुषोत्तमम् ॥ ११-९४ ॥

सर्वभूतात्मको विष्णुर्वामनत्वमुपागतः ॥
मोहयन्निखिलं लोकं प्रपेदे तपसे वनम् ॥ ११-९५ ॥

एवं प्रभावा सा देवी गङ्गा विष्णुपदोद्भवा ॥
यस्याः स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ ११-९६ ॥

इदं तु गङ्गामाहात्म्यं यः पठेच्छृणुयादपि ॥
देवालये नदीतीरे सोऽश्वमेधफलं लभेत् ॥ ११-९७ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पत्तिर्गङ्गामाहात्म्यं नामैकादशोऽध्यायः ॥