नारद उवाच ॥
विष्णुपादाग्रसम्भूता या गङ्गेत्यभिधीयते ॥
तदुत्पत्तिं वद भ्रातरनुग्राह्योऽस्मि ते यदि ॥ १०-१ ॥
सनक उवाच ॥
श्रृणु नारद वक्ष्यामि गङ्गोत्पत्तिं तवानघ ॥
वदतां श्रृण्वतां चैंव पुण्यदां पापनाशिनीम् ॥ १०-२ ॥
आसीदिन्द्रादिदेवानां जनकः कश्यपो मुनिः ॥
दक्षात्मजे तस्य भार्ये दितिश्चादितिरेव च ॥ १०-३ ॥
अदितिर्देवमातास्ति दैत्यानां जननी दितिः ॥
ते तयोरात्मजा विप्र परस्परजयैषिणः ॥ १० -४ ॥
सदा सपूर्वदेवास्तु यतो दैत्याः प्रकीर्तिताः ॥
आदिदैन्त्यो दितेः पुत्रो हिरण्यकशिपुर्बली ॥ १०-५ ॥
प्रह्लादस्तस्य पुत्रो।भूत्सुमहान्दैत्यसत्तमः ॥
विरोचन स्तस्य सुतो बभूव द्विजभक्तिमान् ॥ १०-६ ॥
तस्य पुत्रोऽतितेजस्वी बलिरासीत्प्रतापवान् ॥
स एव वाहिनीपालो दैत्यानामभवन्मुनेः ॥ १०-७ ॥
बलेन महता युक्तो बुभुजे मेदिनीमिमाम् ॥
विजित्य वसुधां सर्वां स्वर्गं जेतुं मनो दधे ॥ १०-८ ॥
गजाश्च यस्यायुतकोटिलक्षास्तावन्त एवाश्वरथा मुनीन्द्र ॥
गजेगजे पञ्चशती पदातेः किं वर्ण्यते तस्य चमूर्वरिष्टा ॥ १०-९ ॥
अमात्यकोट्यग्रसरावमात्यौ कुम्भाण्डनामाप्यथ कूपकर्णः ॥
पित्रा समं शौर्यपराक्रमाभ्यां बाणो बलेः पुत्रशतग्रजोऽभूत् ॥ १०-१० ॥
बलिः सुराञ्जेतुमनाः प्रवृत्तः सैन्येन युक्तो महता प्रतस्थे ॥
ध्वजातपर्त्रैर्गगनाबुराशेस्तरङ्गविद्युत्स्मरणं प्रकुर्वन् ॥ १०-११ ॥
अवाप्य वृत्रारिपुरं सुरारी रुरोघ दैत्यैर्मृगराजगाढैः ॥
सुरश्च युद्धाय पुरात्तथैव विनिर्ययुर्वज्रकरादयश्च ॥ १०-१२ ॥
ततः प्रववृते युद्धं घोरं गीर्वाणदैत्ययो ॥
कल्पान्तमेघानिर्धोषं डिण्डिम्मध्वनिसम्भ्रमम्॥ १०-१३ ॥
मुमुचुः शरजालानि दैन्त्याः सुमनसां बले ॥
देवाश्च दैत्यसेनासु सङ्ग्रामेऽत्यन्तदारुणे ॥ १०-१४ ॥
जहि दारय भिन्धीते छिन्धि मारय ताडय ॥
इत्येवं सुमहान्घोषो वदतां सेनयोरभूत् ॥ १०-१५ ॥
शरदुन्दुभिनिध्वानैः सिंहनादैः सिंहनादैः सुरद्विषाम् ॥
भाङ्कारैः स्यन्दनानां च बाणक्रेङ्गारनिःस्वनैः ॥ १०-१६ ॥
अश्वानां हेषितैश्चैव गजानां बृंहितैस्तथा ॥
टङ्गारैर्धनुषां चैव लोकः शब्दत्मयोऽभवत् ॥ १०-१७ ॥
सुरासुरविनिर्मुक्तबाणनिष्पेषजानले ॥
अकालप्रलयं मेने निरीक्ष्य सकलं जगत् ॥ १०-१८ ॥
बभौ देवद्विषां सेना स्फुरच्छस्त्रौघधारिणी ॥
चलद्विद्युन्निभा रात्रिश्छादिता जलदैरिव ॥ १०-१९ ॥
तस्मिन्युद्धे महाधोरैर्गिरीन् क्षित्पान् सुरारिभिः ॥
नाराचैश्चूर्णयामासुर्देवास्ते लघुविक्रमाः ॥ १०-२० ॥
केचित्सताडयामासुर्नागैर्नागान्रथान्रथैः ॥
अश्वैरश्वांश्च केचित्तु गदादण्डैरथार्द्दयन् ॥ १०-२१ ॥
परिधैस्ताडिताः केचित्पेतुः शोणितकर्द्दमे ॥
समुक्त्रान्तासवः केचिद्विमानानि समाश्रिताः ॥ १०-२२ ॥
ये दैत्या निहता देवैः प्रसह्य सङ्गरे तदा ॥
ते देवभावमापन्ना दैतेयान्समुपाद्रवन् ॥ १०-२३ ॥
अथ दैत्यगणाः क्रुद्वास्तड्यमानाः सुर्वैर्भृशम् ॥
शस्त्रैर्बहुविधैर्द्देवान्निजध्नुरतिदारुणाः ॥ १०-२४ ॥
दृषद्भिर्भिदिपालैश्च खङ्गैः परशुतोमरैः ॥
परिधैश्छुरिकाभिश्च कुन्तैश्चक्रैश्च शङ्कुभिः ॥ १०-२५ ॥
मुसलैरङ्कुशेश्वैव लाङ्गलैः पट्टिशैस्तथा ॥
शक्त्योपलैः शतघ्रीभिः पाशैश्च तलमुष्टिभिः ॥ १०-२६ ॥
शूलैर्नालीकनाराचैः क्षेपणीयैस्समुद्ररैः ॥
रथाश्वनागपदगैः सङ्कुलो ववृधे रणः ॥ १०-२७ ॥
देवाश्च विविधास्त्राणि दैतेयेभ्यः समाक्षिपन् ॥
एवमष्टसहस्त्राणि युद्धमासीत्सुदारुणम् ॥ १०-२८ ॥
अथ दैत्यबले वृद्धे पराभूता दिवौकसः ॥
सुरलोकं परित्यतज्य सर्वे भीताः प्रदुद्रुवुः ॥ १०-२९ ॥
नररुपपरिच्छन्ना विचेरुरवनीतले ॥
वैरोचनिस्त्रिभुवनं नारायणपरायणः ॥ १०-३० ॥
बुभुजेऽव्याहतैश्चर्यप्रवृद्धश्रीर्महाबलः ॥
इत्याज चाश्वमेघैः स विष्णुप्रीणनतत्परः ॥ १०-३१ ॥
इन्द्रत्वं चाकरोत्स्वर्गे दिक्पालत्वं तथैव च ॥
देवानां प्रीणनार्थाय यैः क्रियन्ते द्विजैर्मखाः ॥ १०-३२ ॥
तेषु यज्ञेषु सर्वेषु हविर्भुङ्क्ते स दैत्यराट् ॥
अदितिः स्वात्मजान्वीक्ष्य देवमातातिदुःखिता ॥ १०-३३ ॥
वृथात्र निवसामीति मत्वागाद्धिमवद्गिरम् ॥
शक्रस्यैश्वर्यमिच्छन्ती दैत्यानां च पराजयम् ॥ १०-२४ ॥
हरिध्यानपरा भूत्वा तपस्तेपेऽतिदुष्करम् ॥
किञ्चित्कालं समासीना तिष्टन्ती च ततः परम् ॥ १०-३५ ॥
पादेनैकेन सुचिरं ततः पादाग्रमात्रतः ॥
कञ्चित्कालं फलाहारा ततः शीर्णदलाशना ॥ १०-३६ ॥
ततो जलाशमा वायुभोजनाहारवर्जिता ॥
सच्चिदानन्दसन्दोहं ध्यायत्यात्मानमात्मना ॥ १०-३७ ॥
दिव्याब्दानां सहस्त्रं सा तपोऽतप्यत नारद ॥
दुरन्तं तत्तपः श्रुत्वा दैतेया मायिनोऽदितिम् ॥ १०-३८ ॥
देवतारुपमास्थाय सम्प्रोचुर्बलिनोदिताः ॥
किमर्थं तप्यते मातः शरीरपरिशोषणम् ॥ १०-३९ ॥
यदि जानन्ति दैतेया महदुखं ततो भवेत् ॥
त्यजेदं दुःखबहुलं कायशोषणकारणम् ॥ १०-४० ॥
प्रयाससाध्यं सुकृतं न प्रशँसन्ति पण्डिताः ॥
शरीरं यन्ततो रक्ष्यं धर्मसाधनतत्परैः ॥ १०-४१ ॥
ये शरीरमुपेक्षन्ते ते स्युरात्मविघातिनः ॥
सुखं त्वं तिष्ट सुभगे पुत्रानस्मान्न खेदय ॥ १०-४२ ॥
मात्रा हीना जना मातर्मृतप्राया न संशयः ॥
गावो वा पशवो वापि यत्र गावो महीरुहाः ॥ १०-४३ ॥
न लभन्ते सुखं किञ्चिन्मात्रा हीना मृतोपमाः ॥
दरिद्रो वापि रोगी वा देशान्तरगतोऽपि वा ॥ १०-४४ ॥
मातुर्दर्शनमात्रेण लभते परमां मुदम् ॥
अन्ने वा सलिले वापि धनादौ वा प्रियासु च ॥ १०-४५ ॥
कदाचिद्विमुखो याति जनो मातरि कोऽपि न ॥
यस्य माता गृहे नास्ति यत्र धर्मपरायणा ॥
साध्वी च स्त्री पतिप्राणा गन्तव्यं तेन वै वनम् ॥ १०-४६ ॥
धर्मश्च नारायणभक्तिहीनां धनं च सद्भोगविवर्जितं हि ॥
गृहं च मार्यातनयेर्विहीनं यथा तथा मातृविहीनमर्त्यः ॥ १०-४७ ॥
तस्माद्देवि परित्राहि दुःखार्तानात्मजांस्तव ॥
इत्युक्ताप्यदितिर्दैप्यैर्न चचाल समाधितः ॥ १०-४८ ॥
एवमुक्त्वासुराः सर्वे हरिध्यानपरायणाम् ॥
निरीक्ष्य क्रोधसंयुक्ता हन्तुं चक्रुर्मनोरथम् ॥ १०-४९ ॥
कल्पान्तमेघनिर्घोषाः क्रोधसंरक्तलोचनाः ॥
दंष्ट्रग्रैरसृजन्वह्निम्म् सोऽदहत्काननं क्षणात् ॥ १०-५० ॥
शतयोजनविस्तीर्णं नानाजीवसमाकुलम् ॥
तेनैव दग्धा दैतेया ये प्रधर्षयितुं गताः ॥ १०-५१ ॥
सैवावशिष्टा जननी सुराणामब्दाच्छतादच्युतसक्तचिता ॥
संरक्षिता विष्णुसुदर्शनेन दैत्यान्तकेन स्वजनानुकम्पिना ॥ १०-५२ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पत्तौ बलिकृतदेवपराजयवर्णनन्नाम दशमोऽध्यायः ॥ १० ॥